कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
अविद्यानिवृत्तिस्वरूपविचारः
अथ केयमिति ।
इयं - प्रकृता अविद्यानिवृत्तिः का ? आत्मस्वरूपा, अतिरिक्ता वा । नाद्यः । साध्यत्वायोगात् । न द्वितीयः । तस्याः सत्त्वे द्वैतापत्तेः असत्त्वे साध्यत्वायोगादेव इत्यर्थः ।
तत्र अविद्यानिवृत्तेरात्मस्वरूपत्वमितिपक्षं साधयति —
आत्मैवेति ।
आत्मैव अविद्यानिवृत्तिः नातिरिक्ता, उक्तदोषप्रसङ्गादिति भावः ।
आद्यपक्षेऽपि दोषतौल्यमाशङ्क्य निराकरोति —
न च तस्येति ।
अविद्यानिवृत्तिरूपात्मन इत्यर्थः ।
तत्त्वज्ञानस्य वैयर्थ्यं वदता वक्तव्यं — किं ज्ञानसम्पादनस्य प्रयोजनं नास्तीति तद्वैयर्थ्यं विवक्षितं, किं वा अविद्यानिवृत्तेरात्मस्वरूपत्वे तस्या अनादितया ज्ञानं विनापि सिद्धत्वेन ज्ञानसाध्यत्वासम्भवात् तस्य वैयर्थ्यं विवक्षितं, नाद्य इत्याह —
असतीति ।
तदन्वेषणादिति ।
अनर्थनिवृत्तिमुद्दिश्य ज्ञानान्वेषणोपपत्तेरित्यर्थः । अन्वेषणं च ज्ञानसाधनानुष्ठानम् । साध्यलक्षणं द्विविधम् — एकं सादिपदार्थमात्रासाधारणं जन्यत्वरूपम् । अपरं तु साद्यनादिसाधारणं ‘यस्मिन् सति’ इत्यादिरूपम् ।
तथा च आत्मस्वरूपायामविद्यानिवृत्तौ प्रथमलक्षणासम्भवेऽपि द्वितीयस्य साध्यलक्षणस्य सम्भवात् तस्याः ज्ञानसाध्यत्वमुपपन्नं, अतो न ज्ञानवैयर्थ्यं - इत्यभिप्रेत्य द्वितीयं निराकरोति —
यस्मिन् सतीति ।
अभाव इति ।
यस्याभाव इत्यर्थः ।
तत् तत्साध्यमिति ।
‘यस्मिन् सत्यग्रिमक्षणे यस्य सत्त्वम्’ इत्यत्र प्रथमयच्छब्दार्थः साधनं द्वितीययच्छब्दार्थः साध्यमिति विभागः । प्रायश्चित्ते सति अग्रिमक्षणे दुःखप्रागभावस्य सत्त्वं, प्रायश्चित्तस्य व्यतिरेके च दुःखस्यैवोदयात् अग्रिमक्षणे दुःखप्रागभावस्याभावः, इति दुःखप्रागभावस्यानादेरपि दुःखसाधनपापध्वंसस्य सादेरिव प्रायश्चित्तसाध्यत्वं एतल्लक्षणसिद्धमिति बोध्यम् ।
उक्तलक्षणं प्रकृते योजयति —
ज्ञाने सतीति ।
आत्मस्वरूपाया अविद्यानिवृत्तेः अनादित्वेन ज्ञानोत्पत्तिद्वितीयक्षणे जन्मासम्भवेऽपि सत्त्वं सम्भवतीत्याह —
आत्मरूपाविद्यानिवृत्तिसत्त्वमिति ।
तद्व्यतिरेके तत्प्रतियोग्यविद्यारूपः तदभाव इति ।
‘तद्व्यतिरेके तदभावः’ इति उक्तलक्षणसत्त्वात् इति सम्बन्धः । ‘ज्ञानव्यतिरेके आत्मरूपाविद्यानिवृत्तेरभावः’ इत्यनेन प्रकारेण आत्मरूपाविद्यानिवृत्तौ ज्ञानसाध्यत्वरूपलक्षणसत्त्वादित्यर्थः ।
नन्वविद्यानिवृत्तेरात्मस्वरूपत्वे आत्मनोऽनन्तत्वेन वस्तुतस्तदभावस्यैवाभावात् कथमविद्यानिवृत्तेरभावः, तत्राह —
अविद्यारूप इति ।
निर्विशेषचैतन्यस्य वास्तवाभावाभावेऽपि ‘तादृशं चैतन्यं नास्त्येव’ इति भ्रान्तिसिद्धः कश्चित्तदभावोऽस्ति । स च अविद्यैव । चैतन्यप्रतियोगिककल्पिताभावस्य अविद्यातिरिक्तत्वे मानाभावादित्यर्थः । ननु लोके घटादिभावपदार्थस्य अभावप्रतियोगिकाभावरूपत्वमेव दृष्टं, न तु भावप्रतियोगिकाभावरूपत्वम् ।
तथा च कथं अविद्याया भावरूपायाः चैतन्यप्रतियोगिकाभावरूपत्वम्, अत आह —
तत्प्रतियोगीति ।
आत्मरूपाविद्यानिवृत्तेः प्रतियोगिनी या अविद्या तद्रूप इत्यर्थः ।
एतदुक्तं भवति —
चैतन्यस्य स्वस्मिन्नध्यस्ताविद्यां प्रत्यभावरूपत्वात् अविद्यायाः स्वाभावरूपचैतन्यप्रतियोगिकाभावरूपत्वं सम्भवतीति ।
अविद्यानिवृत्तिरात्मान्या इति पक्षं मतभेदेन द्वेधा साधयति —
आत्मान्यैवेत्यादिना ।
तदुपादानेति ।
अनिर्वचनीयामविद्यानिवृत्तिं प्रत्युपादानत्वेन अज्ञानस्य मुक्तावप्यनुवृत्त्यापत्तेः । तथा चानिर्मोक्षप्रसङ्ग इति भावः । किं च, मुक्तिकाले अनुवर्तमानाया अविद्यानिवृत्तेः अनिर्वाच्यत्वरूपमिथ्यात्वनिर्वाहार्थं ज्ञाननिवर्त्यत्वापत्तिः । ‘ज्ञानैकनिवर्त्यत्वं मिथ्यात्वम्’ इत्युपगमात् । न च मुक्तिकाले तन्निवर्तकं ज्ञानं सम्भवति, सामग्र्यभावात् ।
अतो नानिर्वाच्या अविद्यानिवृत्तिः - इत्याशयेनाह —
ज्ञाननिवर्त्यत्वापत्तेश्चेति ।
सा च न सती, नाप्यसती, नापि सदसद्रूपा, नाप्यनिर्वाच्या, किं तु पञ्चमप्रकारा सेति सम्बन्धः ।
नन्वविद्यानिवृत्तेः उक्तप्रकारचतुष्टयेऽन्तर्भावासम्भवे प्रकारान्तराप्रसिद्धेः अविद्यानिवृत्तिरेव मास्त्विति शङ्कते —
किं त्विति ।
मोक्षशास्त्रप्रामाण्यात् अप्रसिद्धोऽपि कश्चित्प्रकार एषितव्य इत्याशयेनाह —
उक्तप्रकारेति ।
अविद्यानिवृत्तेरात्मान्यत्वपक्षे मतान्तरं दर्शयति —
अविद्यावदिति ।
न च तदनुवृत्ताविति ।
मुक्तावविद्यानिवृत्त्यनुवृत्तावित्यर्थः ।
उत्पत्तेरिति ।
यथा घटादिपदार्थानामुत्पत्तिः आद्यक्षणमात्रसंसर्गी भावरूपो विकार उपेयते, न त्वभावरूपा, तथा निवृत्तिशब्दितनाशोऽपि तेषां चरमक्षणमात्रसम्बन्धी कश्चित् भावरूप एव विकारोऽभ्युपगन्तव्यः, न त्वभावरूपः, विनिगमकाभावादित्यर्थः ।
उत्पत्तेः क्षणिकभावविकारत्व इव नाशस्यापि क्षणिकभावविकारत्वे प्रमाणं सममित्याह —
अत एवेति ।
निवृत्तेरपि क्षणिकत्वाभ्युपगमादेवेत्यर्थः । उत्पत्तेः पूर्वं ‘उत्पत्स्यते घटः’ इति भावित्वेन व्यवह्रियमाणायाः (उत्पत्तेः) पश्चात् ‘उत्पन्नो घटः’ इति भूतत्वेन च व्यवह्रियमाणाया उत्पत्तेः प्रथमसमयमात्रे ‘उत्पद्यते’ इति वर्तमानत्वव्यवहारो यथा उत्पत्तेः क्षणिकत्वसाधकोऽस्ति इति दृष्टान्तभागार्थः ।
तथेति ।
निवृत्तेः पूर्वं ‘निवर्तिष्यते घटः’ इति भावित्वेन व्यवह्रियमाणायाः पश्चात् ‘निवृत्तो घटः’ इति भूतत्वेन च व्यवह्रियमाणाया निवृत्तेः चरमसमयमात्रे ‘निवर्तते’ इति वर्तमानत्वव्यपदेशरूपो व्यवहारो निवृत्तेरपि क्षणिकत्वसाधकोऽस्तीति प्रमाणं तुल्यमित्यर्थः ।
निवृत्तेः स्थायित्वाभ्युपगमे बाधकमाह —
निवृत्तेरनुवृत्तौ त्विति ।
मासात् पूर्वं ध्क्स्तेऽपि घटे वर्तमानकालेऽपि घटावयवेषु शकलेषु कपालरूपेषु निवृत्तिरूपस्य पराभिमतप्रध्वंसाभावस्य वर्तमानत्वात् ‘इदानीं निवर्तते, नश्यति, ध्वंसते’ इति निवृत्तेर्वर्तमानत्वव्यपदेशस्स्यात् इत्यत्र हेतुमाह —
आख्यातानामिति ।
प्रकृत्यर्थो धात्वर्थः, तद्गतवर्तमानत्वातीतत्वभावित्वार्थकत्वादित्यर्थः ।
आख्यातानां प्रकृत्यर्थगतवर्तमानत्वादिकं नार्थः, किं तु अन्यगतवर्तमानत्वादिकमेवेति शङ्कते —
ननु च तेषामिति ।
एकवचनत्वादिरूपेण आख्यातैरभिहितानां सङ्ख्यानां आश्रयभूताः, ‘घटो निवर्तते, देवदत्तः पचति, तण्डुलाः पच्यन्ते’ इत्यादिप्रयोगेषु प्रकृत्यर्थभूतनिवुत्त्यादिक्रियाणां कर्तृकर्मादिरूपाश्च ये घटादयः, तद्गतवर्तमानत्वाद्यर्थवाचकत्वं लट्त्वादिरूपेण तेषामाख्यातानामस्त्वित्यर्थः ।
अर्थान्तरमाह —
स्वाभिहितेति ।
‘घटो निवर्तते’ इत्यत्र आख्याताभिहितो यः प्रकृत्यर्थनिवृत्त्यनुकूलो व्यापारः तद्गतेत्यर्थः । सङ्ख्यायाः प्रकृत्यर्थानुकूलव्यापारस्य च समानप्रत्ययोपात्तत्वेन अन्तरङ्गत्वात् प्रकृत्यर्थस्य निवृत्त्यादेः प्रकृत्यर्थकर्तृघटादेश्च अतथात्वेन बहिरङ्गत्वात् — इत्यभिप्रायः ।
ततः किं, तत्राह —
तथा चेति ।
द्वितीयमर्थमभिप्रेत्याह —
तद्गतेति ।
घटगतेत्यर्थः । निराकरणग्रन्थः स्पष्टार्थः ।
तस्मादिति ।
अर्थान्तरासम्भवादित्यर्थः ।
पराभिमतो ध्वंसः प्रत्यक्षोऽनुमेयो वेति विकल्पं मनसि विधाय क्रमेण निराकर्तुं परमतमनुवदति —
यदि चेति ।
घटे मुद्गरपातादिना शकलीकृते सतीत्यर्थः । तत्प्रतियोगिकः घटप्रतियोगिक इत्यर्थः ।
भूतलादीति ।
ध्वंसोत्तरकालं कपालेष्विव शकलीक्रियमाणघटाधिकरणभूतलादिष्वपि ‘अत्र घटो ध्वस्तः’ इति प्रतीतिबलात् भूतलादिकमपि कपालानीव घटध्वंसाधिकरणत्वेन कैश्चितार्किकैरुपेयत इति तन्मतानुवाद इति बोध्यम् ।
ध्वंसः प्रत्यक्ष इति पक्षं दूषयति —
तदेति ।
‘तदा किमिति स ध्वंसः प्रत्यक्षो न स्यात्’ इति सम्बन्धः ।
ननु भूतलादौ घटध्वंसप्रत्यक्षे कपालमालाप्रत्यक्षमपि कारणम्, अतो नोक्तदोषः, इत्यत आह —
तदनपसरणेऽपीति ।
मृण्मयबृहत्पात्रविशेषो मणिकशब्दार्थः । यदा भूतलगतेषु घटकपालेषु मणिकशरावादिकपालेभ्यो व्यावृत्तस्य संस्थानविशेषस्य घटकपालासाधारणस्य दर्शनं नास्ति, कपालमालागोचरदर्शनमात्रमेवास्ति, तदाऽपि ध्वंसः प्रत्यक्षस्स्यात् कपालमालादर्शनस्य सत्त्वादित्यर्थः । वस्तुतस्तु प्रध्वंसाभावस्व इन्द्रियसन्निकर्षानिरूपणात् प्रत्यक्षत्वं न सम्भवतीति भावः ।
ध्वंसोऽनुमेय इति पक्षं दूषयति —
तर्हीति ।
अतीतस्यापि ध्वंसस्य अनुमानसम्भवात् अनुमानेन ध्वंसमात्रसिद्धावपि न अनुमानबलात् ध्वंसस्य पराभिमतं स्थायित्वं सिद्ध्यतीत्यर्थः ।
तत इति ।
अनुमानादित्यर्थः । ननु — x‘इदं भूतलं घटध्वंसवत्, कपालमालाविशेषवत्वात् व्यतिरेकेण कपालमालाविशेषानधिकरणप्रदेशवत्’ इत्यनुमानं कथं घटाश्रितं ध्वंसं विषयीकुर्यादितिचेत्, न — ध्वंसोत्पत्तिकाले प्रतियोग्याश्रितस्यापि ध्वंसस्य प्रतियोगिद्वारा भूतलाश्रितत्वस्यापि सत्त्वेन अनुमानस्य तद्विषयत्वोपपत्तेरिति भावः ।
अनयैव रीत्या व्यवहारविशेषस्यापि गतिमाह —
इहेति ।
भूतलाधिकरणकस्थायिध्वंससाधकान्तरमप्यन्यथयति —
घटध्वंसानन्तरमिति ।
भूतल इति ।
भूतलेघटोनास्तीतिप्रत्ययप्रयोगात्मकव्यवहारस्येत्यर्थः । समयविशेषे - भूतलादौ घटसंयोगाद्यभावकाले संसर्गी योऽत्यन्ताभावः, स आलंबनं यस्य घटाभावव्यवहारस्य, स तथा, तस्य भावस्तत्ता, तदुपपत्त्येत्यर्थः । कॢप्ताभावेनैव व्यवहारोपपत्तौ अतिरिक्तप्रध्वंसाभावो न कल्पनीयः, ‘अतोऽन्यदार्तम्’ , [बृ.उ.३-५] इति श्रुत्या चैतन्यव्यतिरिक्तवस्तुमात्रानित्यत्वप्रतिपादिकया पराभिमतस्य नित्यध्वंसस्य निराकृतत्वाच्च इति भावः । एतेन घटध्वंसानन्तरं ‘कपालमालायां घटो नास्ति’ इति व्यवहारोऽपि नीतः । उपादानेऽपि समयविशेषेऽत्यन्ताभावसंसर्गमादाय तदुपपत्तेः ।
शङ्कते —
एवंसतीति ।
घटनाशोत्तरकालीनस्य घटाभावव्यवहारस्य सामयिकात्यन्ताभावालम्बनत्वोपपत्तौ सत्यामित्यर्थः ।
तदभावेति ।
‘मृदि घटो नास्ति’ इति व्यवहारोऽपीत्यर्थः ।
अत्यन्ताभावेनेति ।
सामयिकेनेत्यर्थः, कालत्रयेऽप्यधिकरणसंसर्ग्यत्यन्ताभावस्य मृद्यसम्भवात् इति बोध्यम् ।
प्रागभावप्रध्वंसाभावयोरभावेऽपि काले पूर्वकालत्वमुत्तरकालत्वं च अखण्डोपाधिरूपमादाय व्यवहारोपपत्तिरिति परिहरति —
घटादिष्विति ।
तवाप्यखण्डोपाधिकल्पनमावश्यकमित्याह —
अभावस्वरूपेति ।
सखण्डस्यैव ध्वंसत्वस्य मन्मते निर्वचनसम्भवात् न मम अकॢप्ताखण्डोपाधिकल्पनं इत्याशयेन शङ्कते —
न च जन्याभावत्वरूपमिति ।
जन्यत्वे सत्यभावत्वरूपमित्यर्थः ।
अतिव्याप्त्या दूषयति —
ध्वंसेति ।
तद्ध्वंसत्वेति ।
घटध्वंसत्वापत्तेरित्यर्थः । ननु — जन्यत्वे सति सप्तमपदार्थरूपाभावत्वं ध्वंसलक्षणं विवक्षितम् ।
अत्यन्ताभावादिवारणाय सत्यन्तं, घटध्वंसप्रागभावरूपे घटे उक्तातिव्याप्तिवारणाय विशेष्यं — इत्याशङ्कामनूद्य निराकरोति —
न च सप्तमेति ।
घटप्रागभावध्वंसत्वेनोपेते घटे उक्तलक्षणाभावात् घटस्य घटप्रागभावं प्रति ध्वंसत्वं न स्यादिति दूषयति —
घटस्येति ।
इष्टापत्तिमाशङ्क्याह —
घटकाल इति ।
घटकाले घटप्रागभावध्वंसाभावे प्रागभावध्वंसकालत्वरूपस्य तदुत्तरकालत्वस्याभावादिति भावः ।
ननु — घटप्रागभावध्वंसस्य घटातिरिक्तस्य सप्तमपदार्थरूपस्य अभ्युपगमात् नोक्तदोष इत्यत आह —
न च प्रतियोग्यतिरिक्त इति ।
तथासतीति ।
प्रागभावध्वंसस्य प्रतियोग्यतिरिक्तत्वे सतीत्यर्थः । घटप्रागभावध्वंसः प्रतियोगिव्यतिरिक्त इति न च । तथासति घटध्वंसप्रागभावोऽपि घटरूपप्रतियोगिव्यतिरिक्तः स्यात्, ध्वंसप्रागभावयोरुभयोरपि कादाचित्काभावत्वेन तुल्यत्वादित्यर्थः ।
ततः किं, तत्राह —
इतीति ।
इतिशब्दो हेत्वर्थे । तथा च यथा घटप्रागभावस्य ध्वंसः प्रतियोगिव्यतिरिक्तः, तथा घटप्रागभावध्वंसस्यापि प्रागभावो घटप्रागभावादन्यो वाच्यः, ध्वंसप्रागभावस्यापि ध्वंसप्रतियोगिव्यतिरिक्तत्वादित्यर्थः ।
ततः किं, तत्राह —
तस्यापीति ।
अन्यस्य प्रागभावस्यापीत्यर्थः ।
तस्यापीति ।
ध्वंसस्यापीत्यर्थः ।
ननु — यदि जन्याभावत्वरूपं ध्वंसत्वं उक्तरीत्या अनवस्थादोषदुष्टं, तर्हि ध्वंसाप्रतियोगित्वे सति त्रैकालिकभिन्नाभावत्वरूपं ध्वंसत्वमस्तु अत्यन्ताभावादावतिव्याप्तिवारणाय विशेष्यम्, त्रैकालिकवस्तुभिन्ने प्रागभावे अतिव्याप्तिवारणाय सत्यन्तम्, तथा च सखण्डमेव ध्वंसत्वमिति, नेत्याह —
न चान्यदिति ।
ध्वंसलक्षणे ध्वंसत्वप्रवेशादात्माश्रय इत्यर्थः । न च — प्रागभावात्यन्ताभावभिन्नत्वे सति संसर्गाभावत्वं ध्वंसत्वं, अतो नात्माश्रय इति - वाच्यम् । प्रागभावत्वादिनिर्वचनस्यापि प्रध्वंसाभावभिन्नत्वघटिततया अन्योन्याश्रयापत्तेः - इत्याशयेन आदिपदमिति बोध्यम् ।
ध्वंसत्ववत् प्रागभात्वमपि सखण्डं दुर्निरूपमित्याह —
एवमिति ।
अयमभिप्रायः — न तावदनादित्वे सति सान्ताभावत्वं प्रागभावत्वं, घटध्वंसप्रागभावरूपे घटे अनादित्वाभावेन अव्याप्त्यापत्तेः । नापि प्रतियोगिजनकाभावत्वं प्रागभावत्वं, जनकत्वशरीरप्रविष्टपूर्ववृत्तित्वस्य कार्यप्रागभावकालवृत्तित्वरूपतया आत्माश्रयप्रसङ्गात् । एवं लक्षणान्तरमपि निरसनीयमिति ।
तस्मादिति ।
पराभिमतप्रागभावादिसाधकाभावादित्यर्थः ।
ननु प्रागभावाद्यनङ्गीकारे तत्प्रतियोगिघटादिकार्यमपि नाङ्गीकर्तव्यं, तदङ्गीकारे द्वैतापत्तेः, इत्यत आह —
मध्ये परमिति ।
घटादिकार्यस्य शुक्तिरजतादिवदध्यासरूपत्वाभ्युपगमात् नाद्वैतविरोधः ।
ननु — यथा परमते ध्वंसत्वादिकं दुर्निरूपं, तथा सिद्धान्ते भावविकाररूपा उत्पत्तिस्थितिध्वंसा अपि दुर्निरूपा एव — इत्याशङ्क्य, तेषां दुर्निरूपत्वमलङ्कारायेत्याशयेनाह —
अनिर्वचनीयेति ।
एवं चेति ।
लोके घटादिध्वंसस्य क्षणिकभावविकाररूपत्वे सिद्धे सतीत्यर्थः ।