कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
द्विविधदृष्टिसृष्टिवादाद्विलक्षणसृष्टदृष्टिवादनिरूपणम्
दृष्टिसृष्टिपदं व्याचष्टे —
श्रुतिदर्शितेनेत्यादिना ।
अपसिद्धान्तं शङ्कते —
न चैवमिति ।
उक्तरीत्या प्रामाणिकत्वे प्रपञ्चस्य स्वीकृते सतीत्यर्थः । कल्पितत्वाभावे सत्यत्वमेवाभ्युपगतं स्यादिति सम्बन्धः । प्रपञ्चः सत्यः श्रुतिसिद्धत्वात् ब्रह्मवत् । न च तस्य प्रत्यक्षसिद्धस्य श्रुतिसिद्धत्वमसिद्धमिति वाच्यम् । तस्य स्वरूपेण प्रत्यक्षसिद्धत्वेऽपि सृष्टिप्रलयादिविशिष्टतया श्रुतिस्मृत्यादिसिद्धत्वात् । तथा प्रपञ्चः सत्यः, अर्थक्रियाकारित्वात्, सृष्ट्याद्यर्थक्रियाकारिब्रह्मवत् । न च हेत्वसिद्धिः, पृथिवीजलादौ तस्य प्रत्यक्षादिसिद्धत्वादिति भावः ।
प्रपञ्चस्य ब्रह्मवत् परमार्थसत्यत्वे हेतुद्वयमप्रयोजकम्, अतो नापसिद्धान्तापत्तिः इत्याशयेन परिहरति —
शुक्तिरजतादिवदिति ।
वियदादिप्रपञ्चे शुक्तिरजतादाविव कल्पनासमसमयत्वस्य दृष्टिसृष्टिवाद्यभिमतस्याभावेऽपि पारमार्थिकसत्यत्वविरुद्धस्य मिथ्यात्वस्याभ्युपगमादिति सम्बन्धः । वियदादिप्रपञ्चे कल्पनासमसमयत्वाभावे कारणत्रयाजन्यत्वं हेतुः ।
सम्प्रयोगस्य स्वप्नभ्रमव्यापित्वाभावात् सम्प्रयोगस्थाने अधिष्ठानसामान्यज्ञानं निक्षिपति —
अधिष्ठानज्ञानेति ।
मिथ्यात्वनिर्वचनं त्रेधा दर्शयति —
ज्ञानैकेत्यादिना ।
अधिष्ठानतत्त्वज्ञानमात्रनिवर्त्यत्वरूपस्येत्यर्थः । सद्विलक्षणत्वमात्रं असति अतिव्याप्तम् । असद्विलक्षणत्वमात्रं सति ब्रह्मणि अतिव्याप्तम् । अत उभयोपादानम् । प्रपञ्चस्य तूभयविलक्षणत्वं प्रमाणसिद्धमिति भावः ।
प्रतिपन्नेति ।
ब्रह्मणि प्रतिपन्नस्य — प्रतीतस्य-आरोपितस्येति यावत्, ब्रह्म उपाधिः-अधिष्ठानं, तत्र ब्रह्मणि तस्य त्रैकालिको निषेधः — श्रुतिगम्योऽत्यन्ताभावोऽस्ति, तत्प्रतियोगित्वं तस्याक्षतमिति भावः । तत्र आद्यलक्षणे घटादेस्सत्यत्वपक्षेऽपि ‘घटादिकं नाशयामि’ इत्यादिज्ञाननिवर्त्यत्वसत्त्वात् एकपदं दत्तम् । ज्ञानमात्रनिवर्त्यत्वस्य च सत्यत्ववादिभिरनङ्गीकारात् न सत्यत्वपक्षाविशेषः । तथा प्रपञ्चे परैस्सद्रूपत्वाङ्गीकारेण सद्विलक्षणत्वानङ्गीकारात् द्वितीयलक्षणेऽपि न सत्यत्वपक्षाविशेषः ।
प्रपञ्चस्य तदुपादाने ब्रह्मणि सिद्धान्त इव, घटाद्युपादाने वस्तुनि घटादेस्त्रैकालिकनिषेधस्य परैरनङ्गीकारात्, न तृतीयलक्षणेऽपि परमताविशेषः - इत्याशयेनाह —
सत्यत्वपक्षे इति ।
दृष्टिसृष्टिवाद्येव शङ्कते —
नन्वेवमिति ।
ज्ञानैकनिवर्त्यत्वादेर्मिथ्यात्वस्वरूपत्वे सतीत्यर्थः । अहङ्कारतद्धर्माणामप्युक्तरूपमिथ्यात्वं वियदादिवत् सिद्ध्यतीति सम्बन्धः ।
कल्पितत्वाभावेऽपीति ।
प्रातिभासिकत्वाभावेऽपीत्यर्थः । तत्पदमहङ्कारादिपरम् । चिदात्मनोऽधिष्ठानत्वादिसमर्थनमादिपदार्थः ।
अभिमतमिति ।
भाष्यकारादीनामिति शेषः । तथा च तत्सम्पादनादियत्नस्सफल इति भावः । अहङ्कारतद्धर्माणां केवलसाक्षिवेद्यत्वेऽपि शुक्तिरजतादिवत् प्रातिभासिकत्वं वक्तुमयुक्तम्, व्यवहारकाले बाधानुपलम्भात् ।
अतो वस्तुगत्या तेषां प्रातिभासिकत्वाभावेऽपि तदभ्युपेत्य कारणत्रयसम्पादनादियत्नस्तैः कृतः - इति परिहारान्तरमाह —
अभ्युपेत्येति ।
तत् - भाष्यादि प्रातिभासिकत्वमभ्युपेत्यवचनमेव, न वस्तुगतिमनुरुध्येत्यर्थः । ‘अद्वितीयाधिष्ठानब्रह्मात्मनि प्रमाणं चैतन्यं’ इति प्रतिपादयतष्टीकाविवरणादिगतस्य ग्रन्थस्य प्रौढिवादत्वस्य स्फुटत्वादिति सम्बन्धः ।
प्रौढिवादत्वे उपपत्तिमाह —
चैतन्यस्य प्रमाकरणत्वे इति ।
ब्रह्मप्रमाकरणत्वे इत्यर्थः । औपनिषदत्वश्रुत्यनुसारेण वेदान्तानामेव ब्रह्मप्रमाकरणत्वकल्पनेत्यर्थः । वेदान्तवाक्यजन्यब्रह्मप्रमाया अपरोक्षत्वकल्पनमादिपदार्थः ।