अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

द्विविधदृष्टिसृष्टिवादाद्विलक्षणसृष्टदृष्टिवादनिरूपणम्

दृष्टिसृष्टिपदं व्याचष्टे —
श्रुति­द­र्शि­ते­ने­त्या­दिना ।

अपसिद्धान्तं शङ्कते —
न चैवमिति ।
उक्तरीत्या प्रामाणिकत्वे प्रपञ्चस्य स्वीकृते सतीत्यर्थः । कल्पितत्वाभावे सत्य­त्व­मे­वा­भ्यु­प­गतं स्यादिति सम्बन्धः । प्रपञ्चः सत्यः श्रुति­सि­द्ध­त्वात् ब्रह्मवत् । न च तस्य प्रत्य­क्ष­सि­द्धस्य श्रुति­सि­द्ध­त्व­म­सि­द्ध­मिति वाच्यम् । तस्य स्वरूपेण प्रत्य­क्ष­सि­द्ध­त्वेऽपि सृष्टि­प्र­ल­या­दि­वि­शि­ष्ट­तया श्रुति­स्मृ­त्या­दि­सि­द्ध­त्वात् । तथा प्रपञ्चः सत्यः, अर्थ­क्रि­या­का­रि­त्वात्, सृष्ट्या­द्य­र्थ­क्रि­या­का­रि­ब्र­ह्म­वत् । न च हेत्वसिद्धिः, पृथिवीजलादौ तस्य प्रत्य­क्षा­दि­सि­द्ध­त्वा­दिति भावः ।

प्रपञ्चस्य ब्रह्मवत् परमार्थसत्यत्वे हेतु­द्व­य­म­प्र­यो­ज­कम्, अतो नाप­सि­द्धा­न्ता­पत्तिः इत्याशयेन परिहरति —
शुक्ति­र­ज­ता­दि­व­दिति ।
वियदादिप्रपञ्चे शुक्तिरजतादाविव कल्प­ना­स­म­स­म­य­त्वस्य दृष्टि­सृ­ष्टि­वा­द्य­भि­म­त­स्या­भा­वेऽपि पार­मा­र्थि­क­स­त्य­त्व­वि­रु­द्धस्य मिथ्या­त्व­स्या­भ्यु­प­ग­मा­दिति सम्बन्धः । वियदादिप्रपञ्चे कल्प­ना­स­म­स­म­य­त्वा­भावे कार­ण­त्र­या­ज­न्यत्वं हेतुः ।

सम्प्रयोगस्य स्वप्न­भ्र­म­व्या­पि­त्वा­भा­वात् सम्प्रयोगस्थाने अधि­ष्ठा­न­सा­मा­न्य­ज्ञानं निक्षिपति —
अधि­ष्ठा­न­ज्ञा­नेति ।

मिथ्या­त्व­नि­र्व­चनं त्रेधा दर्शयति —
ज्ञानै­के­त्या­दिना ।
अधि­ष्ठा­न­त­त्त्व­ज्ञा­न­मा­त्र­नि­व­र्त्य­त्व­रू­प­स्ये­त्यर्थः । सद्वि­ल­क्ष­ण­त्व­मात्रं असति अतिव्याप्तम् । अस­द्वि­ल­क्ष­ण­त्व­मात्रं सति ब्रह्मणि अतिव्याप्तम् । अत उभयोपादानम् । प्रपञ्चस्य तूभयविलक्षणत्वं प्रमाणसिद्धमिति भावः ।

प्रतिपन्नेति ।
ब्रह्मणि प्रतिपन्नस्य — प्रती­त­स्य-आ­रो­पि­त­स्येति यावत्, ब्रह्म उपा­धिः-अ­धि­ष्ठानं, तत्र ब्रह्मणि तस्य त्रैकालिको निषेधः — श्रुति­ग­म्योऽ­त्य­न्ता­भा­वोऽस्ति, तत्प्र­ति­यो­गित्वं तस्याक्षतमिति भावः । तत्र आद्यलक्षणे घटा­दे­स्स­त्य­त्व­प­क्षेऽपि ‘घटादिकं नाशयामि’ इत्या­दि­ज्ञा­न­नि­व­र्त्य­त्व­स­त्त्वात् एकपदं दत्तम् । ज्ञान­मा­त्र­नि­व­र्त्य­त्वस्य च सत्य­त्व­वा­दि­भि­र­न­ङ्गी­का­रात् न सत्य­त्व­प­क्षा­वि­शेषः । तथा प्रपञ्चे परै­स्स­द्रू­प­त्वा­ङ्गी­का­रेण सद्वि­ल­क्ष­ण­त्वा­न­ङ्गी­का­रात् द्विती­य­ल­क्ष­णेऽपि न सत्य­त्व­प­क्षा­वि­शेषः ।

प्रपञ्चस्य तदुपादाने ब्रह्मणि सिद्धान्त इव, घटाद्युपादाने वस्तुनि घटा­दे­स्त्रै­का­लि­क­नि­षे­धस्य परै­र­न­ङ्गी­का­रात्, न तृतीयलक्षणेऽपि परमताविशेषः - इत्याशयेनाह —
सत्यत्वपक्षे इति ।

दृष्टि­सृ­ष्टि­वा­द्येव शङ्कते —
नन्वेवमिति ।
ज्ञानै­क­नि­व­र्त्य­त्वा­दे­र्मि­थ्या­त्व­स्व­रू­पत्वे सतीत्यर्थः । अह­ङ्का­र­त­द्ध­र्मा­णा­म­प्यु­क्त­रू­प­मि­थ्यात्वं वियदादिवत् सिद्ध्यतीति सम्बन्धः ।

कल्पि­त­त्वा­भा­वेऽ­पीति ।
प्राति­भा­सि­क­त्वा­भा­वेऽ­पी­त्यर्थः । तत्प­द­म­ह­ङ्का­रा­दि­प­रम् । चिदा­त्म­नोऽ­धि­ष्ठा­न­त्वा­दि­स­म­र्थ­न­मा­दि­प­दार्थः ।

अभिमतमिति ।
भाष्य­का­रा­दी­ना­मिति शेषः । तथा च तत्स­म्पा­द­ना­दि­य­त्न­स्स­फल इति भावः । अह­ङ्का­र­त­द्ध­र्माणां केव­ल­सा­क्षि­वे­द्य­त्वेऽपि शुक्तिरजतादिवत् प्रातिभासिकत्वं वक्तुमयुक्तम्, व्यवहारकाले बाधानुपलम्भात् ।

अतो वस्तुगत्या तेषां प्राति­भा­सि­क­त्वा­भा­वेऽपि तदभ्युपेत्य कार­ण­त्र­य­स­म्पा­द­ना­दि­य­त्नस्तैः कृतः - इति परिहारान्तरमाह —
अभ्युपेत्येति ।
तत् - भाष्यादि प्राति­भा­सि­क­त्व­म­भ्यु­पे­त्य­व­च­न­मेव, न वस्तु­ग­ति­म­नु­रु­ध्ये­त्यर्थः । ‘अद्वि­ती­या­धि­ष्ठा­न­ब्र­ह्मा­त्मनि प्रमाणं चैतन्यं’ इति प्रति­पा­द­य­त­ष्टी­का­वि­व­र­णा­दि­ग­तस्य ग्रन्थस्य प्रौढिवादत्वस्य स्फुटत्वादिति सम्बन्धः ।

प्रौढिवादत्वे उपपत्तिमाह —
चैतन्यस्य प्रमाकरणत्वे इति ।
ब्रह्म­प्र­मा­क­र­णत्वे इत्यर्थः । औप­नि­ष­द­त्व­श्रु­त्य­नु­सा­रेण वेदान्तानामेव ब्रह्म­प्र­मा­क­र­ण­त्व­क­ल्प­ने­त्यर्थः । वेदा­न्त­वा­क्य­ज­न्य­ब्र­ह्म­प्र­माया अप­रो­क्ष­त्व­क­ल्प­न­मा­दि­प­दार्थः ।