कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
जीवैकत्वनानात्वविचारः
जीवस्येश्वरकल्पकत्वे दृष्टान्तमाह —
स्वप्नेति ।
यथा स्वप्नद्रष्टा जीव एव परां देवतां सर्वज्ञत्वादिधर्मैस्सहितां कल्पयति, कल्पयित्वा च तामहर्निशमुपास्ते, तदुपासनया चाभ्युदयनिश्रेयसलक्षणं फलं लभते, एवं जागरणेऽपि, इति दृष्टान्तादेः अभिप्रायः ।
जीवेश्वरनिरूपणप्रसङ्गेन विचारान्तरमारभते —
अथेति ।
अनुपदोक्तेति । ‘ब्रह्मैव स्वाविद्यया संसरति स्वविद्यया मुच्यते’ इत्यादिग्रन्थोक्तेत्यर्थः ।
एक इति ।
ब्रह्मण एकत्वात् तत्र च अवच्छेदप्रतिबिम्बभावयोरनङ्गीकाराच्च इत्यर्थः ।
ननु जीवैक्ये तेन एकमेव शरीरं सजीवं स्यात् न सर्वशरीराणि इत्याशङ्कामिष्टापत्त्या परिहरति —
तेन चेति ।
ननु यथा एकशरीरे हिताहितप्राप्तिपरिहारार्थस्पन्दनरूपा चेष्टा दृश्यते तथा सर्वशरीरेषु दृश्यते, तथा च कथमेकमेव शरीरं सजीवं, तत्राह —
अन्यानीति ।
स्वप्नदशायां स्वप्नद्रष्टुश्शरीरं एकमेव सजीवम्, स्वप्नद्रष्ट्रा दृष्टान्यन्यानि शरीराणि तु चेष्टाविशेषवत्तया दृश्यमानान्यपि सजीवानि न भवन्ति, तथा जागरणेऽपि इति द्रष्टव्यम् ।
ननु स्वाप्नस्य जगतः कल्पिका तावत् निद्रा अन्वयव्यतिरेकसिद्धा यथा वर्तते न तथा जाग्रत्प्रपञ्चस्य कल्पकं अन्वयव्यतिरेकसिद्धं किञ्चिदस्तीति जगत् सत्यमेव स्यात्, नेत्याह —
तदज्ञानेति ।
जीवाज्ञानेत्यर्थः । अज्ञानस्य जगत्कल्पकत्वं शास्त्रसिद्धमिति भावः ।
ननु सर्वव्यवहारस्य स्वप्नव्यवहारवत् कल्पितत्वे तद्वदेव सहसा व्यवहारलोपः प्रसज्येत, तथा च विद्यानर्थक्यमिति, नेत्याह —
तस्येति ।
जीवस्येत्यर्थः । यावन्निद्राक्षयं स्वप्नव्यवहारानुवृत्तिवत् विद्यया यावदविद्यानिवृत्ति सर्वव्यवहारानुवृत्तिर्युज्यते इति न विद्यावैफल्यम्, अविद्यानिवृत्त्यर्थमपेक्षितत्वात्, इति भावः ।
ननु - जीवैकत्वमते एको जीवो बद्धः अन्यो जीवो मुक्तः इति व्यवस्था शुकादिमुक्तिप्रतिपादकशास्त्रसिद्धा न स्यात् - इत्याशङ्क्य इष्टापत्तिरित्याह —
बद्धेति ।
शुकेति ।
यथा स्वप्नादुत्थितः स्वप्नभ्रान्तिसिद्धां पुरुषान्तरमुक्तिं परं प्रति बोधयति, तथा जीवभ्रान्तिसिद्धां शुकादिमुक्तिं तं प्रत्येव बोधयति श्रवणादिषु प्रवृत्त्युपयोगितया, इति भावः ।
ननु जीवैक्यमते विद्योपदेष्टुरन्यस्याभावात् विद्योदयो न स्यात्, जीवेश्वरविभागाभावेन जीवस्येश्वरोपासनादिव्यवहारश्च न स्यात्, इत्याशङ्क्याह —
अत्र चेति ।
यथा स्वप्नदशायां स्वप्नदृक् कंचित् गुरुमीश्वरं च कल्पयित्वा तावुपास्ते, ताभ्यां च विद्यादिकं लभते, तद्वदिति भावः ॥
एकजीववादे एव मतान्तरमाह —
अन्ये त्विति ।
एकशरीरेति ।
एकमेव शरीरं सजीवं यस्मिन्नेकजीववादे स तथोक्तः ।
मनःप्रत्ययमिति ।
मनसो विश्वासं, प्रामाणिकत्वनिश्चयं इत्यर्थः । एकमेव शरीरं सजीवं शरीरान्तराणि निर्जीवानि इत्यत्र विनिगमकाभावः, न च जीवैक्यं विनिगमकमिति वाच्यम्, एकोऽपि जीवः कस्मिन् शरीरे वर्तते इत्यत्र विनिगमकस्य वक्तुमशक्यत्वात्, इति भावः ।
अधिकं त्विति ।
जीवाभिन्ने ईश्वरे वेदान्तानां प्रथमाध्याये निरूपितस्समन्वयो न घटते । तथा सति ईश्वरगतजगत्स्रष्टृत्वादेर्जीवधर्मत्वप्रसङ्गात् । तथा चानुभवविरोधः इति पूर्वपक्षनिरासार्थः तुशब्दः । अधिकं - जीवादुपाधितो भिन्नं ब्रह्म जगत्स्रष्टृत्वसर्वज्ञत्वादिगुणकमभ्युपगम्यते । अतो न ब्रह्मधर्माणां जीवे प्रसक्तिः । औपाधिकभेदस्यापि धर्मव्यवस्थापकताया लोकसिद्धत्वात् ।
कल्पितभेदाङ्गीकारे हेतुमाह —
भेदनिर्देशादिति ।
‘य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति’ इत्यादौ नियम्यनियामकभावादिना भेदनिर्देशात् इति सूत्रार्थः । ‘लोकवत्’ इति सूत्रं पूर्वमेव व्याख्यातम् । अत्र आदिपदेन ‘अनुपपत्तेस्तु न शारीरः’ [ब्र.सू. १-२-३] इत्यादिसूत्रं गृह्यते । मनोमयत्वादिगुणको न शरीरः । तस्मिन् सर्वकर्मत्वादीनामनुपपत्तेरेव इति सूत्रार्थः ।
विरोधं चेति ।
मनःप्रत्ययमलभमानाः विरोधं च मन्यमानाः इति चशब्दार्थः । जीवतिरिक्तेश्वराभाववादेऽस्मिन् जगत्सृष्ट्यादिसमर्थस्य व्यावहारिकभेदवत ईश्वरस्य अस्तित्वजगत्स्रष्टृत्वसर्वात्मकत्वादिगुणप्रतिपादकैः सूत्रैः विरोधमित्यर्थः ।
ब्रह्मप्रतिबिम्ब इति ।
अनेन बिम्बभूतं ब्रह्म जीवादधिकमीश्वररूपं अस्मिन् मतेऽस्ति अतो नोदाहृतसूत्रविरोधः इति सूचितम् ।
तदिति ।
ब्रह्मप्रतिबिम्बभूतहिरण्यगर्भस्य भौतिकजगत्स्त्रष्टृतया कारणोपाधितया च मुख्यजीवस्य प्रतिबिम्बभूता अन्ये जीवा जीवाभासाः, तद्वत् सृष्ट्यादिसामर्थ्याभावात् इत्यर्थः ।
कल्पा इति ।
तुल्या इत्यर्थः ।
संसारादिभाज इति ।
अनेन यथा हिरण्यगर्भशरीरं मुख्यजीवेन सजीवं तथा इतराण्यपि शरीराणि जीवाभासैस्सजीवानीति पूर्वमताद्विशेषस्सूचितः । अत्रादिपदं मुक्तिसङ्ग्रहार्थम् । जीवाभासानां मुक्तिश्च स्वबिम्बभूतहिरण्यगर्भप्राप्तिक्रमेण शुद्धब्रह्मप्राण्तिः इति मन्तव्यम् ।
सविशेषेति ।
सविशेषाणि — [मुख्यामुख्यविभागेन] सजीवानि अनेकशरीराणि यस्मिन्नेकजीववादे स तथा । आतिष्ठन्ते — अङ्गीकुर्वन्तीत्यर्थः ।
अत्राप्यस्वरसं वदन्नेकजीववादमेवाह —
अपरे त्विति ।
एक एवेति ।
अविद्यायां ब्रह्मप्रतिबिम्बरूपो जीवस्तावदेकः । अविद्याया एकत्वात् । स एव च सर्वं शरीरं स्वभोगाद्यर्थमधितिष्ठति । न तु ‘अविद्यायां ब्रह्मप्रतिबिम्बो हिरण्यगर्भशरीरमधितिष्ठति अन्यानि तु शरीराणि तत्प्रतिबिम्बा जीवाभासा अधितिष्ठन्ति’ । कुतः, इतरजीवानां तत्प्रतिबिम्बत्वे मानाभावात् इत्येवकारार्थः ।
अविशेषेणेति ।
मुख्यामुख्यविभागं विनेत्यर्थः । जीवभेदे हि सति कश्चिन्मुख्यो जीवः कश्चिच्चामुख्यो जीवाभासः इति विभागस्सम्भवेत्, न त्वेतदस्ति, तस्यैकत्वाभ्युपगमात्, इति भावः ।
ननु देवदत्तस्य शिरःपाणिपादानधितिष्ठत एकस्य यथा ‘शिरसि मे वेदना पादे मे सुखम्’ इत्याद्यनुसन्धानं दृश्यते एवमेकस्यैव जीवस्य सर्वशरीराधिष्ठातृत्वे मम देवदत्तशरीरे सुखं यज्ञदत्तनामकशरीरे दु:खं इत्यादिरूपेण सर्वत्रानुसन्धानप्रसङ्गः, इति शङ्कते —
न चैवमिति ।
शरीरभेदस्याननुसन्धानप्रयोजकत्वाभ्युपगमान्नोक्तातिप्रसङ्गः, न च तत्र मानाभावश्शङ्कनीयः, जीवस्य अतीतशरीरेषु वर्तमानशरीरे चैकत्वेऽपि जन्मान्तरीयसुखाद्यननुसन्धानदर्शनेन तद्भेदस्य तत्प्रयोजकतायाः सम्प्रतिपन्नत्वात् इति परिहरति —
जन्मान्तरीयेति ।
ननु योगिनो देहभेदे सत्यप्यनुसन्धानदर्शनात् व्यभिचार इत्यत आह —
योगिनस्त्विति ।
अस्मदादिवैलक्षण्यार्थकः तुशब्दः ।
तद्दर्शयति —
कायेति ।
नह्यस्मदादीनां व्यवहितार्थसाक्षात्कारोऽस्ति । तत्प्रयोजकादृष्टविशेषाभावात् । तथा च शरीरभेदमात्रं न तत्प्रयोजकं, किंतु अदृष्टविशेषासहकृतशरीरभेदोऽननुसन्धानप्रयोजकः, इति न योग्यनुसन्धानस्थले व्यभिचार इति भावः । योगपदं योगजादृष्टपरम् ।
अविशेषेति ।
अविशेषेणाधिष्ठितान्यनेकशरीराणि यस्मिन्नेकजीववादे स तथेत्यर्थः ॥अनेकजीववादमुत्थापयति —
इतरे त्विति ।
अत्रापीति ।
अव्यवहितमतेऽपीत्यर्थः ।
यद्येकजीववादे व्यवस्था न सिद्ध्यति ततः को दोषः, इत्याशङ्क्य श्रुतिस्मृतिभाष्याणामनाञ्जस्यं दोष इत्याह —
तद्योय इति ।
देवानां मध्ये यो यो देवः तत् - ब्रह्म प्रत्यबुध्यत साक्षात्कृतवान्, स एव तत् - ब्रह्म अभवत्, नान्यो ब्रह्मबोधरहितः, इति विदुषो मुक्तत्वं अविदुषो बद्धत्वं च प्रतिपादयन्त्या श्रुत्या बन्धमुक्तिव्यवस्था दर्शिता । आदिपदेन ‘अजामेकां’ इति श्रुतिः बन्धमुक्तिव्यवस्थाप्रतिपादकत्वेन भाष्यकारादिभिरङ्गीकृता गृह्यते । श्रुतिग्रहणं ‘यद् गत्वा न निवर्तन्ते तद्धाम परमं मम’ [भ.गी. १५.६] इत्यादिस्मृतीनामुपलक्षणम् ।
प्रतिषेधादिति ।
इदं पूर्वपक्षसूत्रम् । बृहदारण्यके काण्वशाखायां ‘न तस्य प्राणा उत्क्रामन्ति’ इति वाक्येन परब्रह्मतत्त्वविदः प्राणोत्क्रान्तिप्रतिषेधात् तस्य गत्युत्क्रान्ती न स्तः, उत्क्रान्तिपूर्वकत्वाद्गतेः, इति चेदिति सिद्धान्तिशङ्काभागार्थः ।
पूर्वपक्षी तां दूषयति —
न शारीरादिति ।
बृहदारण्यक एव माध्यन्दिनशाखायां समानप्रकरणे ब्रह्मविदं शारीरं प्रकृत्य ‘न तस्मात् प्राणा उत्क्रामन्ति’ इति वाक्यं पठ्यते । अत्र तच्छब्देन प्रकृतः शारीरो गृह्यते, न शरीरम् । तस्य शरीरापेक्षया प्रधानत्वात् । तथा च ‘न तस्मात्’ इति वाक्येन शारीराज्जीवात् प्राणानामुत्क्रमणं निषिध्यते, न शरीरात् । अतः शरीरादुत्क्रमणं विदुषोऽप्यस्तीति तस्यापि गत्युत्क्रान्ती स्त एव । ‘न तस्य प्राणाः’ इति काण्ववाक्यस्यापि तस्य विदुषः प्राणाः शारीरात् नोत्क्रामन्ति, किं तु तेन सहैव ब्रह्मलोकं गच्छन्ति इत्यर्थो बोध्यः ।
अनाञ्जस्यमिति ।
आञ्जस्याभावः-उपपन्नत्वाभाव इत्यर्थः ।
अन्तःकरणानामिति ।
न च नानाजीववादेऽपि ‘ब्रह्मैव स्वाविद्यया संसरति, स्वविद्यया मुच्यते’ इत्यर्थेन बृहदारण्यकभाष्ये प्रतिपादितेन विरोधस्तुल्य इति वाच्यम् । [तत्प्रतिपादकभाष्यस्य ] (तद्भाष्यप्रतिपादनस्य) ‘ब्रह्मैव स्वाविद्यया नानान्तःकरणरूपेण परिणतया नानाजीवभावं प्राप्य संसरति, स्वविद्यया क्रमेण मुच्यते’ इत्यभिप्रायकत्वोपपत्तेः । श्रुतिस्मृत्युपोद्बलितशुकादिमुक्तिप्रतिपादकभाष्यस्य ‘ब्रह्मैव स्वाविद्यया संसरति’ इति भाष्यमात्रस्वारस्यमनुसृत्य अन्यथानयनायोगात् । न च उदाहृतश्रुतिस्मृतिभाष्याणां ब्रह्मात्मैकत्वपरत्वेन नानाजीववादे तात्पर्याभावात् तेभ्यो जीवनानात्वं न सिद्ध्यतीति वाच्यम् । एकजीववादेऽपि तात्पर्याभावस्य तुल्यत्वात् । न च जीवत्वोपाधिभूताया अविद्याया एकत्वात् जीवैक्यसिद्धिरिति वाच्यम् । उदाहृतश्रुतिस्मृतिभाष्यानुरोधेन अविद्यानानात्वाभ्युपगमसम्भवात् तदेकत्वश्रुत्यादीनां जात्यभिप्रायकत्वोपपत्तेः । अविद्याया एकत्वेऽपि ‘कार्योपाधिरयं जीवः’ इति श्रुत्यनुसारेण अन्तःकरणानामेव जीवत्वोपाधित्वोपगमसम्भवाच्च इति भावः ।
नानाजीववादे मतभेदेन बन्धमुक्तिव्यवस्थामुपपादयितुमारभते —
तेष्विति ।
नानाजीववादिषु मध्ये इत्यर्थः ।
केचिदिति ।
ननु नानाजीववादेऽपि जीवस्यान्तःकरणोपाधिकत्वपक्षे मूलाज्ञानस्य एकत्वेन शुकादितत्त्वज्ञानेनैव तस्य निवृत्तत्वात् इदानीं संसारानुपलब्धिप्रसङ्ग इत्याशयेन शङ्कते —
यद्यपीति ।
शुद्धब्रह्माश्रयेति ।
जीवेश्वरयोर्विशिष्टरूपयोरज्ञानाश्रयत्वं न सम्भवति । तयोः कल्पितत्वात् । तथा शुद्धस्यैवावृतत्वरूपं विषयत्वं न त्वीश्वरस्यापि, तस्य जीवान्तरवदौपाधिकभेदादेवानुपलब्धिसिद्धौ जीवान् प्रति ईश्वरस्य अज्ञानावृतत्वरूपविषयत्वकल्पनस्य व्यर्थत्वात् इति भावः ।
एकमेवेति ।
‘अजामेकां’ ‘मायां तु प्रकृतिं विद्यात्’ ‘विभेदजनकेऽज्ञाने’ इतिश्रुतिस्मृतिषु एकवचनश्रवणेन लाघवेन च तस्यैकत्वावगमात् इति भावः ।
तन्नाश एव चेति ।
‘भूयश्चान्ते विश्वमायानिवृत्तिः’ ‘अज्ञाने नाशमात्यन्तिकं गते’ इत्यादिश्रुतिस्मृतिषु सर्वानर्थमूलाज्ञाननिवृत्तेर्मोक्षत्वावगमात् इति भावः । एकस्य तत्त्वज्ञानेन कृत्स्नाज्ञाननाशो नाङ्गीक्रियते येन व्यवस्था न स्यात् । किं तु तस्य तस्य ज्ञानेन तत्तदन्तःकरणादिपरिणामिनो मूलज्ञानांशस्यैव नाश उपेयते । न च तस्य सांशत्वे मानाभाव इति वाच्यम् । जीवन्मुक्तौ आवरणशक्तिमदंशस्य नाशेऽपि विक्षेपशक्तिमदज्ञानांशस्य ज्ञानादनिवृत्तस्य यावद्विदेहकैवल्यमनुवृत्त्युपगमेन तस्य सांशत्वावगमात् ।
तथा च अज्ञानस्य अनिर्वचनीयस्य अनिर्वचनीयानामेव भागरूपांशानां अनन्तानां सम्भवात् तानादाय बन्धमुक्तिव्यवस्था सूपपादा इति परिहरति —
तथापीस्यादिना ।
अज्ञानसत्त्वं बन्धः तन्नाशो मोक्षः इति मतमुक्तम् । इदानीं चैतन्यस्याज्ञानसंबन्धो बन्धः, तदसंबन्धो मोक्षः न तु तन्निवृत्तिः । असंबन्धमात्रेणैव बन्धनिवृत्तिसिद्धेः ।
ज्ञानादज्ञाननिवृत्तिप्रतिपादकशास्त्रस्यापि तदसम्बन्धे एव तात्पर्योपपत्तेः, अन्यथा मूलाज्ञानस्य विरोधिज्ञानोदये सति तूलपिण्डस्य विरोध्यग्निसंसर्ग इव अवशेषासम्भवेन बन्धमुक्तिव्यवस्थाशास्त्रस्य जीवन्मुक्तिशास्त्रस्य च निरालम्बनत्वप्रसङ्गात्, इति मन्यमानानां मतमाह —
अन्ये त्विति ।
प्रथमं प्रकृतोपयोगिदृष्टान्तमाह —
यथेति ।
‘भूतले घटो न’ इत्यनुभवसिद्धो घटाभावस्त्रैकालिकत्वाभ्युपगमात् घटानयनानन्तरं तदधिकरणेऽपि भूतले वर्तत एव । तथा च घटवत्यपि भूतले घटो नास्तीति प्रतीतिः प्रमा स्यात् इतिदोषप्रसक्तौ तत्परिहाराय नैयायिकाः कल्पयन्ति - घटधिकरणे तदत्यन्ताभावस्य सम्बन्धाभावेन तत्र तत्प्रतीतेर्भ्रान्तित्वोपपत्तिः । न च घटसंयोगोत्पत्तेः पूर्वं भूतले सम्बन्धवतस्तस्य घटसंयोगकाले कथमवृत्तिरूपस्सम्बन्धाभाव इति वाच्यम् । प्रतीत्यनुसारेण भूतलादौ घटात्यन्ताभाववृत्तौ घटसंयोगस्य प्रागभावप्रध्वंसाभावयोः अन्यतराभावो नियामक इति कल्पनेन घटसंयोगाधिकरणभूतले घटाभावस्यासम्बन्धोपपत्तेरिति ।
तदेतन्मतं दृष्टान्तीकरोति —
न्यायैकदेशिमत इति ।
तद्वत्स्विति ।
घटसंयोगाभाववत्स्वित्यर्थः ।
तदुपाधिनेति ।
मन एवोपाधिः, तेनेत्यर्थः ।
क्वचिदिति ।
चैतन्यप्रदेशे इत्यर्थः । ब्रह्मदर्शनोत्पत्त्या मनसो निवृत्ताविति सम्बन्धः ।
ब्रह्मदर्शनं मनसो निवर्तकमित्यत्र मानमाह —
भिद्यते इति ।
हृदयग्रन्थिरित्यत्र हृदयपदमन्तःकरणपरम्, तच्चान्तःकरणं चिदात्मन्यध्यस्ततया तत्तादात्म्यापन्नं सत् ग्रन्थिरिव ग्रन्थिः, स च ब्रह्मदर्शने जाते ब्रह्मण्येव विलीयते इति श्रुत्यर्थः ।
अन्यत्रेति ।
चैतन्यप्रदेशान्तरेष्वित्यर्थः ।
नाज्ञानमिति ।
शुद्धचैतन्यस्य वेदान्तशास्त्रप्रतिपाद्यस्य नाज्ञानाश्रयत्वम्, तस्य ‘वेदान्तवेद्यं वस्तु न जानामि’ इत्यज्ञानविषयत्वेनैवानुभवात् इति भावः ।
जीवाश्रयमिति ।
‘न जानामि’ इत्यज्ञानाश्रयत्वेन जीवस्यैवानुभवात् । न च अज्ञानस्य स्वकार्यान्तःकरणविशिष्टचैतन्यरूपजीवाश्रितत्वमनुपपन्नमिति वाच्यम् । अन्तःकरणे यत् प्रतिबिम्बभूतं चैतन्यं तस्यैव जीवत्वाभ्युपगमेन विशिष्टस्य जीवत्वानुपगमात् । न चान्तःकरणस्य सादितया तद्गतप्रतिबिम्बस्यापि सादित्वात् कथं तस्य अनाद्यज्ञानाश्रयत्वमिति वाच्यम् । अन्तःकरणस्य स्वापादौ लयश्रवणेन जाग्रदादौ जन्मश्रवणेन च सादित्वावगमेऽपि तस्य स्थूलसूक्ष्मरूपेणानादितायाः ‘पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् [ब्र.सू.१-३-३१] इति सूत्रे व्यवस्थापितत्वात् । यथा पुंस्त्वस्त्रीत्वादेः शुक्लशोणितस्तनादिरूपस्य बाल्यादावनभिव्यक्तस्य यौवने प्रादुर्भावः, तथा अस्य अन्तःकरणस्य स्वापादावनभिव्यक्ततया सत एव स्थूलावस्थाप्राप्तिरूपाया अभिव्यक्तेर्युक्तत्वात्, असतश्शशशृङ्गादेरुत्पत्यदर्शनात्, इति सूत्रार्थः । अविद्याया अनादिचैतन्यप्रतिबिम्बाश्रितत्वस्य मायाऽविद्याभेदवादनिरूपणावसरे समर्थितत्वात् ।
प्रत्येकेति ।
द्वित्वबहुत्वादिवत् अज्ञानस्य सर्वजीवव्यक्तिषु व्यासज्ज्यवृत्तित्वे सर्वेषां प्रत्येकं ‘अहमज्ञः’ इति प्रत्यक्षं न स्यात्, व्यासज्ज्यवृत्तिधर्मप्रत्यक्षस्य यावदाश्रयप्रत्यक्षसापेक्षत्वेन एकैकस्य जीवस्य सर्वजीवप्रत्यक्षाभावात्, इत्यर्थः । वस्तुतस्तु अज्ञानस्य व्यासज्ज्यवृत्तित्वेऽपि तत्प्रत्यक्षस्य नित्यसाक्षिरूपतया यावदाश्रयप्रत्यक्षानपेक्षणात्, उक्तनियमस्य जन्यप्रत्यक्षविषयत्वात् इति मन्तव्यम् ।
कञ्चिदिति ।
उत्पन्नया विद्यया मनसो निवृत्तौ तन्निरूपितप्रतिबिम्बभावस्यापि निवृत्ततया तद्विशिष्टचैतन्यरूपव्यक्तिनाशादिति भावः । तथा च श्रुतिः — ‘जहात्येनां भुक्तभोगामजोऽन्यः’ इति । एनांअजाशब्दितामविद्यां, जीवेन भुक्ताः भोगाः यस्याः सा भुक्तभोगा, भुज्यन्त इति व्युत्पत्त्या भोगशब्दितानां विषयाणां अविद्यापरिणामत्वादिति भावः । अजः - जन्मरहितः अन्यः - उत्पन्नविद्यो जीवः - इति श्रुत्यर्थः ।
स एवेति ।
त्याग एवेत्यर्थः ।
अन्यमिति ।
अज्ञमिति भावः । तथा च श्रुतिः ‘अजो ह्येको जुषमाणोऽनुशेते’ इति । एकः पुनः अजःविवेकरहितः कार्यकरणसंघातरूपेण परिणतामविद्यां जुषमाणः - सेवमानः - तत्र अहम्ममाभिमानवान् सन् अनुशेते - तामनुसृत्य शेते - वर्तते - न जहातीति यावत् । अत्र अज्ञानं कंचिज्जहाति अन्यमाश्रित्यैव तिष्ठति इत्युक्त्यापि अज्ञानसम्बन्धासम्बन्धावेव बन्धमौक्षौ इत्युक्तं भवति । तदुक्तेरर्थान्तरासम्भवात् ।
अज्ञानसम्बन्धतदभावौ बन्धमोक्षौ इति मतद्वयमपि तस्य ज्ञाननाश्यत्वप्रतिपादकश्रुतिस्मृतिभाष्यादिस्वारस्यविरुद्धं मत्वा तदविरुद्धं मतमाह —
इतरे त्विति ।
अभ्युपगम्यैवेति ।
अविद्याभेदानुपगमे तत्सत्त्वतन्नाशरूपयोः बन्धमोक्षयोरुपपादयितुमशक्यत्वात् । न च तस्या एकत्वेऽपि अंशवत्त्वकल्पनया तन्नाशरूपो मोक्षः प्रागुपपादित इति वाच्यम् । विरोधिविद्योदये तदवस्थानायोगस्याप्युक्तत्वात् । न च जीवन्मुक्तौ तल्लेशानुवृत्यभ्युपगमविरोध इति वाच्यम् । अविद्यानाशेऽपि तत्संस्कारस्य यावत्प्रारब्धक्षयमनुवर्तमानस्य अविद्यालेशत्वेन विवक्षिततायाःसदृष्टान्तं वक्ष्यमाणत्वात् इति भावः ।