अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

जीवैकत्वनानात्वविचारः

जीव­स्ये­श्व­र­क­ल्प­कत्वे दृष्टान्तमाह —
स्वप्नेति ।
यथा स्वप्नद्रष्टा जीव एव परां देवतां सर्व­ज्ञ­त्वा­दि­ध­र्मै­स्स­हितां कल्पयति, कल्पयित्वा च ताम­ह­र्नि­श­मु­पास्ते, तदुपासनया चाभ्यु­द­य­नि­श्रे­य­स­ल­क्षणं फलं लभते, एवं जागरणेऽपि, इति दृष्टान्तादेः अभिप्रायः ।

जीवे­श्व­र­नि­रू­प­ण­प्र­स­ङ्गेन विचा­रा­न्त­र­मा­र­भते —
अथेति ।

अनुपदोक्तेति । ‘ब्रह्मैव स्वाविद्यया संसरति स्वविद्यया मुच्यते’ इत्या­दि­ग्र­न्थो­क्ते­त्यर्थः ।
एक इति ।
ब्रह्मण एकत्वात् तत्र च अव­च्छे­द­प्र­ति­बि­म्ब­भा­व­यो­र­न­ङ्गी­का­राच्च इत्यर्थः ।

ननु जीवैक्ये तेन एकमेव शरीरं सजीवं स्यात् न सर्वशरीराणि इत्या­श­ङ्का­मि­ष्टा­पत्त्या परिहरति —
तेन चेति ।

ननु यथा एकशरीरे हिता­हि­त­प्रा­प्ति­प­रि­हा­रा­र्थ­स्प­न्द­न­रूपा चेष्टा दृश्यते तथा सर्वशरीरेषु दृश्यते, तथा च कथमेकमेव शरीरं सजीवं, तत्राह —
अन्यानीति ।
स्वप्नदशायां स्वप्न­द्र­ष्टु­श्श­रीरं एकमेव सजीवम्, स्वप्नद्रष्ट्रा दृष्टान्यन्यानि शरीराणि तु चेष्टा­वि­शे­ष­व­त्तया दृश्यमानान्यपि सजीवानि न भवन्ति, तथा जागरणेऽपि इति द्रष्टव्यम् ।

ननु स्वाप्नस्य जगतः कल्पिका तावत् निद्रा अन्व­य­व्य­ति­रे­क­सिद्धा यथा वर्तते न तथा जाग्र­त्प्र­प­ञ्चस्य कल्पकं अन्व­य­व्य­ति­रे­क­सिद्धं किञ्चिदस्तीति जगत् सत्यमेव स्यात्, नेत्याह —
तदज्ञानेति ।
जीवा­ज्ञा­ने­त्यर्थः । अज्ञानस्य जगत्कल्पकत्वं शास्त्र­सि­द्ध­मिति भावः ।

ननु सर्वव्यवहारस्य स्वप्न­व्य­व­हा­र­वत् कल्पितत्वे तद्वदेव सहसा व्यवहारलोपः प्रसज्येत, तथा च विद्या­न­र्थ­क्य­मिति, नेत्याह —
तस्येति ।
जीवस्येत्यर्थः । याव­न्नि­द्रा­क्षयं स्वप्न­व्य­व­हा­रा­नु­वृ­त्ति­वत् विद्यया याव­द­वि­द्या­नि­वृत्ति सर्व­व्य­व­हा­रा­नु­वृ­त्ति­र्यु­ज्यते इति न विद्यावैफल्यम्, अवि­द्या­नि­वृ­त्त्य­र्थ­म­पे­क्षि­त­त्वात्, इति भावः ।

ननु - जीवैकत्वमते एको जीवो बद्धः अन्यो जीवो मुक्तः इति व्यवस्था शुका­दि­मु­क्ति­प्र­ति­पा­द­क­शा­स्त्र­सिद्धा न स्यात् - इत्याशङ्क्य इष्टा­प­त्ति­रि­त्याह —
बद्धेति ।

शुकेति ।
यथा स्वप्नादुत्थितः स्वप्न­भ्रा­न्ति­सिद्धां पुरु­षा­न्त­र­मुक्तिं परं प्रति बोधयति, तथा जीव­भ्रा­न्ति­सिद्धां शुकादिमुक्तिं तं प्रत्येव बोधयति श्रवणादिषु प्रवृ­त्त्यु­प­यो­गि­तया, इति भावः ।

ननु जीवैक्यमते विद्यो­प­दे­ष्टु­र­न्य­स्या­भा­वात् विद्योदयो न स्यात्, जीवे­श्व­र­वि­भा­गा­भा­वेन जीव­स्ये­श्व­रो­पा­स­ना­दि­व्य­व­हा­रश्च न स्यात्, इत्याशङ्क्याह —
अत्र चेति ।
यथा स्वप्नदशायां स्वप्नदृक् कंचित् गुरुमीश्वरं च कल्पयित्वा तावुपास्ते, ताभ्यां च विद्यादिकं लभते, तद्वदिति भावः ॥

एकजीववादे एव मतान्तरमाह —
अन्ये त्विति ।

एकशरीरेति ।
एकमेव शरीरं सजीवं यस्मि­न्ने­क­जी­व­वादे स तथोक्तः ।

मनःप्रत्ययमिति ।
मनसो विश्वासं, प्रामा­णि­क­त्व­नि­श्चयं इत्यर्थः । एकमेव शरीरं सजीवं शरीरान्तराणि निर्जीवानि इत्यत्र विनिगमकाभावः, न च जीवैक्यं विनिगमकमिति वाच्यम्, एकोऽपि जीवः कस्मिन् शरीरे वर्तते इत्यत्र विनिगमकस्य वक्तु­म­श­क्य­त्वात्, इति भावः ।

अधिकं त्विति ।
जीवाभिन्ने ईश्वरे वेदान्तानां प्रथमाध्याये निरू­पि­त­स्स­म­न्वयो न घटते । तथा सति ईश्व­र­ग­त­ज­ग­त्स्र­ष्टृ­त्वा­दे­र्जी­व­ध­र्म­त्व­प्र­स­ङ्गात् । तथा चानुभवविरोधः इति पूर्व­प­क्ष­नि­रा­सार्थः तुशब्दः । अधिकं - जीवादुपाधितो भिन्नं ब्रह्म जग­त्स्र­ष्टृ­त्व­स­र्व­ज्ञ­त्वा­दि­गु­ण­क­म­भ्यु­प­ग­म्यते । अतो न ब्रह्मधर्माणां जीवे प्रसक्तिः । औपाधिकभेदस्यापि धर्म­व्य­व­स्था­प­क­ताया लोकसिद्धत्वात् ।

कल्पि­त­भे­दा­ङ्गी­कारे हेतुमाह —
भेदनिर्देशादिति ।
‘य आत्मनि तिष्ठ­न्ना­त्मा­न­म­न्तरो यमयति’ इत्यादौ निय­म्य­नि­या­म­क­भा­वा­दिना भेदनिर्देशात् इति सूत्रार्थः । ‘लोकवत्’ इति सूत्रं पूर्वमेव व्याख्यातम् । अत्र आदिपदेन ‘अनुपपत्तेस्तु न शारीरः’ [ब्र.सू. १-२-३] इत्यादिसूत्रं गृह्यते । मनो­म­य­त्वा­दि­गु­णको न शरीरः । तस्मिन् सर्व­क­र्म­त्वा­दी­ना­म­नु­प­प­त्ते­रेव इति सूत्रार्थः ।

विरोधं चेति ।
मनः­प्र­त्य­य­म­ल­भ­मानाः विरोधं च मन्यमानाः इति चशब्दार्थः । जीव­ति­रि­क्ते­श्व­रा­भा­व­वा­देऽ­स्मिन् जग­त्सृ­ष्ट्या­दि­स­म­र्थस्य व्यावहारिकभेदवत ईश्वरस्य अस्ति­त्व­ज­ग­त्स्र­ष्टृ­त्व­स­र्वा­त्म­क­त्वा­दि­गु­ण­प्र­ति­पा­दकैः सूत्रैः विरोधमित्यर्थः ।

ब्रह्म­प्र­ति­बिम्ब इति ।
अनेन बिम्बभूतं ब्रह्म जीवा­द­धि­क­मी­श्व­र­रूपं अस्मिन् मतेऽस्ति अतो नोदा­हृ­त­सू­त्र­वि­रोधः इति सूचितम् ।

तदिति ।
ब्रह्म­प्र­ति­बि­म्ब­भू­त­हि­र­ण्य­ग­र्भस्य भौति­क­ज­ग­त्स्त्र­ष्टृ­तया कारणोपाधितया च मुख्यजीवस्य प्रतिबिम्बभूता अन्ये जीवा जीवाभासाः, तद्वत् सृष्ट्या­दि­सा­म­र्थ्या­भा­वात् इत्यर्थः ।

कल्पा इति ।
तुल्या इत्यर्थः ।

संसारादिभाज इति ।
अनेन यथा हिरण्यगर्भशरीरं मुख्यजीवेन सजीवं तथा इतराण्यपि शरीराणि जीवा­भा­सै­स्स­जी­वा­नीति पूर्व­म­ता­द्वि­शे­ष­स्सू­चितः । अत्रादिपदं मुक्ति­स­ङ्ग्र­हा­र्थम् । जीवाभासानां मुक्तिश्च स्वबि­म्ब­भू­त­हि­र­ण्य­ग­र्भ­प्रा­प्ति­क्र­मेण शुद्ध­ब्र­ह्म­प्राण्तिः इति मन्तव्यम् ।

सविशेषेति ।
सविशेषाणि — [मुख्या­मु­ख्य­वि­भा­गेन] सजीवानि अनेकशरीराणि यस्मि­न्ने­क­जी­व­वादे स तथा । आतिष्ठन्ते — अङ्गी­कु­र्व­न्ती­त्यर्थः ।

अत्राप्यस्वरसं वद­न्ने­क­जी­व­वा­द­मे­वाह —
अपरे त्विति ।

एक एवेति ।
अविद्यायां ब्रह्म­प्र­ति­बि­म्ब­रूपो जीवस्तावदेकः । अविद्याया एकत्वात् । स एव च सर्वं शरीरं स्वभो­गा­द्य­र्थ­म­धि­ति­ष्ठति । न तु ‘अविद्यायां ब्रह्म­प्र­ति­बिम्बो हिर­ण्य­ग­र्भ­श­री­र­म­धि­ति­ष्ठति अन्यानि तु शरीराणि तत्प्रतिबिम्बा जीवाभासा अधितिष्ठन्ति’ । कुतः, इतरजीवानां तत्प्र­ति­बि­म्बत्वे मानाभावात् इत्येवकारार्थः ।

अविशेषेणेति ।
मुख्या­मु­ख्य­वि­भागं विनेत्यर्थः । जीवभेदे हि सति कश्चिन्मुख्यो जीवः कश्चिच्चामुख्यो जीवाभासः इति विभा­ग­स्स­म्भ­वेत्, न त्वेतदस्ति, तस्यै­क­त्वा­भ्यु­प­ग­मात्, इति भावः ।

ननु देवदत्तस्य शिरः­पा­णि­पा­दा­न­धि­ति­ष्ठत एकस्य यथा ‘शिरसि मे वेदना पादे मे सुखम्’ इत्या­द्य­नु­स­न्धानं दृश्यते एवमेकस्यैव जीवस्य सर्व­श­री­रा­धि­ष्ठा­तृत्वे मम देवदत्तशरीरे सुखं यज्ञ­द­त्त­ना­म­क­श­रीरे दु:खं इत्यादिरूपेण सर्व­त्रा­नु­स­न्धा­न­प्र­सङ्गः, इति शङ्कते —
न चैवमिति ।

शरी­र­भे­द­स्या­न­नु­स­न्धा­न­प्र­यो­ज­क­त्वा­भ्यु­प­ग­मा­न्नो­क्ता­ति­प्र­सङ्गः, न च तत्र माना­भा­व­श्श­ङ्क­नीयः, जीवस्य अतीतशरीरेषु वर्तमानशरीरे चैकत्वेऽपि जन्मा­न्त­री­य­सु­खा­द्य­न­नु­स­न्धा­न­द­र्श­नेन तद्भेदस्य तत्प्रयोजकतायाः सम्प्र­ति­प­न्न­त्वात् इति परिहरति —
जन्मान्तरीयेति ।

ननु योगिनो देहभेदे सत्य­प्य­नु­स­न्धा­न­द­र्श­नात् व्यभिचार इत्यत आह —
योगिनस्त्विति ।
अस्म­दा­दि­वै­ल­क्ष­ण्या­र्थकः तुशब्दः ।

तद्दर्शयति —
कायेति ।
नह्यस्मदादीनां व्यव­हि­ता­र्थ­सा­क्षा­त्का­रोऽस्ति । तत्प्र­यो­ज­का­दृ­ष्ट­वि­शे­षा­भा­वात् । तथा च शरीरभेदमात्रं न तत्प्रयोजकं, किंतु अदृ­ष्ट­वि­शे­षा­स­ह­कृ­त­श­री­र­भे­दोऽ­न­नु­स­न्धा­न­प्र­यो­जकः, इति न योग्य­नु­स­न्धा­न­स्थले व्यभिचार इति भावः । योगपदं योगजादृष्टपरम् ।

अविशेषेति ।

अवि­शे­षे­णा­धि­ष्ठि­ता­न्य­ने­क­श­री­राणि यस्मि­न्ने­क­जी­व­वादे स तथेत्यर्थः ॥अ­ने­क­जी­व­वा­द­मु­त्था­प­यति —
इतरे त्विति ।

अत्रापीति ।
अव्य­व­हि­त­म­तेऽ­पी­त्यर्थः ।

यद्येकजीववादे व्यवस्था न सिद्ध्यति ततः को दोषः, इत्याशङ्क्य श्रुति­स्मृ­ति­भा­ष्या­णा­म­ना­ञ्जस्यं दोष इत्याह —
तद्योय इति ।
देवानां मध्ये यो यो देवः तत् - ब्रह्म प्रत्यबुध्यत साक्षा­त्कृ­त­वान्, स एव तत् - ब्रह्म अभवत्, नान्यो ब्रह्मबोधरहितः, इति विदुषो मुक्तत्वं अविदुषो बद्धत्वं च प्रतिपादयन्त्या श्रुत्या बन्ध­मु­क्ति­व्य­वस्था दर्शिता । आदिपदेन ‘अजामेकां’ इति श्रुतिः बन्ध­मु­क्ति­व्य­व­स्था­प्र­ति­पा­द­क­त्वेन भाष्य­का­रा­दि­भि­र­ङ्गी­कृता गृह्यते । श्रुतिग्रहणं ‘यद् गत्वा न निवर्तन्ते तद्धाम परमं मम’ [भ.गी. १५.६] इत्या­दि­स्मृ­ती­ना­मु­प­ल­क्ष­णम् ।

प्रतिषेधादिति ।
इदं पूर्व­प­क्ष­सू­त्रम् । बृहदारण्यके काण्वशाखायां ‘न तस्य प्राणा उत्क्रामन्ति’ इति वाक्येन पर­ब्र­ह्म­त­त्त्व­विदः प्राणो­त्क्रा­न्ति­प्र­ति­षे­धात् तस्य गत्युत्क्रान्ती न स्तः, उत्क्रा­न्ति­पू­र्व­क­त्वा­द्गतेः, इति चेदिति सिद्धा­न्ति­श­ङ्का­भा­गार्थः ।

पूर्वपक्षी तां दूषयति —
न शारीरादिति ।
बृहदारण्यक एव माध्य­न्दि­न­शा­खायां समानप्रकरणे ब्रह्मविदं शारीरं प्रकृत्य ‘न तस्मात् प्राणा उत्क्रामन्ति’ इति वाक्यं पठ्यते । अत्र तच्छब्देन प्रकृतः शारीरो गृह्यते, न शरीरम् । तस्य शरीरापेक्षया प्रधानत्वात् । तथा च ‘न तस्मात्’ इति वाक्येन शारीराज्जीवात् प्राणा­ना­मु­त्क्र­मणं निषिध्यते, न शरीरात् । अतः शरीरादुत्क्रमणं विदु­षोऽ­प्य­स्तीति तस्यापि गत्युत्क्रान्ती स्त एव । ‘न तस्य प्राणाः’ इति काण्व­वा­क्य­स्यापि तस्य विदुषः प्राणाः शारीरात् नोत्क्रामन्ति, किं तु तेन सहैव ब्रह्मलोकं गच्छन्ति इत्यर्थो बोध्यः ।

अनाञ्जस्यमिति ।
आञ्ज­स्या­भा­वः-उ­प­प­न्न­त्वा­भाव इत्यर्थः ।

अन्तःकरणानामिति ।
न च नानाजीववादेऽपि ‘ब्रह्मैव स्वाविद्यया संसरति, स्वविद्यया मुच्यते’ इत्यर्थेन बृह­दा­र­ण्य­क­भाष्ये प्रतिपादितेन विरोधस्तुल्य इति वाच्यम् । [तत्प्र­ति­पा­द­क­भा­ष्यस्य ] (तद्भा­ष्य­प्र­ति­पा­द­नस्य) ‘ब्रह्मैव स्वाविद्यया नाना­न्तः­क­र­ण­रू­पेण परिणतया नानाजीवभावं प्राप्य संसरति, स्वविद्यया क्रमेण मुच्यते’ इत्य­भि­प्रा­य­क­त्वो­प­पत्तेः । श्रुति­स्मृ­त्यु­पो­द्ब­लि­त­शु­का­दि­मु­क्ति­प्र­ति­पा­द­क­भा­ष्यस्य ‘ब्रह्मैव स्वाविद्यया संसरति’ इति भाष्य­मा­त्र­स्वा­र­स्य­म­नु­सृत्य अन्य­था­न­य­ना­यो­गात् । न च उदा­हृ­त­श्रु­ति­स्मृ­ति­भा­ष्याणां ब्रह्मा­त्मै­क­त्व­प­र­त्वेन नानाजीववादे तात्पर्याभावात् तेभ्यो जीवनानात्वं न सिद्ध्यतीति वाच्यम् । एकजीववादेऽपि तात्पर्याभावस्य तुल्यत्वात् । न च जीव­त्वो­पा­धि­भू­ताया अविद्याया एकत्वात् जीवै­क्य­सि­द्धि­रिति वाच्यम् । उदा­हृ­त­श्रु­ति­स्मृ­ति­भा­ष्या­नु­रो­धेन अवि­द्या­ना­ना­त्वा­भ्यु­प­ग­म­स­म्भ­वात् तदे­क­त्व­श्रु­त्या­दीनां जात्य­भि­प्रा­य­क­त्वो­प­पत्तेः । अविद्याया एकत्वेऽपि ‘कार्योपाधिरयं जीवः’ इति श्रुत्यनुसारेण अन्तःकरणानामेव जीव­त्वो­पा­धि­त्वो­प­ग­म­स­म्भ­वाच्च इति भावः ।

नानाजीववादे मतभेदेन बन्ध­मु­क्ति­व्य­व­स्था­मु­प­पा­द­यि­तु­मा­र­भते —
तेष्विति ।
नानाजीववादिषु मध्ये इत्यर्थः ।

केचिदिति ।

ननु नानाजीववादेऽपि जीव­स्या­न्तः­क­र­णो­पा­धि­क­त्व­पक्षे मूलाज्ञानस्य एकत्वेन शुका­दि­त­त्त्व­ज्ञा­ने­नैव तस्य निवृत्तत्वात् इदानीं संसा­रा­नु­प­ल­ब्धि­प्र­सङ्ग इत्याशयेन शङ्कते —
यद्यपीति ।

शुद्ध­ब्र­ह्मा­श्र­येति ।
जीवे­श्व­र­यो­र्वि­शि­ष्ट­रू­प­यो­र­ज्ञा­ना­श्र­यत्वं न सम्भवति । तयोः कल्पितत्वात् । तथा शुद्ध­स्यै­वा­वृ­त­त्व­रूपं विषयत्वं न त्वीश्वरस्यापि, तस्य जीवा­न्त­र­व­दौ­पा­धि­क­भे­दा­दे­वा­नु­प­ल­ब्धि­सिद्धौ जीवान् प्रति ईश्वरस्य अज्ञा­ना­वृ­त­त्व­रू­प­वि­ष­य­त्व­क­ल्प­नस्य व्यर्थत्वात् इति भावः ।
एकमेवेति ।
‘अजामेकां’ ‘मायां तु प्रकृतिं विद्यात्’ ‘विभे­द­ज­न­केऽ­ज्ञाने’ इति­श्रु­ति­स्मृ­तिषु एकवचनश्रवणेन लाघवेन च तस्यै­क­त्वा­व­ग­मात् इति भावः ।

तन्नाश एव चेति ।
‘भूयश्चान्ते विश्व­मा­या­नि­वृत्तिः’ ‘अज्ञाने नाशमात्यन्तिकं गते’ इत्या­दि­श्रु­ति­स्मृ­तिषु सर्वा­न­र्थ­मू­ला­ज्ञा­न­नि­वृ­त्ते­र्मो­क्ष­त्वा­व­ग­मात् इति भावः । एकस्य तत्त्वज्ञानेन कृत्स्ना­ज्ञा­न­नाशो नाङ्गीक्रियते येन व्यवस्था न स्यात् । किं तु तस्य तस्य ज्ञानेन तत्त­द­न्तः­क­र­णा­दि­प­रि­णा­मिनो मूल­ज्ञा­नां­श­स्यैव नाश उपेयते । न च तस्य सांशत्वे मानाभाव इति वाच्यम् । जीवन्मुक्तौ आव­र­ण­श­क्ति­म­दं­शस्य नाशेऽपि विक्षे­प­श­क्ति­म­द­ज्ञा­नां­शस्य ज्ञाना­द­नि­वृ­त्तस्य याव­द्वि­दे­ह­कै­व­ल्य­म­नु­वृ­त्त्यु­प­ग­मेन तस्य सांशत्वावगमात् ।

तथा च अज्ञानस्य अनिर्वचनीयस्य अनि­र्व­च­नी­या­ना­मेव भागरूपांशानां अनन्तानां सम्भवात् तानादाय बन्ध­मु­क्ति­व्य­वस्था सूपपादा इति परिहरति —
तथापीस्यादिना ।
अज्ञानसत्त्वं बन्धः तन्नाशो मोक्षः इति मतमुक्तम् । इदानीं चैत­न्य­स्या­ज्ञा­न­सं­बन्धो बन्धः, तदसंबन्धो मोक्षः न तु तन्निवृत्तिः । असं­ब­न्ध­मा­त्रे­णैव बन्ध­नि­वृ­त्ति­सिद्धेः ।

ज्ञाना­द­ज्ञा­न­नि­वृ­त्ति­प्र­ति­पा­द­क­शा­स्त्र­स्यापि तदसम्बन्धे एव तात्प­र्यो­प­पत्तेः, अन्यथा मूलाज्ञानस्य विरोधिज्ञानोदये सति तूलपिण्डस्य विरो­ध्य­ग्नि­सं­सर्ग इव अवशेषासम्भवेन बन्ध­मु­क्ति­व्य­व­स्था­शा­स्त्रस्य जीव­न्मु­क्ति­शा­स्त्रस्य च निरा­ल­म्ब­न­त्व­प्र­स­ङ्गात्, इति मन्यमानानां मतमाह —
अन्ये त्विति ।

प्रथमं प्रकृ­तो­प­यो­गि­दृ­ष्टा­न्त­माह —
यथेति ।
‘भूतले घटो न’ इत्यनुभवसिद्धो घटा­भा­व­स्त्रै­का­लि­क­त्वा­भ्यु­प­ग­मात् घटानयनानन्तरं तदधिकरणेऽपि भूतले वर्तत एव । तथा च घटवत्यपि भूतले घटो नास्तीति प्रतीतिः प्रमा स्यात् इतिदोषप्रसक्तौ तत्परिहाराय नैयायिकाः कल्पयन्ति - घटधिकरणे तदत्यन्ताभावस्य सम्बन्धाभावेन तत्र तत्प्र­ती­ते­र्भ्रा­न्ति­त्वो­प­पत्तिः । न च घट­सं­यो­गो­त्पत्तेः पूर्वं भूतले सम्बन्धवतस्तस्य घटसंयोगकाले कथ­म­वृ­त्ति­रू­प­स्स­म्ब­न्धा­भाव इति वाच्यम् । प्रतीत्यनुसारेण भूतलादौ घटा­त्य­न्ता­भा­व­वृत्तौ घटसंयोगस्य प्राग­भा­व­प्र­ध्वं­सा­भा­वयोः अन्यतराभावो नियामक इति कल्पनेन घट­सं­यो­गा­धि­क­र­ण­भू­तले घटा­भा­व­स्या­स­म्ब­न्धो­प­प­त्ते­रिति ।

तदेतन्मतं दृष्टान्तीकरोति —
न्यायैकदेशिमत इति ।

तद्वत्स्विति ।
घट­सं­यो­गा­भा­व­व­त्स्वि­त्यर्थः ।

तदुपाधिनेति ।
मन एवोपाधिः, तेनेत्यर्थः ।

क्वचिदिति ।
चैतन्यप्रदेशे इत्यर्थः । ब्रह्म­द­र्श­नो­त्पत्त्या मनसो निवृत्ताविति सम्बन्धः ।

ब्रह्मदर्शनं मनसो निवर्तकमित्यत्र मानमाह —
भिद्यते इति ।
हृद­य­ग्र­न्थि­रि­त्यत्र हृद­य­प­द­म­न्तः­क­र­ण­प­रम्, तच्चान्तःकरणं चिदा­त्म­न्य­ध्य­स्त­तया तत्ता­दा­त्म्या­पन्नं सत् ग्रन्थिरिव ग्रन्थिः, स च ब्रह्मदर्शने जाते ब्रह्मण्येव विलीयते इति श्रुत्यर्थः ।

अन्यत्रेति ।
चैत­न्य­प्र­दे­शा­न्त­रे­ष्वि­त्यर्थः ।

नाज्ञानमिति ।
शुद्धचैतन्यस्य वेदा­न्त­शा­स्त्र­प्र­ति­पा­द्यस्य नाज्ञा­ना­श्र­य­त्वम्, तस्य ‘वेदान्तवेद्यं वस्तु न जानामि’ इत्य­ज्ञा­न­वि­ष­य­त्वे­नै­वा­नु­भ­वात् इति भावः ।

जीवाश्रयमिति ।
‘न जानामि’ इत्य­ज्ञा­ना­श्र­य­त्वेन जीव­स्यै­वा­नु­भ­वात् । न च अज्ञानस्य स्वका­र्या­न्तः­क­र­ण­वि­शि­ष्ट­चै­त­न्य­रू­प­जी­वा­श्रि­त­त्व­म­नु­प­प­न्न­मिति वाच्यम् । अन्तःकरणे यत् प्रतिबिम्बभूतं चैतन्यं तस्यैव जीव­त्वा­भ्यु­प­ग­मेन विशिष्टस्य जीवत्वानुपगमात् । न चान्तःकरणस्य सादितया तद्ग­त­प्र­ति­बि­म्ब­स्यापि सादित्वात् कथं तस्य अना­द्य­ज्ञा­ना­श्र­य­त्व­मिति वाच्यम् । अन्तःकरणस्य स्वापादौ लयश्रवणेन जाग्रदादौ जन्मश्रवणेन च सादित्वावगमेऽपि तस्य स्थूल­सू­क्ष्म­रू­पे­णा­ना­दि­तायाः ‘पुंस्त्वा­दि­व­त्त्वस्य सतोऽ­भि­व्य­क्ति­यो­गात् [ब्र.सू.१-३-३१] इति सूत्रे व्यव­स्था­पि­त­त्वात् । यथा पुंस्त्व­स्त्री­त्वादेः शुक्ल­शो­णि­त­स्त­ना­दि­रू­पस्य बाल्या­दा­व­न­भि­व्य­क्तस्य यौवने प्रादुर्भावः, तथा अस्य अन्तःकरणस्य स्वापा­दा­व­न­भि­व्य­क्त­तया सत एव स्थूला­व­स्था­प्रा­प्ति­रू­पाया अभि­व्य­क्ते­र्यु­क्त­त्वात्, अस­त­श्श­श­शृ­ङ्गा­दे­रु­त्प­त्य­द­र्श­नात्, इति सूत्रार्थः । अविद्याया अना­दि­चै­त­न्य­प्र­ति­बि­म्बा­श्रि­त­त्वस्य मायाऽ­वि­द्या­भे­द­वा­द­नि­रू­प­णा­व­सरे समर्थितत्वात् ।

प्रत्येकेति ।
द्वित्व­ब­हु­त्वा­दि­वत् अज्ञानस्य सर्व­जी­व­व्य­क्तिषु व्यास­ज्ज्य­वृ­त्तित्वे सर्वेषां प्रत्येकं ‘अहमज्ञः’ इति प्रत्यक्षं न स्यात्, व्यास­ज्ज्य­वृ­त्ति­ध­र्म­प्र­त्य­क्षस्य याव­दा­श्र­य­प्र­त्य­क्ष­सा­पे­क्ष­त्वेन एकैकस्य जीवस्य सर्व­जी­व­प्र­त्य­क्षा­भा­वात्, इत्यर्थः । वस्तुतस्तु अज्ञानस्य व्यास­ज्ज्य­वृ­त्ति­त्वेऽपि तत्प्रत्यक्षस्य नित्य­सा­क्षि­रू­प­तया याव­दा­श्र­य­प्र­त्य­क्षा­न­पे­क्ष­णात्, उक्तनियमस्य जन्य­प्र­त्य­क्ष­वि­ष­य­त्वात् इति मन्तव्यम् ।

कञ्चिदिति ।
उत्पन्नया विद्यया मनसो निवृत्तौ तन्नि­रू­पि­त­प्र­ति­बि­म्ब­भा­व­स्यापि निवृत्ततया तद्वि­शि­ष्ट­चै­त­न्य­रू­प­व्य­क्ति­ना­शा­दिति भावः । तथा च श्रुतिः — ‘जहात्येनां भुक्त­भो­गा­म­जोऽन्यः’ इति । एनां­अ­जा­श­ब्दि­ता­म­विद्यां, जीवेन भुक्ताः भोगाः यस्याः सा भुक्तभोगा, भुज्यन्त इति व्युत्पत्त्या भोगशब्दितानां विषयाणां अवि­द्या­प­रि­णा­म­त्वा­दिति भावः । अजः - जन्मरहितः अन्यः - उत्पन्नविद्यो जीवः - इति श्रुत्यर्थः ।

स एवेति ।
त्याग एवेत्यर्थः ।

अन्यमिति ।
अज्ञमिति भावः । तथा च श्रुतिः ‘अजो ह्येको जुषमाणोऽनुशेते’ इति । एकः पुनः अजःविवेकरहितः कार्य­क­र­ण­सं­घा­त­रू­पेण परिणतामविद्यां जुषमाणः - सेवमानः - तत्र अह­म्म­मा­भि­मा­न­वान् सन् अनुशेते - तामनुसृत्य शेते - वर्तते - न जहातीति यावत् । अत्र अज्ञानं कंचिज्जहाति अन्यमाश्रित्यैव तिष्ठति इत्युक्त्यापि अज्ञा­न­स­म्ब­न्धा­स­म्ब­न्धा­वेव बन्धमौक्षौ इत्युक्तं भवति । तदु­क्ते­र­र्था­न्त­रा­स­म्भ­वात् ।

अज्ञा­न­स­म्ब­न्ध­त­द­भावौ बन्धमोक्षौ इति मतद्वयमपि तस्य ज्ञान­ना­श्य­त्व­प्र­ति­पा­द­क­श्रु­ति­स्मृ­ति­भा­ष्या­दि­स्वा­र­स्य­वि­रुद्धं मत्वा तदविरुद्धं मतमाह —
इतरे त्विति ।

अभ्युपगम्यैवेति ।
अवि­द्या­भे­दा­नु­प­गमे तत्स­त्त्व­त­न्ना­श­रू­पयोः बन्ध­मो­क्ष­यो­रु­प­पा­द­यि­तु­म­श­क्य­त्वात् । न च तस्या एकत्वेऽपि अंश­व­त्त्व­क­ल्प­नया तन्नाशरूपो मोक्षः प्रागुपपादित इति वाच्यम् । विरोधिविद्योदये तद­व­स्था­ना­यो­ग­स्या­प्यु­क्त­त्वात् । न च जीवन्मुक्तौ तल्ले­शा­नु­वृ­त्य­भ्यु­प­ग­म­वि­रोध इति वाच्यम् । अविद्यानाशेऽपि तत्संस्कारस्य याव­त्प्रा­र­ब्ध­क्ष­य­म­नु­व­र्त­मा­नस्य अविद्यालेशत्वेन विव­क्षि­त­ता­याः­स­दृ­ष्टान्तं वक्ष्यमाणत्वात् इति भावः ।