अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

जीवेश्वरयोः मतभेदेन स्वरूपनिरूपणम्

पूर्वत्र ईश्वरस्य जग­दु­पा­दा­न­त्व­मु­क्तम् । जीवा­श्रि­त­मा­ये­त्यादौ जीवोऽपि व्यवहृतः ।इदानीं तयोः स्वरूपं निरूपयितुं प्रश्नमवतारयति —
अथेति ।
‘मायां तु प्रकृतिम्’ इति श्रुतौ या भूतप्रकृतित्वेन माया प्रसिद्ध तस्यां चैत­न्य­प्र­ति­बिम्ब ईश्वरः ।

ननु ‘मायिनं तु महेश्वरम्’ इति वाक्यशेषे मायाया ईश्व­रा­श्रि­त­त्व­प्र­ति­पा­द­नात् ईश्वरस्य माया­प्र­ति­बि­म्बत्वं न सम्भवति, उपाधेः प्रति­बि­म्बा­श्रि­त­त्वा­द­र्श­नात्, इति शङ्कां निराचष्टे —
चिन्मा­त्र­सं­ब­न्धि­नीति ।
चिन्मा­त्रा­श्रि­ते­त्यर्थः । मात्रपदेन बिम्बत्वादेः व्यवच्छेदः । वाक्यशेषेऽपि महेश्वरपदं चिन्मा­त्र­ल­क्ष­क­मिति भावः ।

साङ्ख्या­भि­म­त­प्र­कृ­ते­रिव माया­या­स्स­त्यत्वं वारयति —
अनिर्वाच्येति ।
माया तावत् ब्रह्मचैतन्यात् न वस्तुतो भिन्ना । ब्रह्म­व्य­ति­रि­क्त­स­र्व­मि­थ्या­त्व­प्र­ति­पा­द­क­श्रु­ति­वि­रो­धेन वस्तुतः तस्यास्ततो भेदासम्भवात् । नाप्यभिन्ना । चैत­न्य­ज­ड­यो­रै­क्या­यो­गात् । नापि चैत­न्या­द्भि­न्ना­भिन्ना । एकत्र भिन्न­त्वा­भि­न्न­त्व­यो­र्वि­रो­धे­ना­स­म्भ­वात् । एवं न तावत् माया सती । अद्वै­त­श्रु­ति­वि­रो­धा­देव । नाप्यसती । भूत­प्र­कृ­ति­त्वा­नु­प­पत्तेः । नापि सदसती । सत्त्वा­स­त्त्व­यो­रे­कत्र विरोधात् । एवं न तावत् माया सावयवा । तस्या­स्सा­दि­त्व­प्र­स­ङ्गेन तत्प्र­ति­बि­म्ब­भू­ते­श्व­र­स्यापि सादि­त्व­प्र­स­ङ्गात् । माया­या­स्सा­दित्वे तत्प्रकृतित्वेन माया­न्त­रा­पे­क्षा­या­म­न­व­स्था­प्र­स­ङ्गाञ्च । नापि निरवयवा । प्रकृ­ति­त्वा­भा­व­प्र­स­ङ्गात् । साव­य­व­प­दा­र्था­ना­मेव लोके प्रकृ­ति­त्व­द­र्श­नात् । नाप्युभयरूपा । साव­य­व­त्व­नि­र­व­य­व­त्व­यो­रे­कत्र विरोधात् । तस्मात् सर्वप्रकारेण निर्व­क्तु­म­श­क्य­तया माया अनि­र्वा­च्ये­त्यर्थः । तस्याः परि­च्छि­न्ना­न­न्त­प्र­दे­शेषु चैत­न्य­प्र­ति­बिम्बो जीवः, न साक्षा­त्त­स्या­मेव चित्प्रतिबिम्बो जीवः इत्येवकारार्थः । प्रदेशानां परि­च्छि­न्न­त्व­वि­शे­षणं तत्प्र­ति­बि­म्ब­रू­प­जी­वानां परि­च्छि­न्न­त्व­ला­भा­र्थम् । तथा च भाष्ये तत्र तत्र जीवानां परि­च्छि­न्न­त्व­नि­रू­पणं सङ्गच्छते । तथा हि — ‘सर्वत्र प्रसि­द्धो­प­दे­शात्’ [ब्र.सू. १-२-१/१] इत्यधिकरणे सौत्र­शा­री­र­प­द­व्या­ख्या­न­रूपं भाष्यम् — ‘शारीर इति शरीरे भव इत्यर्थः । नन्वीश्वरोऽपि शरीरे भवति । सत्यं शरीरे भवति । न तु शरीर एव भवति …. …. …. …. ‘आकाशवत् सर्वगतश्च नित्यः’ इति व्यापि­त्व­श्र­व­णात् । जीवस्तु शरीर एव भवति । तस्य भोगा­धि­ष्ठा­ना­च्छ­री­रा­द­न्यत्र वृत्त्यभावात्’ इति । तथा द्युभ्वा­द्य­धि­क­रण [ब्र.सू. १-३-१/१] गतं भाष्यम् — ‘न चोपा­धि­प­रि­च्छि­न्न­स्या­विभोः प्राणभृतो द्युभ्वा­द्या­य­त­न­त्व­मपि सम्यक् सम्भवति’ इति । प्राणभृतः - जीवस्य द्युभ्वा­दि­श­ब्दि­त­ज­ग­दा­य­त­नत्वं मुख्यं न सम्भवति अविभुत्वात् इति भाष्यार्थः । पट­स्या­र­म्भ­क­त­न्तव इव मायाया न प्रदेशास्सन्ति । तस्या अनादित्वात् ।

किं तु मायायां विक्षे­पा­व­र­ण­श­क्ती­ना­मा­न­न्त्यात् विक्षे­पा­व­र­ण­श­क्ति­म­द्भागा एव प्रदेशा विवक्षिता इत्याशयेनाह —
आव­र­ण­वि­क्षे­प­श­क्ति­म­त्स्विति ।
ब्रह्म­चै­त­न्या­व­र­णा­नु­कूला शक्ति­रा­व­र­ण­शक्तिः । आवरणं च ‘ब्रह्म नास्ति न प्रकाशते’ इति व्यव­हा­र­यो­ग्य­त्वम् । विक्षेपपदेन तत्त­ज्जी­वा­सा­धा­र­ण­दुः­खा­दिकं विवक्षितम् । तदनुकूलशक्तिः विक्षे­प­श­क्ति­रि­त्यर्थः ।

ननु - मायाप्रदेशानां जीवो­पा­धि­त्व­व­र्ण­न­म­नु­प­प­न्नम्, आनु­मा­नि­का­धि­क­र­ण­भा­ष्यादौ अविद्याया जीवो­पा­धि­त्व­व्य­व­हा­र­वि­रो­ध­प्र­स­ङ्गात्, अत आह —
अवि­द्या­भि­धा­ने­ष्विति ।
माया­प्र­दे­शा­ना­मेव भाष्य­ग­ता­वि­द्या­प­दा­भि­ल­प्य­त्वात् न तद्विरोध इति भावः । एकस्यामेव मूलप्रकृतौ प्रदे­श­प्र­दे­शि­भा­वेन अनिर्वचनीयं भेदं कल्पयित्वा जीवेश्वरयोः प्रति­बि­म्ब­रू­प­त्व­मु­क्तम् ।

इदानीं तस्यामेव प्रकारान्तरेण रूपभेदं कल्पयित्वा तदुपपादयति —
तत्त्वविवेके त्विति ।
भेद­क­ल्प­ना­वै­ल­क्ष­ण्य­द्यो­त­नार्थः ‘तु’ शब्दः ।

रूपभेदाविति ।
स्तः इति शेषः । रज­स्त­मोऽ­न­भि­भू­त­त्व­मेव शुद्धत्वम् । शुद्ध­स­त्व­प्र­धाना प्रकृतिः माया, मलिनसत्वप्रधाना प्रकृतिः अविद्या, इत्यर्थः । रज­स्त­मोऽ­भि­भू­त­त्व­मेव सत्वस्य मलिनत्वम् ।

सत्व­शु­द्ध्य­शु­द्धिभ्यां माया­त्वा­वि­द्या­त्वाख्यौ श्रुत्यु­क्त­रू­प­भेदौ निरूप्य विक्षे­पा­व­र­ण­श­क्ति­भे­देन श्रुत्यु­क्त­रू­प­भे­दा­वेव निरूपयति —
एकैवेति ।

अत एवेति ।
जीव­स्या­व­र­ण­श­क्ति­म­दु­पा­धि­म­त्त्वा­दे­वे­त्यर्थः ।

तस्या इति ।
जीवे­श्व­रो­पा­धि­भू­तायाः प्रकृतेः प्रति­बि­म्ब­रू­प­जी­वे­श्व­र­सा­धा­र­ण­बि­म्ब­चै­त­न्या­श्रि­त­त्वेऽ­पी­त्यर्थः ।

नेश्वरस्येति ।
अत्रापि ‘अत एव’ इत्यस्य अनुषङ्गः । आवरणशक्तेः ईश्वरोपाधिकोटौ अननुप्रवेशादेव — इति तदर्थः । तथा चा जीवेश्वरौ प्रति प्रकृ­ते­स्सा­धा­र­ण­त्वात् एकस्य सर्वज्ञत्वं अपरस्याज्ञत्वं इति यद्वैलक्षण्यं श्रुत्य­नु­भ­व­सिद्धं, तत् कथं सम्भवतीति शङ्काया अनवकाश इति भावः ।

मतान्तरमाह —
संक्षेपेति ।

श्रुतौ कार­ण­प­द­म­वि­द्या­परं कार्य­प­द­म­न्तः­क­र­ण­परं इति मत्वा आह —
अवि­द्या­या­मि­त्या­दिना ।
ननु ‘जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति’ इति श्रुतिविरोधः, तस्यां श्रुतौ जीवस्य कार­णो­पा­धि­क­त्व­प्र­तीतेः, इति चेत् उच्यते — ‘जीवेशावाभासेन करोति’ इति पूर्वभागेन हि जीवे­श्व­र­यो­रु­भ­यो­रपि प्रतिबिम्बभावः प्रतीयते । न च बिम्बिक्सस्थले उपाधिभेदं विना प्रति­बि­म्ब­भे­द­स्स­म्भ­वति । सूर्या­दि­प्र­ति­बि­म्ब­स्थले उपाधिभेदं विना प्रति­बि­म्ब­भे­दा­द­र्श­नात् । तथा च उदात्दृतश्रुतौ प्रति­बि­म्ब­रू­पयोः जीवे­श­यो­र्य­था­क्रमं माया­वि­द्या­प­दा­भ्या­मु­पाधी समर्प्येते । मायापदं चात्र माया­का­र्या­न्तः­क­र­ण­प­रम् । न चैवं मूलप्रकृतिं प्रकृत्य प्रवृत्तायां ‘जीवेशौ’ इतिश्रुतौ ‘माया चाविद्या च स्वयमेव भवति’ इति वाक्येन मायाऽ­वि­द्य­यो­रु­भ­यो­रपि मूल­प्र­कृ­त्य­भे­दो­प­पा­द­न­वि­रोधः इति वाच्यम् । मूल­प्र­कृ­त्य­वि­द्य­यो­रिव माया­श­ब्दि­ता­न्तः­क­र­ण­मू­ल­प्र­कृत्योः मुख्या­भे­दा­भा­वेऽपि प्रकृ­ति­वि­का­र­भा­व­प्र­यु­क्ता­भे­द­स­त्त्वेन तावता ‘माया चाविद्या च स्वयमेव भवति’ इति वाक्य­शे­षो­प­प­त्ते­रिति भावः । ननु - अवि­द्या­व­च्छि­न्न­चै­त­न्य­मेव ईश्वरोऽस्तु । तथा अन्तः­क­र­णा­व­च्छि­न्न­चै­त­न्य­मेव च जीवोऽस्तु ।

अवि­द्या­न्तः­क­र­णा­धि­ष्ठा­न­चै­त­न्य­यो­स्त­द­व­च्छि­न्न­त्वस्य कॢप्तत्वात् तद­ति­रि­क्त­प्र­ति­बि­म्ब­क­ल्प­नायां गौरवाच्च इत्याशयेन शङ्कते -
न चेति ।
न तु प्रति­बि­म्ब­चै­त­न्य­मिति एवकारार्थः । जीव­ग्र­ह­ण­मी­श्व­र­स्या­प्यु­प­ल­क्ष­णम् ।

जीवेश्वरयोः प्रति­बि­म्ब­ता­याः­श्रु­ति­सि­द्ध­त्वात् न कल्प­ना­गौ­र­व­दो­षोऽस्ति इत्यभिप्रेत्य जीव­स्या­व­च्छि­न्न­त्व­पक्षे दोषमाह —
इहेति ।
अस्मिन् लोके ब्राह्म­णा­दि­श­री­र­ग­ता­न्तः­क­र­णा­व­च्छि­न्न­चै­त­न्य­प्र­दे­शस्य कर्मकर्तृत्वात् लोकान्तरे देवा­दि­श­री­र­ग­ता­न्तः­क­र­णा­व­च्छि­न्न­चै­त­न्य­प्र­दे­शस्य चाक­र्तुः­भो­क्तृ­त्वात् कृत­हा­ना­दि­प्र­सङ्गः । येन कर्म कृतं न तस्य भोगः, येन कर्म न कृतं तस्य अकृ­त­क­र्म­फ­ला­भ्या­गमः, इत्यर्थः । न च ब्राह्म­णा­दि­श­री­र­ग­त­स्यै­वा­न्तः­क­र­णस्य लोकान्तरे गमनाभ्युपगमात् तद­व­च्छि­न्न­चै­त­न्य­प्र­दे­श­स्यैव तत्रापि गमनमस्तु इति वाच्यम् । घटस्य देशान्तरगमनेऽपि तद­व­च्छि­न्ना­का­श­प्र­दे­शस्य गमनादर्शनात् इति भावः । प्रति­बि­म्ब­स्या­व­च्छे­द्य­चै­त­न्या­पे­क्षया वैल­क्ष­ण्य­द्यो­त­नार्थः ‘तु’ शब्दः ।

गतागतयोरिति ।
गम­ना­ग­म­न­यो­स्स­तो­रपि अव­च्छे­द्य­प्र­दे­श­वत् न भिद्यते इत्यर्थः । सूर्या­दि­प्र­ति­बि­म्ब­वति जलपूर्णघटादौ देशान्तरं नीयमानेऽपि प्रति­बि­म्ब­भे­दा­द­र्श­ना­दिति भावः ।

ननु चन्द्रा­दि­प्र­ति­बि­म्ब­वतां जलपात्राणां मध्ये एकस्य नाशे तद्गततया प्रतीतस्य प्रतिबिम्बस्य बिम्बेनैकीभावः प्रत्य­क्षे­णा­नु­भू­यते, न तथा प्रति­बि­म्बा­न्त­रेण, एवं प्रति­बि­म्ब­रू­प­जी­व­स्यापि विदेहकैवल्यसमये बिम्ब­भू­त­शु­द्ध­ब्र­ह्म­भाव एव स्यात्, न तु प्रति­बि­म्बे­श्व­र­भा­वा­पत्तिः दृष्टविरोधात्, इत्या­श­ङ्का­मि­ष्टा­पत्त्या परिहरति —
एवमुक्तेष्विति ।

बिम्ब­स्था­नी­य­मिति ।
लोक­प्र­सि­द्ध­च­न्द्रा­दि­रू­प­बि­म्ब­स्था­नी­य­मि­त्यर्थः । ननु बिम्ब­त्व­वि­शि­ष्ट­चै­तन्यं कथं शुद्धमिति चेत्, न । शुद्धपदेन सर्व­ज्ञ­त्व­स­र्व­क­र्तृ­त्वा­दि­ध­र्म­रा­हि­त्यस्य विवक्षितत्वात् इति । चित्रदीपे चित्त्रै­वि­ध्य­प्र­क्रियां विहाय चैतन्यस्य चातुर्विध्यं परिकल्प्य जीवेश्वरविभागो दर्शित इति सम्बन्धः । तथा च चित्रदीपवचनम् - ‘कूटस्थो ब्रह्म जीवेशौ इत्येवं चिच्चतुर्विधा । घटाकाशमहाकाशौ जलाकाशाभ्रखे यथा ॥’ [पं.द.६-१८] इति ।

एत­च्छ्लो­को­पा­त्त­दृ­ष्टा­न्त­भागं संगृह्णाति —
यथेत्यादिना ।

तदाश्रित इति ।
घट­स्था­का­शा­श्रिते इत्यर्थः । अभ्र­न­क्ष­त्र­सा­हि­त्य­वि­शे­षणं आकाशस्य जले प्रति­बि­म्बा­भा­व­श­ङ्का­नि­रा­सा­र्थम् । इत्थं च तन्निरासप्रकारो विवक्षितः — यदा जलेऽ­भ्र­न­क्ष­त्राणां प्रति­बि­म्बोऽ­नु­भू­यते तदा तैस्सह आका­श­प्र­ति­बि­म्बोऽ­प्य­नु­भू­यत एव इति नाका­श­प्र­ति­बि­म्बा­भा­व­श­ङ्का­व­काश इति ।

अनवच्छिन्न इति ।
घटानवच्छिन्न इत्यर्थः । मेघमण्डले ये जलरूपास्तदवयवाः तेषु प्रतिबिम्बित इति सम्बन्धः । तच्छब्दो मेघमण्डलपरः ।

मेघमण्डले जलानि सन्ति चेत् कुतो नोपलभ्यन्ते इत्याशङ्का न कार्या, तेषां तुषारवत् सूक्ष्म­रू­प­त्वात् इत्याशयेनाह —
तुषारेति ।

तत्र जलसत्त्वे मानमाह—
वृष्टिलक्षणेति ।

श्लोको­पा­त्त­दा­र्ष्टा­न्ति­क­भागं संगृह्णाति —
तथेति ।

सूक्ष्मेति ।
घ्राण­र­स­न­च­क्षु­श्श्रो­त्र­त्व­गा­ख्यानि पञ्च ज्ञाने­न्द्रि­याणि, वाक्पा­णि­पा­द­पा­यू­प­स्था­ख्यानि पञ्च कर्मे­न्द्रि­याणि, प्राणापानादयः पञ्च वायवः, मनो बुद्धिश्च इत्यन्तःकरणं द्विविधम्, आहत्य सप्तदशकं लिङ्गशरीरं घटस्थानीयं (दार्ष्टा­न्तिके) सूक्ष्म­दे­ह­श­ब्दार्थः । देह­द्व­या­व­च्छिन्नं चैतन्यं घटाकाशस्थानीयं कूटस्थशब्दार्थः । चैतन्यस्य देह­द्व­या­व­च्छि­न्नत्वे हेतुः अधिष्ठानतया वर्तमानत्वम् । काष्ठ­वि­शे­ष­ल­ग्ना­यः­पि­ण्ड­वि­शेषः कूटशब्दार्थः, तद्वदचलतया तिष्ठतीति कूटस्थः, तत्र कूटस्थे कल्पितं घटगतजलस्थानीयं यदन्तःकरणं तस्मिन् प्रति­बि­म्बि­त­मि­त्यर्थः ।

कूट­स्थ­चै­त­न्या­ति­रि­क्त­चि­दा­भास कल्पनायाः प्रयोजनमाह —
संसारेति ।
कूटस्थचैतन्यस्य न संसाराश्रयत्वं, तस्य जन्म­म­र­णा­दि­ल­क्ष­ण­सं­सा­रा­श्र­यत्वे कूट­स्थ­त्व­व्या­घा­तात् इति भावः । महा­का­श­स्था­नी­य­ब्र­ह्मा­श्रि­त­मे­घ­म­ण्ड­ल­स्था­नीये मायाख्यतमसि स्थिताः याः धीवासनाः तासु प्रति­बि­म्बि­त­मि­त्यर्थः । जाग्र­त्स्व­प्ना­व­स्था­द्व­य­ग­तानि स्थूला­न्तः­क­र­णानि धियः, तासां सुषु­प्त्य­व­स्था­गताः सूक्ष्मावस्थाः वासना विवक्षिताः ।

अन्तःकरणेति ।
अन्तःकरणं च धीवा­स­नो­प­र­क्ता­ज्ञानं च, ते एव उपाधी, तयो­र्भे­दे­ने­त्यर्थः । धीवा­स­ना­ना­मा­न­न्त्यात् तासु प्रति­बि­म्ब­चै­त­न्य­रू­पे­श्व­रस्य नाना­त्व­श­ङ्का­व्या­वृ­त्त्यर्थं वास­नो­प­र­क्ता­ज्ञा­नो­पा­धि­क­त्व­मु­क्तम् ।

पूर्वमतेषु बिम्ब­प्र­ति­बि­म्बयोः भेदमात्रं कल्पितं, स्वतस्तयोरभेद एव, इतीममर्थं सिद्धं कृत्वा अस्मिन् मते ततो विशेषमाह —
अयं चेति ।
अस्मिन् मते पूर्वं चिच्चा­तु­र्वि­ध्य­ल­क्षण एको विशेष उक्तः, तदपेक्षया अपरः - अन्यः प्रति­बि­म्ब­मि­थ्या­त्व­रूपो विशेषः तदभिहितः - तत्र चित्रदीपे अभिहितः इत्यर्थः ।

अपरं विशेषमेव दर्शयति —
चतुर्विधेष्विति ।
‘अहम्’ इति प्रकाशमानो जीवः शुक्तौ रूप्यवदध्यस्त इति सम्बन्धः । ननु - इदन्त्वेन सामान्यरूपेण ज्ञाते शुक्ति­त्वा­दि­वि­शे­ष­रू­पे­णा­ज्ञाते शुक्त्यादौ रूप्याद्यध्यासो दृष्टः ।

इह तु तथा सामान्यरूपेण ज्ञातं विशेषरूपेण चाज्ञातं किञ्चिदधिष्ठानं नोपलभ्यते इत्याशङ्क्याह —
कूटस्थ इति ।
ननु - अविद्यया कूटस्थस्य अस­ङ्ग­त्वा­न­न्द­त्व­पू­र्ण­त्वा­दि­वि­शे­षां­शस्य आवृततया शुक्तित्वादिवत् अप्रतीतावपि शुक्ते­रि­द­न्त्वे­नेव कूटस्थस्य केनचित् सामान्येन रूपेण प्रकाशो न दृश्यते । किञ्च ‘इदं रजतम्’ इत्यत्र अधि­ष्ठा­न­सा­मा­न्यां­शस्य आरो­प्य­वि­शे­षां­शस्य च सहप्रकाशो दृश्यते । प्रकृते तु अहमर्थरूपो विशेष एव ‘अहम्’ इति प्रकाशते, न तु सामान्यांशः कश्चित् ।

अतोऽहमर्थस्य रूप्य­व­द­ध्य­स्त­त्व­क­ल्पनं न युक्तं इत्याशङ्क्याह —
अत एवेति ।
अहमर्थस्य कूट­स्थेऽ­ध्य­स्त­त्व­क­ल्प­ना­देव इत्यर्थः ।

स्वय­न्त्वा­ह­न्त्व­यो­रिति ।
कूटस्थस्य हि स्वयन्त्वं सामान्यरूपं, न कूटस्थत्वम् । तस्य शस्त्रै­क­ग­म्य­त्वात् । स्वयन्त्वं च कूटस्थस्य अहमर्थारोपकाले तेन सह प्रकाशते । तत्पूर्वकालेऽपि स्वयन्त्वस्य भानमविरुद्धम् । तस्य नित्य­चै­त­न्या­त्म­क­कू­ट­स्थ­स्व­रू­प­त्वा­भ्यु­प­ग­मात् । स्वय­न्त्व­कू­ट­स्थ­चै­त­न्ययोः ‘राहोश्शिरः’ ‘पुरुषस्य चैतन्यम्’ इतिवत् भेदकल्पनया धर्म­ध­र्मि­भा­वो­प­पत्तेः । अतः कूटस्थस्य स्वयन्त्वेन सामान्यरूपेण सदा प्रकाशसत्त्वात् अह­म­र्थ­रू­प­चि­दा­भा­सा­ध्या­सा­धि­ष्ठा­न­त्व­म­वि­रुद्धं इति भावः ।

अहमर्थस्य रूप्य­व­द्वि­शे­ष­रू­पत्वं दर्शयति —
अहन्त्वं हीति ।
अहमर्थ इत्यर्थः ।

अध्य­स्त­वि­शे­षां­श­रू­प­मिति ।
शुक्त्या­दा­व­ध्यस्तो यो विशेषांशः रूप्यादिः तद्रूपं - तत्सदृशं इत्यर्थः । सादृश्यं च व्यावृत्तत्वम् ।

व्यावृ­त्त­त्वा­दिति ।
व्यावृ­त्त­त्वा­व­ग­मा­दि­त्यर्थः । तेन न हेतु­सा­ध्य­यो­र­भेदः । व्यावृ­त्त­त्वा­व­गमे हेतुः व्यवहाराभावः ।

स्वयन्त्वस्य इदंत्ववत् साप्रा­न्य­रू­पत्वं (???) दर्शयति —
स्वयन्त्वं चेति ।
‘स्वयम्’ ‘अन्यः’ इति लोकव्यवहारे स्वयन्त्वं अन्य­त्व­प्र­ति­द्व­न्द्वि­तया प्रसिद्धं इति दर्शयितुं अन्य­त्व­प्र­ति­यो­गीति स्वयन्त्वस्य विशेषणं इति बोध्यम् ।

स्वयमिति ।
तदुक्तं चित्रदीपे — ‘देवदत्तः स्वयं गच्छेत् त्वं वीक्षस्व स्वयं तथा । अहं स्वयं न शक्नोमीत्येवं लोके प्रयुज्यते’ ॥ [पं.द.६-३९] इति ।

ननु ‘स्वयमहम्’ इतिप्रकाशमानयोः कूट­स्थ­जी­व­योः­शु­क्ति­र­ज­त­यो­रिव भेदसत्त्वे सर्वेषां कुतो भेदो नोपलभ्यते, तत्राह —
एवमिति ।
अहमर्थजीवस्य शुक्तौ रूप्यवत् कूट­स्था­ध्य­स्तत्वे सतीत्यर्थः ।

परस्परेति ।
तयोः अभेदाध्यासादेव अविवेकः - विवेकाभावः - भेदानुभवाभावः इत्यर्थः । ननु - ‘इदं रजतम्’ इति भ्रमस्थले ‘शुक्तिरियम्’ इति विशेषदर्शनेन ‘इदं रजतम्’ इति प्रतीतयोः सामा­न्य­वि­शे­ष­प­दा­र्थयोः शुक्ति­त्व­र­ज­त­त्व­रू­प­वि­रु­द्ध­ध­र्म­व­त्त्व­नि­श्च­यात् तयोर्भेद उपेयते । इह तु जीवकूटस्थयोः कथं भेदोऽवगन्तव्यः ।

तदभावे हि ‘स्वयमहम्’ इति सामा­न्य­वि­शे­ष­भा­वेन प्रकाशमानयोः तयोः सत्यरजतस्थले रजतेदमर्थयोरिव वस्तुत ऐक्यापत्त्या अहमर्थरूपजीवस्य स्वयं­श­ब्दा­र्थ­भू­त­कू­टस्थे कल्पि­त­त्वा­सिद्धेः - इत्याशङ्क्य श्रुत्या तयोः भेदं दर्शयति —
विवेकस्त्विति ।
तुशब्दः शङ्का­व्या­वृ­त्त्यर्थः । विवेकः - भेदानुभवः । एतेभ्यः - सन्निहितेभ्यः देहा­दि­स­ङ्घा­त­रू­पेण परिणतेभ्यः उपाधिरूपेभ्यो भूतेभ्यः समुत्थाय - साम्येनोत्थाय — उपा­धि­रू­प­बु­द्ध्या­द्यु­त्पत्त्या उत्पत्तिं प्राप्य इत्यर्थः, यदा तान्यु­पा­धि­भू­तानि बुद्ध्यादीनि तत्त्वज्ञानेन विनश्यन्ति तदा तान्य­नु­वि­न­श्यति, इति श्रुत्या औपःधिकस्यात्मनो विनाशित्वं प्रतिपाद्यते । तच्च अन्तः­क­र­ण­प्र­ति­बि­म्ब­रू­पस्य उपाध्यायत्तस्य जीवस्य मिथ्यात्वे सति सम्भवति । औपाधिकजीवस्य सत्यत्वे तु तस्य विना­शि­त्व­प्र­ति­पा­द­क­व­चनं न सङ्गच्छेत । तथा अयं-प्रज्ञानघन आत्मा अरेमैत्रेयि अविनाशी वा - अविनाश्येव न तु उपा­धि­ना­शा­न्न­श्य­तीति कूटस्थचैतन्यस्य श्रुत्या नाशाभावः प्रतिपाद्यते । एतदुक्तं भवति — ‘अयमात्मा…. …. …. ….प्रज्ञानघन एव एतेभ्यो भूते­भ्य­स्स­मु­त्थाय’ इत्यादिश्रुत्या चिदेकरस आत्मैव उपा­ध्यु­त्प­त्ति­मनु उत्पद्यते तन्नाशमनु नश्यति इति उपा­ध्यु­त्प­त्ति­वि­ना­श­व्य­ति­रे­केण उत्पत्तिविनाशौ चिदात्मनः प्रतिपाद्येते । अनुविनश्यति इत्य­नु­श­ब्द­प्र­यो­गात् । न च तस्य स्वतो विनाशादिमत्त्वं सम्भवति । ‘अविनाशी वा अरेऽयमात्मा’ इति वाक्येन विज्ञानघनात्मनो विना­शा­भा­व­प्र­ति­पा­द­न­वि­रो­धात् । अतः चिदात्मनः उत्प­त्ति­वि­ना­श­वता प्रति­बि­म्ब­चै­त­न्य­रू­प­जी­वेन तादात्म्यमादाय विना­शा­दि­व­च­न­मु­प­पा­द­नी­यम् । ततश्च भ्रम­स्थ­ली­य­र­ज­ते­द­म­र्थ­यो­रिव अत्रापि विना­शि­त्वा­वि­ना­शि­त्व­रू­प­वि­रु­द्ध­ध­र्म­व­त्त्व­नि­श्च­या­देव जीवकूटस्थयोः भेदः स्पष्टं भासत इति ततः प्राक् कूटस्थचैतन्ये जीव­रू­पा­ह­म­र्थ­स्या­ध्या­स­सिद्धिः इति ।

उदाहृतश्रुत्या प्रति­बि­म्ब­जी­वस्य विनाशित्वोपगमे श्रुत्य­न्त­र­वि­रो­ध­मा­श­ङ्कते —
अहमर्थेति ।
अभेदः इत्यनन्तरं ‘अहं ब्रह्मास्मि’ [बृ.उ.१-४-१०] इति वाक्येन प्रतिपाद्यत इति शेषः । विना­श्य­वि­ना­शि­नो­र­भे­दा­यो­गा­दिति भावः ।

परिहरति —
नेदमिति ।
‘सोऽयं इत्या­दि­स­मा­ना­धि­क­र­ण­वा­क्यस्य यथाऽभेदो वाक्यार्थो दृश्यते, तथा ‘यः स्थाणुः स पुरुषः’ इत्या­दि­स­मा­ना­धि­क­र­ण­वा­क्यस्य बाधारूपो वाक्यार्थो दृश्यते । ‘यः स्थाणुः स पुरुषः’ इत्यत्र हि पुरुषे आरोपितस्य प्रातिभासिकस्य स्थाणोः व्याव­हा­रि­क­पु­रु­षेण सह अभेदो न वाक्यार्थः । बाधितत्वात् । किं तु स्थाण्वा­रो­पा­धि­ष्ठा­न­भूते पुरुषे वस्तु­त­स्स्था­णु­ता­दा­त्म्या­भा­व­रूपा बाधा वाक्यार्थः । तथा च ‘यः स्थाणुः स पुरुषः’ इति वाक्येन ‘वस्तुतः स्थाणु­ता­दा­त्म्या­भा­व­वान् अयं पुरुषः’ इति बोधो जायते, तेन च बोधेन पुरुषे स्थाण्वारोपः सविषयो निवर्तते, एवं ‘अहं ब्रह्मास्मि’ इति वाक्येन ‘अह­म­र्थ­भू­त­जी­व­ता­दा­त्म्य­शून्यं ब्रह्मैवास्मि’ इति ज्ञानं जायते । तेन ज्ञानेन ‘अहं ज्ञाता, कर्ता, सुखी, दुःखी’ इत्याद्यारोपः कर्तृ­त्वा­दि­ध­र्म­वि­शि­ष्टा­ह­म­र्थेन स्वविषयेण सह निश्शेषं निवर्तते । आरो­पि­ता­ह­म­र्थ­नि­वृत्तौ च सत्यां जीवस्य यद्वास्तवं रूपं कूट­स्थ­चै­त­न्या­त्मकं, तत् पूर्ण­ब्र­ह्म­रू­पे­णा­व­ति­ष्ठत इति न श्रुत्य­न्त­र­वि­रोध इति भावः । अक्षरार्थस्तु — इदं - ब्रह्मा­हं­प­द­योः­स­मा­न­वि­भ­क्ति­म­त्त्व­रूपं सामानाधिकरण्यं अभेदरूपेऽर्थे नाभ्युपगम्यते, येन अभेदासम्भवो दोषःस्यात् ।

ननु यद्यभेदो न वाक्यार्थः कस्तर्हि सः इति शङ्कते —
किं त्विति ।

बाधा अत्र वाक्यार्थो विवक्षित इत्याह —
बाधायामिति ।
पुरुषत्वपदेन कल्पि­त­स्था­णु­ता­दा­त्म्या­भा­व­वत्त्वं विवक्षितम् । बाधायाः वाक्या­र्थ­त्व­स्वी­का­रात् । ‘अहं ब्रह्मास्मि’ इत्यत्र इतिपदानन्तरं ‘वाक्यजन्येन’ इति शेषः । अत्र वाक्या­र्थ­ज्ञा­नस्य ‘अहं ब्रह्मास्मि’ इत्या­का­र­क­त्वा­भा­वात् । कूट­स्थ­ब्र­ह्म­रू­प­त्व­प­दे­नापि वस्तु­तोऽ­ह­म­र्थ­ता­दा­त्म्या­भा­व­व­त्कू­ट­स्थ­ब्र­ह्म­रू­पत्वं विवक्षितम् । बाधाया एव वाक्या­र्थ­बो­ध­वि­ष­य­त्वा­भ्यु­प­ग­मात् । दृष्टा­न्त­दा­र्ष्टा­न्ति­कयोः अधि­ष्ठा­न­स्या­रो­पि­ता­र्था­भा­व­वत्वं आरो­पि­ता­त्य­न्ता­भा­व­स्या­धि­ष्ठा­ना­ति­रि­क्त­त्व­मिति मतमाश्रित्य अस्माभिरुक्तं इति ध्येयम् ।

अध्य­स्ता­ह­म­र्थ­रू­प­त्व­मिति ।
अध्यस्तो योऽहमर्थः तद्रूपत्वं — तत्तादात्म्यं निवर्त्यते, इति बोधफलमुक्तम् ।

महावाक्यस्य बाधार्थकत्वं न स्वक­पो­ल­क­ल्पि­तम्, किं तु सुरे­श्व­रा­चा­र्यै­रुक्तं इत्याह —
योऽयमिति ।
मन्दान्धकारे यः स्थाणुर्गृहीतः ‘एषोऽयं पुमान्’ इत्या­प्त­वा­क्य­ज­न्यया पुंधिया ‘वस्तुतो नायं स्थाणुः, किं तु पुमान्’ इति धिया ‘स्थाणुरयं’ इति धीरा­रो­पि­त­स्था­णु­ता­दा­त्म्येन सह यथा निवर्तते, एवं ‘अहं ब्रह्मास्मि’ इति वाक्यजन्यया धिया - ‘अह­म­र्थ­भू­त­जी­व­ता­दा­त्म्य­शून्यं ब्रह्मैवास्मि’ इत्याकारया अहंबुद्धिः - ‘अहं करोमि भुञ्जे’ इत्यादिबुद्धिः अशे­षा-आ­रो­पि­ता­ह­म­र्थ­स­हिता निवर्तते ।

महा­वा­क्या­र्थ­ज्ञा­ना­द­शे­षा­न­र्थ­नि­वृत्तिः विदु­षा­म­नु­भ­व­सिद्धा इति द्योतनार्थो हिशब्दः —
इति ।

ननु समा­ना­धि­क­र­ण­वा­क्येषु अभे­द­रू­प­वा­क्या­र्थस्य मुख्यतया औत्सर्गिकत्वात् विवरणादिषु प्रकृते अभे­द­रू­प­वा­क्या­र्थ­स्यैव स्वीकाराच्च भगवत्पादैरपि वाक्यवृत्तौ ‘तादा­त्म्य­मात्रं वाक्या­र्थ­स्त­यो­रेव पदार्थयोः’ [वाक्यवृत्तिः २४] इति श्लोकेन महावाक्येषु तत्त्वं­प­दा­र्थ­यो­स्ता­दा­त्म्य­श­ब्दि­ता­भे­द­स्यैव वाक्यार्थतया स्वीकाराच्च वार्ति­क­का­र­व­च­नस्य बाधाया अपि प्रकृते वाक्यार्थता वक्तुं शक्यत इति प्रौढिमाश्रित्य प्रवृ­त्त्यु­प­प­त्तेश्च ‘अहं ब्रह्मास्मि’ इत्यत्र अभेदो वाक्यार्थ इति स्थिते विनाशिजीवस्य अवि­ना­शि­ब्र­ह्मा­भेदो न सम्भवतीति चोद्यं तदवस्थमेव, इत्यस्वरसादाह —
यदि चेति ।
‘कूटस्थो ब्रह्म जीवेशावित्येवं चिच्चतुर्विधा’ इति श्लोक­सं­गृ­ही­तानां कूट­स्थ­ब्र­ह्म­जी­वे­श्व­राणां चतुर्णां मध्ये ब्रह्मचैतन्यं तावत् सत्य­ज्ञा­ना­दि­वा­क्येषु सुप्रसिद्धं इति तत्र वाक्यं प्रमाणत्वेन नोदाहृतम् । कूटस्थचैतन्ये ‘अविनाशी वा’ इति वाक्यं प्रमाणत्वेन दर्शितम् । उपा­ध्यु­त्प­त्ति­वि­ना­शा­नु­वि­धा­य्यु­त्प­त्ति­वि­ना­श­व­चनं अन्तः­क­र­ण­ग­त­चै­त­न्य­प्र­ति­बि­म्ब­रूपे जीवे प्रमाणमुक्तम् । परिशेषात् पूर्वोक्तेश्वरे प्रमाणं वक्तव्यम्, तदाह - यस्त्विति ॥ तुशब्दोऽवधारणे । य ईश्वर उक्तः सोऽयं श्रुत्यु­क्ता­न­न्द­मय एव, नान्य इत्यर्थः । सुषुप्तं स्थानं अस्येति सुषुप्तस्थानः । जागरणे हि विज्ञा­न­श­ब्दि­ता­न्तः­क­र­ण­ता­दा­म्या­ध्या­सात् विज्ञा­न­म­य­त्व­म­नो­म­य­त्व­क­र्तृ­त्वा­दीनि रूपाणि सन्ति । तथा देहे ‘स्थूलोऽहम्’ इत्या­द्य­भे­दा­ध्या­सात् स्थूल­त्व­कृ­श­त्व­ब्रा­ह्म­ण­त्वा­दीनि रूपाणि सन्ति । तथा चक्षुरादिषु ‘काणोऽहम्’, ‘मूकोऽहम्’ इत्या­दि­रू­पा­द­ध्या­सात् काण­त्व­मू­क­त्वा­दीनि रूपाणि सन्ति । एवमाकाशादिषु पदार्थेषु अध्याससिद्धानि ‘आकाशमयो वायुमयः’ [बृ.उ.४-४-५] इत्या­दि­श्रु­ति­सं­गृ­ही­ता­न्य­न­न्त­रू­पाणि जीवस्य सन्ति । सुषुप्ते तु बुद्ध्या­द्यु­पा­धि­ल­येन सर्व­प्र­का­र­भ्रा­न्ति­ल­यात् भ्रान्ति­सि­द्धानि सर्वाण्यपि रूपाणि लीयन्ते इत्यभिप्रेत्य एकीभूत इत्युक्तम् । तदुक्तं - ‘विज्ञा­न­म­य­मु­ख्यैर्यो रूपैर्युक्तः पुराऽधुना । स लयेनैकतां प्राप्तो बहु­त­ण्डु­ल­पि­ष्ट­वत् ॥ [पं.द.११-६९] इति । पुरा-सुप्तात् पूर्वकाले लयेन - रूपाणां लयेन इत्यर्थः । प्रज्ञानं - चैतन्यम् । तच्च जाग्रदादौ वृत्तिभेदेन भेदरूपं शैथिल्यं प्राप्य स्थितम्, सुषुप्ते वृत्तीनां विलयात् पुनरेकत्वं प्राप्तं इत्यभिप्रेत्य प्रज्ञा­न­घ­न­त्व­मु­क्तम् । आनन्दोऽत्र बिम्बभूतो ब्रह्मानन्दो विवक्षितः । तस्य प्रतिबिम्बभूतो जीवः आनन्दमयः । स च स्वरू­प­भू­त­मा­नन्दं सुषुप्तिकाले अवि­द्या­वृ­त्ति­भि­र्भुङ्क्ते इति आनन्दभुक् - इति श्रुत्यर्थः । ननु — जाग्र­त्स्व­प्नयोः स्थूला­व­स्था­न्तः­क­र­ण­प्र­ति­बि­म्ब­रूपो जीवो विज्ञानमयः, स्थूला­न्तः­क­र­णस्य विज्ञा­न­श­ब्द­वा­च्य­त्वात् । स एव विज्ञानमयो जीवः स्वापकाले सूक्ष्म­रू­पे­ण­वि­ली­ना­व­स्था­न्तः­क­र­णो­पा­धि­क­स्सन् आनन्दमय इत्युच्यते ।

तथा च आनन्दमयस्य जीवत्वात् ईश्वरत्वमसिद्धं - इत्याशङ्क्य, सौषु­प्ता­न­न्द­म­य­स्यैव ईश्वरत्वं वाक्यशेषो दर्शयति इत्याह —
तत्रैवेति ।
माण्डू­क्य­श्रु­ता­वे­वे­त्यर्थः । सर्वेश्वरत्वं सर्व­ज­ग­दु­त्प­त्ति­क­र्तृ­त्वम् । योनिः—उपादानम् ।

आनन्दमयस्य सर्वोपादानत्वे हेतुमाह —
प्रभवेति ।
हि — यस्मात् भूतानां प्रभवाप्ययौ — जन्मलयौ सौषु­प्ता­दा­न­न्द­म­यात् भवतः तस्मात् एष सर्वस्य योनिः इत्यर्थः ।

आनन्दमयस्य श्रुत्यु­क्त­स­र्व­ज्ञत्वे युक्तिमप्याह —
सर्ववस्त्विति ।
एकैका धीः किञ्चि­त्कि­ञ्चित् विषयीकरोतीति सर्वा­भि­र्धी­भि­र्मि­लित्वा सर्वं जगत् विषयीक्रियते । एवं च सर्वबुद्धीनां सर्वविषयकत्वे सिद्धे सति सर्व­बु­द्धि­सू­क्ष्मा­व­स्था­रू­पाणां सर्व­बु­द्धि­वा­स­ना­ना­मपि सर्वविषयकत्वं सिद्ध्यति । तथा च सर्व­प्रा­णि­बु­द्धि­वा­स­नो­पा­धि­कस्य आनन्दमयस्य सर्व­ज्ञ­त्व­सि­द्धि­रि­त्यर्थः । ननु — धीवा­स­नो­प­र­क्ता­ज्ञा­नो­पा­धिक ईश्वर इति यदुक्तं तत्र किं प्रति­बि­म्बे­श्व­रस्य अज्ञा­न­मे­वो­पाधिः, किं वा वास­नो­प­र­क्ता­ज्ञा­नम्, अथवा सर्वाः धीवासनाः, उत प्रत्येकं वासना । नाद्यः — ‘धीवासनासु प्रतिबिम्बतं चैतन्यमीश्वरः’ इत्यु­क्ति­वि­रो­धात्, अज्ञानमात्रस्य ईश्वरोपाधित्वे धीवा­स­ना­नु­स­र­ण­वै­फ­ल्याच्च । न च अज्ञा­नो­पा­धि­क­स्यैव ईश्वरस्य सर्व­ज्ञ­त्व­ला­भार्थं सर्व­वि­ष­य­क­धी­वा­स­ना­नु­स­रणं इति वाच्यम् । अज्ञा­न­ग­त­स­त्त्वां­श­प­रि­णा­म­रू­पा­भि­स्स­र्व­वि­ष­य­क­वृ­त्ति­भि­रेव सर्व­ज्ञ­त्वो­प­पा­द­न­स­म्भ­वेन धीवा­स­ना­ना­म­न­पे­क्ष­णात् । अत एव न द्वितीयः । अज्ञानमात्रस्य तदु­पा­धि­त्व­स­म्भ­वात् युगपत् सर्वप्राणिनां सुषु­प्त्य­स­म्भ­वेन सर्व­बु­द्धि­वा­स­नानां यौग­प­द्या­स­म्भ­वाच्च न तासां अज्ञानविशेषणतया ईश्व­रो­पा­धि­त्व­स­म्भवः । तासां यौग­प­द्या­स­म्भ­वा­देव न तृतीयोऽपि कल्पस्सङ्गच्छते । सर्वासु धीवासनासु व्यासक्ततया एकस्य ईश्व­र­रू­प­प्र­ति­बि­म्ब­स्या­स­म्भ­वाच्च । लोके व्यास­ज्य­वृ­त्ति­प्र­ति­बि­म्बा­द­र्श­नात् । तस्मा­च्च­तु­र्थः­कल्पः परिशिष्यते ।

तत्रा­नु­भ­व­वि­रो­ध­मा­श­ङ्कते —
न चास्मदिति ।
अस्मा­कं-प्रा­णिनां एकै­क­बु­द्धि­वा­स­नो­प­हि­तस्य आनन्दमयस्य कस्यापि स्वापकाले ‘अहं सर्वज्ञः’ इत्यनुभवो नास्तीत्यर्थः ।

वासनानामिति ।
जाग्रदादौ स्थूला­व­स्था­न्तः­क­र­णा­ना­मिव सुषुप्तौ वास­ना­त्म­का­न्तः­क­र­णानां साक्षि­प्र­त्य­क्ष­यो­ग्य­त्वा­भा­वेन तदु­पा­धि­का­न­न्द­म­या­ना­मपि न अह­म­नु­भ­व­यो­ग्यत्वं इत्यर्थः ।

माण्डू­क्य­श्रु­त्यु­क्ता­न­न्द­म­यस्य सक­ल­धी­वा­स­नो­पा­धि­कस्य उक्तरीत्या एकस्य असम्भवात् प्रत्येकमेव धीवासनोपाधिक आनन्दमयो वाच्यः, स च जीव एव इत्याह —
ब्रह्मानन्दे त्विति ।
चित्रदीपे श्रीवि­द्या­र­ण्य­गु­रुभिः ईश्व­र­त्वे­नो­क्ता­न­न्द­म­यस्य तैरेव ब्रह्मा­न­न्दा­ख्य­ग्रन्थे जीव­त्वो­क्ति­रू­प­वि­शे­षा­र्थकः ‘तु’ शब्दः । सुषु­प्ति­सं­यो­गा­दि­त्यु­प­ल­क्ष­णम् । वासनोपाधिकस्य ईश्वरत्वे जाग्रदादौ ईश्व­रा­भा­व­प्र­स­ङ्गात् एकै­क­वा­स­नो­पा­धि­कस्य नानात्वेन ईश्व­र­ना­ना­त्व­प्र­स­ङ्गात् सक­ल­वा­स­नो­पा­धि­कस्य कस्य­चि­द­स­म्भ­वाच्च इत्यपि द्रष्टव्यम् ।

तत्रोक्तं प्रकारं दर्शयति -
यदा हीति ।
जाग्रदादिषु भोगप्रदं यत् कर्म तस्य क्षये सति इत्यर्थः । आदिपदं स्वप्नपरम् । बहुवचनं तु जाग्र­त्स्व­प्न­व्य­क्ति­भे­दा­पे­क्षम् ।

निद्रारूपेणेति ।
सुषु­प्ति­रू­पे­णे­त्यर्थः । तदुक्तं पञ्चीकरणे - ‘बुद्धेः कार­णा­त्म­नाऽ­व­स्थानं सुषुप्तिः’ इति ।

आनन्दमयस्य जीवत्वे तस्य ईश्व­र­त्व­प्र­ति­पा­द­क­वा­क्य­शे­ष­वि­रोधं शङ्कते —
एवंसतीति ।

सौषु­प्त­जी­व­रू­पा­न­न्द­म­यस्य वस्तुत ईश्व­र­त्वा­भा­वेऽपि ईश्व­रा­भे­द­वि­व­क्षया तस्य ईश्वरत्ववचनं सङ्गच्छत इति परिहरति —
इत्थमित्यादिना ।

माण्डूक्यश्रुतौ जीवेश्वरयोः अभेदविवक्षां दर्शयितुं पीठिकां करोति —
सन्तीति ।
परमात्मनः अधिदैवतं सविशेषाणि त्रीणि रूपाणि सन्ति, तथा पर­मा­त्म­नोऽ­ध्यात्मं च सविशेषाणि त्रीणि रूपाणि सन्ति इति सम्बन्धः । परमात्मन इत्यस्य निर्वि­शे­ष­चै­त­न्यस्य इत्यर्थः । अधिदैवतं इत्यस्य देवतात्मकानि इत्यर्थः । अध्यात्मं इत्यस्य च जीवात्मकानि इत्यर्थः । ‘अधिदैवतं, अध्यात्मं’ इति च पदद्वयं अव्ययम् ।

उक्तं प्रपञ्चयति —
तत्रेति ।
अध्या­त्मा­धि­दै­व­त­रू­पाणां मध्ये इत्यर्थः । जीवस्य त्रीणि सविशेषरूपाणि तुरीयपादात्मकं निर्विशेषरूपं च माण्डूक्यश्रुतौ कण्ठतो दर्शितानि ।

ईश्वरस्य तु निर्वि­शे­ष­स­वि­शे­ष­रू­पाणि तच्छ्रु­त्य­भि­प्रे­ता­न्यपि श्रुत्या कण्ठतो नोक्तानि, तानि तु श्रुति­ता­त्प­र्या­भिज्ञैः श्रीवि­द्या­र­ण्य­गु­रुभिः चित्रदीपे सदृष्टान्तं निरूपितानि इत्याह —
चित्रपटेति ।
तत्रायं दृष्टा­न्त­स­ङ्ग्रा­हकः श्लोकः — स्वत­श्शु­भ्रोऽत्र धौतःस्यात् घट्टि­तोऽ­न्न­वि­ले­प­नात् । मष्या­का­रै­र्ला­ञ्छि­तः­स्या­द्र­ञ्जितो वर्णपूरणात् ॥’ [पं.द.६-३] इति ।

एत­च्छ्लो­क­सं­गृ­हीतं दृष्टान्तं विवृणोति —
यथेति ।
‘स्वत­श्चि­द­न्त­र्यामी तु मायावी सूक्ष्मसृष्टितः ।

सूत्रात्मा स्थूलसृष्ट्यैष विराडित्युच्यते परः ॥’ [पं.द.६-४] इति श्लोकसंगृहीतं दार्ष्टान्तिकं दर्शयति —
तथेति ।
श्लोके परः स्वतः चित् इति सम्बन्धः ।

अमुमंशं विवृणोति —
परमात्मेति ।
श्लोके तुशब्दोऽवधारणे । तथा च पर एव मायावी सन् अन्तर्यामी इत्युच्यत इति सम्बन्धः ।

अमुमंशमाह —
मायोपहित ईश्वर इति ।
श्लोके पर एव सूक्ष्म­सृ­ष्टि­तः­सू­त्रात्मा इति सम्बन्धः ।

अमुमंशं व्याचष्टे —
अपञ्चीकृतेति ।
अपञ्चीकृतानां भूतानां यत् कार्यं व्यापकं सूक्ष्मशरीरं तदुपहित इत्यर्थः । न च सूत्रात्मनो हिर­ण्य­ग­र्भ­श­ब्दि­तस्य श्रुति­स्मृ­त्यो­र्जी­व­त्व­प्र­सिद्धेः कथं तस्य ईश्वररूपत्वमिति वाच्यम् । जीव­रू­प­हि­र­ण्य­ग­र्भस्य सम­ष्टि­सू­क्ष्म­श­री­रा­भि­मा­न­वि­शि­ष्टस्य सत्यलोकस्वामिनः ईश्व­रा­न्य­त्वा­भ्यु­प­ग­मात् । ईश्वरस्य तु सम­ष्टि­सू­क्ष्म­श­री­रा­भि­मा­ना­भा­वेऽपि सम­ष्टि­सू­क्ष्म­श­री­र­नि­य­न्तृ­तया तदुपाधिकस्य सम­ष्टि­सू­क्ष्मो­पा­ध्यु­प­हि­त­त्व­गु­ण­यो­गेन हिर­ण्य­ग­र्भ­सू­त्रा­त्म­प­दाभ्यां निर्देशस्य विवक्षितत्वात् । तथा च गौणं ईश्वरस्य हिरण्यगर्भत्वं इति भावः । अत एव चित्रदीपे ईश्व­र­रू­प­हि­र­ण्य­ग­र्भा­पे­क्षया सत्य­लो­का­धि­प­ते­र्ब्र­ह्म­णः­त­त्त­द्वा­द्य­भि­म­ते­श्व­र­प­रि­ग­ण­ना­व­सरे पृथगुपादानं मन्तव्यम् । श्लोके एष एव परः स्थूलसृष्ट्या विराडित्युच्यते इति सम्बन्धः ।

अमुमंशं व्याकुर्वन् संगृह्णाति —
पञ्चीकृतेति ।
अयं ईश्वररूपो विराट्पुरुषः पुरु­ष­सू­क्त­वै­श्वा­न­र­वि­द्या­वा­क्या­दि­रू­प­श्रु­ति­सिद्धो द्रष्टव्यः । सत्य­लो­का­धि­प­ते­र्हि­र­ण्य­ग­र्भस्य पुत्ररूपो विराट्पुरुषः सम­ष्टि­स्थू­ला­भि­मा­नि­जीवो बृह­दा­र­ण­य­क­श्रु­ति­सिद्धः अन्य एव इत्यपि द्रष्टव्यम् ।

इत्यवस्थेति ।
उक्तप्रकारेण वस्तुत एकस्यैव रूपचतुष्टयं द्रष्टव्यं इत्यर्थः ।

एवं प्रकृतोपयुक्तं रूपचतुष्टयं दर्शयित्वा प्रसङ्गादाह —
अस्मिन्निति ।

ननु - कृत्स्नस्य जगतः चित्र­स्था­नी­यत्वे तद्वदेव सर्वमचेतनं स्यात्, तथा च चेतनाचेतनविभागो न स्यात्, इति शङ्कां दृष्टान्तेन परिहरति —
यथेति ।

वस्त्राभासा इति ।
वर्ण­वि­शे­षा­त्म­क­व­स्त्राणां चित्राधारेण वस्त्रेण आकृतिसाम्येऽपि शीता­दि­नि­व­र्त­क­त्वा­भा­वात् आभासत्वम् ।

देहिनामिति ।
स्थूलदेहवतां अहङ्काराणां इत्यर्थः ।

अन्तः­क­र­णा­त्म­का­ह­ङ्का­रेषु चैतन्यस्य प्रति­बि­म्ब­क­ल्प­नस्य प्रयोजनमाह —
ते चेति ।
तथा च चिदाभासयुक्ताः कार्य­का­र­ण­स­ङ्घा­ता­श्चे­तनाः, अन्ये गिरि­स­मु­द्रा­द­योऽ­चे­तनाः, इति विभागसिद्धिरिति भावः । एवमीश्वरस्य रूपाणि दर्शितानि ।

जीवस्य श्रुत्युक्तानि सवि­शे­ष­नि­र्वि­शे­ष­रू­पाणि दर्शयति —
अध्यात्मं त्विति ।
तुशब्दः ईश्वरस्य सवि­शे­ष­रू­पा­ण्य­पेक्ष्य जीवस्य सविशेषरूपाणां वैल­क्ष­ण्य­सू­च­नार्थः ।

तदेव वैलक्षण्यं दर्शयति —
विश्वेति ।

रूपाणीति ।
सविशेषाणीति शेषः ।

तत्रेति ।
रूपत्रयमध्ये इत्यर्थः ।

विलीन इति ।
अन्तःकरणे विलीने सति सूक्ष्म­रू­पे­ण­वि­ली­ना­न्तः­क­र­णो­पा­धिकः संपद्यत इति भावः । स्थूला­न्तः­क­र­णा­दि­सा­क्षि­त्व­व्य­व­च्छे­दार्थं मात्रेति ।

ननु — पूर्वं सौषुप्तजीव आनन्दमय इत्युक्तं, इदानीं कथं स एव प्राज्ञ इत्युच्यते, तत्राह —
योऽयमिति ।

इहेति ।
माण्डू­क्य­श्रु­ता­वि­त्यर्थः । तत्रैव ‘आनन्दभुक्’ इत्यनन्तरं ‘चेतोमुखः प्राज्ञस्तृतीयः पादः’ इति­वा­क्य­शे­ष­द­र्श­नात् इति भावः । चेतांसि - चित्प्र­ति­बि­म्बो­पे­ता­न्य­वि­द्या­वृ­त्ति­रू­पाणि मुखानि - स्वाप­का­ली­ना­न­न्दा­नु­भ­व­सा­ध­नानि यस्य, स चेतोमुखः । ननु सौषुप्तजीवस्य आनन्दभुक्त्वं चेतोमुखत्वं च श्रुतमपि कथमुपपन्नमिति चेत्, उच्यते — सुषु­प्ता­दु­त्थि­तस्य हि ‘सुखमस्वाप्सम्’ इति स्वाप­का­ली­न­वि­शि­ष्ट­सु­ख­स्म­रणं दृश्यते । तच्च तदा सुखानुभवमन्तरेण न सम्भवति । अननुभूतस्य सुखस्य स्मरणायोगात् । न च सुषुप्तौ आत्म­स्व­रू­प­सु­ख­स्या­न्तः­क­र­ण­वृ­त्ति­भि­रेव अनु­भ­व­स्स­म्भ­व­तीति वाच्यम् । तदा विली­न­स्या­न्तः­क­र­णस्य वृत्त्यु­त्पा­द­न­यो­ग्य­त्वा­भा­वात् । न च मुक्तिकाल इव स्वापकालेऽपि स्वरू­प­चै­त­न्ये­नैव सुखा­नु­भ­व­स­म्भ­वात् किम­वि­द्या­वृ­त्ति­प्र­ति­बि­म्ब­रू­प­चे­तः­क­ल्प­न­येति वाच्यम् । जाग्र­त्स्व­प्नयोः चैत­न्य­प्र­ति­बि­म्बो­पे­त­वृ­त्तिभिः आन­न्दा­नु­भ­व­द­र्श­नेन सुषुप्तावपि तथा सम्भवे परित्यागायोगात् । मुक्तिकाले च उपा­धि­मा­त्र­वि­ल­या­भ्यु­प­ग­मात् वृत्त्यसम्भव इति वैषम्यसत्त्वात् । सौषु­प्त­सु­खा­नु­भ­वस्य केव­ल­नि­त्य­सा­क्षि­रू­पत्वे अनु­भ­व­ना­श­रू­प­सं­स्का­रा­भा­व­प्र­स­ङ्गेन ‘सुखमस्वाप्सं’ इत्य­नु­स­न्धा­ना­भा­वा­प­त्तेश्च । तस्मा­द्य­थो­क्तार्था श्रुतिः उपपन्नैव ।

व्यष्टीति ।
परि­च्छि­न्ने­त्यर्थः ।

एते पादा­स्सा­क्षा­च्छ्रु­त्युक्ता इत्याह —
तत्रेति ।
उक्तरीत्या पादकल्पनोपपत्तौ सत्यामित्यर्थः । श्रुतिः पाद­च­तु­ष्ट­य­मु­प­क्रम्य विश्वादिपादान् न्यरूरुपदिति सम्बन्धः । पद्यते - गम्यते - अवगम्यते ब्रह्मात्मैक्यं एभिरिति पादा विश्वादयः ।

इमां व्युत्प­त्ति­म­भि­प्रेत्य श्रौत­पा­द­क­ल्प­नायाः प्रयोजनमाह —
पूर्वपूर्वेति ।
अयमर्थः — ‘सोऽयमात्मा चातुष्पात्’ इति वाक्येन जीवस्य पाद­च­तु­ष्ट­य­व­त्त्व­मु­प­क्रम्य ‘जागरितस्थानो वैश्वानरः प्रथमः पादः’ इत्युक्तम् । अत्र जीवपादानामेव वक्तु­मु­प­क्रा­न्त­त्वात् ‘विश्वः प्रथमः पादः’ इति वक्तव्ये वैश्वा­न­र­श­ब्दि­तस्य विरा­ट्पु­रु­ष­रू­पे­श्व­रस्य प्रथ­म­पा­द­त्वोक्तिः विश्वे वैश्वा­न­र­स्या­न्त­र्भावं सूचयति । न च - हिर­ण्य­ग­र्भे­श्वरौ विहाय वैश्वानरस्यैव विश्वान्तर्भावे किं नियामकं श्रुत्यभिमतं इति वाच्यम् । तयोः स्थूलोपाधिक तवरूपसाम्यस्य ईश्व­र­हि­र­ण्य­ग­र्भ­व्या­वृ­त्तस्य नियामकतया विवक्षितत्वात् । तथा द्विती­य­पा­द­प्र­ति­पा­द­क­वाक्ये ‘स्वप्न­स्था­नः….तै­जसो द्वितीयः पादः’ [मा.उ.४] इत्युक्तम् । अत्र सूक्ष्मो­पा­धि­क­त्व­सा­म्येन हिरण्यगर्भस्य तैजसे अन्तर्भावो विवक्षितः । ‘वैश्वानरः प्रथमः पादः’ [मा.उ.३] इत्यु­प­क्र­मा­नु­सा­रात् । तथा तृती­य­पा­द­प्र­ति­पा­दकं ‘सुषुप्तस्थान एकीभूतः’ [मा.उ.५] इत्यादिवाक्यं प्रागेवोदाहृतम् । अत्रापि तृती­य­पा­द­त्वे­नोक्ते प्राज्ञ­श­ब्दि­ता­न­न्द­मये सूक्ष्म­त­रो­पा­धि­क­त्व­सा­म्येन ईश्व­र­स्या­न्त­र्भावो विवक्षितः । तथा च वाक्यशेषस्य ‘एष सर्वेश्वरः’ इत्यादेः आनन्दमयेश्वरयोः अभेदविवक्षया प्रवृतत्वात् नानुपपत्तिः । तथा तुरी­य­पा­द­प्र­ति­पा­द­क­मिदं वाक्यम् — ‘अदृ­श्य­म­व्य­व­हा­र्य­म­ग्रा­ह्य­म­ल­क्ष­ण­म­चि­न्त्य­म­व्य­प­दे­श्य­मे­का­त्म­प्र­त्य­य­सारं प्रपञ्चोपशमं [शान्तं] शिवमद्वैतं चतुर्थं मन्यन्ते’ [मा.उ.७] इति । अदृ­श्यं-च­क्षु­रा­द्य­वि­ष­यम्, अव्य­व­हा­र्यं-प्र­वृ­त्ति­नि­वृ­त्ति­ल­क्ष­ण­व्य­व­हा­रा­गो­च­रम्, अग्रा­ह्यं-क­र्मे­न्द्रि­या­गो­च­रम्, अल­क्ष­ण­म्-अ­सा­धा­र­ण­ध­र्म­शू­न्यम्, अचिन्त्यं - शुष्क­त­र्का­गो­च­रम्, अव्य­प­दे­श्यं-श­ब्द­श­क्त्य­गो­च­रम्, एका­त्म­प्र­त्य­य­सारं - एका­दि­प­द­च­तु­ष्ट­यस्य कर्मधारयः । स्वग­त­भे­द­शू­न्य­त्व­मे­कत्वं, सर्वदेहेषु पूर्ण­त्व­मा­त्मत्वं, प्रत्ययत्वं चिद्रूपत्वं, सारत्वं आनन्दत्वं, ‘सारः-आनन्द इत्यर्थः’ इत्या­न­न्द­म­या­धि­क­र­ण­भा­ष्यात् । प्रप­ञ्चो­प­श­मं-प्र­प­ञ्चा­भा­व­रूपं, कल्पि­त­प­दा­र्था­भा­व­स्या­धि­ष्ठा­ना­न­ति­रे­कात् । यद्वा प्रप­ञ्च­ध्वं­स­रू­पम् । ज्ञानसाध्यायाः सका­र­ण­द्वै­त­नि­वृ­त्ते­र­धि­ष्ठा­ना­त्म­क­ताया वक्ष्यमाणत्वात् । [शान्तं-अ­वि­क्रि­यम्] । शिवं - शुद्धं सर्वदोषरहितम्, अद्वै­तं-द्वै­त­र­हितं, चतुर्थं - विश्व­तै­ज­स­प्रा­ज्ञ­रू­प­पा­द­त्र­या­पे­क्षया चतु­स्स­ङ्ख्या­पू­रकं पादं, मन्य­न्ते-चि­न्त­यन्ति इति श्रुत्यर्थः । अत्र विश्व­तै­ज­स­प्रा­ज्ञ­ल­क्ष­ण­पा­देषु वैश्वा­न­र­हि­र­ण्य­ग­र्भे­श्व­रा­णा­म­न्त­र्भा­व­व­चनं तैः एतेषां एकत्वचिन्तनपरम् । तथा विश्वा­दि­पा­दा­ना­मो­ङ्का­रा­व­य­व­भू­त­मा­त्राणां च एकत्वचिन्तनं अत्र विवक्षितम् । तथा च श्रुतिः - ‘पादा मात्रा मात्राश्च पादाः [मा.उ.८] इति । तथा गौडपादीयवचनमपि - ‘ओङ्कारं पादशो विद्यात् पादा मात्रा न संशयः’ [मा.का.१-२४] इति । ‘न संशयः’ इत्य­स्या­य­म­भि­प्रायः - विश्वादिपादानां मात्राणां च याव­त्सं­श­य­नि­वृत्ति एकत्वं चिन्तनीयं इति । मात्रास्वरूपं च श्रुत्यैव दर्शितम् — ‘अकार उकारो मकार इति’ [मा.उ.८] इति । एवं विश्वादिपादानां वैश्वानरादीनां मात्राणां च एकत्वचिन्तनं सर्वेषामेतेषां निष्प्र­प­ञ्च­ब्र­ह्मा­त्म­क­तु­र्य­पादे चिन्मात्रे प्रवि लापनार्थम् । तत्र चायं क्रमः — विश्व­वै­श्वा­न­रा­का­रा­णा­मे­कत्वं प्रथमं सञ्चिन्त्य पश्चा­त्तै­ज­स­हि­र­ण्य­ग­र्भो­का­रा­णा­मे­कत्वं चिन्तयेत् । तत ईश्व­र­प्रा­ज्ञ­म­का­रा­णा­म­प्ये­कत्वं चिन्तयेत् । तथा चिन्ताक्रमेणैव प्रविलापयेत् । अका­रा­दि­त्र­य­मु­कारे, उकारादित्रयं मकारे, मकारादित्रयं चिन्मात्रे तुर्यपादे प्रविलापयेत् । चिन्मात्रे प्रविलाप्य च चित्तं तत्रैव स्थापयेत् । उकारादौ प्रविलापनं नाम अका­रा­दि­त्र­य­मु­का­र­व्य­ति­रे­केण नास्ति इत्या­द्या­हा­र्य­नि­श्चयः । एवं प्रत्यहं उक्तप्रकारेण समाधिं कुर्वतो ब्रह्म­सा­क्षा­त्कारो भवति, ततश्च ब्रह्म­प्राप्त्या कृतकृत्यता, इति माण्डू­क्य­श्रु­त्य­भि­प्रायः । इदं सर्वं माण्डू­क्य­श्रुतेः संग्रहेण तात्प­र्य­क­थ­न­प­रस्य भाष्यकृद्भिः कृतस्य पञ्चीकरणस्य व्याख्यानरूपे वार्तिके सुरे­श्व­रा­चा­र्यै­र­भि­हि­तम् - ‘अकारमात्रं विश्व­स्स्या­दु­का­र­स्तै­ज­स­स्स्मृतः । प्राज्ञो मकार इत्येवं परिपश्येत् क्रमेण तु’ [पं.वा. ४७] ॥ अत्र विश्वादिषु वैश्वा­न­रा­दी­ना­म­न्त­र्भावं सिद्धं कृत्वा न पृथगुपादानं कृतमिति मन्तव्यम् । ‘समाधिकालात् प्रागेवं विचि­न्त्या­ति­प्र­य­त्नतः । स्थूल­सू­क्ष्म­क्र­मात् सर्वं चिदात्मनि विलापयेत्’ [पं.वा.४८] । ‘अकारं पुरुषं विश्वमुकारे प्रविलापयेत्’ [पं.वा.४९] । पुरुषोऽत्र वैश्वानरः । ‘उकारं तैजसं सूक्ष्मं मकारे प्रविलापयेत्’ [पं.वा.४९] । अत्र सम­ष्टि­सू­क्ष्म­श­री­र­नि­य­न्तृ­तया तदुपहितः परमेश्वरः सूक्ष्म­श­ब्दार्थः । ‘मकारं कारणं प्राज्ञं चिदात्मनि विलापयेत्’ [पं.वा.४९] । अत्रान्तर्यामी माया­मा­त्रो­पा­धिकः कारणशब्दार्थः । ‘चिदात्माऽहं नित्य­शु­द्ध­बु­द्ध­मु­क्त­स­द­द्वयः । पर­मा­न­न्द­स­न्दो­ह­वा­सु­दे­वोऽ­ह­मो­मिति’ [पं.वा.५०-५१] । ‘यतोऽहं चिदात्मा अवशेषितः अतोऽहं नित्य­शु­द्धा­दि­रूपो वासुदेवः’ इत्यर्थे अङ्गीकारार्थः ओङ्कारः इत्यर्थः । इति­श­ब्द­श्चो­त्त­र­श्लो­का­न्वयी । ‘ज्ञात्वा विवेचकं चित्तं तत्साक्षिणि विलापयेत्’ [पं. वा. ५१] इति - उक्तप्रकारेण केवलं चिदात्मानं अवशिष्टं ज्ञात्वा विवेचकं - विलापकं चित्तं तत्साक्षिणि यथोक्ते वासुदेवे विलापयेत् - स्थापयेत् इत्यर्थः । चिदात्मनि विलीनं चेत् तच्चित्तं नैव चालयेत् । पूर्ण­बो­धा­त्म­नाऽऽ­सीत पूर्णा­च­ल­स­मु­द्र­वत्’ [पं. वा. ५२] । चिरकालं समाधिं कुर्यादिति वार्तिकार्थः । ‘एवं समाहितो योगी श्रद्धा­भ­क्ति­स­म­न्वितः । जितेन्द्रियो जितक्रोधः पश्ये­दा­त्मा­न­म­द्व­यम् । आदिमध्यावसानेषु दुःखं सर्वमिदं यतः । तस्मात् सर्वं परित्यज्य तत्त्वनिष्ठो भवेत् सदा’ [पं. वा. ५३-५४] । यतः तत्त्व­नि­ष्ठा­व्य­ति­रिक्तं पुरु­षा­र्थ­सा­ध­न­त्वेन लोक­शा­स्त्र­सिद्धं सर्वं कालत्रयेऽपि दुःखाविनाभूतं, तस्मात् सर्वं विधिना सन्न्यस्य उक्तरीत्या तत्त्वनिष्ठां समाधिलक्षणां कुर्यात् इत्यर्थः । तदेवाह - ‘इमां विद्यां प्रयत्नेन योगी सन्ध्यासु सर्वदा । सम­भ्य­से­दि­हा­मु­त्र­भो­गा­ना­स­क्त­धी­स्सुधीः’ [पं. वा. ६४] इति । इमां - समाधिलक्षणां विद्यां सुधीः - आस्तिकतमः विरक्तो भूत्वा सन्ध्यासु उपक्रम्य सदा अभ्यसेदित्यर्थः । ‘यः पश्येत् सर्वगं शान्त­मा­न­न्दा­त्मा­न­म­द्व­यम् । न तेन किञ्चिदाप्तव्यं ज्ञातव्यं वाऽवशिष्यते’ [पं. वा. ५५] । ‘कृतकृत्यो भवेद्विद्वान् जीवन्मुक्तो भवेत् सदा’ [पं. वा. ५६] । ‘अवि­द्या­ति­मि­रा­तीतं सर्वा­भा­स­वि­व­र्जि­तम् । आनन्दममलं शुद्धं मनोवाचामगोचरम्’ [पं.वा. ६१] । वाच्य­वा­च­क­नि­र्मुक्तं हेयो­पा­दे­य­व­र्जि­तम् । प्रज्ञा­न­घ­न­मा­नन्दं वैष्णवं पदमश्नुते’ [पं.वा. ६२] इति । आभासपदं चिदाभासपरम् । वाच्याः विश्वादयः, वाचकाः अकारादयः, प्रकृतत्वात् । हेयं - दुःखम् । उपादेयं - विषयसुखं इत्यर्थः । तथा माण्डूक्यश्रुतौ समा­धि­नि­ष्ठा­वि­व­क्षा­म­भि­प्रेत्य गौड­पा­दी­येऽ­प्यु­क्तम् - ‘युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित्’ [मा.का. १-२५] इति, इति संक्षेपः ।

ननु श्रवणादिरूपेण साङ्ख्य­मा­र्गे­णैव तत्त्व­प्र­ति­प­त्ति­स­म्भ­वात् किं मुमु­क्षो­र्यो­ग­वि­धिना इत्यत आह —
प्रति­प­त्ति­सौ­क­र्या­येति ।
यस्य मुमु­क्षो­स्स­न्न्या­सिनः बुद्धि­मा­न्द्याद्वा कौशलसत्त्वेऽपि न्याय­व्यु­त्पा­द­न­कु­श­ला­चा­र्या­द्य­भा­वाद्वा साङ्ख्यमार्गो न सम्भवति तस्य अनायासेन ब्रह्म­त­त्त्व­प्र­ति­प­त्ति­सा­ध­न­तया बुद्धि­पू­र्व­क­प्र­वि­ला­प­न­क्र­मेण समाधिविधानं माण्डूक्यादौ उक्तम् । माण्डू­क्य­ता­प­नी­य­प­ञ्ची­क­र­णादौ विहितं ब्रह्मोपासनं प्रकृत्य ध्यानदीपे श्रीवि­द्या­र­ण्य­गु­रुभिः अधिकारी दर्शितः ‘अत्य­न्त­बु­द्धि­मा­न्द्याद्वा सामग्र्या वाऽप्यसम्भवात् । यो विचारं न लभते ब्रह्मोपासीत सोऽनिशम्’ [पं. द. ९-५४] ॥ इति ।

अव्याकृतस्येति ।
अन­भि­व्य­क्त­ज­ग­द्वा­चिना अव्याकृतपदेन लक्षणया परमेश्वरः तत्रतत्र व्यवहृत इति कृत्वा तेन तन्निर्देशः कृतः ।

माण्डू­क्य­श्रु­त्यु­क्ता­न­न्द­म­यस्य ईश्वरत्ववचनं तदभेदविवक्षया इत्येतत् माण्डू­क्य­श्रु­ति­व्या­ख्या­न­रू­पस्य गौडपादीयस्य विवरणरूपे भाष्ये भाष्य­का­रै­रे­वो­क्त­मि­त्याह —
इत्थमेवेति ।

श्रीवि­द्या­र­ण्य­गु­रु­भि­श्चि­त्र­दीपे स्वोक्तं चिच्चा­तु­र्विध्यं विहाय ग्रन्थान्तरे ‘जीव ईशो विशुद्धा चित्’ इति वृद्धवचनसिद्धं चित्त्रै­वि­ध्य­मे­वा­व­लम्ब्य जीवस्य त्रैविध्याख्यो विशेष उक्तः इत्याह —
दृग्दृश्यविवेके त्विति ।
‘तु’ शब्द उक्तविशेषार्थकः ।

कूटस्थस्य जीव­को­टा­व­न्त­र्भा­व­मेव दर्शयति —
तत्रेति ।
दृग्दृ­श्य­वि­वे­का­ख्य­ग्रन्थे इत्यर्थः । ‘हि’शब्दः प्रसि­द्धि­द्यो­तकः ।

जलाशयतरङ्गेति ।
यथा समुद्रादिजलाशये तरङ्गा उपरिभावेन तिष्ठन्ति, तेषु चोपरिभावेन बुद्बु­दा­स्ति­ष्ठन्ति, [इदं प्रसिद्धमिति हिशब्दार्थः । न्यायः-दृ­ष्टान्तः] एवं कूटस्थस्योपरि व्याव­हा­रि­का­न्तः­क­र­ण­प्र­ति­बि­म्ब­रूपो याव­द्व्य­व­हा­र­म­नु­व­र्त­मानो व्यावहारिकजीवः कल्प्यते, तस्य चोपरिभावेन स्वप्नकाले वास­ना­म­य­प्रा­ति­भा­सि­क­र­था­दि­व­द्वा­स­ना­भ­या­न्तः­क­र­ण­प्र­ति­बि­म्ब­रूपः प्रातिभासिकजीवः कल्प्यते इत्यर्थः ।

तत्रेति ।
त्रिविधजीवमध्ये इत्यर्थः ।

अवच्छिन्न इति ।
देह­द्व­या­व­च्छि­न्न­कू­ट­स्थ­चै­त­न्य­रूप आत्मा पारमार्थिकजीव इत्यर्थः । ‘अहं ब्रह्मास्मि’ इति महावाक्येषु जीव­ब्र­ह्म­णो­र­भेदः प्रतिपाद्यते । स च पार­मा­र्थि­क­जी­व­क­ल्पने सति निर्वहति । अन्यथा व्याव­हा­रि­क­प्रा­ति­भा­सि­क­जी­व­यो­श्शु­क्ति­रू­प्या­दि­वत् स्वरूपतो मिथ्यात्वेन सत्य­ब्र­ह्मा­भे­दा­यो­गात् ।

देह­द्व­या­व­च्छि­न्न­कू­ट­स्थ­रू­प­पा­र­मा­र्थि­क­जी­वस्य तु अव­च्छे­द­की­भू­त­दे­ह­द्व­यस्य कल्पितत्वेऽपि स्वत­स्स­त्य­त्वात् सम्भवति ब्रह्माभेदः इति पार­मा­र्थि­क­जी­व­क­ल्प­नायाः प्रयोजनं दर्शयति —
तस्मिन्निति ।
अवच्छिन्नजीव इत्यर्थः ।

व्यावहारिकजीवं निरूपयति —
तमिति ।
कूट­स्थ­मा­त्मा­न­मा­वृत्य अविद्यायां स्थितायां सत्यां कूटस्थात्मनि कल्पितं यदन्तःकरणं तत्र यश्चिदाभासः सः व्यावहारिकजीव इत्यर्थः । तदुक्तं — ‘कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्र­ति­बि­म्बकः’ [पं.द. ६-२३] । इति ।

अह­मि­त्य­भि­म­न्य­मान इति ।
‘अहं’ इत्ये­व­मा­का­र­का­भि­मा­न­क­र्ते­त्यर्थः ।

ननु अह­मा­का­र­वृ­त्ति­रू­पेण परि­ण­म­मा­नेऽ­न्तः­क­रण एव अहमभिमानवत्त्वं युक्तं, न तु चित्प्र­ति­बि­म्बस्य, अत आह —
अन्तःकरणेति ।

तस्य व्यावहारिकत्वे युक्तिमाह —
तस्येति ।
न च व्यावहारिकजीवे मानाभाव इति वाच्यम् । ‘अहं कर्ता, भोक्ता’ इत्या­दि­रू­पा­ह­म­नु­भ­वस्य तत्र मानत्वात्, कर्तृ­त्व­भो­क्तृ­त्वा­द्या­त्म­क­सं­सा­रा­श्र­य­त्वस्य अन्यत्रायोगाच्च । न चान्तःकरणे तत्सम्भवः । तस्य चिदाभासशून्यस्य चेत­न­ध­र्म­त्वे­न­प्र­सि­द्ध­क­र्तृ­त्वा­द्या­श्र­य­त्वा­यो­गात् । चिदाभासस्य तु चेत­ना­त्म­प्र­ति­बि­म्ब­तया मिथ्याभूतस्यापि चेत­न­त्व­व्य­व­हा­र­यो­ग्य­त्वेन तद्धर्माणां चेत­न­ध­र्म­त्व­प्र­सि­द्धि­वि­रो­धा­भा­वात् । पार­मा­र्थि­क­जी­वस्य च संसाराश्रयत्वं न सम्भवति, तस्य कूटस्थत्वात् इति भावः ।

तमपीति ।
व्याव­हा­रि­क­जी­व­मपि इत्यर्थः । व्यावहारिकजीवो हि जाग्रद्दशायां आत्मानं ब्राह्मणं देवदत्तनामानं यज्ञदत्तपुत्रं विष्णुभक्तं मन्यते । स्वाप्नजीवस्तु स्वप्नावस्थायां आत्मानं क्षत्रियं विष्णु शर्मनामानं नारायणपुत्रं महादेवभक्तं मन्यते । अतो जाग्रज्जीवस्य आवरणं सिद्धम् ।

प्राति­भा­सि­क­जी­व­क­ल्प­क­माह —
निद्रयेति ।

ननु माया­या­स्स­र्व­क­ल्प­क­त्वा­भ्यु­प­ग­मात् कथं निद्रायाः कल्पकत्वम्, अप­सि­द्धा­न्ता­पत्तेः - इत्याशङ्क्य निद्रा­या­स्त­द­व­स्था­रू­प­त्वा­भ्यु­प­ग­मा­न्नो­क्त­दोष इत्याशयेनाह —
मायेति ।
न च निद्रायाः माया­ल­क्ष­णा­भा­वात् कथं तद­व­स्था­वि­क्षे­प­रू­प­त्व­मिति वाच्यम् । आव­र­ण­वि­क्षे­प­श­क्ति­मत्त्वं हि मायालक्षणम् । तस्य लक्षणस्य जाग्र­ज्जी­वा­वा­रि­कायां स्वाप्न­ज­ग­दा­त्म­क­वि­क्षे­प­का­रिण्यां च निद्रायां अक्षतत्वात् इति भावः ।

प्राति­भा­सि­क­जी­व­क­ल्प­नायाः प्रयोजनमाह —
स्वाप्न­दे­हा­दा­विति ।
व्याव­हा­रि­क­जी­व­स्या­वृ­त­त्वेन स्वप्नकाले अह­म­भि­मा­न­क­र्तृ­त्वा­स­म्भ­वात् इति भावः ।

तस्य प्रातिभासिकत्वे हेतुमाह —
स्वाप्न­प्र­प­ञ्चे­नेति ।
प्रबोधकाले ‘ब्राह्मणोऽहं, न क्षत्रियः’ इत्यादिरूपेण बोधेन स्वप्नद्रष्टुः क्षत्रि­या­दि­रू­पस्य बाधानुभवात् इति भावः ।

ईश्वरविषये उक्त­व­क्ष्य­मा­ण­प्र­का­र­भे­द­ज्ञा­ना­र्थ­मु­प­सं­ह­रति —
एवमिति ।

बिम्ब­चै­त­न्य­मे­वे­श्वरो न प्रति­बि­म्ब­वि­शेषः इति वक्ष्य­मा­ण­वि­शे­षा­र्थकः ‘तु’ शब्दः । विभेदजनकत्वं जीवे­श्व­र­भे­द­स्थि­ति­प्र­यो­ज­कत्वं विवक्षितं, न तु यथाश्रुतम् । तद्भे­द­स्या­ना­दि­त्वा­भ्यु­प­ग­मात् ।
आत्यन्तिकमिति ।
स्वापप्रलयादौ अज्ञा­न­का­र्य­ना­शेन तत्का­र­णा­ज्ञा­न­स्यापि नाशोऽस्ति, परि­णा­म­प­रि­णा­मि­नो­र­भे­दात् । स चाज्ञाननाशो नात्यन्तिकः, पुनरुत्थानात् । मुक्तौ तु तत्त्वज्ञानेन स्वरूपेणापि नाशोऽस्ति, स च आत्यन्तिकः पुन­रु­त्था­ना­भा­वात् इति मत्वा अज्ञाननाशस्य आत्यन्तिकत्वं विशेषणं दत्तम् । यद्वा जीवन्मुक्तिकाले अज्ञानस्य आवरणांशेन नाशेऽपि विक्षेपभावात् अनात्यन्तिकः स नाशः, विदेहमुक्तौ तु आत्य­न्ति­कोऽ­ज्ञा­न­नाशः, इति तदभिप्रायं तद्विशेषणमिति भावः ।

प्रति­बि­म्ब­त्वा­यो­गा­दिति ।
न च ‘जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति’ इति श्रुत्या उभयोः प्रति­बि­म्ब­त्व­प्र­ति­पा­द­न­वि­रोध इति वाच्यम् । प्रति­बि­म्ब­त्व­वत् बिम्बत्वस्यापि कल्पिततया श्रुति­ग­ता­भा­स­प­देन प्रतिबिम्बवत् बिम्बस्यापि ग्रहणोपपत्तेः । ननु - लोके प्रति­बि­म्ब­त्व­वि­शि­ष्ट­मुखे मुखा­भा­स­त्व­व्य­व­हा­र­वत् बिम्ब­त्व­वि­शि­ष्ट­मुखे तथा­व्य­व­हा­रा­भा­वात् आभासपदं मुख्यवृत्त्या बिम्बचैतन्यं प्रतिपादयितुं न शक्नोति इति खलु प्रतिबिम्बवत् बिम्बस्यापि विशिष्टरूपेण कल्पिततया कल्पि­त­त्व­गु­ण­यो­गेन बिम्बपरं आभासपदं वक्तव्यम् ।

तच्च न सम्भवति ।
सकृ­दु­च्च­रि­त­स्या­भा­स­प­दस्य मुख्यवृत्त्या प्रति­बि­म्ब­प­रत्वं गुणवृत्त्या बिम्बपरत्वमिति कल्पनस्य व्युत्प­त्ति­वि­रु­द्ध­त्वात् । न च अजहल्लक्षणया आभासपदस्य बिम्ब­प्र­ति­बि­म्बो­भ­य­प­र­त्वा­भ्यु­प­गमे नायं विरोध इति वाच्यम् । उभयोरपि प्रति­बि­म्ब­रू­प­ता­मा­दाय आभासपदस्य मुख्यार्थपरत्वे सम्भवति लक्षणाकल्पनाया एव निर्मूलत्वादिति चेत्-उच्यते -यथाश्रुतं जीवेशयोरुभयोरपि प्रति­बि­म्ब­रू­पत्वं न सम्भवति । बिम्ब­भू­त­चै­त­न्यस्य सूर्यवत् एकत्वेन उपाधिभेदं विना प्रति­बि­म्ब­द्व­या­स­म्भ­वात् । न च ‘माया चाविद्या च स्वयमेव भवति’ इति वाक्यशेषेण मायाऽ­वि­द्या­रू­पो­पा­धि­द्व­य­प्र­ति­पा­द­नात् न प्रति­बि­म्ब­द्व­या­नु­प­प­त्ति­रिति वाच्यम् । तेन स्वयं­श­ब्दो­पा­त्तायाः प्रकृ­त­मू­ल­प्र­कृतेः माया­त्वा­वि­द्या­त्व­ल­क्ष­ण­रू­प­भे­द­प्र­ति­पा­द­नेऽपि प्रति­बि­म्ब­द्व­या­पे­क्षि­तो­पा­धि­द्व­या­प्र­ति­पा­द­नात्, मायाऽविद्ययोः स्वरूपतो भेदस्य सिद्धा­न्त­वि­रु­द्ध­त्वाच्च । तस्मात् यथा­श्रु­ता­स­म्भ­वात् एक­स्यै­वा­ज्ञा­नस्य जीवे­श­वि­भा­ग­प्र­यो­ज­क­त्व­प्र­ति­पा­द­क­स्मृ­त्य­नु­रो­धाच्च ‘जीवेशावाभासेन करोति’ इतिश्रुतौ आभासपदं अजहल्लक्षणया बिम्ब­प्र­ति­बि­म्बो­भ­य­परं इति विव­र­णा­नु­सा­रि­णा­मा­शय इति ।

तत्रापीति ।
बिम्ब­प्र­ति­बि­म्ब­यो­रु­भ­यो­र्म­ध्येऽ­पी­त्यर्थः ।

तत्र युक्तिमाह —
तथासत्येवेति ।
बिम्ब­चै­त­न्य­स्यै­वे­श्व­र­त्वा­भ्यु­प­गमे सतीत्यर्थः ।
स्वात­न्त्र्य­मिति ।
‘एष सर्वेश्वर एष भूताधिपतिः’ [बृ.उ.४-४-२१] इत्या­दि­श्रु­ति­सि­द्ध­मिति शेषः ।

तत्पा­र­त­न्त्र्य­मिति ।
‘एष ह्येव साधु कर्म कारयति’ [कौ.उ. २-८] ‘य आत्मानमन्तरो यमयति’ [बृ.उ. (मा) ३-७] ‘ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा’ इत्या­दि­श्रु­ति­स्मृ­ति­सि­द्ध­मिति शेषः ।

लौकि­क­दृ­ष्टा­न्त­मेव कल्प­त­रु­श्लो­को­दा­ह­र­णेन दर्शयति —
प्रतिबिम्बगता इति ।
यथा लोके कश्चित् पुरुषः स्वप्र­ति­बि­म्ब­गताः ऋजु­व­क्रा­दि­वि­क्रियाः बिम्ब­भू­त­स्व­प्र­युक्ताः पश्यन् क्रीडति तथा ब्रह्मापि जीवस्थविक्रियाः प्राणि­क­र्मा­नु­सा­रेण स्वप्रयुक्ताः पश्यन् क्रीडति इति योजना । कल्प­त­रू­क्त­रीत्या ईश्वरस्य स्वात­न्त्र्य­प्र­ति­प­त्त्यु­प­यो­गिन्या ईश्वरस्य स्वात­न्त्र्य­प्र­ति­पा­दकं सूत्रमपि सङ्गच्छते इत्यर्थः । सूत्रार्थस्तु - ईश्वरस्य आप्तकामत्वेन प्रयो­ज­नो­द्दे­शा­भा­वात् सृष्ट्या­दि­व्या­पा­रेषु प्रवृत्तिर्न सम्भवति इति­पू­र्व­प­क्ष­व्या­वृ­त्त्यर्थः तुशब्दः । ईश्वरस्य सृष्ट्या­दि­प्र­वृ­त्ति­ल­क्ष­ण­क्रिया केवलं प्रयोजनोद्देशं विनैव लीला । लोकवत् । यथा लोके सार्वभौमादेः सर्वैर्मानुषैः भोगैः सम्पन्नतमस्य प्रयो­ज­ना­भि­सन्धिं विनैव क्रीडा दृश्यते तद्वत् ईश्वरस्य प्रयो­ज­नो­द्दे­शा­भा­वेऽपि स्वभावादेव सृष्ट्या­दि­प्र­वृ­त्ति­रु­प­प­द्यते । दृश्यते हि सुखो­द्रे­का­नु­भ­व­प्र­युक्ता हासगानादिरूपा प्रयो­ज­नो­द्दे­श­र­हिता लीला प्राणिनां स्वाभाविकी । न हि तत्र प्रयोजनमपि सम्भावयितुं शक्यते । दुःखोद्रेके रोदनवत् सुखोद्रेके हासगानादेः प्रयोजनरहितस्य सर्वा­नु­भ­व­सि­द्ध­त्वात् । अत एव हसितरुदितादिषु कारणमेव पृच्छन्ति न प्रयोजनम् । उक्तं च माण्डूक्यश्रुतौ — ‘देवस्यैष स्वभा­वोऽ­य­मा­प्त­का­मस्य का स्पृहा’ [मा.का. १-९] इति । एषः - सृष्ट्या­दि­व्य­व­हारः इत्यर्थः । किं च - स्वप्नसृष्टिवत् मायामयी प्रपञ्चसृष्टिः अस्माभिरुपेयते । न च तत्र प्रयोजनप्रश्नो न्याय्यः । स्वप्नसृष्टौ प्रयो­ज­न­प्र­श्ना­द­र्श­नात् इति ।

ननु यद्यज्ञानं जीवस्योपाधिः, तर्हि व्यर्थ­म­न्तः­क­र­णस्य जीवो­पा­धि­त्व­व­र्णनं सूत्र­भा­ष्या­दिषु, तत्राह —
अज्ञानेति ।

विशे­षा­भि­व्य­क्ति­स्था­न­मिति ।
अवि­द्या­प्र­ति­बि­म्ब­चै­त­न्य­रू­पस्य सुषु­प्ति­सा­धा­र­णस्य प्रमा­तृ­त्व­क­र्तृ­त्व­भो­क्तृ­त्वा­दि­वि­शे­ष­रू­पेण या अभि­व्य­क्तिः-उ­प­लब्धिः तस्याःस्थानं - उपाधिः इत्यर्थः । एतदुक्तं भवति — कर्तृ­त्वा­दि­घ­र्माणां केव­ला­ज्ञा­न­प­रि­णा­म­त्वा­भा­वेन तदुपाधिमात्रात् न जीवस्य कर्तृ­त्वा­दि­ध­र्म­रू­प­वि­शे­ष­लाभः, किं तु कर्तृ­त्वा­दि­वि­शे­ष­व­द­न्तः­क­र­ण­ता­दा­त्म्या­ध्या­सा­देव तल्लाभः, इति न तदु­पा­धि­क­त्व­नि­रू­पणं व्यर्थमिति ।

अत इति ।
अन्तःकरणस्य विशे­षा­भि­व्य­क्ति­स्था­न­त्वा­भ्यु­प­ग­मात् इत्यर्थः ।

व्यवहारोऽपीति । ‘कार्योपाधिरयं जीवः’ इति श्रुतौ सूत्रभाष्यादिषु च इति शेषः । ‘विभे­द­ज­न­केऽ­ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥’ इति विष्णुपुराणवचने जीवस्य अज्ञा­नो­पा­धि­क­त्व­व्य­व­हा­र­वत् इति अपेः अर्थः ।

ननु ‘कार्योपाधिरयं जीवः’ इति श्रुति­ब­ला­द­ज्ञा­नो­पा­धि­प­रि­त्याग उचितः, कार्यो­पा­धि­क­त्व­वि­शे­ष­णस्य कार­णो­पा­धि­क­त्व­व्या­व­र्त­क­त्वात्, इत्याशङ्क्य स्मृतिविरोधात् न तस्य कार­णो­पा­धि­व्या­व­र्त­क­त्व­मु­पे­यत इत्याशयेनाह —
न एतावतेति ।
श्रुतौ कार्यो­पा­धि­क­त्व­वि­शे­ष­ण­मा­त्रे­णे­त्यर्थः । ननु - श्रुतिविरोधे स्मृतेरेव अन्य­था­न­य­न­मु­चि­तम् । तन्न­य­न­प्र­का­र­श्चे­त्थम् — स्मृतौ अज्ञानपदं तत्का­र्या­न्तः­क­र­ण­प­रम् । जीवो­पा­ध्य­न्तः­क­र­णस्य नाना­त्वेऽ­प्य­ज्ञाने इत्येकवचनं जात्यभिप्रायम् ।

तथा च अन्तः­क­र­णा­व­च्छिन्न आत्मा जीवः, तदनवच्छिन्न आत्मा ईश्वरः इति जीव­ब्र­ह्म­वि­भा­ग­प्र­यो­ज­क­म­न्तः­क­रणं इति स्मृत्यर्थो भविष्यति — इति इमामाशङ्कां निवर्तयितुं कार्यो­पा­धि­मा­त्रस्य जीवोपाधित्वं निराकरोति —
अन्तः­क­र­णो­पा­धि­प­रि­च्छि­न्न­स्यै­वेति ।
नाज्ञा­नो­पा­धि­कस्य इत्येवकारार्थः ।

अनुपपत्तेरिति ।
काय­व्यू­हा­धि­ष्ठानं हि युग­प­द­ने­क­श­री­र­नि­य­न्तृ­त्वम् । तच्च योगिनो योगप्रभावात् निर्मितेषु सर्वशरीरेषु युगपदवस्थितस्य वक्तव्यम् । न चान्तः­क­र­णा­व­च्छि­न्न­चै­त­न्य­रू­पस्य योगिनस्तत् सम्भवति । तस्य परि­च्छि­न्न­त्वात् । अज्ञानस्य जीवोपाधित्वे तु तत् सम्भवति । तस्य व्यापकत्वेन तदुपाधिकस्य योगिजीवस्य युगपत् सर्वशरीरेषु सन्नि­धा­नो­प­पत्तेः । तथा च श्रुत्यपेक्षया स्मृते­र्दु­र्ब­ल­त्वेऽपि काय­व्यू­हा­धि­ष्ठा­ना­नु­प­प­त्ति­स­हि­त­स्मृ­ते­र्ब­ल­व­त्त्वात् तदनुरोधेन ‘कार्योपाधिरयं जीवः’ इति श्रुतौ कार्योपाधिपदं स्वरू­प­क­थ­न­मा­त्र­परं न कार­णो­पा­धि­व्या­व­र्त­क­वि­शे­ष­ण­परं इति भावः ।

वैपुल्यमिति ।
व्याप­क­त्व­मि­त्यर्थः ।

अधिष्ठानमिति ।
प्रेरणमित्यर्थः ।

प्रदीपवदिति ।
यथा एकस्य प्रदीपस्य अने­क­व­र्ति­ष्वा­वेशः, तथा योगिनो योगप्रभावात् अनेकेष्वेकदा आवेशः । यद्यपि प्रदीपस्य वर्त्या­वि­ष्ट­दी­पानां च भेदोऽस्ति योगिनस्तु सर्व­दे­हे­ष्वैक्यं इति दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­र्वै­ष­म्य­मस्ति, तथापि दीपत्वजात्यभेदं व्यक्ति­ष्वा­रोप्य तयो­स्स­ङ्ग­ति­र­व­ग­न्तव्या । तथा हि दर्शयति श्रुतिः एकस्य योगि­नोऽ­ने­क­धा­भा­वम् - ‘स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा’ [छा.उ.७-२६-२] इत्यादिका । न च योगिनो युग­प­द­ने­क­श­री­रे­ष्व­व­स्था­न­म­न्त­रेण श्रुति­सि­द्धा­ने­क­धा­भाव उपपद्यते इति सूत्रार्थः ।

सृष्टे­रु­प­व­र्ण­ना­दिति ।
तथा च एक­स्यै­वा­न्तः­क­र­णस्य काय­व्यू­हा­भि­व्य­क्ति­यो­ग्य­वै­पु­ल्या­भ्यु­प­गमे भाष्यादिविरोध इति भावः । अत्र यद्यपि योगिनो निज­सि­द्धा­न्तः­क­र­ण­मेव योगप्रभावात् वैपुल्यं प्राप्य स्वाव­च्छि­न्न­चै­त­न्य­रू­पस्य योगिनः काय­व्यू­हा­धि­ष्ठा­न­भो­गा­दिकं घटयति इत्येव भाष्यादीनां तात्पर्यं वक्तुमुचितं, न तु यथा­श्रु­त­ना­नान्तः करणसर्गे । आग­न्तु­का­ने­का­न्तः­क­र­ण­सृ­ष्ट्यु­प­गमे अस­त्का­र्य­वा­दा­पा­तात् कल्पनागौरवाच्च, हिर­ण्य­ग­र्भा­दीनां योगप्रभावादेव अण्ड­व्या­पि­स­म­ष्ट्य­न्तः­क­र­णा­भ्यु­प­ग­माच्च । न हि हिर­ण्य­ग­र्भा­दीनां पूर्वजन्मनि यजमानावस्थायां तदी­या­न्तः­क­र­णानां व्यापित्वे प्रमाणमस्ति । तथा सति अस्म­दा­द्य­न्तः­क­र­णा­ना­मपि व्यापि­त्वा­पत्तेः । भाष्यादिषु अन्तः­क­र­ण­सृ­ष्टि­व­र्ण­नस्य मता­न्त­रा­भि­प्रा­य­त्वो­प­प­त्तेश्च । ‘एषैव च योगशास्त्रेषु योगि­ना­म­ने­क­श­री­र­यो­ग­प्र­क्रिया’ इति भाष्य एव मता­न्त­र­त्वो­प­द­र्श­नात् । योग­शा­स्त्रे­ष्वेव च एषा प्रक्रिया इति एव­का­रा­न्व­यो­प­पत्तेः । तथापि शास्त्रो­पा­न्त्या­धि­क­र­ण­य­था­श्रु­त­भा­ष्या­द्य­भि­प्रा­येण इदं दूषणमिति मन्तव्यम् । वस्तुतस्तु ‘अन्तः­क­र­णा­व­च्छि­न्न­चै­तन्यं जीवः तद­न­व­च्छि­न्न­मी­श्वरः’ इति पक्षे अण्डा­न्त­र्ग­त­चै­त­न्यस्य सर्वात्मना तदवच्छेदात् अन­व­च्छि­न्न­चै­त­न्य­रू­पे­श्व­रस्य अण्डात् बहिरेव सत्त्वं स्यात् इति वक्ष्यमाणे दूषणे तात्पर्यम् । यदि च अन­व­च्छि­न्न­चै­त­न्य­मी­श्वर इत्यनेन निरुपाधिकं चैतन्यमीश्वर इति विवक्षितं, तदा तस्य सर्वत्र सत्त्वेन अण्डात् बहिरेव सत्त्वा­प­त्ति­दो­षा­भा­वेऽपि ‘कार­णो­पा­धि­री­श्वरः’ इति श्रुतिविरोधदोषो दुर्वारः । तस्मात् कारणोपाधिकत्वं ईश्वरवत् जीव­स्या­प्यु­प­ग­न्तव्यं स्मृत्यनुसारात् इति स्थितम् ।

यत्तु चित्रदीपे प्रति­बि­म्ब­चै­त­न्य­रू­प­जी­वस्य स्वरूपतो मिथ्यात्वात् तस्य मुक्त्यन्वयायोग इति तदन्वययोग्यं कूटस्थनामकं जीवे­श्व­र­वि­ल­क्षणं किञ्चित् चैतन्यं परिकल्प्य चिच्चा­तु­र्विध्यं दर्शितं, यदपि च दृग्दृश्यविवेके प्रति­बि­म्ब­मि­थ्या­त्व­मे­वा­श्रित्य मुक्त्यन्वयाय अव­च्छि­न्न­चै­त­न्यस्य पार­मा­र्थि­क­जी­वत्वं कल्पितं, तदु­भ­य­म­प्य­यु­क्तम्, बिम्ब­प्र­ति­बि­म्ब­यो­र्भे­द­मा­त्रस्य कल्पिततया स्वतस्तयोर्भेदे मानाभावात्, इत्याशयेनाह —
प्रतिबिम्बे बिम्बादिति ।
स्वरूपस्य कल्पि­त­त्व­व्य­व­च्छेदो मात्रशब्दार्थः ।

न तदतिरेकेणेति ।
प्रति­बि­म्ब­जी­वा­ति­रे­केण जीवान्तरं वा कूटस्थशब्दितं चैतन्यान्तरं वा न कल्पनीयं इति सम्बन्धः । एवं व्याव­हा­रि­क­जी­वा­ति­रे­केण प्राति­भा­सि­क­जी­वोऽपि न कल्पनीयः । प्रमाणाभावात् । न च व्याव­हा­रि­क­जी­वस्य स्वप्नकाले आवृतत्वेन तस्य तदा व्यव­ह­र्तृ­त्वा­नु­प­पत्तिः तत्कल्पने प्रमाणमिति वाच्यम् । जीवचैतन्ये आवरणाभावस्य साक्षि­नि­रू­प­णा­व­सरे वक्ष्यमाणत्वेन जाग्रज्जीवस्यैव स्वप्नेऽपि व्यव­हा­र­क­र्तृ­त्वो­प­पत्तेः, ‘योऽहं स्वप्ने श्रीकृ­ष्ण­म­द्राक्षं स एव इदानीं जाग्रत् पुनस्तं स्मरामि’ इति जाग्र­त्स्व­प्न­द्रष्ट्रोः अभे­द­प्र­त्य­भि­ज्ञा­नाच्च । संस्का­रो­द्बो­धा­भा­वा­दि­का­र­ण­व­शा­देव कदाचित् ब्राह्म­ण­त्वा­द्य­प्र­ती­त्यु­प­प­त्तेश्च । न च स्वप्नप्रपञ्चेन सह तद्द्र­ष्टु­र्बा­ध­द­र्शनं प्राति­भा­सि­क­जी­व­क­ल्पने प्रमाणमिति वाच्यम् । प्रबोधकाले ‘नाहं क्षत्रियः’ इत्या­दि­रू­प­बा­ध­क­प्र­त्य­यस्य आत्म­न्या­रो­पि­त­क्ष­त्रि­य­त्वा­दि­मा­त्र­बा­ध­क­त्वेन स्वप्न­द्र­ष्टृ­बा­ध­क­त्वा­भा­वात् । अन्यथा पूर्वो­दा­हृ­त­द्र­ष्ट्रै­क्य­प्र­त्य­भि­ज्ञा­न­वि­रो­धात् । तस्मात् प्राति­भा­सि­क­जी­व­क­ल्प­न­मपि प्रामाणिकं न भवतीति बोध्यम् ।

यदपि चिच्चा­तु­र्वि­ध्य­वा­दि­भि­रुक्तं —‘तान्ये­वा­नु­वि­न­श्यति’ ‘अविनाशी वा अरेऽयमात्मा’ इति वाक्याभ्यां प्रकृते प्रज्ञा­न­घ­ना­त्मनि विना­शि­त्वा­वि­ना­शि­त्व­रू­प­वि­रु­द्ध­ध­र्म­द्व­य­प्र­ति­पा­द­नात् तदुपपत्तये विना­शि­प्र­ति­बि­म्ब­व्य­ति­रे­केण विना­श­र­हि­त­कू­ट­स्थ­चै­तन्यं सिद्ध्य­ती­ति-त­दपि मन्दम्, अवि­द्या­प्र­ति­बि­म्ब­चै­त­न्य­रूपे जीव एव प्रति­बि­म्ब­त्व­रू­प­वि­शे­ष­णां­श­ना­शा­भि­प्रा­येण विनाशवचनस्य विशे­ष्य­चै­त­न्यां­शा­भि­प्रा­येण विना­शा­भा­व­प्र­ति­पा­द­क­व­च­नस्य च उपपत्तौ धर्मि­भे­द­क­ल्प­नस्य गौर­व­प­रा­ह­त­त्वात्, इत्याशयेनाह -
अविनाशी वेति ।
ननु - अवि­द्या­प्र­ति­बिम्बो जीवः, तद्बिम्ब ईश्वरः, बिम्ब­प्र­ति­बि­म्बा­नु­गतं चैतन्यं शुद्धचैतन्यं, इति विवरणपक्षे देह­द्व­यो­पा­दा­न­तया तदवच्छिन्नस्य पार­मा­र्थि­क­जी­व­ना­म­क­तया कूटस्थनामकतया च चिच्चा­तु­र्विं­ध्य­वा­दि­भि­र­ङ्गी­कृ­तस्य चैतन्यस्य कुत्रान्तर्भाव उपेयते । न तवज्जीवे शुद्धचैतन्ये वा अन्तर्भावः सम्भवति । तयोः उपादानत्वाभावेन देह­द्व­यो­पा­दा­न­कू­ट­स्थस्य तयोः अन्त­र्भा­वा­यो­गात् । नापि बिम्बभूतेश्वरे तस्य अन्तर्भावः सम्भवति ।

ईश्वरस्य जीव­त­दु­पा­ध्य­न्तः­क­र­णा­दि­स­न्नि­हि­त­तया देहादिविकारेषु अवस्थाने प्रमाणाभावात्, कूट­स्थ­ना­म­क­चै­त­न्यस्य च कूटस्थवादिभिः तथा­त्वा­ङ्गी­का­रात् इत्यत आह —
जीवोपाधिनेति ।
अवि­द्या­प्र­ति­बि­म्ब­रू­प­जी­वस्य विशे­षा­भि­व्य­क्ति­प्र­यो­ज­को­पा­धिना इत्यर्थः । प्राण­च­क्षु­रा­दि­क­मा­दि­प­दार्थः ।

ईश्वर एवेति ।
न शुद्धं ब्रह्म नापि प्रति­बि­म्ब­रू­प­जीवः इत्येवकारार्थः । चेत­ना­चे­त­ना­त्म­क­नि­खि­ल­प्र­प­ञ्चो­पा­दा­न­त्व­प्र­ति­पा­द­क­श्रु­ति­स्मृ­ति­स­ह­स्त्रस्य बिम्ब­भू­ते­श्व­रस्य देहाद्युपादनतया देहादिविकारेषु अन्तरवस्थाने प्रमाणत्वात् कूटस्थस्य च ततो भेदे मानाभावात् इति भावः ।

न केवलं उपा­दा­न­त्व­प्र­ति­पा­द­क­शा­स्त्र­मेव तत्र प्रमाणं, किं तु चेत­ना­चे­त­ना­त्म­क­स­क­ल­ज­ग­न्नि­य­न्तृ­त्व­प्र­ति­पा­द­क­म­न्त­र्या­मि­ब्रा­ह्म­ण­मपि बिम्ब­भू­ते­श्व­रस्य विकारेषु अन्तरवस्थाने प्रमाणं इत्याह —
यो विज्ञाने तिष्ठ­न्नि­त्या­दि­श्रु­त्येति ।
‘विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयति’ [बृ.उ.३-७-२२] इत्यादिवाक्यं आदिपदेन गृह्यते । अत्र विज्ञानपदं जीवपरम् । बृहदारण्यके माध्यन्दिनपाठे ‘य आत्मनि तिष्ठन्’ इति पर्यायस्थाने काण्वपाठे ‘यो विज्ञाने तिष्ठन्’ इति पर्या­या­म्ना­न­द­र्श­नेन काण्वपाठे विज्ञानपदस्य आत्म­प­द­स­मा­ना­र्थ­क­त्वा­व­ग­मात् । आत्मपदं च अत्र जीवपरम्, तस्य तत्र रूढत्वात्, आत्मपदस्य जीवे­श्व­र­सा­धा­र­ण­त्वेऽपि निय­म्य­त्व­लि­ङ्गेन प्रकृते जीव­प­र­त्वा­व­श्य­म्भा­वात् इति भावः ।

जीव­स­न्नि­धा­ने­नेति ।
ईश्वरस्य जीवा­दि­नि­य­न्तृत्वं हि व्यवहितराजादेः प्रजा­नि­य­न्तृ­त्व­वत् न भवति, किं तु निय­म्य­जी­वा­दि­स­न्नि­धा­ने­नैव । ‘य आत्मनि तिष्ठन्’ इति सन्नि­धा­न­प्र­तीतेः इत्यर्थः । अन्त­र्या­मि­ब्रा­ह्म­ण­वा­क्य­ग्र­हणं स्मृते­र­प्यु­प­ल­क्ष­णम् । तथा च भग­व­द्गी­ता­स्मृतिः — ‘ईश्व­र­स्स­र्व­भू­तानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥’ [भ.गी. १८-६१] इति । भूतानि प्राणिनः, यन्त्रं शरीरं, तदारूढत्वं तत्र अहं­म­मा­भि­मा­न­व­त्त्वम् ।

भ्रामयन्निति ।
कर्मानुसारेण प्रवर्तयन् निवर्तयंश्च इत्यर्थः । ईश्वरस्य नियन्तृत्वं मायोपाधिकमेव न वास्तवं इत्याशयेन मायया इत्युक्तम् । एवं चैतन्यस्य प्रति­बि­म्ब­मु­प­ग­च्छतां मतभेदेन जीवेश्वरविभागो दर्शितः ।

इदानीं तम­न­भ्यु­प­ग­न्तॄणां मतेन जीवादिस्वरूपं दर्शयितुं चैतन्यस्य प्रतिबिम्बं निराकरोति —
अन्ये त्विति ।

रूपानुपहितेति ।
लोके रूपवत एव चन्द्रादेः प्रतिबिम्बो दृश्यते न रूपरहितस्य वाय्वादेः इति व्याप्ति­द­र्श­नात् नीरूपचैतन्यस्य प्रति­बि­म्बा­स­म्भव इत्यर्थः ।

इतश्च चैतन्यस्य न प्रतिबिम्बसम्भव इत्याह —
सुतरां नीरूपे इति ।
अवि­द्या­न्तः­क­र­णादौ इति शेषः । रूपवत एव द्रव्यस्य प्रतिबिम्ब इति नियमस्य वक्ष्यमाणरीत्या गगने व्यभि­चा­र­स­त्त्वेऽपि रूपवत्येवोपाधौ प्रतिबिम्ब इति नियमस्य न क्वचिदपि व्यभिचार इति मत्वा सुतरां इत्युक्तम् ।

ननु नीरूपगगनस्य कूपजलतटाकादौ प्रति­बि­म्बा­नु­भ­वात् नीरूपद्रव्यस्य प्रतिबिम्बाभाव इति नियमो नास्ति इत्याशङ्क्याह —
गगनेति ।
कूपजलादौ तावत् आलोकप्रतिबिम्बः सम्प्रतिपन्नः । तस्मिन् गग­न­प्र­ति­बि­म्ब­त्व­भ्रमो लोकानां इति कल्प्यते । न तु वस्तुतः तत्र गग­न­प्र­ति­बि­म्बोऽस्ति । उक्त­नि­य­म­वि­रो­धात् ।

भ्रम­प्र­यो­ज­क­दो­ष­माह —
गग­ना­भो­ग­व्या­पि­नीति ।
आभोगो विस्तारः । गगनोपरिभागे व्याप्य वर्तमानस्य सवि­तृ­कि­र­ण­म­ण्ड­लादेः जले प्रति­बि­म्ब­द­र्श­नात् तदनुगतगगनस्य जले प्रतिबिम्बभ्रम इत्यर्थः । ननु - यथा बहिः ‘नीलं नभः, विशालं नभः’ इत्यादिरूपेण गगनमनुभूयते, एवं कूप­त­टा­का­दि­ज­लेऽपि ‘नीलं नभः, विशालं नभः’ इत्या­दि­रू­पोऽ­नु­भवः सर्व­स­म्प्र­ति­पन्नः । न च कूपजलादौ प्रती­य­मा­न­वै­शा­ल्या­दि­युक्तं नभो वस्तुतोऽस्ति । अतः प्रति­बि­म्ब­रू­प­मेव तत्र दृश्यमानं नभ इति वक्तव्यम् । ततश्च कथं गग­न­प्र­ति­बि­म्बा­प­लापः क्रियते । न च नीरूपस्य प्रति­बि­म्बा­स­म्भव इति वाच्यम् । रूप­स­ङ्ख्या­प­रि­मा­णा­दे­र्नी­रू­प­स्यापि प्रति­बि­म्ब­द­र्श­नात् । न च द्रव्यत्वमपि विशेषणं विवक्षितं इति वाच्यम् । सिद्धान्ते द्रव्य­गु­णा­दि­प­रि­भा­षाया अनभ्युपगमात् । तदभ्युपगमेऽपि गग­न­प्र­ति­बि­म्बा­नु­भ­वा­नु­रो­धेन ‘रूपो­प­हि­त­द्र­व्यस्य प्रतिबिम्बः तदुपहितत्वं च वस्तु­त­स्स्व­ग­त­रू­पेण स्वस्मि­न्ना­रो­पि­त­रू­पेण वा’ इति निय­म­क­ल्प­नो­प­प­त्तेश्च । तथा च बहि­रा­रो­पि­त­नै­ल्या­दि­वि­शि­ष्ट­ग­ग­नस्य जलादौ प्रति­बि­म्बा­भ्यु­प­गमे न किञ्चित् बाधकम् । न च जलादौ संप्र­ति­प­न्ना­लो­क­प्र­ति­बि­म्बा­ति­रि­क्त­ग­ग­न­प्र­ति­बि­म्बा­भ्यु­प­गमे गौरवमेव बाधकं इति वाच्यम् । आलोकप्रतिबिम्बे गग­न­प्र­ति­बि­म्ब­त्व­भ्र­मा­भ्यु­प­ग­मेऽपि तद्भ्रमविषयस्य आलो­क­प्र­ति­बि­म्बा­धि­क­र­ण­कस्य शुक्ति­रू­प्या­दि­व­द­नि­र्व­च­नी­यस्य गग­न­प्र­ति­बि­म्ब­त्व­स्या­भ्यु­प­ग­न्त­व्य­त्वेन तुल्यत्वात्, अनु­भ­वा­नु­सा­रि­गौ­र­वस्य अदोषत्वाच्च । तस्मात् रूपवत एव द्रव्यस्य प्रतिबिम्ब इति नियमस्य गग­न­प्र­ति­बि­म्ब­स्थले व्यभिचारो दुर्वार इति चेत् — सत्यम् । तथापि चैतन्यस्य प्रतिबिम्बो न सम्भवति, नीरू­पा­न्तः­क­र­णादेः प्रति­बि­म्बो­पा­धि­त्वा­स­म्भ­वात्, इत्यत्रैव तात्पर्यम् । ननु-नीरूपेऽपि ध्वनौ नीरू­प­द्र­व्या­त्म­क­व­र्णानां प्रति­बि­म्बोऽ­स्तीति वक्तव्यम् । तथासत्येव दर्पणश्यामताया दर्प­ण­ग­त­प्र­ति­बि­म्ब­द्वा­रेण बिम्बमुख इव ध्वनिगतानां तारत्वादीनां ध्वनि­ग­त­व­र्ण­प्र­ति­बि­म्ब­द्वारा वर्णे­ष्वा­रो­प­स्स­म्भ­वति, नान्यथा ।

एवं नीरू­पा­न्तः­क­र­णादौ नीरूपात्मनः प्रति­बि­म्ब­स­म्भवः इत्याशङ्क्य दृष्टान्तं विघटयति —
ध्वनाविति ।
ननु-प­ट­हा­ख्य­वा­द्य­वि­शे­षा­दि­श­ब्दो­त्प­त्ति­काले पाषा­ण­वि­शे­षा­दि­स­न्नि­हि­ता­का­श­प्र­दे­शेषु प्रतिध्वनिः श्रूयते । स पूर्व­श­ब्द­प्र­ति­बिम्ब एव, न मुख्यध्वनिः । तदुत्पत्तौ कारणाभावात् ।

तथा च यथा नीरू­पा­का­श­प्र­दे­शेषु नीरूपध्वनेः प्रतिध्वनिरूपः प्रतिबिम्बः तथा प्रकृते किं न स्यादिति - नेत्याह —
प्रतिध्वनिरपीति ।
न च प्रतिध्वनेः उत्पादकाभावः शङ्कनीयः । आका­श­स्यै­वो­पा­दा­नस्य सत्त्वात्, पूर्वशब्दस्य निमित्तकारणस्य सत्त्वाञ्च । न च प्रतिध्वनेः प्रति­बि­म्ब­त्वेऽ­प्या­का­श­गु­णत्वं किं न स्यात् इति वाच्यम् । बिम्ब­प्र­ति­बि­म्ब­यो­र्भे­द­पक्षे प्रति­ध्व­नि­रू­प­प्र­ति­बि­म्बस्य प्राति­भा­सि­क­त्वेन व्याव­हा­रि­क­गु­ण­त्वा­नु­प­पत्तेः, तदभेदपक्षे बिम्ब­भू­त­पृ­थि­व्या­दि­श­ब्दा­पे­क्षया प्रति­ध्व­नि­रू­प­प्र­ति­बि­म्बस्य भेदाभावेन तस्य आका­श­गु­ण­त्वा­नु­प­पत्तेः इति भावः । ननु वर्ण­रू­प­प्र­ति­श­ब्दस्य वर्ण­प्र­ति­बि­म्ब­त्व­म­वश्यं वाच्यं, न तु साक्षा­द्व­र्ण­रू­प­त्वम् । प्रति­व­र्णा­भि­व्य­क्ति­स्थले वर्ण­व्य­ञ्ज­क­क­ण्ठ­ता­ल्वा­दे­र­भा­वात् ।

तथा च यथा तत्र पर्व­त­गु­हा­दि­स­न्नि­हि­तेषु नीरू­पे­ष्वा­का­श­प्र­दे­शेषु नीरूपाणां वर्णानां प्रतिबिम्बः तथा प्रकृते किं न स्यादिति - नेत्याह —
वर्ण­रू­प­प्र­ति­श­ब्दोऽ­पीति ।
प्रतिध्वनिवत् इत्या­पि­श­ब्दार्थः । कण्ठ­ता­ल्वा­दि­स्थ­लेऽपि न कण्ठा­दे­र्व­र्ण­व्य­ञ्ज­कत्वं, किं तु कण्ठा­द्य­भि­घा­त­ज­न्य­ध्वनेः । तथा च यथा मूल­ध्व­नि­र्व­र्ण­व्य­ञ्जकः एवं प्रति­व­र्णा­भि­व्य­क्ति­स्थले उत्पन्नः प्रतिध्वनिरेव तत्र वर्णानां व्यञ्जकः सम्भवतीति न प्रतिवर्णानां प्रति­बि­म्ब­रू­प­त्व­म­भ्यु­प­ग­न्त­व्य­मि­त्यर्थः ।

चैत­न्य­प्र­ति­बि­म्ब­नि­रा­क­र­ण­मु­प­सं­ह­रति —
तस्मादिति ।
चैत­न्य­प्र­ति­बि­म्बा­स­म्भ­वा­दि­त्यर्थः ।

अन्तः­क­र­णा­न­व­च्छि­न्न­चै­त­न्य­स्ये­श्व­रत्वे अन्तःकरणादिषु सर्वविकारेषु पर­मे­श्व­र­स्या­न्त­र्या­मि­भा­वे­ना­व­स्था­न­प्र­ति­पा­द­क­श्रु­ति­वि­रोधं शङ्कते —
न चैवमिति ।

विरुध्येतेति ।
तथा च श्रुति­वि­रो­ध­प­रि­हा­राय प्रतिबिम्बपक्ष एव स्वीकर्तव्य इति भावः ।

प्रति­बि­म्ब­प­क्षा­श्र­य­णेऽपि श्रुति­वि­रो­ध­मा­श­ङ्क्याह —
प्रतिबिम्बपक्षे त्विति ।

तुशब्दसूचितं विशेषमेव दर्शयति —
जलगतेति ।

द्विगु­णी­कृ­त्येति ।
प्रति­बि­म्ब­रू­प­जी­व­भा­वेन तत्त­दु­पा­ध्य­न्त­र्या­मि­भा­वेन च इत्यर्थः ।

प्रति­बि­म्ब­प­क्षेऽपि अन्त­र्या­मि­ब्रा­ह्म­ण­वि­रोधो दुष्परिहर इत्याह —
यत इति ।
यत ईश्व­रेऽ­न्त­र्या­मि­ब्रा­ह्म­णा­ञ्ज­स्या­भा­व­स्तुल्यः अतो न च वाच्यमिति सम्बन्धः ।

तत्रेति ।
अन्तः­क­र­णा­दा­वि­त्यर्थः । ननु - यथा जले कृत्स्नस्य चन्द्रमण्डलस्य प्रतिबिम्बः, तथा कृत्स्नस्यैव चैतन्यस्य अन्तःकरणादौ प्रति­बि­म्बोऽस्तु, न तु उपा­ध्य­न­न्त­र्ग­त­चै­त­न्य­भा­गस्य अण्डा­द्ब­हि­र्भू­तस्य ।

तथा च बिम्ब­भू­ते­श्व­रस्य अण्डान्तरपि सत्त्वात् न अन्त­र्या­मि­ब्रा­ह्म­ण­वि­रो­ध­तौ­ल्य­मिति - नेत्याह—
न त्विति ।

असम्भवमेव दर्शयति —
न हीति ।

आलोकस्य वेति ।
बहि­स्स्थि­त­स्येति शेषः ।

जला­न्त­र्ग­त­स्या­पीति ।
आका­शा­दे­रि­त्य­नु­षङ्गः ।

तत्रेति ।
जलादावित्यर्थः ।

उदाहरणान्तरमाह —
ने वेति ।

ततः किं - तत्राह —
अत इति ।
उपा­ध्य­न्त­र्ग­त­भा­गस्य तत्र प्रति­बि­म्बा­स­म्भ­वा­दि­त्यर्थः ।

तद­न­न्त­र्ग­त­स्यै­वेति ।
चैतन्यस्येति शेषः । दृष्टा­नु­रो­धि­त्वात् कल्पनायाः इति भावः ।

विकारान्तरिति ।
अण्डा­न्त­र्ग­त­चै­त­न्य­भा­गस्य उपा­ध्य­न्त­र्ग­त­त्वात् तद्ब­हि­स्स्थि­त­स्यैव चैतन्यस्य बिम्बत्वं वाच्यमिति बिम्ब­भू­ते­श्व­रोऽ­प्य­ण्डात् बहिरेव स्यात् इत्यर्थः । यदि च प्रतिबिम्बपक्षे ईश्वरस्य सर्वा­न्त­र्या­मि­त्व­प्र­ति­पा­द­क­श्रु­त्या­द्य­नु­सा­रेण लोक­दृ­ष्टि­म­ना­दृत्य कृत्स्न­चै­त­न्य­प्र­ति­बि­म्ब­मु­पेत्य अन्त­र्या­मि­ब्रा­ह्म­णा­ञ्ज­स्य­मु­प­पा­द्यते, तदा अन­व­च्छि­न्न­चै­त­न्य­मी­श्वर इति पक्षेऽपि ‘अन्तः­क­र­णा­भा­वा­व­च्छि­न्न­चै­त­न्य­मी­श्वर इति विवक्षितम्, अन्तःकरणस्य कल्पितत्वेन चैतन्ये अन्तः­क­र­णा­द्य­व­च्छे­दे­ना­प्यन्तः करणाभावस्य वास्तवस्य सत्त्वेन तद­व­च्छि­न्न­चै­त­न्य­रू­पे­श्व­रस्य सर्व­वि­का­रा­न्त­र­व­स्था­न­स­म्भ­वात् तत्प्र­ति­पा­द­क­ब्रा­ह्म­णा­ञ्जस्यं तुल्यम्’ इति समाधानं बोध्यम् । अभा­व­स्या­पी­श्व­रो­पा­धि­त्व­मुक्तं तृप्तिदीपे — ‘अन्तः­क­र­ण­सा­हि­त्य­रा­हि­त्या­भयं विशिष्यते । उपा­धि­र्जी­व­भा­वस्य ब्रह्मतायाश्च नान्यथा ॥यथा विधि­रु­पा­धि­स्स्यात् प्रतिषेधस्तथा न किम् । सुवर्णलोहभेदेन शृङ्खलात्वं न भिद्यते ॥अ­त­द्व्या­वृ­त्ति­रू­पेण साक्षा­द्वि­धि­मु­खेन च । वेदान्तानां प्रवृत्तिः स्याद्द्वि­धे­त्या­चा­र्य­भा­षि­तम् ॥ (पं.द.७-८५-८७) इति । श्लोकानामयमर्थः — जीव­त्व­ब्र­ह्म­त्व­यो­रु­पाधिः अन्तः­क­र­ण­सा­हि­त्य­रा­हि­त्याभ्यां विशिष्यते - भिद्यते । तत्साहित्यं जीवत्वोपाधिः, तद्राहित्यं ब्रह्मताया उपाधिः, इति जीवे­श्व­रो­पा­धि­भेद इत्यर्थः । नान्यथा - न प्रकारान्तरेण जीव­भा­वा­द्यु­पा­धि­रि­त्यर्थः ।

ननु भाव­स्यै­वो­पा­धित्वं नाभा­व­स्ये­त्या­शङ्क्य विनिगमनाविरहमाह —
यथेति ।

भाववदभावस्य व्याव­र्त­को­पा­धित्वे विशेषो नास्तीत्यत्र दृष्टान्तमाह —
सुवर्णेति ।
शृङ्खलात्वं नाम यथे­च्छा­स­ञ्चा­र­व्या­व­र्त­क­त्वम् ।

ननु भाव­रू­पा­न्तः­क­र­णादेः द्रष्टृ­त्वा­दि­रू­पेण जीवो­प­ल­ब्धि­सा­ध­न­त्वात् तस्य जीवोपाधित्वं युक्त­मि­त्या­शङ्क्य तर्ह्य­न्तः­क­र­ण­नि­षे­ध­स्यापि ब्रह्मो­प­ल­ब्धि­सा­ध­न­त्वात् तस्य ब्रह्मोपाधित्वं युक्त­मि­त्य­भि­प्रेत्य तत्तु­दु­पा­धि­नि­षे­धस्य ब्रह्मो­प­ल­ब्धि­सा­ध­नत्वं भाष्य­का­रै­रु­क्त­मि­त्याह —
अत­द्व्या­वृ­त्तीति ।
अत्र तच्छब्देन ब्रह्मोच्यते । तन्न भवतीत्यतत् अन्तः­क­र­णा­दि­रू­प­मु­पा­धि­जातं, तस्य - अतदो व्यावृत्तिः - निषेधः, तद्रूपेण - तद्बो­ध­न­द्वा­रे­ने­त्यर्थः । साक्षा­द्वि­धि­मु­खेन च — ‘मनसस्साक्षी बुद्धेस्साक्षी सर्वस्य साक्षी’ [नृ.उ.] ‘पश्यन् शृण्वन् मन्वानः’ [बृ.उ. १-४-७] इत्यादिप्रकारेण च, प्रवृत्तिः - बोधकता-ब्रह्मणि तेषां प्रामाण्यमिति । तथा च उक्तरीत्या प्रति­बि­म्बा­व­च्छे­द­प­क्ष­यो­रु­भ­यो­र­प्य­न्त­र्या­मि­ब्रा­ह्म­णा­ञ्ज­स्या­भा­वा­ञ्ज­स्ययोः तुल्यत्वे सति ‘सुतरां नीरूपे’ इत्यादिना चैत­न्य­प्र­ति­बि­म्बा­स­म्भ­वस्य दर्शितत्वात् प्रतिबिम्बपक्षं त्यक्त्वा अवच्छेदपक्ष एव आदरणीय इति भावः ।

एवमवच्छेदपक्षे दोषान्तरमपि वक्ष्य­मा­ण­दो­ष­तौ­ल्या­दि­नैव निरस्तमित्याह —
एतेनेति ।

स्वान­न्त­र्ग­त­स्येति ।
प्रागु­क्त­यु­क्ति­र­त्रा­नु­स­न्धेया । स्वस­न्नि­हि­त­स्ये­ति­वि­शे­ष­णस्य अयमभिप्रायः — यदि सर्वे­ष्व­न्तः­क­र­णेषु तदनन्तर्गतस्य अण्डात् बहि­र्वि­द्य­मा­न­स्यैव चैतन्यभागस्य एकस्य प्रति­बि­म्ब­स्स­म्भ­वेत्, तदा बिम्ब­चै­त­न्य­प्र­दे­श­भे­दा­भा­वात् प्रत्यन्तःकरणं बिम्ब­चै­त­न्य­प्र­दे­श­भे­देन प्रति­बि­म्ब­भे­दा­पा­दनं न सम्भवेत् । न च तथा सम्भवति । व्यवहितस्य प्रति­बि­म्बा­यो­गात् । किं तु तत्र­त­त्रा­न्तः­क­रणे सन्निहितस्यैव चैतन्यप्रदेशस्य बिम्बत्वं वाच्यम् । ततश्चेह परत्र च प्रति­बि­म्ब­भे­दा­पा­दनं युक्तमिति ।

दोषतौल्यादिति ।
कृत­हा­ना­कृ­ता­भ्या­ग­म­प्र­स­ङ्ग­दो­ष­तौ­ल्या­दि­त्यर्थः ।

अविद्यायां चित्प्रतिबिम्ब ईश्वरः, अन्तःकरणे चित्प्रतिबिम्बो जीवः, इति पूर्वप्रदर्शिते संक्षे­प­शा­री­र­क­पक्षे दोषतौल्येऽपि विवरणादिपक्षे उक्त­दो­षा­प्र­सक्तेः तस्योपादेयत्वं स्यादिति शङ्कते —
न चेति ।
गत्वरं गमनशीलम् ।

तदुपरीति ।
जला­श­यो­प­री­त्यर्थः ।

विसृत्वरेति ।
यथा तत्रतत्र जलप्रदेशेषु विसृत्वरः - गमनशीलः - मेघच्छिद्रेभ्यो निस्सृतः स्फीतालोकखण्डो महा­मे­घ­म­ण्ड­ल­प्र­ति­बि­म्बस्य जलाशयव्यापकस्य विशेषेण स्फुरणहेतुः तथा तत्रतत्र - इह परत्र च कर्तृ­त्व­भो­क्तृ­त्वा­दि­वि­शे­षा­भि­व्य­क्ति­हेतुः अन्तःकरणं इति पक्षे इत्यर्थः ।

कृत­हा­ना­दि­दो­षा­भावे हेतुमाह —
अन्तःकरणवदिति ।

यदि प्रति­बि­म्ब­वा­दिना अन्तः­क­र­ण­प्र­ति­बिम्बो जीव इति पक्षं उक्तदोषतौल्येन परित्यज्य अवि­द्या­प्र­ति­बिम्बो जीव इति पक्षः स्वीक्रियते, तदा अव­च्छे­द­वा­दि­नाऽपि अन्तः­क­र­णा­व­च्छिन्नो जीव इति पक्षं कृत­हा­ना­दि­दो­ष­युक्तं त्यक्त्वा उक्तदोषरहितं अवि­द्या­व­च्छिन्नो जीव इति मतमुपादीयत इत्याह —
तथैवेति ।

जीव इति ।
उपलक्षणं चैतत् । अविद्यायाः कल्पितत्वेन वास्त­व­त­द­भा­वा­व­च्छि­न्न­श्चि­दात्मा ईश्वरः इत्यु­प­ग­म­स­म्भ­वाच्च इत्यपि द्रष्टव्यम् । एवं अवि­द्या­प्र­ति­बिम्बो जीव इति पक्षे कृत­हा­ना­दि­दो­षा­भा­व­मु­पेत्य तत्साम्यं अवि­द्या­व­च्छि­न्नस्य जीवत्वपक्षे दर्शितम् ।

इदानीं अन्तः­क­र­णा­व­च्छे­द­पक्षे कृत­हा­ना­दि­दो­षा­भावं सम­र्थ­यि­तु­म­वि­द्या­प्र­ति­बिम्बो जीव इति पक्षेऽपि कृत­हा­ना­दि­दो­ष­मा­शङ्क्य परिहरति —
तत्रापीति ।
अवि­द्या­प्र­ति­बिम्बो जीव इति पक्षेऽपीत्यर्थः ।

क्वचित् प्रदेश इति ।
ब्राह्म­णा­दि­श­री­र­ग­ता­न्तः­क­र­णा­व­च्छि­न्न­प्र­देशे इत्यर्थः ।

प्रदेशान्तर इति ।
देवा­दि­श­री­र­ग­त­त­द­व­च्छि­न्न­प्र­देश इत्यर्थः ।

वस्तुत इति ।
प्रदेशभेदे सत्यपि इह परत्र च अवि­द्या­प्र­ति­बि­म्ब­रू­प­जी­वै­क्य­मा­त्रेण कृतहानादिदोषः परिहर्तव्यः, प्रति­बि­म्ब­वा­दिनां गत्य­न्त­रा­भा­वा­दि­त्यर्थः ।

सोऽयं परि­हा­र­प्र­का­रोऽ­न्तः­क­र­णा­व­च्छे­द­प­क्षेऽपि समान इत्याह —
तन्न्यायादिति ।

वस्तुत इति ।
इह परत्र च अन्तः­क­र­णा­व­च्छे­द्य­चै­त­न्य­प्र­दे­श­भे­देऽपि चैतन्यस्य वस्तुत एकत्वात् न कृतहानादिदोष इत्यर्थः ।

ननु वास्त­व­चै­त­न्यै­क्य­मा­त्रस्य जीवा­न्त­र­सा­धा­र­ण­त्वात् अन्यकृतकर्मणा अन्यस्य भोगप्रसङ्गः इत्यत आह —
तदवच्छेदकेति ।
तत्पदं चैतन्यपरम् । तथा च एका­न्तः­क­र­णा­व­च्छि­न्न­चै­त­न्य­मेको जीवः, अन्तः­क­र­णा­न्त­रा­व­च्छि­न्न­चै­त­न्य­मन्यो जीवः, इति स्वीकारात् नोक्तातिप्रसङ्ग इति भावः । अस्मि­न्न­व­च्छे­द­पक्षे प्रागुक्तरीत्या वास्त­वा­न्तः­क­र­णा­भा­वा­व­च्छि­न्न­चै­त­न्य­मी­श्वरः ‘कार­णो­पा­धि­री­श्वरः’ इति श्रुत्यनुरोधेन अवि­द्या­व­च्छि­न्न­चै­तन्यं वा ईश्वरः इति बोध्यम् ।

अस्य पक्षस्य श्रुति­सू­त्राभ्यां विरोधं शङ्कते —
न चावच्छेदपक्ष इति ।
यथा एको विवस्वान् पात्रभेदेन भिन्ना अपोऽनुगच्छन् — बहुजलपात्रेषु प्रतिबिम्बतः सन्निति यावत्, बहुधा भेदरूपः क्रियते-औपाधिकं नानात्वं प्रतिपद्यते, एवं देवः-स्वप्रकाश आत्मा स्वत एकस्सन् क्षेत्रेषु उपाधिषु प्रतिबिम्बितः भेदरूपः क्रियतेनानात्वं लभते इति यावत् । यथा एकस्य सूर्यस्य बहुषु उपाधिषु - प्रति­बि­म्ब­त­त्व­प्र­युक्तो भेदः, एवमात्मनोऽपि क्षेत्रेषु प्रति­बि­म्बि­त­त्व­प्र­यु­क्त­मेव नानात्वं इह विवक्षितं इति वक्तव्यम् । अन्यथा दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­र­तु­ल्य­त्वा­पत्त्या तयो­र­सा­म­ञ्ज­स्य­प्र­स­ङ्गात् । तथा च अवच्छेदपक्षः श्रुतिविरुद्ध इत्यर्थः । एवम् ‘एक एव तु भूतात्मा भूतेभूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥’ ‘रूपंरूपं प्रतिरूपो बभूव’ ‘जीवेशावाभासेन करोति’ इत्या­दि­श्रु­त­योऽपि चैतन्यस्य प्रति­बि­म्ब­ग­म­क­त्वेन द्रष्टव्याः । भूतानां ब्रह्मा­दि­स्त­म्ब­प­र्य­न्तानां आत्मा-स्व­रू­प­भूतः परः । भूतेभूते इति वीप्सा, तया सर्वे प्रति­बि­म्बो­पा­धयो गृह्यन्ते । तेषु प्रतिबिम्बततया व्यवस्थितः सन् बहुधा दृश्यते । स्वतस्तु शास्त्रादेकधा दृश्यते । रूपशब्द उपाधिपरः । अत्रापि वीप्सा सर्वो­पा­धि­स­ङ्ग्र­हार्था । प्रति­रू­पः-प्र­ति­बिम्बः । पुरु­ष­प्र­ति­बिम्बे पुरु­ष­प्र­ति­रू­पोऽ­य­मिति प्रयोगदर्शनात् ।

तृती­या­ध्या­य­ग­त­सू­त्र­मु­दा­ह­रति —
अत एवेति ।
यतः चिदात्मनः स्वाभा­वि­क­मे­कत्वं नानात्वं चौपाधिकं श्रुतिषु विवक्षितम्, अत एव तस्यौ­पा­धि­क­ना­नात्वे जलादिषु प्रतिबिम्बितः सूर्यादिः दृष्टान्तत्वेन श्रुतिषूपादीयते इति सूत्रार्थः । ‘रूपंरूपं’ इति श्रुतौ प्रतिरूपशब्दो न प्रतिबिम्बवाचकः । ‘वायुर्यथैको भुवनं प्रविष्टो रूपंरूपं प्रतिरूपो बभूव’ इत्यादौ व्यभिचारात् । अतः सूर्या­दि­प्र­ति­बि­म्ब­दृ­ष्टा­न्त­स्वा­र­स्या­देव चैत­न्य­प्र­ति­बिम्बो वक्तव्यः ।

तं प्रतिबिम्बं स्वयमेव सूत्र­कृ­दा­क्षि­पति —
अम्बुवदिति ।

सूत्रे दृष्टा­न्त­भा­ग­स्या­र्थ­माह —
यथेति ।
प्रति­बि­म्बो­द­य­यो­ग्यत्वं स्वच्छत्वम् ।

उपा­ध्य­न्त­र्ग­तस्य न तत्र प्रतिबिम्ब इत्याशयेनाह —
तत इति ।
बिम्ब­भू­त­सू­र्या­पे­क्ष­ये­त्यर्थः ।

दार्ष्टा­न्ति­क­भागं व्याचष्टे —
नैवमिति ।
न तथात्वं - चिदात्मनः प्रति­बि­म्ब­त­सू­र्या­दि­तु­ल्यत्वं नास्ति । कुतः ? अग्रहणात् - अन्तः - कर­णा­दे­रा­त्म­प्र­ति­बि­म्बो­द­य­यो­ग्य­त्वे­ना­ग्र­ह­णात् । न ह्यन्तःकरणं आत्मापेक्षया विप्र­कृ­ष्ट­दे­श­वत् । सर्व­ग­त­त्वा­दा­त्मनः । नापि तत् उद्भूतरूपवत् । अनङ्गीकारात् । चिदात्मनोऽपि सूर्यादिवत् बिम्ब­त्व­यो­ग्य­त्वे­ना­ग्र­ह­णाच्च । तस्य नीरू­प­द्र­व्य­त्वात् । तस्मात् प्रति­बि­म्बि­त­सू­र्य­चि­दा­त्म­नो­र्दृ­ष्टा­न्त­दा­र्ष्टा­न्ति­क­भा­वा­नु­प­प­त्ति­रिति तुशब्दार्थः ।

दृष्टा­न्त­दा­र्ष्टा­न्ति­कयोः प्रति­बि­म्बि­त­त्वां­शेन साम्याभावेऽपि न तद्भा­व­वि­रो­धोऽस्ति, विवक्षितांशेन साम्यस्य तत्रापि सम्भवात्, न हि तयोस्सर्वसाम्यं क्वचिदपि सम्भवति, तथासति दृष्टा­न्त­दा­र्ष्टा­न्ति­क­भा­वो­च्छे­द­प्र­स­ङ्गात् - इत्यभिप्रेत्य विव­क्षि­तां­श­साम्यं सूत्र­कृ­द्द­र्श­यति —
वृद्धिहासेति ।
तदनन्तरेत्यत्र तत्पदं अम्बु­व­दि­ति­सू­त्र­परं सूत्रं व्याचष्टे -

यथेति ।
आध्यासिकमिति ।
भ्रान्ति­सि­द्ध­मि­त्यर्थः ।

तथेति ।
चिदात्मनो बुद्ध्या­द्य­व­च्छि­न्न­तया बुद्ध्या­द्यु­पा­धा­व­न्त­र्भा­वात् जगादिशरीरे अन्तःकरणवृद्धौ चिदात्मा वर्धत इव मश­का­दि­श­री­रेऽ­न्तः­क­र­ण­ह्रासे ह्रसत इव तच्चलने चलतीव, तद्भेदे भिन्न इव च भाति । तथा च श्रुतिः - ‘ध्यायतीव लेलायतीव’ इति । बुद्धौ ध्याय­न्त्या­मात्मा ध्यायतीव, तस्यां चलन्त्यामांत्मा चलतीव, न तु वस्तुतो ध्यायति चलति वा, इत्यर्थः । एव­म­ध्या­स­सि­द्ध­मन्तः कर­णा­नु­रो­धि­वृ­द्ध्या­दि­मत्त्वं आत्मनोऽत्र विवक्षितं साम्यमित्यर्थः ।

तयोरिति ।
चैतन्यस्य प्रति­बि­म्बि­त­त्व­ग­म­क­श्रु­ति­त­न्मू­ल­क­सू­त्रयोः पूर्व­मु­दा­त्हृ­त­यो­रि­त्यर्थः ।

अवच्छेदपक्षे न केवलं श्रुति­सू­त्र­वि­रो­धा­भाव एव किं तु श्रुति­सू­त्रा­नु­ग्र­होऽ­प्य­स्ती­त्याह —
घटसंवृतमिति ।
घटसंवृतं - घटावच्छिन्नं आकाशं प्रसिद्धमस्ति । तच्च घटे नीयमानेऽपि न नीयते । यथा अयं दृष्टान्तः तद्वत् जीवो नभोपमः - नभसा तुल्यः । एतदुक्तं भवति — जीवस्य नभोपमशब्देन घट­सं­वृ­ता­का­श­तु­ल्य­त्व­म­भि­द­धता अव­च्छि­न्न­चै­त­न्य­रू­प­त्व­मु­क्त­मिति । एवं प्रवेशश्रुतिरपि चिदात्मनो बुद्ध्या­द्य­व­च्छे­द­कृ­त­मेव द्रष्टृ­त्वा­दि­ध­र्म­लाभं दर्शयति, न प्रति­बि­म्ब­भा­व­कृ­तम् । तथाहि - ‘स एष इह प्रविष्ट आनखाग्रेम्यः’ इत्युपक्रम्य ‘प्राणन्नैव प्राणो नाम भवति वदन् वाक् पश्यन् चक्षुः शृण्वन् श्रोत्रं मन्वानो मनः’ (बृ.उ.१-४) इति पुरु­ष­वि­ध­ब्रा­ह्मणे श्रूयते । अयमर्थः - सः - सर्ववेदान्तेषु प्रसिद्धः, एषः - नाम­रू­प­व्या­क­र्तृ­त्वेन सन्निहितः, इह - कार्य­क­र­ण­स­ङ्घाते, नखाग्रमवधीकृत्य प्रविष्टः । ननु - यथा देवदत्तस्य गृहे सर्पस्य वा बिले प्रवेशः प्रसिद्धः न तथा आत्मनः प्रवेशः कल्पयितुं शक्यते । तस्य सर्वगतत्वात् । नापि जलपात्रेषु सूर्यादेरिव प्रति­बि­म्ब­भा­व­ल­क्षणः प्रवेशः सम्भवति । तस्य तैत्तिरीयकादौ प्रवे­श­वा­क्य­वि­चा­रा­व­सरे भाष्यकारैरेव निरस्तत्वात् ।

अतः कीदृशः प्रवेशः प्रविष्टपदेन विवक्षितः — इति जिज्ञासायां यथा जले प्रतिबिम्बभावेन प्रविष्टस्य सूर्या­दे­स्त­द्ध­र्म­व­त्तया उप­ल­भ्य­मा­न­त्व­मस्ति, एवमात्मनः सङ्घाते अधिष्ठानतया प्राक्सि­द्ध­स्यैव प्राण­बु­द्ध्या­दि­ध­र्म­व­त्तया उपलभ्यमानत्वमेव प्रकृते प्रविष्टपदेन विवक्षितं, न तु मुख्यः प्रवेशः, इति मन्वाना श्रुतिः स्वयमेव प्रविष्टपदं व्याचष्टे —
प्राण­न्नै­वे­त्या­दिना ।
प्राणन् — प्राणनचेष्टां प्राणो­पा­धि­द्वारा कुर्वन् ‘प्राणस्य प्राणं’ इत्यादिश्रुतौ द्विती­य­प्रा­ण­प­द­वाच्यो भवति । रूपं पश्यन् — रूप­गो­च­र­चा­क्षु­ष­वृत्तिं अन्तः­क­र­ण­ता­दा­त्म्या­पत्त्या कुर्वन् ‘चक्षु­ष­श्चक्षुः’ इत्यादिश्रुतौ द्विती­य­च­क्षु­श्श­ब्द­वाच्यो भवति । शृण्वन् — शब्दगोचरां श्रोत्रकरणिकां वृत्तिं अन्तः­क­र­ण­ता­दा­त्म्या­प­त्त्यैव कुर्वन् ‘श्रोत्रस्य श्रोत्रं’ इत्यादिश्रुतौ द्विती­य­श्रो­त्र­श­ब्द­वाच्यो भवति । मन्वानः — मननरूपां चक्षु­रा­दि­नि­र­पेक्षां वृत्तिं कुर्वन् ‘मनसो मनः’ इत्यादिश्रुतौ मनश्शब्दवाच्यो भवति । चक्षु­रा­दि­व्या­पा­र­ग्र­हणं कार्य­क­र­ण­स­ङ्घा­त­व्या­पा­र­मा­त्र­स्यो­प­ल­क्ष­णम् । संघातधर्माणां सर्वेषां आत्म­न्यु­प­ल­भ्य­मा­न­त्वात् । नन्वेवमपि अवच्छेदपक्षस्य द्विती­या­ध्या­य­ग­तेन ‘आभास एव च’ [ब्र.सू. २-३-५०] इति सूत्रेण तद्भाष्येण च विरोधो दुर्वारः । तयोः चैत­न्य­प्र­ति­बि­म्बस्य स्पष्ट­मु­क्त­त्वात् । सूत्रार्थस्तु - आभास एव - जीवः परमात्मनः प्रतिबिम्ब एव, न निरुपाधिकः परमात्मैव जीवः । नापि न्यायमत इव पर­मा­त्म­स­का­शा­द­त्य­न्त­भिन्नः । तत्त्व­म­स्या­द्य­भे­द­श्रु­ति­वि­रो­धात् । प्रतिबिम्बस्य च वस्तुतो बिम्बा­भि­न्न­त्वेन आभासत्वपक्षे उक्त­श्रु­ति­वि­रो­धा­भा­वा­दिति चशब्दार्थः इति — न - उदा­हृ­त­सू­त्र­त­द्भा­ष्ययोः उक्त­प्र­ति­बि­म्ब­प­क्षस्य ‘भोक्त्रा­प­त्ते­र­वि­भा­ग­श्चे­त्स्या­ल्लो­क­वत्’ [ब्र.सू. २-१-१३] इति सूत्रो­क्त­सि­द्धा­न्त­वत् मता­न्त­र­त्वो­प­पत्तेः । न च तथाकल्पने किं विनिगमकमिति वाच्यम् । तृतीयाध्याये स्वयं सूत्रकृतैव न्यायपूर्वकं कृतस्य चैत­न्य­प्र­ति­बि­म्ब­नि­रा­सस्य नियामकत्वात्, आभाससूत्रे च जीवस्य प्रतिबिम्बत्वे उप­प­त्त्या­दे­र­नु­प­न्या­साच्च । भोक्त्रा­प­त्ति­सू­त्रस्य अयमर्थः — ‘सर्वं खल्विदं ब्रह्म’ [छा.उ. ३-१-४१] इति श्रुत्या प्रपञ्चस्य ब्रह्माभेदः प्रतिपाद्यते । ‘अहं ब्रह्मास्मि’ [बृ.उ.१-४-१०] इति श्रुत्या अहं­श­ब्दा­र्थ­भू­त­भो­क्तृ­व­र्गस्य च ब्रह्माभेदः प्रतिपाद्यते । तथा च श्रुति­द्व­या­नु­सा­रेण भोक्तृ­भो­ग्य­प्र­प­ञ्चयोः एक­ब्र­ह्मा­भे­द­स्वी­कारे भोग्यप्रपञ्चस्य भोक्त्रापत्तेः - भोक्त्र­भे­दा­पत्तेः, एवं भोक्तुरपि भोग्या­भे­दा­पत्तेः, एक­ब्र­ह्मा­भि­न्न­यो­स्तयोः पर­स्प­र­म­प्य­भे­दा­व­श्य­म्भा­वात् । न चेष्टापत्तिः । तथासत्यविभागः प्रसज्येत - भोक्तृ­भो­ग्य­यो­र्वि­भा­ग­बो­ध­क­प्र­त्य­क्षा­दि­वि­रोधः प्रसज्येत इति चेत्, उच्यते — श्रुतिसिद्धं भोक्तृ­भो­ग्य­यो­रे­क­ब्र­ह्मा­भि­न्नत्वं तयोः प्रत्य­क्षा­दि­सिद्धं परस्परं विभक्तत्वं चेत्युभयं लोकवत् स्यात् - उपपद्यते । यथा लोके एक­स­मु­द्र­वि­का­राणां फेन­बु­द्बु­द­त­र­ङ्गा­णा­मे­क­स­मु­द्रा­भि­न्न­त्वम्, परिणामानां परि­णा­म्य­भे­द­स्या­नु­भ­व­सि­द्ध­त्वात्, तेषामेव फेनादीनां परस्परं भिन्नत्वं चास्ति, भेद­स्या­नु­भ­व­सि­द्ध­त्वात्, एवं एक­ब्र­ह्म­प­रि­णा­म­यो­र्भो­क्तृ­भो­ग्य­यो­रे­क­ब्र­ह्मा­भि­न्नत्वं परस्परं भिन्नत्वं चोपपद्यत इति न अद्वैतश्रुतीनां प्रत्य­क्षा­दि­वि­रो­ध­प्र­स­क्ति­रिति । अयं च विरोधपरिहारो न सिद्धान्तसम्मतः । कूटस्थनित्यस्य ब्रह्मणः परि­णा­मि­त्वा­न­भ्यु­प­ग­मात्, किं तु मता­न्त­रा­भि­प्रा­येण, इति भाष्यादिषु घण्टाघोषः, तथा प्रकृतेऽपीति संक्षेपः ।

अंश इति ।
जीव ईश्वरस्यांशः । कुतः । नानाव्यपदेशात् ‘य आत्मानमन्तरो यमयति’ इत्यादिश्रुतिषु निय­म्य­नि­या­म­क­भा­वा­दिना जीवे­श्व­र­यो­र्ना­ना­त्वस्य - भेदस्य व्यपदेशात् इति सूत्र­भा­ग­स्या­क्ष­रार्थः । अत्र अंशत्वं जीवचैतन्यस्य घटा­का­श­व­द­न्तः­क­र­णा­व­च्छि­न्न­त्व­रूपं विवक्षितम्, न तु मुख्यमंशत्वम्, निरवयवस्य ब्रह्मणो मुख्यां­शा­स­म्भ­वात्, इति तदधिकरणभाष्ये स्फुटमिति भावः ।

अव­च्छे­द­प­क्ष­स­म­र्थ­न­मु­प­सं­ह­रति —
तस्मादिति ।
प्रति­बि­म्बा­स­म्भ­वात् अवच्छेदपक्षे विरोधाभावात् साधकसत्त्वाच्च इत्यर्थः ।

अव­च्छे­द्य­चै­त­न्यस्य प्रति­बि­म्ब­प­क्षेऽपि सम्मततया उभ­य­सं­प्र­ति­प­न्नस्य तस्यैव जीवत्वादिकल्पनं युक्तं लाघवात् इत्याशयेनाह —
अव­च्छे­दोऽ­व­श्यं­भा­वीति ।

अवच्छिन्न इति ।
अन्तः करणावच्छिन्नो जीवः । जीव­ग्र­ह­ण­मु­प­ल­क्ष­णम् । अविद्यावच्छिन्न ईश्वरः । ‘कार्योपाधिरयं जीवः कार­णो­पा­धि­री­श्वरः’ इति श्रुतेः । ‘जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति’ इति श्रुतौ च आभा­स­प­द­म­व­च्छि­न्न­प­रम् । प्रति­बि­म्बा­स­म्भ­व­स्यो­क्त­त्वात् । मायापदं च प्रथ­मो­पा­त्त­जी­वो­पा­धि­भू­ता­न्तः­क­र­ण­प­रम् । ‘कार्योपाधिरयं जीवः’ इति श्रुतेः । एवं माया­प­दो­पा­त्ता­न्तः­क­र­णस्य च मूल­प्र­कृ­त्या­त्म­कत्वं प्रकृ­ति­वि­का­र­भा­व­प्र­यु­क्तम् । पूर्वं अन­व­च्छि­न्न­स्ये­श्व­र­त्वोक्तिः तृप्ति­दी­प­व­च­ना­नु­सा­रेण अभा­वा­व­च्छि­न्न­स्ये­श्व­र­त्वो­क्तिश्च सम्भवमात्रेण, न तु तात्पर्यतः । ‘कार­णो­पा­धि­री­श्वरः’ इति श्रुतिविरोधात्, अनवच्छिन्नस्य ईश्वरत्वपक्षे तस्य उपाध्यभावेन सर्व­ज्ञा­न­क­र्तृ­त्वा­दे­र­स­म्भ­वाच्च । अभा­व­स्ये­श्व­रो­पा­धि­त्व­प­क्षेऽपि समानोऽयं दोषः । मायाऽ­वि­द्या­व्या­कृ­त­श­क्त्य­क्षरा - काशा­दि­श­ब्दि­त­भा­व­रू­पो­पा­धे­रिव तस्य सर्व­ज्ञ­त्वा­दि­प्र­यो­ज­क­त्वा­यो­गात् । अत एव वाक्यवृत्तौ भगवत्पादैः सर्व­ज्ञ­त्वा­दि­प्र­यो­ज­को­पा­धित्वं अविद्याया दर्शितं ‘मायो­पा­धि­र्ज­ग­द्योनिः सर्व­ज्ञ­त्वा­दि­ल­क्षणः’ इति — इति भावः ।

अथ ‘क ईश्वरः कश्च जीवः’ इति प्रश्ने प्रतिवचनत्वेन मता­न्त­र­मु­त्था­प­यति —
अपरे त्विति ।

कस्तर्हि जीव इति पृच्छति —
किं त्विति ।

दृष्टा­न्त­पू­र्वकं ब्रह्मैव जीव इत्युत्तरमाह —
कौन्तेयस्यैवेति ।
कुन्ती­कु­मा­र­स्यैव न तु तत्प्र­ति­बि­म्बादेः इत्येवकारार्थः । राधाया अपत्यं राधेयः, तस्य भावस्तत्त्वम्, तद्वदित्यर्थः । किं तु अविकृतस्यैवेति सम्बन्धः । अव­च्छे­द­प्र­ति­बि­म्ब­भा­व­र­हि­त­स्ये­त्यर्थः ।

तत्र भाष्य­वा­र्ति­क­स­म्मतिं हेतुत्वेन दर्शयति —
व्याधेत्यादिना ।
यथा राजकुले जातः कर्णो जन्मप्रभृति व्याधकुल एव संवर्धितः तज्जातीयैः सह­वा­सा­दि­ज­नि­त­भ्रा­न्ति­ल­क्ष­णा­वि­द्यया स्वात्मानं राधेयं मन्यते, न तु स्वतःसिद्धमपि कौन्ते­य­त्व­म­नु­भ­वति । ततश्च कौन्ते­य­त्व­प्र­यु­क्ता­च्छ्रे­यसः सकाशात् प्रच्युतः सर्वत्र नाना­वि­ध­शा­पा­व­मा­ना­दि­ल­क्षणं बहुविधदुःखं प्राप्तवान् । स च कदाचित् भगवता विवस्वता ‘कर्ण कौन्तेयोऽसि त्वम्, न राघेयः’ इत्युपदेशं कुर्वता स्मारितनिजरूपः सन् स्मृत्या व्याध­त्व­रा­धे­य­त्वा­दे­र­वि­द्या­कृ­तस्य निवृत्तौ सत्यां व्याध­त्व­रा­धे­य­त्व­कृतं नानाविधदुःखं त्यक्त्वा कौन्ते­य­त्व­स्मृ­ति­प्र­युक्तं श्रेयः प्राप्तवान्, तथा ब्रह्मापि अनादिसिद्धया स्वाविद्यया आवृतनिजरूपं सत् जीवभावं प्राप्य स्वतःसिद्धात् नित्य­नि­र­ति­श­या­न­न्द­स्व­रू­पा­नु­भ­वात् प्रच्युतं भवति । ततश्च संसरति । एवं संसरत् ब्रह्म कदाचित् स्वप्नदशायामिव स्वावि­द्या­क­ल्पि­तेन गुरुणा शास्त्रेण चोत्पादितया स्वगोचरविद्यया जीव­भा­वा­दि­प्र­यो­ज­का­वि­द्या­नि­वृत्तौ मुच्य­ते-नि­त्य­सि­द्ध­नि­र­ति­श­या­न­न्द­म­नु­भ­वति स्वरू­प­चै­त­न्ये­नैव इति भाष्यार्थः ।

अज्ञस्येति ।
अज्ञा­ना­वृ­त­नि­ज­स्व­रू­प­स्ये­त्यर्थः ।

तत्त्वमस्यादीति ।
गुरू­प­दि­ष्ट­त­त्त्व­म­स्या­दि­वा­क्य­ज­न्य­ज्ञा­नेन अज्ञाननिवृत्तौ जीवभाव आत्मनो निवर्तत इत्यर्थः ।

एवं जीवं निरूप्य ईश्वरं निरूपयति —
एवं चेति ।
भाष्य­वा­र्ति­क­प­र्या­लो­च­नया प्रति­बि­म्ब­भा­वा­दि­र­हि­तस्य पूर्णब्रह्मण एव जीवत्वे सिद्धे सतीत्यर्थः । ईश्वरोऽपि सर्व­ज्ञ­त्वा­दि­ध­र्मै­स्सह जीवकल्पित इति सम्बन्धः ।

यथो­क्त­जी­व­स्यै­वे­श्व­र­क­ल्प­कत्वे हेतुमाह —
स्वावि­द्य­ये­त्या­दिना ।
अन्य­स्य­क­ल्प­क­स्या­भा­वा­दि­ति­ता­त्प­र्यकं अवधारणम् ।