कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
जीवेश्वरयोः मतभेदेन स्वरूपनिरूपणम्
पूर्वत्र ईश्वरस्य जगदुपादानत्वमुक्तम् । जीवाश्रितमायेत्यादौ जीवोऽपि व्यवहृतः ।इदानीं तयोः स्वरूपं निरूपयितुं प्रश्नमवतारयति —
अथेति ।
‘मायां तु प्रकृतिम्’ इति श्रुतौ या भूतप्रकृतित्वेन माया प्रसिद्ध तस्यां चैतन्यप्रतिबिम्ब ईश्वरः ।
ननु ‘मायिनं तु महेश्वरम्’ इति वाक्यशेषे मायाया ईश्वराश्रितत्वप्रतिपादनात् ईश्वरस्य मायाप्रतिबिम्बत्वं न सम्भवति, उपाधेः प्रतिबिम्बाश्रितत्वादर्शनात्, इति शङ्कां निराचष्टे —
चिन्मात्रसंबन्धिनीति ।
चिन्मात्राश्रितेत्यर्थः । मात्रपदेन बिम्बत्वादेः व्यवच्छेदः । वाक्यशेषेऽपि महेश्वरपदं चिन्मात्रलक्षकमिति भावः ।
साङ्ख्याभिमतप्रकृतेरिव मायायास्सत्यत्वं वारयति —
अनिर्वाच्येति ।
माया तावत् ब्रह्मचैतन्यात् न वस्तुतो भिन्ना । ब्रह्मव्यतिरिक्तसर्वमिथ्यात्वप्रतिपादकश्रुतिविरोधेन वस्तुतः तस्यास्ततो भेदासम्भवात् । नाप्यभिन्ना । चैतन्यजडयोरैक्यायोगात् । नापि चैतन्याद्भिन्नाभिन्ना । एकत्र भिन्नत्वाभिन्नत्वयोर्विरोधेनासम्भवात् । एवं न तावत् माया सती । अद्वैतश्रुतिविरोधादेव । नाप्यसती । भूतप्रकृतित्वानुपपत्तेः । नापि सदसती । सत्त्वासत्त्वयोरेकत्र विरोधात् । एवं न तावत् माया सावयवा । तस्यास्सादित्वप्रसङ्गेन तत्प्रतिबिम्बभूतेश्वरस्यापि सादित्वप्रसङ्गात् । मायायास्सादित्वे तत्प्रकृतित्वेन मायान्तरापेक्षायामनवस्थाप्रसङ्गाञ्च । नापि निरवयवा । प्रकृतित्वाभावप्रसङ्गात् । सावयवपदार्थानामेव लोके प्रकृतित्वदर्शनात् । नाप्युभयरूपा । सावयवत्वनिरवयवत्वयोरेकत्र विरोधात् । तस्मात् सर्वप्रकारेण निर्वक्तुमशक्यतया माया अनिर्वाच्येत्यर्थः । तस्याः परिच्छिन्नानन्तप्रदेशेषु चैतन्यप्रतिबिम्बो जीवः, न साक्षात्तस्यामेव चित्प्रतिबिम्बो जीवः इत्येवकारार्थः । प्रदेशानां परिच्छिन्नत्वविशेषणं तत्प्रतिबिम्बरूपजीवानां परिच्छिन्नत्वलाभार्थम् । तथा च भाष्ये तत्र तत्र जीवानां परिच्छिन्नत्वनिरूपणं सङ्गच्छते । तथा हि — ‘सर्वत्र प्रसिद्धोपदेशात्’ [ब्र.सू. १-२-१/१] इत्यधिकरणे सौत्रशारीरपदव्याख्यानरूपं भाष्यम् — ‘शारीर इति शरीरे भव इत्यर्थः । नन्वीश्वरोऽपि शरीरे भवति । सत्यं शरीरे भवति । न तु शरीर एव भवति …. …. …. …. ‘आकाशवत् सर्वगतश्च नित्यः’ इति व्यापित्वश्रवणात् । जीवस्तु शरीर एव भवति । तस्य भोगाधिष्ठानाच्छरीरादन्यत्र वृत्त्यभावात्’ इति । तथा द्युभ्वाद्यधिकरण [ब्र.सू. १-३-१/१] गतं भाष्यम् — ‘न चोपाधिपरिच्छिन्नस्याविभोः प्राणभृतो द्युभ्वाद्यायतनत्वमपि सम्यक् सम्भवति’ इति । प्राणभृतः - जीवस्य द्युभ्वादिशब्दितजगदायतनत्वं मुख्यं न सम्भवति अविभुत्वात् इति भाष्यार्थः । पटस्यारम्भकतन्तव इव मायाया न प्रदेशास्सन्ति । तस्या अनादित्वात् ।
किं तु मायायां विक्षेपावरणशक्तीनामानन्त्यात् विक्षेपावरणशक्तिमद्भागा एव प्रदेशा विवक्षिता इत्याशयेनाह —
आवरणविक्षेपशक्तिमत्स्विति ।
ब्रह्मचैतन्यावरणानुकूला शक्तिरावरणशक्तिः । आवरणं च ‘ब्रह्म नास्ति न प्रकाशते’ इति व्यवहारयोग्यत्वम् । विक्षेपपदेन तत्तज्जीवासाधारणदुःखादिकं विवक्षितम् । तदनुकूलशक्तिः विक्षेपशक्तिरित्यर्थः ।
ननु - मायाप्रदेशानां जीवोपाधित्ववर्णनमनुपपन्नम्, आनुमानिकाधिकरणभाष्यादौ अविद्याया जीवोपाधित्वव्यवहारविरोधप्रसङ्गात्, अत आह —
अविद्याभिधानेष्विति ।
मायाप्रदेशानामेव भाष्यगताविद्यापदाभिलप्यत्वात् न तद्विरोध इति भावः । एकस्यामेव मूलप्रकृतौ प्रदेशप्रदेशिभावेन अनिर्वचनीयं भेदं कल्पयित्वा जीवेश्वरयोः प्रतिबिम्बरूपत्वमुक्तम् ।
इदानीं तस्यामेव प्रकारान्तरेण रूपभेदं कल्पयित्वा तदुपपादयति —
तत्त्वविवेके त्विति ।
भेदकल्पनावैलक्षण्यद्योतनार्थः ‘तु’ शब्दः ।
रूपभेदाविति ।
स्तः इति शेषः । रजस्तमोऽनभिभूतत्वमेव शुद्धत्वम् । शुद्धसत्वप्रधाना प्रकृतिः माया, मलिनसत्वप्रधाना प्रकृतिः अविद्या, इत्यर्थः । रजस्तमोऽभिभूतत्वमेव सत्वस्य मलिनत्वम् ।
सत्वशुद्ध्यशुद्धिभ्यां मायात्वाविद्यात्वाख्यौ श्रुत्युक्तरूपभेदौ निरूप्य विक्षेपावरणशक्तिभेदेन श्रुत्युक्तरूपभेदावेव निरूपयति —
एकैवेति ।
अत एवेति ।
जीवस्यावरणशक्तिमदुपाधिमत्त्वादेवेत्यर्थः ।
तस्या इति ।
जीवेश्वरोपाधिभूतायाः प्रकृतेः प्रतिबिम्बरूपजीवेश्वरसाधारणबिम्बचैतन्याश्रितत्वेऽपीत्यर्थः ।
नेश्वरस्येति ।
अत्रापि ‘अत एव’ इत्यस्य अनुषङ्गः । आवरणशक्तेः ईश्वरोपाधिकोटौ अननुप्रवेशादेव — इति तदर्थः । तथा चा जीवेश्वरौ प्रति प्रकृतेस्साधारणत्वात् एकस्य सर्वज्ञत्वं अपरस्याज्ञत्वं इति यद्वैलक्षण्यं श्रुत्यनुभवसिद्धं, तत् कथं सम्भवतीति शङ्काया अनवकाश इति भावः ।
मतान्तरमाह —
संक्षेपेति ।
श्रुतौ कारणपदमविद्यापरं कार्यपदमन्तःकरणपरं इति मत्वा आह —
अविद्यायामित्यादिना ।
ननु ‘जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति’ इति श्रुतिविरोधः, तस्यां श्रुतौ जीवस्य कारणोपाधिकत्वप्रतीतेः, इति चेत् उच्यते — ‘जीवेशावाभासेन करोति’ इति पूर्वभागेन हि जीवेश्वरयोरुभयोरपि प्रतिबिम्बभावः प्रतीयते । न च बिम्बिक्सस्थले उपाधिभेदं विना प्रतिबिम्बभेदस्सम्भवति । सूर्यादिप्रतिबिम्बस्थले उपाधिभेदं विना प्रतिबिम्बभेदादर्शनात् । तथा च उदात्दृतश्रुतौ प्रतिबिम्बरूपयोः जीवेशयोर्यथाक्रमं मायाविद्यापदाभ्यामुपाधी समर्प्येते । मायापदं चात्र मायाकार्यान्तःकरणपरम् । न चैवं मूलप्रकृतिं प्रकृत्य प्रवृत्तायां ‘जीवेशौ’ इतिश्रुतौ ‘माया चाविद्या च स्वयमेव भवति’ इति वाक्येन मायाऽविद्ययोरुभयोरपि मूलप्रकृत्यभेदोपपादनविरोधः इति वाच्यम् । मूलप्रकृत्यविद्ययोरिव मायाशब्दितान्तःकरणमूलप्रकृत्योः मुख्याभेदाभावेऽपि प्रकृतिविकारभावप्रयुक्ताभेदसत्त्वेन तावता ‘माया चाविद्या च स्वयमेव भवति’ इति वाक्यशेषोपपत्तेरिति भावः । ननु - अविद्यावच्छिन्नचैतन्यमेव ईश्वरोऽस्तु । तथा अन्तःकरणावच्छिन्नचैतन्यमेव च जीवोऽस्तु ।
अविद्यान्तःकरणाधिष्ठानचैतन्ययोस्तदवच्छिन्नत्वस्य कॢप्तत्वात् तदतिरिक्तप्रतिबिम्बकल्पनायां गौरवाच्च इत्याशयेन शङ्कते -
न चेति ।
न तु प्रतिबिम्बचैतन्यमिति एवकारार्थः । जीवग्रहणमीश्वरस्याप्युपलक्षणम् ।
जीवेश्वरयोः प्रतिबिम्बतायाःश्रुतिसिद्धत्वात् न कल्पनागौरवदोषोऽस्ति इत्यभिप्रेत्य जीवस्यावच्छिन्नत्वपक्षे दोषमाह —
इहेति ।
अस्मिन् लोके ब्राह्मणादिशरीरगतान्तःकरणावच्छिन्नचैतन्यप्रदेशस्य कर्मकर्तृत्वात् लोकान्तरे देवादिशरीरगतान्तःकरणावच्छिन्नचैतन्यप्रदेशस्य चाकर्तुःभोक्तृत्वात् कृतहानादिप्रसङ्गः । येन कर्म कृतं न तस्य भोगः, येन कर्म न कृतं तस्य अकृतकर्मफलाभ्यागमः, इत्यर्थः । न च ब्राह्मणादिशरीरगतस्यैवान्तःकरणस्य लोकान्तरे गमनाभ्युपगमात् तदवच्छिन्नचैतन्यप्रदेशस्यैव तत्रापि गमनमस्तु इति वाच्यम् । घटस्य देशान्तरगमनेऽपि तदवच्छिन्नाकाशप्रदेशस्य गमनादर्शनात् इति भावः । प्रतिबिम्बस्यावच्छेद्यचैतन्यापेक्षया वैलक्षण्यद्योतनार्थः ‘तु’ शब्दः ।
गतागतयोरिति ।
गमनागमनयोस्सतोरपि अवच्छेद्यप्रदेशवत् न भिद्यते इत्यर्थः । सूर्यादिप्रतिबिम्बवति जलपूर्णघटादौ देशान्तरं नीयमानेऽपि प्रतिबिम्बभेदादर्शनादिति भावः ।
ननु चन्द्रादिप्रतिबिम्बवतां जलपात्राणां मध्ये एकस्य नाशे तद्गततया प्रतीतस्य प्रतिबिम्बस्य बिम्बेनैकीभावः प्रत्यक्षेणानुभूयते, न तथा प्रतिबिम्बान्तरेण, एवं प्रतिबिम्बरूपजीवस्यापि विदेहकैवल्यसमये बिम्बभूतशुद्धब्रह्मभाव एव स्यात्, न तु प्रतिबिम्बेश्वरभावापत्तिः दृष्टविरोधात्, इत्याशङ्कामिष्टापत्त्या परिहरति —
एवमुक्तेष्विति ।
बिम्बस्थानीयमिति ।
लोकप्रसिद्धचन्द्रादिरूपबिम्बस्थानीयमित्यर्थः । ननु बिम्बत्वविशिष्टचैतन्यं कथं शुद्धमिति चेत्, न । शुद्धपदेन सर्वज्ञत्वसर्वकर्तृत्वादिधर्मराहित्यस्य विवक्षितत्वात् इति । चित्रदीपे चित्त्रैविध्यप्रक्रियां विहाय चैतन्यस्य चातुर्विध्यं परिकल्प्य जीवेश्वरविभागो दर्शित इति सम्बन्धः । तथा च चित्रदीपवचनम् - ‘कूटस्थो ब्रह्म जीवेशौ इत्येवं चिच्चतुर्विधा । घटाकाशमहाकाशौ जलाकाशाभ्रखे यथा ॥’ [पं.द.६-१८] इति ।
एतच्छ्लोकोपात्तदृष्टान्तभागं संगृह्णाति —
यथेत्यादिना ।
तदाश्रित इति ।
घटस्थाकाशाश्रिते इत्यर्थः । अभ्रनक्षत्रसाहित्यविशेषणं आकाशस्य जले प्रतिबिम्बाभावशङ्कानिरासार्थम् । इत्थं च तन्निरासप्रकारो विवक्षितः — यदा जलेऽभ्रनक्षत्राणां प्रतिबिम्बोऽनुभूयते तदा तैस्सह आकाशप्रतिबिम्बोऽप्यनुभूयत एव इति नाकाशप्रतिबिम्बाभावशङ्कावकाश इति ।
अनवच्छिन्न इति ।
घटानवच्छिन्न इत्यर्थः । मेघमण्डले ये जलरूपास्तदवयवाः तेषु प्रतिबिम्बित इति सम्बन्धः । तच्छब्दो मेघमण्डलपरः ।
मेघमण्डले जलानि सन्ति चेत् कुतो नोपलभ्यन्ते इत्याशङ्का न कार्या, तेषां तुषारवत् सूक्ष्मरूपत्वात् इत्याशयेनाह —
तुषारेति ।
तत्र जलसत्त्वे मानमाह—
वृष्टिलक्षणेति ।
श्लोकोपात्तदार्ष्टान्तिकभागं संगृह्णाति —
तथेति ।
सूक्ष्मेति ।
घ्राणरसनचक्षुश्श्रोत्रत्वगाख्यानि पञ्च ज्ञानेन्द्रियाणि, वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणि, प्राणापानादयः पञ्च वायवः, मनो बुद्धिश्च इत्यन्तःकरणं द्विविधम्, आहत्य सप्तदशकं लिङ्गशरीरं घटस्थानीयं (दार्ष्टान्तिके) सूक्ष्मदेहशब्दार्थः । देहद्वयावच्छिन्नं चैतन्यं घटाकाशस्थानीयं कूटस्थशब्दार्थः । चैतन्यस्य देहद्वयावच्छिन्नत्वे हेतुः अधिष्ठानतया वर्तमानत्वम् । काष्ठविशेषलग्नायःपिण्डविशेषः कूटशब्दार्थः, तद्वदचलतया तिष्ठतीति कूटस्थः, तत्र कूटस्थे कल्पितं घटगतजलस्थानीयं यदन्तःकरणं तस्मिन् प्रतिबिम्बितमित्यर्थः ।
कूटस्थचैतन्यातिरिक्तचिदाभास कल्पनायाः प्रयोजनमाह —
संसारेति ।
कूटस्थचैतन्यस्य न संसाराश्रयत्वं, तस्य जन्ममरणादिलक्षणसंसाराश्रयत्वे कूटस्थत्वव्याघातात् इति भावः । महाकाशस्थानीयब्रह्माश्रितमेघमण्डलस्थानीये मायाख्यतमसि स्थिताः याः धीवासनाः तासु प्रतिबिम्बितमित्यर्थः । जाग्रत्स्वप्नावस्थाद्वयगतानि स्थूलान्तःकरणानि धियः, तासां सुषुप्त्यवस्थागताः सूक्ष्मावस्थाः वासना विवक्षिताः ।
अन्तःकरणेति ।
अन्तःकरणं च धीवासनोपरक्ताज्ञानं च, ते एव उपाधी, तयोर्भेदेनेत्यर्थः । धीवासनानामानन्त्यात् तासु प्रतिबिम्बचैतन्यरूपेश्वरस्य नानात्वशङ्काव्यावृत्त्यर्थं वासनोपरक्ताज्ञानोपाधिकत्वमुक्तम् ।
पूर्वमतेषु बिम्बप्रतिबिम्बयोः भेदमात्रं कल्पितं, स्वतस्तयोरभेद एव, इतीममर्थं सिद्धं कृत्वा अस्मिन् मते ततो विशेषमाह —
अयं चेति ।
अस्मिन् मते पूर्वं चिच्चातुर्विध्यलक्षण एको विशेष उक्तः, तदपेक्षया अपरः - अन्यः प्रतिबिम्बमिथ्यात्वरूपो विशेषः तदभिहितः - तत्र चित्रदीपे अभिहितः इत्यर्थः ।
अपरं विशेषमेव दर्शयति —
चतुर्विधेष्विति ।
‘अहम्’ इति प्रकाशमानो जीवः शुक्तौ रूप्यवदध्यस्त इति सम्बन्धः । ननु - इदन्त्वेन सामान्यरूपेण ज्ञाते शुक्तित्वादिविशेषरूपेणाज्ञाते शुक्त्यादौ रूप्याद्यध्यासो दृष्टः ।
इह तु तथा सामान्यरूपेण ज्ञातं विशेषरूपेण चाज्ञातं किञ्चिदधिष्ठानं नोपलभ्यते इत्याशङ्क्याह —
कूटस्थ इति ।
ननु - अविद्यया कूटस्थस्य असङ्गत्वानन्दत्वपूर्णत्वादिविशेषांशस्य आवृततया शुक्तित्वादिवत् अप्रतीतावपि शुक्तेरिदन्त्वेनेव कूटस्थस्य केनचित् सामान्येन रूपेण प्रकाशो न दृश्यते । किञ्च ‘इदं रजतम्’ इत्यत्र अधिष्ठानसामान्यांशस्य आरोप्यविशेषांशस्य च सहप्रकाशो दृश्यते । प्रकृते तु अहमर्थरूपो विशेष एव ‘अहम्’ इति प्रकाशते, न तु सामान्यांशः कश्चित् ।
अतोऽहमर्थस्य रूप्यवदध्यस्तत्वकल्पनं न युक्तं इत्याशङ्क्याह —
अत एवेति ।
अहमर्थस्य कूटस्थेऽध्यस्तत्वकल्पनादेव इत्यर्थः ।
स्वयन्त्वाहन्त्वयोरिति ।
कूटस्थस्य हि स्वयन्त्वं सामान्यरूपं, न कूटस्थत्वम् । तस्य शस्त्रैकगम्यत्वात् । स्वयन्त्वं च कूटस्थस्य अहमर्थारोपकाले तेन सह प्रकाशते । तत्पूर्वकालेऽपि स्वयन्त्वस्य भानमविरुद्धम् । तस्य नित्यचैतन्यात्मककूटस्थस्वरूपत्वाभ्युपगमात् । स्वयन्त्वकूटस्थचैतन्ययोः ‘राहोश्शिरः’ ‘पुरुषस्य चैतन्यम्’ इतिवत् भेदकल्पनया धर्मधर्मिभावोपपत्तेः । अतः कूटस्थस्य स्वयन्त्वेन सामान्यरूपेण सदा प्रकाशसत्त्वात् अहमर्थरूपचिदाभासाध्यासाधिष्ठानत्वमविरुद्धं इति भावः ।
अहमर्थस्य रूप्यवद्विशेषरूपत्वं दर्शयति —
अहन्त्वं हीति ।
अहमर्थ इत्यर्थः ।
अध्यस्तविशेषांशरूपमिति ।
शुक्त्यादावध्यस्तो यो विशेषांशः रूप्यादिः तद्रूपं - तत्सदृशं इत्यर्थः । सादृश्यं च व्यावृत्तत्वम् ।
व्यावृत्तत्वादिति ।
व्यावृत्तत्वावगमादित्यर्थः । तेन न हेतुसाध्ययोरभेदः । व्यावृत्तत्वावगमे हेतुः व्यवहाराभावः ।
स्वयन्त्वस्य इदंत्ववत् साप्रान्यरूपत्वं (???) दर्शयति —
स्वयन्त्वं चेति ।
‘स्वयम्’ ‘अन्यः’ इति लोकव्यवहारे स्वयन्त्वं अन्यत्वप्रतिद्वन्द्वितया प्रसिद्धं इति दर्शयितुं अन्यत्वप्रतियोगीति स्वयन्त्वस्य विशेषणं इति बोध्यम् ।
स्वयमिति ।
तदुक्तं चित्रदीपे — ‘देवदत्तः स्वयं गच्छेत् त्वं वीक्षस्व स्वयं तथा । अहं स्वयं न शक्नोमीत्येवं लोके प्रयुज्यते’ ॥ [पं.द.६-३९] इति ।
ननु ‘स्वयमहम्’ इतिप्रकाशमानयोः कूटस्थजीवयोःशुक्तिरजतयोरिव भेदसत्त्वे सर्वेषां कुतो भेदो नोपलभ्यते, तत्राह —
एवमिति ।
अहमर्थजीवस्य शुक्तौ रूप्यवत् कूटस्थाध्यस्तत्वे सतीत्यर्थः ।
परस्परेति ।
तयोः अभेदाध्यासादेव अविवेकः - विवेकाभावः - भेदानुभवाभावः इत्यर्थः । ननु - ‘इदं रजतम्’ इति भ्रमस्थले ‘शुक्तिरियम्’ इति विशेषदर्शनेन ‘इदं रजतम्’ इति प्रतीतयोः सामान्यविशेषपदार्थयोः शुक्तित्वरजतत्वरूपविरुद्धधर्मवत्त्वनिश्चयात् तयोर्भेद उपेयते । इह तु जीवकूटस्थयोः कथं भेदोऽवगन्तव्यः ।
तदभावे हि ‘स्वयमहम्’ इति सामान्यविशेषभावेन प्रकाशमानयोः तयोः सत्यरजतस्थले रजतेदमर्थयोरिव वस्तुत ऐक्यापत्त्या अहमर्थरूपजीवस्य स्वयंशब्दार्थभूतकूटस्थे कल्पितत्वासिद्धेः - इत्याशङ्क्य श्रुत्या तयोः भेदं दर्शयति —
विवेकस्त्विति ।
तुशब्दः शङ्काव्यावृत्त्यर्थः । विवेकः - भेदानुभवः । एतेभ्यः - सन्निहितेभ्यः देहादिसङ्घातरूपेण परिणतेभ्यः उपाधिरूपेभ्यो भूतेभ्यः समुत्थाय - साम्येनोत्थाय — उपाधिरूपबुद्ध्याद्युत्पत्त्या उत्पत्तिं प्राप्य इत्यर्थः, यदा तान्युपाधिभूतानि बुद्ध्यादीनि तत्त्वज्ञानेन विनश्यन्ति तदा तान्यनुविनश्यति, इति श्रुत्या औपःधिकस्यात्मनो विनाशित्वं प्रतिपाद्यते । तच्च अन्तःकरणप्रतिबिम्बरूपस्य उपाध्यायत्तस्य जीवस्य मिथ्यात्वे सति सम्भवति । औपाधिकजीवस्य सत्यत्वे तु तस्य विनाशित्वप्रतिपादकवचनं न सङ्गच्छेत । तथा अयं-प्रज्ञानघन आत्मा अरेमैत्रेयि अविनाशी वा - अविनाश्येव न तु उपाधिनाशान्नश्यतीति कूटस्थचैतन्यस्य श्रुत्या नाशाभावः प्रतिपाद्यते । एतदुक्तं भवति — ‘अयमात्मा…. …. …. ….प्रज्ञानघन एव एतेभ्यो भूतेभ्यस्समुत्थाय’ इत्यादिश्रुत्या चिदेकरस आत्मैव उपाध्युत्पत्तिमनु उत्पद्यते तन्नाशमनु नश्यति इति उपाध्युत्पत्तिविनाशव्यतिरेकेण उत्पत्तिविनाशौ चिदात्मनः प्रतिपाद्येते । अनुविनश्यति इत्यनुशब्दप्रयोगात् । न च तस्य स्वतो विनाशादिमत्त्वं सम्भवति । ‘अविनाशी वा अरेऽयमात्मा’ इति वाक्येन विज्ञानघनात्मनो विनाशाभावप्रतिपादनविरोधात् । अतः चिदात्मनः उत्पत्तिविनाशवता प्रतिबिम्बचैतन्यरूपजीवेन तादात्म्यमादाय विनाशादिवचनमुपपादनीयम् । ततश्च भ्रमस्थलीयरजतेदमर्थयोरिव अत्रापि विनाशित्वाविनाशित्वरूपविरुद्धधर्मवत्त्वनिश्चयादेव जीवकूटस्थयोः भेदः स्पष्टं भासत इति ततः प्राक् कूटस्थचैतन्ये जीवरूपाहमर्थस्याध्याससिद्धिः इति ।
उदाहृतश्रुत्या प्रतिबिम्बजीवस्य विनाशित्वोपगमे श्रुत्यन्तरविरोधमाशङ्कते —
अहमर्थेति ।
अभेदः इत्यनन्तरं ‘अहं ब्रह्मास्मि’ [बृ.उ.१-४-१०] इति वाक्येन प्रतिपाद्यत इति शेषः । विनाश्यविनाशिनोरभेदायोगादिति भावः ।
परिहरति —
नेदमिति ।
‘सोऽयं इत्यादिसमानाधिकरणवाक्यस्य यथाऽभेदो वाक्यार्थो दृश्यते, तथा ‘यः स्थाणुः स पुरुषः’ इत्यादिसमानाधिकरणवाक्यस्य बाधारूपो वाक्यार्थो दृश्यते । ‘यः स्थाणुः स पुरुषः’ इत्यत्र हि पुरुषे आरोपितस्य प्रातिभासिकस्य स्थाणोः व्यावहारिकपुरुषेण सह अभेदो न वाक्यार्थः । बाधितत्वात् । किं तु स्थाण्वारोपाधिष्ठानभूते पुरुषे वस्तुतस्स्थाणुतादात्म्याभावरूपा बाधा वाक्यार्थः । तथा च ‘यः स्थाणुः स पुरुषः’ इति वाक्येन ‘वस्तुतः स्थाणुतादात्म्याभाववान् अयं पुरुषः’ इति बोधो जायते, तेन च बोधेन पुरुषे स्थाण्वारोपः सविषयो निवर्तते, एवं ‘अहं ब्रह्मास्मि’ इति वाक्येन ‘अहमर्थभूतजीवतादात्म्यशून्यं ब्रह्मैवास्मि’ इति ज्ञानं जायते । तेन ज्ञानेन ‘अहं ज्ञाता, कर्ता, सुखी, दुःखी’ इत्याद्यारोपः कर्तृत्वादिधर्मविशिष्टाहमर्थेन स्वविषयेण सह निश्शेषं निवर्तते । आरोपिताहमर्थनिवृत्तौ च सत्यां जीवस्य यद्वास्तवं रूपं कूटस्थचैतन्यात्मकं, तत् पूर्णब्रह्मरूपेणावतिष्ठत इति न श्रुत्यन्तरविरोध इति भावः । अक्षरार्थस्तु — इदं - ब्रह्माहंपदयोःसमानविभक्तिमत्त्वरूपं सामानाधिकरण्यं अभेदरूपेऽर्थे नाभ्युपगम्यते, येन अभेदासम्भवो दोषःस्यात् ।
ननु यद्यभेदो न वाक्यार्थः कस्तर्हि सः इति शङ्कते —
किं त्विति ।
बाधा अत्र वाक्यार्थो विवक्षित इत्याह —
बाधायामिति ।
पुरुषत्वपदेन कल्पितस्थाणुतादात्म्याभाववत्त्वं विवक्षितम् । बाधायाः वाक्यार्थत्वस्वीकारात् । ‘अहं ब्रह्मास्मि’ इत्यत्र इतिपदानन्तरं ‘वाक्यजन्येन’ इति शेषः । अत्र वाक्यार्थज्ञानस्य ‘अहं ब्रह्मास्मि’ इत्याकारकत्वाभावात् । कूटस्थब्रह्मरूपत्वपदेनापि वस्तुतोऽहमर्थतादात्म्याभाववत्कूटस्थब्रह्मरूपत्वं विवक्षितम् । बाधाया एव वाक्यार्थबोधविषयत्वाभ्युपगमात् । दृष्टान्तदार्ष्टान्तिकयोः अधिष्ठानस्यारोपितार्थाभाववत्वं आरोपितात्यन्ताभावस्याधिष्ठानातिरिक्तत्वमिति मतमाश्रित्य अस्माभिरुक्तं इति ध्येयम् ।
अध्यस्ताहमर्थरूपत्वमिति ।
अध्यस्तो योऽहमर्थः तद्रूपत्वं — तत्तादात्म्यं निवर्त्यते, इति बोधफलमुक्तम् ।
महावाक्यस्य बाधार्थकत्वं न स्वकपोलकल्पितम्, किं तु सुरेश्वराचार्यैरुक्तं इत्याह —
योऽयमिति ।
मन्दान्धकारे यः स्थाणुर्गृहीतः ‘एषोऽयं पुमान्’ इत्याप्तवाक्यजन्यया पुंधिया ‘वस्तुतो नायं स्थाणुः, किं तु पुमान्’ इति धिया ‘स्थाणुरयं’ इति धीरारोपितस्थाणुतादात्म्येन सह यथा निवर्तते, एवं ‘अहं ब्रह्मास्मि’ इति वाक्यजन्यया धिया - ‘अहमर्थभूतजीवतादात्म्यशून्यं ब्रह्मैवास्मि’ इत्याकारया अहंबुद्धिः - ‘अहं करोमि भुञ्जे’ इत्यादिबुद्धिः अशेषा-आरोपिताहमर्थसहिता निवर्तते ।
महावाक्यार्थज्ञानादशेषानर्थनिवृत्तिः विदुषामनुभवसिद्धा इति द्योतनार्थो हिशब्दः —
इति ।
ननु समानाधिकरणवाक्येषु अभेदरूपवाक्यार्थस्य मुख्यतया औत्सर्गिकत्वात् विवरणादिषु प्रकृते अभेदरूपवाक्यार्थस्यैव स्वीकाराच्च भगवत्पादैरपि वाक्यवृत्तौ ‘तादात्म्यमात्रं वाक्यार्थस्तयोरेव पदार्थयोः’ [वाक्यवृत्तिः २४] इति श्लोकेन महावाक्येषु तत्त्वंपदार्थयोस्तादात्म्यशब्दिताभेदस्यैव वाक्यार्थतया स्वीकाराच्च वार्तिककारवचनस्य बाधाया अपि प्रकृते वाक्यार्थता वक्तुं शक्यत इति प्रौढिमाश्रित्य प्रवृत्त्युपपत्तेश्च ‘अहं ब्रह्मास्मि’ इत्यत्र अभेदो वाक्यार्थ इति स्थिते विनाशिजीवस्य अविनाशिब्रह्माभेदो न सम्भवतीति चोद्यं तदवस्थमेव, इत्यस्वरसादाह —
यदि चेति ।
‘कूटस्थो ब्रह्म जीवेशावित्येवं चिच्चतुर्विधा’ इति श्लोकसंगृहीतानां कूटस्थब्रह्मजीवेश्वराणां चतुर्णां मध्ये ब्रह्मचैतन्यं तावत् सत्यज्ञानादिवाक्येषु सुप्रसिद्धं इति तत्र वाक्यं प्रमाणत्वेन नोदाहृतम् । कूटस्थचैतन्ये ‘अविनाशी वा’ इति वाक्यं प्रमाणत्वेन दर्शितम् । उपाध्युत्पत्तिविनाशानुविधाय्युत्पत्तिविनाशवचनं अन्तःकरणगतचैतन्यप्रतिबिम्बरूपे जीवे प्रमाणमुक्तम् । परिशेषात् पूर्वोक्तेश्वरे प्रमाणं वक्तव्यम्, तदाह - यस्त्विति ॥ तुशब्दोऽवधारणे । य ईश्वर उक्तः सोऽयं श्रुत्युक्तानन्दमय एव, नान्य इत्यर्थः । सुषुप्तं स्थानं अस्येति सुषुप्तस्थानः । जागरणे हि विज्ञानशब्दितान्तःकरणतादाम्याध्यासात् विज्ञानमयत्वमनोमयत्वकर्तृत्वादीनि रूपाणि सन्ति । तथा देहे ‘स्थूलोऽहम्’ इत्याद्यभेदाध्यासात् स्थूलत्वकृशत्वब्राह्मणत्वादीनि रूपाणि सन्ति । तथा चक्षुरादिषु ‘काणोऽहम्’, ‘मूकोऽहम्’ इत्यादिरूपादध्यासात् काणत्वमूकत्वादीनि रूपाणि सन्ति । एवमाकाशादिषु पदार्थेषु अध्याससिद्धानि ‘आकाशमयो वायुमयः’ [बृ.उ.४-४-५] इत्यादिश्रुतिसंगृहीतान्यनन्तरूपाणि जीवस्य सन्ति । सुषुप्ते तु बुद्ध्याद्युपाधिलयेन सर्वप्रकारभ्रान्तिलयात् भ्रान्तिसिद्धानि सर्वाण्यपि रूपाणि लीयन्ते इत्यभिप्रेत्य एकीभूत इत्युक्तम् । तदुक्तं - ‘विज्ञानमयमुख्यैर्यो रूपैर्युक्तः पुराऽधुना । स लयेनैकतां प्राप्तो बहुतण्डुलपिष्टवत् ॥ [पं.द.११-६९] इति । पुरा-सुप्तात् पूर्वकाले लयेन - रूपाणां लयेन इत्यर्थः । प्रज्ञानं - चैतन्यम् । तच्च जाग्रदादौ वृत्तिभेदेन भेदरूपं शैथिल्यं प्राप्य स्थितम्, सुषुप्ते वृत्तीनां विलयात् पुनरेकत्वं प्राप्तं इत्यभिप्रेत्य प्रज्ञानघनत्वमुक्तम् । आनन्दोऽत्र बिम्बभूतो ब्रह्मानन्दो विवक्षितः । तस्य प्रतिबिम्बभूतो जीवः आनन्दमयः । स च स्वरूपभूतमानन्दं सुषुप्तिकाले अविद्यावृत्तिभिर्भुङ्क्ते इति आनन्दभुक् - इति श्रुत्यर्थः । ननु — जाग्रत्स्वप्नयोः स्थूलावस्थान्तःकरणप्रतिबिम्बरूपो जीवो विज्ञानमयः, स्थूलान्तःकरणस्य विज्ञानशब्दवाच्यत्वात् । स एव विज्ञानमयो जीवः स्वापकाले सूक्ष्मरूपेणविलीनावस्थान्तःकरणोपाधिकस्सन् आनन्दमय इत्युच्यते ।
तथा च आनन्दमयस्य जीवत्वात् ईश्वरत्वमसिद्धं - इत्याशङ्क्य, सौषुप्तानन्दमयस्यैव ईश्वरत्वं वाक्यशेषो दर्शयति इत्याह —
तत्रैवेति ।
माण्डूक्यश्रुतावेवेत्यर्थः । सर्वेश्वरत्वं सर्वजगदुत्पत्तिकर्तृत्वम् । योनिः—उपादानम् ।
आनन्दमयस्य सर्वोपादानत्वे हेतुमाह —
प्रभवेति ।
हि — यस्मात् भूतानां प्रभवाप्ययौ — जन्मलयौ सौषुप्तादानन्दमयात् भवतः तस्मात् एष सर्वस्य योनिः इत्यर्थः ।
आनन्दमयस्य श्रुत्युक्तसर्वज्ञत्वे युक्तिमप्याह —
सर्ववस्त्विति ।
एकैका धीः किञ्चित्किञ्चित् विषयीकरोतीति सर्वाभिर्धीभिर्मिलित्वा सर्वं जगत् विषयीक्रियते । एवं च सर्वबुद्धीनां सर्वविषयकत्वे सिद्धे सति सर्वबुद्धिसूक्ष्मावस्थारूपाणां सर्वबुद्धिवासनानामपि सर्वविषयकत्वं सिद्ध्यति । तथा च सर्वप्राणिबुद्धिवासनोपाधिकस्य आनन्दमयस्य सर्वज्ञत्वसिद्धिरित्यर्थः । ननु — धीवासनोपरक्ताज्ञानोपाधिक ईश्वर इति यदुक्तं तत्र किं प्रतिबिम्बेश्वरस्य अज्ञानमेवोपाधिः, किं वा वासनोपरक्ताज्ञानम्, अथवा सर्वाः धीवासनाः, उत प्रत्येकं वासना । नाद्यः — ‘धीवासनासु प्रतिबिम्बतं चैतन्यमीश्वरः’ इत्युक्तिविरोधात्, अज्ञानमात्रस्य ईश्वरोपाधित्वे धीवासनानुसरणवैफल्याच्च । न च अज्ञानोपाधिकस्यैव ईश्वरस्य सर्वज्ञत्वलाभार्थं सर्वविषयकधीवासनानुसरणं इति वाच्यम् । अज्ञानगतसत्त्वांशपरिणामरूपाभिस्सर्वविषयकवृत्तिभिरेव सर्वज्ञत्वोपपादनसम्भवेन धीवासनानामनपेक्षणात् । अत एव न द्वितीयः । अज्ञानमात्रस्य तदुपाधित्वसम्भवात् युगपत् सर्वप्राणिनां सुषुप्त्यसम्भवेन सर्वबुद्धिवासनानां यौगपद्यासम्भवाच्च न तासां अज्ञानविशेषणतया ईश्वरोपाधित्वसम्भवः । तासां यौगपद्यासम्भवादेव न तृतीयोऽपि कल्पस्सङ्गच्छते । सर्वासु धीवासनासु व्यासक्ततया एकस्य ईश्वररूपप्रतिबिम्बस्यासम्भवाच्च । लोके व्यासज्यवृत्तिप्रतिबिम्बादर्शनात् । तस्माच्चतुर्थःकल्पः परिशिष्यते ।
तत्रानुभवविरोधमाशङ्कते —
न चास्मदिति ।
अस्माकं-प्राणिनां एकैकबुद्धिवासनोपहितस्य आनन्दमयस्य कस्यापि स्वापकाले ‘अहं सर्वज्ञः’ इत्यनुभवो नास्तीत्यर्थः ।
वासनानामिति ।
जाग्रदादौ स्थूलावस्थान्तःकरणानामिव सुषुप्तौ वासनात्मकान्तःकरणानां साक्षिप्रत्यक्षयोग्यत्वाभावेन तदुपाधिकानन्दमयानामपि न अहमनुभवयोग्यत्वं इत्यर्थः ।
माण्डूक्यश्रुत्युक्तानन्दमयस्य सकलधीवासनोपाधिकस्य उक्तरीत्या एकस्य असम्भवात् प्रत्येकमेव धीवासनोपाधिक आनन्दमयो वाच्यः, स च जीव एव इत्याह —
ब्रह्मानन्दे त्विति ।
चित्रदीपे श्रीविद्यारण्यगुरुभिः ईश्वरत्वेनोक्तानन्दमयस्य तैरेव ब्रह्मानन्दाख्यग्रन्थे जीवत्वोक्तिरूपविशेषार्थकः ‘तु’ शब्दः । सुषुप्तिसंयोगादित्युपलक्षणम् । वासनोपाधिकस्य ईश्वरत्वे जाग्रदादौ ईश्वराभावप्रसङ्गात् एकैकवासनोपाधिकस्य नानात्वेन ईश्वरनानात्वप्रसङ्गात् सकलवासनोपाधिकस्य कस्यचिदसम्भवाच्च इत्यपि द्रष्टव्यम् ।
तत्रोक्तं प्रकारं दर्शयति -
यदा हीति ।
जाग्रदादिषु भोगप्रदं यत् कर्म तस्य क्षये सति इत्यर्थः । आदिपदं स्वप्नपरम् । बहुवचनं तु जाग्रत्स्वप्नव्यक्तिभेदापेक्षम् ।
निद्रारूपेणेति ।
सुषुप्तिरूपेणेत्यर्थः । तदुक्तं पञ्चीकरणे - ‘बुद्धेः कारणात्मनाऽवस्थानं सुषुप्तिः’ इति ।
आनन्दमयस्य जीवत्वे तस्य ईश्वरत्वप्रतिपादकवाक्यशेषविरोधं शङ्कते —
एवंसतीति ।
सौषुप्तजीवरूपानन्दमयस्य वस्तुत ईश्वरत्वाभावेऽपि ईश्वराभेदविवक्षया तस्य ईश्वरत्ववचनं सङ्गच्छत इति परिहरति —
इत्थमित्यादिना ।
माण्डूक्यश्रुतौ जीवेश्वरयोः अभेदविवक्षां दर्शयितुं पीठिकां करोति —
सन्तीति ।
परमात्मनः अधिदैवतं सविशेषाणि त्रीणि रूपाणि सन्ति, तथा परमात्मनोऽध्यात्मं च सविशेषाणि त्रीणि रूपाणि सन्ति इति सम्बन्धः । परमात्मन इत्यस्य निर्विशेषचैतन्यस्य इत्यर्थः । अधिदैवतं इत्यस्य देवतात्मकानि इत्यर्थः । अध्यात्मं इत्यस्य च जीवात्मकानि इत्यर्थः । ‘अधिदैवतं, अध्यात्मं’ इति च पदद्वयं अव्ययम् ।
उक्तं प्रपञ्चयति —
तत्रेति ।
अध्यात्माधिदैवतरूपाणां मध्ये इत्यर्थः । जीवस्य त्रीणि सविशेषरूपाणि तुरीयपादात्मकं निर्विशेषरूपं च माण्डूक्यश्रुतौ कण्ठतो दर्शितानि ।
ईश्वरस्य तु निर्विशेषसविशेषरूपाणि तच्छ्रुत्यभिप्रेतान्यपि श्रुत्या कण्ठतो नोक्तानि, तानि तु श्रुतितात्पर्याभिज्ञैः श्रीविद्यारण्यगुरुभिः चित्रदीपे सदृष्टान्तं निरूपितानि इत्याह —
चित्रपटेति ।
तत्रायं दृष्टान्तसङ्ग्राहकः श्लोकः — स्वतश्शुभ्रोऽत्र धौतःस्यात् घट्टितोऽन्नविलेपनात् । मष्याकारैर्लाञ्छितःस्याद्रञ्जितो वर्णपूरणात् ॥’ [पं.द.६-३] इति ।
एतच्छ्लोकसंगृहीतं दृष्टान्तं विवृणोति —
यथेति ।
‘स्वतश्चिदन्तर्यामी तु मायावी सूक्ष्मसृष्टितः ।
सूत्रात्मा स्थूलसृष्ट्यैष विराडित्युच्यते परः ॥’ [पं.द.६-४] इति श्लोकसंगृहीतं दार्ष्टान्तिकं दर्शयति —
तथेति ।
श्लोके परः स्वतः चित् इति सम्बन्धः ।
अमुमंशं विवृणोति —
परमात्मेति ।
श्लोके तुशब्दोऽवधारणे । तथा च पर एव मायावी सन् अन्तर्यामी इत्युच्यत इति सम्बन्धः ।
अमुमंशमाह —
मायोपहित ईश्वर इति ।
श्लोके पर एव सूक्ष्मसृष्टितःसूत्रात्मा इति सम्बन्धः ।
अमुमंशं व्याचष्टे —
अपञ्चीकृतेति ।
अपञ्चीकृतानां भूतानां यत् कार्यं व्यापकं सूक्ष्मशरीरं तदुपहित इत्यर्थः । न च सूत्रात्मनो हिरण्यगर्भशब्दितस्य श्रुतिस्मृत्योर्जीवत्वप्रसिद्धेः कथं तस्य ईश्वररूपत्वमिति वाच्यम् । जीवरूपहिरण्यगर्भस्य समष्टिसूक्ष्मशरीराभिमानविशिष्टस्य सत्यलोकस्वामिनः ईश्वरान्यत्वाभ्युपगमात् । ईश्वरस्य तु समष्टिसूक्ष्मशरीराभिमानाभावेऽपि समष्टिसूक्ष्मशरीरनियन्तृतया तदुपाधिकस्य समष्टिसूक्ष्मोपाध्युपहितत्वगुणयोगेन हिरण्यगर्भसूत्रात्मपदाभ्यां निर्देशस्य विवक्षितत्वात् । तथा च गौणं ईश्वरस्य हिरण्यगर्भत्वं इति भावः । अत एव चित्रदीपे ईश्वररूपहिरण्यगर्भापेक्षया सत्यलोकाधिपतेर्ब्रह्मणःतत्तद्वाद्यभिमतेश्वरपरिगणनावसरे पृथगुपादानं मन्तव्यम् । श्लोके एष एव परः स्थूलसृष्ट्या विराडित्युच्यते इति सम्बन्धः ।
अमुमंशं व्याकुर्वन् संगृह्णाति —
पञ्चीकृतेति ।
अयं ईश्वररूपो विराट्पुरुषः पुरुषसूक्तवैश्वानरविद्यावाक्यादिरूपश्रुतिसिद्धो द्रष्टव्यः । सत्यलोकाधिपतेर्हिरण्यगर्भस्य पुत्ररूपो विराट्पुरुषः समष्टिस्थूलाभिमानिजीवो बृहदारणयकश्रुतिसिद्धः अन्य एव इत्यपि द्रष्टव्यम् ।
इत्यवस्थेति ।
उक्तप्रकारेण वस्तुत एकस्यैव रूपचतुष्टयं द्रष्टव्यं इत्यर्थः ।
एवं प्रकृतोपयुक्तं रूपचतुष्टयं दर्शयित्वा प्रसङ्गादाह —
अस्मिन्निति ।
ननु - कृत्स्नस्य जगतः चित्रस्थानीयत्वे तद्वदेव सर्वमचेतनं स्यात्, तथा च चेतनाचेतनविभागो न स्यात्, इति शङ्कां दृष्टान्तेन परिहरति —
यथेति ।
वस्त्राभासा इति ।
वर्णविशेषात्मकवस्त्राणां चित्राधारेण वस्त्रेण आकृतिसाम्येऽपि शीतादिनिवर्तकत्वाभावात् आभासत्वम् ।
देहिनामिति ।
स्थूलदेहवतां अहङ्काराणां इत्यर्थः ।
अन्तःकरणात्मकाहङ्कारेषु चैतन्यस्य प्रतिबिम्बकल्पनस्य प्रयोजनमाह —
ते चेति ।
तथा च चिदाभासयुक्ताः कार्यकारणसङ्घाताश्चेतनाः, अन्ये गिरिसमुद्रादयोऽचेतनाः, इति विभागसिद्धिरिति भावः । एवमीश्वरस्य रूपाणि दर्शितानि ।
जीवस्य श्रुत्युक्तानि सविशेषनिर्विशेषरूपाणि दर्शयति —
अध्यात्मं त्विति ।
तुशब्दः ईश्वरस्य सविशेषरूपाण्यपेक्ष्य जीवस्य सविशेषरूपाणां वैलक्षण्यसूचनार्थः ।
तदेव वैलक्षण्यं दर्शयति —
विश्वेति ।
रूपाणीति ।
सविशेषाणीति शेषः ।
तत्रेति ।
रूपत्रयमध्ये इत्यर्थः ।
विलीन इति ।
अन्तःकरणे विलीने सति सूक्ष्मरूपेणविलीनान्तःकरणोपाधिकः संपद्यत इति भावः । स्थूलान्तःकरणादिसाक्षित्वव्यवच्छेदार्थं मात्रेति ।
ननु — पूर्वं सौषुप्तजीव आनन्दमय इत्युक्तं, इदानीं कथं स एव प्राज्ञ इत्युच्यते, तत्राह —
योऽयमिति ।
इहेति ।
माण्डूक्यश्रुतावित्यर्थः । तत्रैव ‘आनन्दभुक्’ इत्यनन्तरं ‘चेतोमुखः प्राज्ञस्तृतीयः पादः’ इतिवाक्यशेषदर्शनात् इति भावः । चेतांसि - चित्प्रतिबिम्बोपेतान्यविद्यावृत्तिरूपाणि मुखानि - स्वापकालीनानन्दानुभवसाधनानि यस्य, स चेतोमुखः । ननु सौषुप्तजीवस्य आनन्दभुक्त्वं चेतोमुखत्वं च श्रुतमपि कथमुपपन्नमिति चेत्, उच्यते — सुषुप्तादुत्थितस्य हि ‘सुखमस्वाप्सम्’ इति स्वापकालीनविशिष्टसुखस्मरणं दृश्यते । तच्च तदा सुखानुभवमन्तरेण न सम्भवति । अननुभूतस्य सुखस्य स्मरणायोगात् । न च सुषुप्तौ आत्मस्वरूपसुखस्यान्तःकरणवृत्तिभिरेव अनुभवस्सम्भवतीति वाच्यम् । तदा विलीनस्यान्तःकरणस्य वृत्त्युत्पादनयोग्यत्वाभावात् । न च मुक्तिकाल इव स्वापकालेऽपि स्वरूपचैतन्येनैव सुखानुभवसम्भवात् किमविद्यावृत्तिप्रतिबिम्बरूपचेतःकल्पनयेति वाच्यम् । जाग्रत्स्वप्नयोः चैतन्यप्रतिबिम्बोपेतवृत्तिभिः आनन्दानुभवदर्शनेन सुषुप्तावपि तथा सम्भवे परित्यागायोगात् । मुक्तिकाले च उपाधिमात्रविलयाभ्युपगमात् वृत्त्यसम्भव इति वैषम्यसत्त्वात् । सौषुप्तसुखानुभवस्य केवलनित्यसाक्षिरूपत्वे अनुभवनाशरूपसंस्काराभावप्रसङ्गेन ‘सुखमस्वाप्सं’ इत्यनुसन्धानाभावापत्तेश्च । तस्माद्यथोक्तार्था श्रुतिः उपपन्नैव ।
व्यष्टीति ।
परिच्छिन्नेत्यर्थः ।
एते पादास्साक्षाच्छ्रुत्युक्ता इत्याह —
तत्रेति ।
उक्तरीत्या पादकल्पनोपपत्तौ सत्यामित्यर्थः । श्रुतिः पादचतुष्टयमुपक्रम्य विश्वादिपादान् न्यरूरुपदिति सम्बन्धः । पद्यते - गम्यते - अवगम्यते ब्रह्मात्मैक्यं एभिरिति पादा विश्वादयः ।
इमां व्युत्पत्तिमभिप्रेत्य श्रौतपादकल्पनायाः प्रयोजनमाह —
पूर्वपूर्वेति ।
अयमर्थः — ‘सोऽयमात्मा चातुष्पात्’ इति वाक्येन जीवस्य पादचतुष्टयवत्त्वमुपक्रम्य ‘जागरितस्थानो वैश्वानरः प्रथमः पादः’ इत्युक्तम् । अत्र जीवपादानामेव वक्तुमुपक्रान्तत्वात् ‘विश्वः प्रथमः पादः’ इति वक्तव्ये वैश्वानरशब्दितस्य विराट्पुरुषरूपेश्वरस्य प्रथमपादत्वोक्तिः विश्वे वैश्वानरस्यान्तर्भावं सूचयति । न च - हिरण्यगर्भेश्वरौ विहाय वैश्वानरस्यैव विश्वान्तर्भावे किं नियामकं श्रुत्यभिमतं इति वाच्यम् । तयोः स्थूलोपाधिक तवरूपसाम्यस्य ईश्वरहिरण्यगर्भव्यावृत्तस्य नियामकतया विवक्षितत्वात् । तथा द्वितीयपादप्रतिपादकवाक्ये ‘स्वप्नस्थानः….तैजसो द्वितीयः पादः’ [मा.उ.४] इत्युक्तम् । अत्र सूक्ष्मोपाधिकत्वसाम्येन हिरण्यगर्भस्य तैजसे अन्तर्भावो विवक्षितः । ‘वैश्वानरः प्रथमः पादः’ [मा.उ.३] इत्युपक्रमानुसारात् । तथा तृतीयपादप्रतिपादकं ‘सुषुप्तस्थान एकीभूतः’ [मा.उ.५] इत्यादिवाक्यं प्रागेवोदाहृतम् । अत्रापि तृतीयपादत्वेनोक्ते प्राज्ञशब्दितानन्दमये सूक्ष्मतरोपाधिकत्वसाम्येन ईश्वरस्यान्तर्भावो विवक्षितः । तथा च वाक्यशेषस्य ‘एष सर्वेश्वरः’ इत्यादेः आनन्दमयेश्वरयोः अभेदविवक्षया प्रवृतत्वात् नानुपपत्तिः । तथा तुरीयपादप्रतिपादकमिदं वाक्यम् — ‘अदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं [शान्तं] शिवमद्वैतं चतुर्थं मन्यन्ते’ [मा.उ.७] इति । अदृश्यं-चक्षुराद्यविषयम्, अव्यवहार्यं-प्रवृत्तिनिवृत्तिलक्षणव्यवहारागोचरम्, अग्राह्यं-कर्मेन्द्रियागोचरम्, अलक्षणम्-असाधारणधर्मशून्यम्, अचिन्त्यं - शुष्कतर्कागोचरम्, अव्यपदेश्यं-शब्दशक्त्यगोचरम्, एकात्मप्रत्ययसारं - एकादिपदचतुष्टयस्य कर्मधारयः । स्वगतभेदशून्यत्वमेकत्वं, सर्वदेहेषु पूर्णत्वमात्मत्वं, प्रत्ययत्वं चिद्रूपत्वं, सारत्वं आनन्दत्वं, ‘सारः-आनन्द इत्यर्थः’ इत्यानन्दमयाधिकरणभाष्यात् । प्रपञ्चोपशमं-प्रपञ्चाभावरूपं, कल्पितपदार्थाभावस्याधिष्ठानानतिरेकात् । यद्वा प्रपञ्चध्वंसरूपम् । ज्ञानसाध्यायाः सकारणद्वैतनिवृत्तेरधिष्ठानात्मकताया वक्ष्यमाणत्वात् । [शान्तं-अविक्रियम्] । शिवं - शुद्धं सर्वदोषरहितम्, अद्वैतं-द्वैतरहितं, चतुर्थं - विश्वतैजसप्राज्ञरूपपादत्रयापेक्षया चतुस्सङ्ख्यापूरकं पादं, मन्यन्ते-चिन्तयन्ति इति श्रुत्यर्थः । अत्र विश्वतैजसप्राज्ञलक्षणपादेषु वैश्वानरहिरण्यगर्भेश्वराणामन्तर्भाववचनं तैः एतेषां एकत्वचिन्तनपरम् । तथा विश्वादिपादानामोङ्कारावयवभूतमात्राणां च एकत्वचिन्तनं अत्र विवक्षितम् । तथा च श्रुतिः - ‘पादा मात्रा मात्राश्च पादाः [मा.उ.८] इति । तथा गौडपादीयवचनमपि - ‘ओङ्कारं पादशो विद्यात् पादा मात्रा न संशयः’ [मा.का.१-२४] इति । ‘न संशयः’ इत्यस्यायमभिप्रायः - विश्वादिपादानां मात्राणां च यावत्संशयनिवृत्ति एकत्वं चिन्तनीयं इति । मात्रास्वरूपं च श्रुत्यैव दर्शितम् — ‘अकार उकारो मकार इति’ [मा.उ.८] इति । एवं विश्वादिपादानां वैश्वानरादीनां मात्राणां च एकत्वचिन्तनं सर्वेषामेतेषां निष्प्रपञ्चब्रह्मात्मकतुर्यपादे चिन्मात्रे प्रवि लापनार्थम् । तत्र चायं क्रमः — विश्ववैश्वानराकाराणामेकत्वं प्रथमं सञ्चिन्त्य पश्चात्तैजसहिरण्यगर्भोकाराणामेकत्वं चिन्तयेत् । तत ईश्वरप्राज्ञमकाराणामप्येकत्वं चिन्तयेत् । तथा चिन्ताक्रमेणैव प्रविलापयेत् । अकारादित्रयमुकारे, उकारादित्रयं मकारे, मकारादित्रयं चिन्मात्रे तुर्यपादे प्रविलापयेत् । चिन्मात्रे प्रविलाप्य च चित्तं तत्रैव स्थापयेत् । उकारादौ प्रविलापनं नाम अकारादित्रयमुकारव्यतिरेकेण नास्ति इत्याद्याहार्यनिश्चयः । एवं प्रत्यहं उक्तप्रकारेण समाधिं कुर्वतो ब्रह्मसाक्षात्कारो भवति, ततश्च ब्रह्मप्राप्त्या कृतकृत्यता, इति माण्डूक्यश्रुत्यभिप्रायः । इदं सर्वं माण्डूक्यश्रुतेः संग्रहेण तात्पर्यकथनपरस्य भाष्यकृद्भिः कृतस्य पञ्चीकरणस्य व्याख्यानरूपे वार्तिके सुरेश्वराचार्यैरभिहितम् - ‘अकारमात्रं विश्वस्स्यादुकारस्तैजसस्स्मृतः । प्राज्ञो मकार इत्येवं परिपश्येत् क्रमेण तु’ [पं.वा. ४७] ॥ अत्र विश्वादिषु वैश्वानरादीनामन्तर्भावं सिद्धं कृत्वा न पृथगुपादानं कृतमिति मन्तव्यम् । ‘समाधिकालात् प्रागेवं विचिन्त्यातिप्रयत्नतः । स्थूलसूक्ष्मक्रमात् सर्वं चिदात्मनि विलापयेत्’ [पं.वा.४८] । ‘अकारं पुरुषं विश्वमुकारे प्रविलापयेत्’ [पं.वा.४९] । पुरुषोऽत्र वैश्वानरः । ‘उकारं तैजसं सूक्ष्मं मकारे प्रविलापयेत्’ [पं.वा.४९] । अत्र समष्टिसूक्ष्मशरीरनियन्तृतया तदुपहितः परमेश्वरः सूक्ष्मशब्दार्थः । ‘मकारं कारणं प्राज्ञं चिदात्मनि विलापयेत्’ [पं.वा.४९] । अत्रान्तर्यामी मायामात्रोपाधिकः कारणशब्दार्थः । ‘चिदात्माऽहं नित्यशुद्धबुद्धमुक्तसदद्वयः । परमानन्दसन्दोहवासुदेवोऽहमोमिति’ [पं.वा.५०-५१] । ‘यतोऽहं चिदात्मा अवशेषितः अतोऽहं नित्यशुद्धादिरूपो वासुदेवः’ इत्यर्थे अङ्गीकारार्थः ओङ्कारः इत्यर्थः । इतिशब्दश्चोत्तरश्लोकान्वयी । ‘ज्ञात्वा विवेचकं चित्तं तत्साक्षिणि विलापयेत्’ [पं. वा. ५१] इति - उक्तप्रकारेण केवलं चिदात्मानं अवशिष्टं ज्ञात्वा विवेचकं - विलापकं चित्तं तत्साक्षिणि यथोक्ते वासुदेवे विलापयेत् - स्थापयेत् इत्यर्थः । चिदात्मनि विलीनं चेत् तच्चित्तं नैव चालयेत् । पूर्णबोधात्मनाऽऽसीत पूर्णाचलसमुद्रवत्’ [पं. वा. ५२] । चिरकालं समाधिं कुर्यादिति वार्तिकार्थः । ‘एवं समाहितो योगी श्रद्धाभक्तिसमन्वितः । जितेन्द्रियो जितक्रोधः पश्येदात्मानमद्वयम् । आदिमध्यावसानेषु दुःखं सर्वमिदं यतः । तस्मात् सर्वं परित्यज्य तत्त्वनिष्ठो भवेत् सदा’ [पं. वा. ५३-५४] । यतः तत्त्वनिष्ठाव्यतिरिक्तं पुरुषार्थसाधनत्वेन लोकशास्त्रसिद्धं सर्वं कालत्रयेऽपि दुःखाविनाभूतं, तस्मात् सर्वं विधिना सन्न्यस्य उक्तरीत्या तत्त्वनिष्ठां समाधिलक्षणां कुर्यात् इत्यर्थः । तदेवाह - ‘इमां विद्यां प्रयत्नेन योगी सन्ध्यासु सर्वदा । समभ्यसेदिहामुत्रभोगानासक्तधीस्सुधीः’ [पं. वा. ६४] इति । इमां - समाधिलक्षणां विद्यां सुधीः - आस्तिकतमः विरक्तो भूत्वा सन्ध्यासु उपक्रम्य सदा अभ्यसेदित्यर्थः । ‘यः पश्येत् सर्वगं शान्तमानन्दात्मानमद्वयम् । न तेन किञ्चिदाप्तव्यं ज्ञातव्यं वाऽवशिष्यते’ [पं. वा. ५५] । ‘कृतकृत्यो भवेद्विद्वान् जीवन्मुक्तो भवेत् सदा’ [पं. वा. ५६] । ‘अविद्यातिमिरातीतं सर्वाभासविवर्जितम् । आनन्दममलं शुद्धं मनोवाचामगोचरम्’ [पं.वा. ६१] । वाच्यवाचकनिर्मुक्तं हेयोपादेयवर्जितम् । प्रज्ञानघनमानन्दं वैष्णवं पदमश्नुते’ [पं.वा. ६२] इति । आभासपदं चिदाभासपरम् । वाच्याः विश्वादयः, वाचकाः अकारादयः, प्रकृतत्वात् । हेयं - दुःखम् । उपादेयं - विषयसुखं इत्यर्थः । तथा माण्डूक्यश्रुतौ समाधिनिष्ठाविवक्षामभिप्रेत्य गौडपादीयेऽप्युक्तम् - ‘युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित्’ [मा.का. १-२५] इति, इति संक्षेपः ।
ननु श्रवणादिरूपेण साङ्ख्यमार्गेणैव तत्त्वप्रतिपत्तिसम्भवात् किं मुमुक्षोर्योगविधिना इत्यत आह —
प्रतिपत्तिसौकर्यायेति ।
यस्य मुमुक्षोस्सन्न्यासिनः बुद्धिमान्द्याद्वा कौशलसत्त्वेऽपि न्यायव्युत्पादनकुशलाचार्याद्यभावाद्वा साङ्ख्यमार्गो न सम्भवति तस्य अनायासेन ब्रह्मतत्त्वप्रतिपत्तिसाधनतया बुद्धिपूर्वकप्रविलापनक्रमेण समाधिविधानं माण्डूक्यादौ उक्तम् । माण्डूक्यतापनीयपञ्चीकरणादौ विहितं ब्रह्मोपासनं प्रकृत्य ध्यानदीपे श्रीविद्यारण्यगुरुभिः अधिकारी दर्शितः ‘अत्यन्तबुद्धिमान्द्याद्वा सामग्र्या वाऽप्यसम्भवात् । यो विचारं न लभते ब्रह्मोपासीत सोऽनिशम्’ [पं. द. ९-५४] ॥ इति ।
अव्याकृतस्येति ।
अनभिव्यक्तजगद्वाचिना अव्याकृतपदेन लक्षणया परमेश्वरः तत्रतत्र व्यवहृत इति कृत्वा तेन तन्निर्देशः कृतः ।
माण्डूक्यश्रुत्युक्तानन्दमयस्य ईश्वरत्ववचनं तदभेदविवक्षया इत्येतत् माण्डूक्यश्रुतिव्याख्यानरूपस्य गौडपादीयस्य विवरणरूपे भाष्ये भाष्यकारैरेवोक्तमित्याह —
इत्थमेवेति ।
श्रीविद्यारण्यगुरुभिश्चित्रदीपे स्वोक्तं चिच्चातुर्विध्यं विहाय ग्रन्थान्तरे ‘जीव ईशो विशुद्धा चित्’ इति वृद्धवचनसिद्धं चित्त्रैविध्यमेवावलम्ब्य जीवस्य त्रैविध्याख्यो विशेष उक्तः इत्याह —
दृग्दृश्यविवेके त्विति ।
‘तु’ शब्द उक्तविशेषार्थकः ।
कूटस्थस्य जीवकोटावन्तर्भावमेव दर्शयति —
तत्रेति ।
दृग्दृश्यविवेकाख्यग्रन्थे इत्यर्थः । ‘हि’शब्दः प्रसिद्धिद्योतकः ।
जलाशयतरङ्गेति ।
यथा समुद्रादिजलाशये तरङ्गा उपरिभावेन तिष्ठन्ति, तेषु चोपरिभावेन बुद्बुदास्तिष्ठन्ति, [इदं प्रसिद्धमिति हिशब्दार्थः । न्यायः-दृष्टान्तः] एवं कूटस्थस्योपरि व्यावहारिकान्तःकरणप्रतिबिम्बरूपो यावद्व्यवहारमनुवर्तमानो व्यावहारिकजीवः कल्प्यते, तस्य चोपरिभावेन स्वप्नकाले वासनामयप्रातिभासिकरथादिवद्वासनाभयान्तःकरणप्रतिबिम्बरूपः प्रातिभासिकजीवः कल्प्यते इत्यर्थः ।
तत्रेति ।
त्रिविधजीवमध्ये इत्यर्थः ।
अवच्छिन्न इति ।
देहद्वयावच्छिन्नकूटस्थचैतन्यरूप आत्मा पारमार्थिकजीव इत्यर्थः । ‘अहं ब्रह्मास्मि’ इति महावाक्येषु जीवब्रह्मणोरभेदः प्रतिपाद्यते । स च पारमार्थिकजीवकल्पने सति निर्वहति । अन्यथा व्यावहारिकप्रातिभासिकजीवयोश्शुक्तिरूप्यादिवत् स्वरूपतो मिथ्यात्वेन सत्यब्रह्माभेदायोगात् ।
देहद्वयावच्छिन्नकूटस्थरूपपारमार्थिकजीवस्य तु अवच्छेदकीभूतदेहद्वयस्य कल्पितत्वेऽपि स्वतस्सत्यत्वात् सम्भवति ब्रह्माभेदः इति पारमार्थिकजीवकल्पनायाः प्रयोजनं दर्शयति —
तस्मिन्निति ।
अवच्छिन्नजीव इत्यर्थः ।
व्यावहारिकजीवं निरूपयति —
तमिति ।
कूटस्थमात्मानमावृत्य अविद्यायां स्थितायां सत्यां कूटस्थात्मनि कल्पितं यदन्तःकरणं तत्र यश्चिदाभासः सः व्यावहारिकजीव इत्यर्थः । तदुक्तं — ‘कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्रतिबिम्बकः’ [पं.द. ६-२३] । इति ।
अहमित्यभिमन्यमान इति ।
‘अहं’ इत्येवमाकारकाभिमानकर्तेत्यर्थः ।
ननु अहमाकारवृत्तिरूपेण परिणममानेऽन्तःकरण एव अहमभिमानवत्त्वं युक्तं, न तु चित्प्रतिबिम्बस्य, अत आह —
अन्तःकरणेति ।
तस्य व्यावहारिकत्वे युक्तिमाह —
तस्येति ।
न च व्यावहारिकजीवे मानाभाव इति वाच्यम् । ‘अहं कर्ता, भोक्ता’ इत्यादिरूपाहमनुभवस्य तत्र मानत्वात्, कर्तृत्वभोक्तृत्वाद्यात्मकसंसाराश्रयत्वस्य अन्यत्रायोगाच्च । न चान्तःकरणे तत्सम्भवः । तस्य चिदाभासशून्यस्य चेतनधर्मत्वेनप्रसिद्धकर्तृत्वाद्याश्रयत्वायोगात् । चिदाभासस्य तु चेतनात्मप्रतिबिम्बतया मिथ्याभूतस्यापि चेतनत्वव्यवहारयोग्यत्वेन तद्धर्माणां चेतनधर्मत्वप्रसिद्धिविरोधाभावात् । पारमार्थिकजीवस्य च संसाराश्रयत्वं न सम्भवति, तस्य कूटस्थत्वात् इति भावः ।
तमपीति ।
व्यावहारिकजीवमपि इत्यर्थः । व्यावहारिकजीवो हि जाग्रद्दशायां आत्मानं ब्राह्मणं देवदत्तनामानं यज्ञदत्तपुत्रं विष्णुभक्तं मन्यते । स्वाप्नजीवस्तु स्वप्नावस्थायां आत्मानं क्षत्रियं विष्णु शर्मनामानं नारायणपुत्रं महादेवभक्तं मन्यते । अतो जाग्रज्जीवस्य आवरणं सिद्धम् ।
प्रातिभासिकजीवकल्पकमाह —
निद्रयेति ।
ननु मायायास्सर्वकल्पकत्वाभ्युपगमात् कथं निद्रायाः कल्पकत्वम्, अपसिद्धान्तापत्तेः - इत्याशङ्क्य निद्रायास्तदवस्थारूपत्वाभ्युपगमान्नोक्तदोष इत्याशयेनाह —
मायेति ।
न च निद्रायाः मायालक्षणाभावात् कथं तदवस्थाविक्षेपरूपत्वमिति वाच्यम् । आवरणविक्षेपशक्तिमत्त्वं हि मायालक्षणम् । तस्य लक्षणस्य जाग्रज्जीवावारिकायां स्वाप्नजगदात्मकविक्षेपकारिण्यां च निद्रायां अक्षतत्वात् इति भावः ।
प्रातिभासिकजीवकल्पनायाः प्रयोजनमाह —
स्वाप्नदेहादाविति ।
व्यावहारिकजीवस्यावृतत्वेन स्वप्नकाले अहमभिमानकर्तृत्वासम्भवात् इति भावः ।
तस्य प्रातिभासिकत्वे हेतुमाह —
स्वाप्नप्रपञ्चेनेति ।
प्रबोधकाले ‘ब्राह्मणोऽहं, न क्षत्रियः’ इत्यादिरूपेण बोधेन स्वप्नद्रष्टुः क्षत्रियादिरूपस्य बाधानुभवात् इति भावः ।
ईश्वरविषये उक्तवक्ष्यमाणप्रकारभेदज्ञानार्थमुपसंहरति —
एवमिति ।
बिम्बचैतन्यमेवेश्वरो न प्रतिबिम्बविशेषः इति वक्ष्यमाणविशेषार्थकः ‘तु’ शब्दः । विभेदजनकत्वं जीवेश्वरभेदस्थितिप्रयोजकत्वं विवक्षितं, न तु यथाश्रुतम् । तद्भेदस्यानादित्वाभ्युपगमात् ।
आत्यन्तिकमिति ।
स्वापप्रलयादौ अज्ञानकार्यनाशेन तत्कारणाज्ञानस्यापि नाशोऽस्ति, परिणामपरिणामिनोरभेदात् । स चाज्ञाननाशो नात्यन्तिकः, पुनरुत्थानात् । मुक्तौ तु तत्त्वज्ञानेन स्वरूपेणापि नाशोऽस्ति, स च आत्यन्तिकः पुनरुत्थानाभावात् इति मत्वा अज्ञाननाशस्य आत्यन्तिकत्वं विशेषणं दत्तम् । यद्वा जीवन्मुक्तिकाले अज्ञानस्य आवरणांशेन नाशेऽपि विक्षेपभावात् अनात्यन्तिकः स नाशः, विदेहमुक्तौ तु आत्यन्तिकोऽज्ञाननाशः, इति तदभिप्रायं तद्विशेषणमिति भावः ।
प्रतिबिम्बत्वायोगादिति ।
न च ‘जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति’ इति श्रुत्या उभयोः प्रतिबिम्बत्वप्रतिपादनविरोध इति वाच्यम् । प्रतिबिम्बत्ववत् बिम्बत्वस्यापि कल्पिततया श्रुतिगताभासपदेन प्रतिबिम्बवत् बिम्बस्यापि ग्रहणोपपत्तेः । ननु - लोके प्रतिबिम्बत्वविशिष्टमुखे मुखाभासत्वव्यवहारवत् बिम्बत्वविशिष्टमुखे तथाव्यवहाराभावात् आभासपदं मुख्यवृत्त्या बिम्बचैतन्यं प्रतिपादयितुं न शक्नोति इति खलु प्रतिबिम्बवत् बिम्बस्यापि विशिष्टरूपेण कल्पिततया कल्पितत्वगुणयोगेन बिम्बपरं आभासपदं वक्तव्यम् ।
तच्च न सम्भवति ।
सकृदुच्चरितस्याभासपदस्य मुख्यवृत्त्या प्रतिबिम्बपरत्वं गुणवृत्त्या बिम्बपरत्वमिति कल्पनस्य व्युत्पत्तिविरुद्धत्वात् । न च अजहल्लक्षणया आभासपदस्य बिम्बप्रतिबिम्बोभयपरत्वाभ्युपगमे नायं विरोध इति वाच्यम् । उभयोरपि प्रतिबिम्बरूपतामादाय आभासपदस्य मुख्यार्थपरत्वे सम्भवति लक्षणाकल्पनाया एव निर्मूलत्वादिति चेत्-उच्यते -यथाश्रुतं जीवेशयोरुभयोरपि प्रतिबिम्बरूपत्वं न सम्भवति । बिम्बभूतचैतन्यस्य सूर्यवत् एकत्वेन उपाधिभेदं विना प्रतिबिम्बद्वयासम्भवात् । न च ‘माया चाविद्या च स्वयमेव भवति’ इति वाक्यशेषेण मायाऽविद्यारूपोपाधिद्वयप्रतिपादनात् न प्रतिबिम्बद्वयानुपपत्तिरिति वाच्यम् । तेन स्वयंशब्दोपात्तायाः प्रकृतमूलप्रकृतेः मायात्वाविद्यात्वलक्षणरूपभेदप्रतिपादनेऽपि प्रतिबिम्बद्वयापेक्षितोपाधिद्वयाप्रतिपादनात्, मायाऽविद्ययोः स्वरूपतो भेदस्य सिद्धान्तविरुद्धत्वाच्च । तस्मात् यथाश्रुतासम्भवात् एकस्यैवाज्ञानस्य जीवेशविभागप्रयोजकत्वप्रतिपादकस्मृत्यनुरोधाच्च ‘जीवेशावाभासेन करोति’ इतिश्रुतौ आभासपदं अजहल्लक्षणया बिम्बप्रतिबिम्बोभयपरं इति विवरणानुसारिणामाशय इति ।
तत्रापीति ।
बिम्बप्रतिबिम्बयोरुभयोर्मध्येऽपीत्यर्थः ।
तत्र युक्तिमाह —
तथासत्येवेति ।
बिम्बचैतन्यस्यैवेश्वरत्वाभ्युपगमे सतीत्यर्थः ।
स्वातन्त्र्यमिति ।
‘एष सर्वेश्वर एष भूताधिपतिः’ [बृ.उ.४-४-२१] इत्यादिश्रुतिसिद्धमिति शेषः ।
तत्पारतन्त्र्यमिति ।
‘एष ह्येव साधु कर्म कारयति’ [कौ.उ. २-८] ‘य आत्मानमन्तरो यमयति’ [बृ.उ. (मा) ३-७] ‘ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा’ इत्यादिश्रुतिस्मृतिसिद्धमिति शेषः ।
लौकिकदृष्टान्तमेव कल्पतरुश्लोकोदाहरणेन दर्शयति —
प्रतिबिम्बगता इति ।
यथा लोके कश्चित् पुरुषः स्वप्रतिबिम्बगताः ऋजुवक्रादिविक्रियाः बिम्बभूतस्वप्रयुक्ताः पश्यन् क्रीडति तथा ब्रह्मापि जीवस्थविक्रियाः प्राणिकर्मानुसारेण स्वप्रयुक्ताः पश्यन् क्रीडति इति योजना । कल्पतरूक्तरीत्या ईश्वरस्य स्वातन्त्र्यप्रतिपत्त्युपयोगिन्या ईश्वरस्य स्वातन्त्र्यप्रतिपादकं सूत्रमपि सङ्गच्छते इत्यर्थः । सूत्रार्थस्तु - ईश्वरस्य आप्तकामत्वेन प्रयोजनोद्देशाभावात् सृष्ट्यादिव्यापारेषु प्रवृत्तिर्न सम्भवति इतिपूर्वपक्षव्यावृत्त्यर्थः तुशब्दः । ईश्वरस्य सृष्ट्यादिप्रवृत्तिलक्षणक्रिया केवलं प्रयोजनोद्देशं विनैव लीला । लोकवत् । यथा लोके सार्वभौमादेः सर्वैर्मानुषैः भोगैः सम्पन्नतमस्य प्रयोजनाभिसन्धिं विनैव क्रीडा दृश्यते तद्वत् ईश्वरस्य प्रयोजनोद्देशाभावेऽपि स्वभावादेव सृष्ट्यादिप्रवृत्तिरुपपद्यते । दृश्यते हि सुखोद्रेकानुभवप्रयुक्ता हासगानादिरूपा प्रयोजनोद्देशरहिता लीला प्राणिनां स्वाभाविकी । न हि तत्र प्रयोजनमपि सम्भावयितुं शक्यते । दुःखोद्रेके रोदनवत् सुखोद्रेके हासगानादेः प्रयोजनरहितस्य सर्वानुभवसिद्धत्वात् । अत एव हसितरुदितादिषु कारणमेव पृच्छन्ति न प्रयोजनम् । उक्तं च माण्डूक्यश्रुतौ — ‘देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा’ [मा.का. १-९] इति । एषः - सृष्ट्यादिव्यवहारः इत्यर्थः । किं च - स्वप्नसृष्टिवत् मायामयी प्रपञ्चसृष्टिः अस्माभिरुपेयते । न च तत्र प्रयोजनप्रश्नो न्याय्यः । स्वप्नसृष्टौ प्रयोजनप्रश्नादर्शनात् इति ।
ननु यद्यज्ञानं जीवस्योपाधिः, तर्हि व्यर्थमन्तःकरणस्य जीवोपाधित्ववर्णनं सूत्रभाष्यादिषु, तत्राह —
अज्ञानेति ।
विशेषाभिव्यक्तिस्थानमिति ।
अविद्याप्रतिबिम्बचैतन्यरूपस्य सुषुप्तिसाधारणस्य प्रमातृत्वकर्तृत्वभोक्तृत्वादिविशेषरूपेण या अभिव्यक्तिः-उपलब्धिः तस्याःस्थानं - उपाधिः इत्यर्थः । एतदुक्तं भवति — कर्तृत्वादिघर्माणां केवलाज्ञानपरिणामत्वाभावेन तदुपाधिमात्रात् न जीवस्य कर्तृत्वादिधर्मरूपविशेषलाभः, किं तु कर्तृत्वादिविशेषवदन्तःकरणतादात्म्याध्यासादेव तल्लाभः, इति न तदुपाधिकत्वनिरूपणं व्यर्थमिति ।
अत इति ।
अन्तःकरणस्य विशेषाभिव्यक्तिस्थानत्वाभ्युपगमात् इत्यर्थः ।
व्यवहारोऽपीति । ‘कार्योपाधिरयं जीवः’ इति श्रुतौ सूत्रभाष्यादिषु च इति शेषः । ‘विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥’ इति विष्णुपुराणवचने जीवस्य अज्ञानोपाधिकत्वव्यवहारवत् इति अपेः अर्थः ।
ननु ‘कार्योपाधिरयं जीवः’ इति श्रुतिबलादज्ञानोपाधिपरित्याग उचितः, कार्योपाधिकत्वविशेषणस्य कारणोपाधिकत्वव्यावर्तकत्वात्, इत्याशङ्क्य स्मृतिविरोधात् न तस्य कारणोपाधिव्यावर्तकत्वमुपेयत इत्याशयेनाह —
न एतावतेति ।
श्रुतौ कार्योपाधिकत्वविशेषणमात्रेणेत्यर्थः । ननु - श्रुतिविरोधे स्मृतेरेव अन्यथानयनमुचितम् । तन्नयनप्रकारश्चेत्थम् — स्मृतौ अज्ञानपदं तत्कार्यान्तःकरणपरम् । जीवोपाध्यन्तःकरणस्य नानात्वेऽप्यज्ञाने इत्येकवचनं जात्यभिप्रायम् ।
तथा च अन्तःकरणावच्छिन्न आत्मा जीवः, तदनवच्छिन्न आत्मा ईश्वरः इति जीवब्रह्मविभागप्रयोजकमन्तःकरणं इति स्मृत्यर्थो भविष्यति — इति इमामाशङ्कां निवर्तयितुं कार्योपाधिमात्रस्य जीवोपाधित्वं निराकरोति —
अन्तःकरणोपाधिपरिच्छिन्नस्यैवेति ।
नाज्ञानोपाधिकस्य इत्येवकारार्थः ।
अनुपपत्तेरिति ।
कायव्यूहाधिष्ठानं हि युगपदनेकशरीरनियन्तृत्वम् । तच्च योगिनो योगप्रभावात् निर्मितेषु सर्वशरीरेषु युगपदवस्थितस्य वक्तव्यम् । न चान्तःकरणावच्छिन्नचैतन्यरूपस्य योगिनस्तत् सम्भवति । तस्य परिच्छिन्नत्वात् । अज्ञानस्य जीवोपाधित्वे तु तत् सम्भवति । तस्य व्यापकत्वेन तदुपाधिकस्य योगिजीवस्य युगपत् सर्वशरीरेषु सन्निधानोपपत्तेः । तथा च श्रुत्यपेक्षया स्मृतेर्दुर्बलत्वेऽपि कायव्यूहाधिष्ठानानुपपत्तिसहितस्मृतेर्बलवत्त्वात् तदनुरोधेन ‘कार्योपाधिरयं जीवः’ इति श्रुतौ कार्योपाधिपदं स्वरूपकथनमात्रपरं न कारणोपाधिव्यावर्तकविशेषणपरं इति भावः ।
वैपुल्यमिति ।
व्यापकत्वमित्यर्थः ।
अधिष्ठानमिति ।
प्रेरणमित्यर्थः ।
प्रदीपवदिति ।
यथा एकस्य प्रदीपस्य अनेकवर्तिष्वावेशः, तथा योगिनो योगप्रभावात् अनेकेष्वेकदा आवेशः । यद्यपि प्रदीपस्य वर्त्याविष्टदीपानां च भेदोऽस्ति योगिनस्तु सर्वदेहेष्वैक्यं इति दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमस्ति, तथापि दीपत्वजात्यभेदं व्यक्तिष्वारोप्य तयोस्सङ्गतिरवगन्तव्या । तथा हि दर्शयति श्रुतिः एकस्य योगिनोऽनेकधाभावम् - ‘स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा’ [छा.उ.७-२६-२] इत्यादिका । न च योगिनो युगपदनेकशरीरेष्ववस्थानमन्तरेण श्रुतिसिद्धानेकधाभाव उपपद्यते इति सूत्रार्थः ।
सृष्टेरुपवर्णनादिति ।
तथा च एकस्यैवान्तःकरणस्य कायव्यूहाभिव्यक्तियोग्यवैपुल्याभ्युपगमे भाष्यादिविरोध इति भावः । अत्र यद्यपि योगिनो निजसिद्धान्तःकरणमेव योगप्रभावात् वैपुल्यं प्राप्य स्वावच्छिन्नचैतन्यरूपस्य योगिनः कायव्यूहाधिष्ठानभोगादिकं घटयति इत्येव भाष्यादीनां तात्पर्यं वक्तुमुचितं, न तु यथाश्रुतनानान्तः करणसर्गे । आगन्तुकानेकान्तःकरणसृष्ट्युपगमे असत्कार्यवादापातात् कल्पनागौरवाच्च, हिरण्यगर्भादीनां योगप्रभावादेव अण्डव्यापिसमष्ट्यन्तःकरणाभ्युपगमाच्च । न हि हिरण्यगर्भादीनां पूर्वजन्मनि यजमानावस्थायां तदीयान्तःकरणानां व्यापित्वे प्रमाणमस्ति । तथा सति अस्मदाद्यन्तःकरणानामपि व्यापित्वापत्तेः । भाष्यादिषु अन्तःकरणसृष्टिवर्णनस्य मतान्तराभिप्रायत्वोपपत्तेश्च । ‘एषैव च योगशास्त्रेषु योगिनामनेकशरीरयोगप्रक्रिया’ इति भाष्य एव मतान्तरत्वोपदर्शनात् । योगशास्त्रेष्वेव च एषा प्रक्रिया इति एवकारान्वयोपपत्तेः । तथापि शास्त्रोपान्त्याधिकरणयथाश्रुतभाष्याद्यभिप्रायेण इदं दूषणमिति मन्तव्यम् । वस्तुतस्तु ‘अन्तःकरणावच्छिन्नचैतन्यं जीवः तदनवच्छिन्नमीश्वरः’ इति पक्षे अण्डान्तर्गतचैतन्यस्य सर्वात्मना तदवच्छेदात् अनवच्छिन्नचैतन्यरूपेश्वरस्य अण्डात् बहिरेव सत्त्वं स्यात् इति वक्ष्यमाणे दूषणे तात्पर्यम् । यदि च अनवच्छिन्नचैतन्यमीश्वर इत्यनेन निरुपाधिकं चैतन्यमीश्वर इति विवक्षितं, तदा तस्य सर्वत्र सत्त्वेन अण्डात् बहिरेव सत्त्वापत्तिदोषाभावेऽपि ‘कारणोपाधिरीश्वरः’ इति श्रुतिविरोधदोषो दुर्वारः । तस्मात् कारणोपाधिकत्वं ईश्वरवत् जीवस्याप्युपगन्तव्यं स्मृत्यनुसारात् इति स्थितम् ।
यत्तु चित्रदीपे प्रतिबिम्बचैतन्यरूपजीवस्य स्वरूपतो मिथ्यात्वात् तस्य मुक्त्यन्वयायोग इति तदन्वययोग्यं कूटस्थनामकं जीवेश्वरविलक्षणं किञ्चित् चैतन्यं परिकल्प्य चिच्चातुर्विध्यं दर्शितं, यदपि च दृग्दृश्यविवेके प्रतिबिम्बमिथ्यात्वमेवाश्रित्य मुक्त्यन्वयाय अवच्छिन्नचैतन्यस्य पारमार्थिकजीवत्वं कल्पितं, तदुभयमप्ययुक्तम्, बिम्बप्रतिबिम्बयोर्भेदमात्रस्य कल्पिततया स्वतस्तयोर्भेदे मानाभावात्, इत्याशयेनाह —
प्रतिबिम्बे बिम्बादिति ।
स्वरूपस्य कल्पितत्वव्यवच्छेदो मात्रशब्दार्थः ।
न तदतिरेकेणेति ।
प्रतिबिम्बजीवातिरेकेण जीवान्तरं वा कूटस्थशब्दितं चैतन्यान्तरं वा न कल्पनीयं इति सम्बन्धः । एवं व्यावहारिकजीवातिरेकेण प्रातिभासिकजीवोऽपि न कल्पनीयः । प्रमाणाभावात् । न च व्यावहारिकजीवस्य स्वप्नकाले आवृतत्वेन तस्य तदा व्यवहर्तृत्वानुपपत्तिः तत्कल्पने प्रमाणमिति वाच्यम् । जीवचैतन्ये आवरणाभावस्य साक्षिनिरूपणावसरे वक्ष्यमाणत्वेन जाग्रज्जीवस्यैव स्वप्नेऽपि व्यवहारकर्तृत्वोपपत्तेः, ‘योऽहं स्वप्ने श्रीकृष्णमद्राक्षं स एव इदानीं जाग्रत् पुनस्तं स्मरामि’ इति जाग्रत्स्वप्नद्रष्ट्रोः अभेदप्रत्यभिज्ञानाच्च । संस्कारोद्बोधाभावादिकारणवशादेव कदाचित् ब्राह्मणत्वाद्यप्रतीत्युपपत्तेश्च । न च स्वप्नप्रपञ्चेन सह तद्द्रष्टुर्बाधदर्शनं प्रातिभासिकजीवकल्पने प्रमाणमिति वाच्यम् । प्रबोधकाले ‘नाहं क्षत्रियः’ इत्यादिरूपबाधकप्रत्ययस्य आत्मन्यारोपितक्षत्रियत्वादिमात्रबाधकत्वेन स्वप्नद्रष्टृबाधकत्वाभावात् । अन्यथा पूर्वोदाहृतद्रष्ट्रैक्यप्रत्यभिज्ञानविरोधात् । तस्मात् प्रातिभासिकजीवकल्पनमपि प्रामाणिकं न भवतीति बोध्यम् ।
यदपि चिच्चातुर्विध्यवादिभिरुक्तं —‘तान्येवानुविनश्यति’ ‘अविनाशी वा अरेऽयमात्मा’ इति वाक्याभ्यां प्रकृते प्रज्ञानघनात्मनि विनाशित्वाविनाशित्वरूपविरुद्धधर्मद्वयप्रतिपादनात् तदुपपत्तये विनाशिप्रतिबिम्बव्यतिरेकेण विनाशरहितकूटस्थचैतन्यं सिद्ध्यतीति-तदपि मन्दम्, अविद्याप्रतिबिम्बचैतन्यरूपे जीव एव प्रतिबिम्बत्वरूपविशेषणांशनाशाभिप्रायेण विनाशवचनस्य विशेष्यचैतन्यांशाभिप्रायेण विनाशाभावप्रतिपादकवचनस्य च उपपत्तौ धर्मिभेदकल्पनस्य गौरवपराहतत्वात्, इत्याशयेनाह -
अविनाशी वेति ।
ननु - अविद्याप्रतिबिम्बो जीवः, तद्बिम्ब ईश्वरः, बिम्बप्रतिबिम्बानुगतं चैतन्यं शुद्धचैतन्यं, इति विवरणपक्षे देहद्वयोपादानतया तदवच्छिन्नस्य पारमार्थिकजीवनामकतया कूटस्थनामकतया च चिच्चातुर्विंध्यवादिभिरङ्गीकृतस्य चैतन्यस्य कुत्रान्तर्भाव उपेयते । न तवज्जीवे शुद्धचैतन्ये वा अन्तर्भावः सम्भवति । तयोः उपादानत्वाभावेन देहद्वयोपादानकूटस्थस्य तयोः अन्तर्भावायोगात् । नापि बिम्बभूतेश्वरे तस्य अन्तर्भावः सम्भवति ।
ईश्वरस्य जीवतदुपाध्यन्तःकरणादिसन्निहिततया देहादिविकारेषु अवस्थाने प्रमाणाभावात्, कूटस्थनामकचैतन्यस्य च कूटस्थवादिभिः तथात्वाङ्गीकारात् इत्यत आह —
जीवोपाधिनेति ।
अविद्याप्रतिबिम्बरूपजीवस्य विशेषाभिव्यक्तिप्रयोजकोपाधिना इत्यर्थः । प्राणचक्षुरादिकमादिपदार्थः ।
ईश्वर एवेति ।
न शुद्धं ब्रह्म नापि प्रतिबिम्बरूपजीवः इत्येवकारार्थः । चेतनाचेतनात्मकनिखिलप्रपञ्चोपादानत्वप्रतिपादकश्रुतिस्मृतिसहस्त्रस्य बिम्बभूतेश्वरस्य देहाद्युपादनतया देहादिविकारेषु अन्तरवस्थाने प्रमाणत्वात् कूटस्थस्य च ततो भेदे मानाभावात् इति भावः ।
न केवलं उपादानत्वप्रतिपादकशास्त्रमेव तत्र प्रमाणं, किं तु चेतनाचेतनात्मकसकलजगन्नियन्तृत्वप्रतिपादकमन्तर्यामिब्राह्मणमपि बिम्बभूतेश्वरस्य विकारेषु अन्तरवस्थाने प्रमाणं इत्याह —
यो विज्ञाने तिष्ठन्नित्यादिश्रुत्येति ।
‘विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयति’ [बृ.उ.३-७-२२] इत्यादिवाक्यं आदिपदेन गृह्यते । अत्र विज्ञानपदं जीवपरम् । बृहदारण्यके माध्यन्दिनपाठे ‘य आत्मनि तिष्ठन्’ इति पर्यायस्थाने काण्वपाठे ‘यो विज्ञाने तिष्ठन्’ इति पर्यायाम्नानदर्शनेन काण्वपाठे विज्ञानपदस्य आत्मपदसमानार्थकत्वावगमात् । आत्मपदं च अत्र जीवपरम्, तस्य तत्र रूढत्वात्, आत्मपदस्य जीवेश्वरसाधारणत्वेऽपि नियम्यत्वलिङ्गेन प्रकृते जीवपरत्वावश्यम्भावात् इति भावः ।
जीवसन्निधानेनेति ।
ईश्वरस्य जीवादिनियन्तृत्वं हि व्यवहितराजादेः प्रजानियन्तृत्ववत् न भवति, किं तु नियम्यजीवादिसन्निधानेनैव । ‘य आत्मनि तिष्ठन्’ इति सन्निधानप्रतीतेः इत्यर्थः । अन्तर्यामिब्राह्मणवाक्यग्रहणं स्मृतेरप्युपलक्षणम् । तथा च भगवद्गीतास्मृतिः — ‘ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥’ [भ.गी. १८-६१] इति । भूतानि प्राणिनः, यन्त्रं शरीरं, तदारूढत्वं तत्र अहंममाभिमानवत्त्वम् ।
भ्रामयन्निति ।
कर्मानुसारेण प्रवर्तयन् निवर्तयंश्च इत्यर्थः । ईश्वरस्य नियन्तृत्वं मायोपाधिकमेव न वास्तवं इत्याशयेन मायया इत्युक्तम् । एवं चैतन्यस्य प्रतिबिम्बमुपगच्छतां मतभेदेन जीवेश्वरविभागो दर्शितः ।
इदानीं तमनभ्युपगन्तॄणां मतेन जीवादिस्वरूपं दर्शयितुं चैतन्यस्य प्रतिबिम्बं निराकरोति —
अन्ये त्विति ।
रूपानुपहितेति ।
लोके रूपवत एव चन्द्रादेः प्रतिबिम्बो दृश्यते न रूपरहितस्य वाय्वादेः इति व्याप्तिदर्शनात् नीरूपचैतन्यस्य प्रतिबिम्बासम्भव इत्यर्थः ।
इतश्च चैतन्यस्य न प्रतिबिम्बसम्भव इत्याह —
सुतरां नीरूपे इति ।
अविद्यान्तःकरणादौ इति शेषः । रूपवत एव द्रव्यस्य प्रतिबिम्ब इति नियमस्य वक्ष्यमाणरीत्या गगने व्यभिचारसत्त्वेऽपि रूपवत्येवोपाधौ प्रतिबिम्ब इति नियमस्य न क्वचिदपि व्यभिचार इति मत्वा सुतरां इत्युक्तम् ।
ननु नीरूपगगनस्य कूपजलतटाकादौ प्रतिबिम्बानुभवात् नीरूपद्रव्यस्य प्रतिबिम्बाभाव इति नियमो नास्ति इत्याशङ्क्याह —
गगनेति ।
कूपजलादौ तावत् आलोकप्रतिबिम्बः सम्प्रतिपन्नः । तस्मिन् गगनप्रतिबिम्बत्वभ्रमो लोकानां इति कल्प्यते । न तु वस्तुतः तत्र गगनप्रतिबिम्बोऽस्ति । उक्तनियमविरोधात् ।
भ्रमप्रयोजकदोषमाह —
गगनाभोगव्यापिनीति ।
आभोगो विस्तारः । गगनोपरिभागे व्याप्य वर्तमानस्य सवितृकिरणमण्डलादेः जले प्रतिबिम्बदर्शनात् तदनुगतगगनस्य जले प्रतिबिम्बभ्रम इत्यर्थः । ननु - यथा बहिः ‘नीलं नभः, विशालं नभः’ इत्यादिरूपेण गगनमनुभूयते, एवं कूपतटाकादिजलेऽपि ‘नीलं नभः, विशालं नभः’ इत्यादिरूपोऽनुभवः सर्वसम्प्रतिपन्नः । न च कूपजलादौ प्रतीयमानवैशाल्यादियुक्तं नभो वस्तुतोऽस्ति । अतः प्रतिबिम्बरूपमेव तत्र दृश्यमानं नभ इति वक्तव्यम् । ततश्च कथं गगनप्रतिबिम्बापलापः क्रियते । न च नीरूपस्य प्रतिबिम्बासम्भव इति वाच्यम् । रूपसङ्ख्यापरिमाणादेर्नीरूपस्यापि प्रतिबिम्बदर्शनात् । न च द्रव्यत्वमपि विशेषणं विवक्षितं इति वाच्यम् । सिद्धान्ते द्रव्यगुणादिपरिभाषाया अनभ्युपगमात् । तदभ्युपगमेऽपि गगनप्रतिबिम्बानुभवानुरोधेन ‘रूपोपहितद्रव्यस्य प्रतिबिम्बः तदुपहितत्वं च वस्तुतस्स्वगतरूपेण स्वस्मिन्नारोपितरूपेण वा’ इति नियमकल्पनोपपत्तेश्च । तथा च बहिरारोपितनैल्यादिविशिष्टगगनस्य जलादौ प्रतिबिम्बाभ्युपगमे न किञ्चित् बाधकम् । न च जलादौ संप्रतिपन्नालोकप्रतिबिम्बातिरिक्तगगनप्रतिबिम्बाभ्युपगमे गौरवमेव बाधकं इति वाच्यम् । आलोकप्रतिबिम्बे गगनप्रतिबिम्बत्वभ्रमाभ्युपगमेऽपि तद्भ्रमविषयस्य आलोकप्रतिबिम्बाधिकरणकस्य शुक्तिरूप्यादिवदनिर्वचनीयस्य गगनप्रतिबिम्बत्वस्याभ्युपगन्तव्यत्वेन तुल्यत्वात्, अनुभवानुसारिगौरवस्य अदोषत्वाच्च । तस्मात् रूपवत एव द्रव्यस्य प्रतिबिम्ब इति नियमस्य गगनप्रतिबिम्बस्थले व्यभिचारो दुर्वार इति चेत् — सत्यम् । तथापि चैतन्यस्य प्रतिबिम्बो न सम्भवति, नीरूपान्तःकरणादेः प्रतिबिम्बोपाधित्वासम्भवात्, इत्यत्रैव तात्पर्यम् । ननु-नीरूपेऽपि ध्वनौ नीरूपद्रव्यात्मकवर्णानां प्रतिबिम्बोऽस्तीति वक्तव्यम् । तथासत्येव दर्पणश्यामताया दर्पणगतप्रतिबिम्बद्वारेण बिम्बमुख इव ध्वनिगतानां तारत्वादीनां ध्वनिगतवर्णप्रतिबिम्बद्वारा वर्णेष्वारोपस्सम्भवति, नान्यथा ।
एवं नीरूपान्तःकरणादौ नीरूपात्मनः प्रतिबिम्बसम्भवः इत्याशङ्क्य दृष्टान्तं विघटयति —
ध्वनाविति ।
ननु-पटहाख्यवाद्यविशेषादिशब्दोत्पत्तिकाले पाषाणविशेषादिसन्निहिताकाशप्रदेशेषु प्रतिध्वनिः श्रूयते । स पूर्वशब्दप्रतिबिम्ब एव, न मुख्यध्वनिः । तदुत्पत्तौ कारणाभावात् ।
तथा च यथा नीरूपाकाशप्रदेशेषु नीरूपध्वनेः प्रतिध्वनिरूपः प्रतिबिम्बः तथा प्रकृते किं न स्यादिति - नेत्याह —
प्रतिध्वनिरपीति ।
न च प्रतिध्वनेः उत्पादकाभावः शङ्कनीयः । आकाशस्यैवोपादानस्य सत्त्वात्, पूर्वशब्दस्य निमित्तकारणस्य सत्त्वाञ्च । न च प्रतिध्वनेः प्रतिबिम्बत्वेऽप्याकाशगुणत्वं किं न स्यात् इति वाच्यम् । बिम्बप्रतिबिम्बयोर्भेदपक्षे प्रतिध्वनिरूपप्रतिबिम्बस्य प्रातिभासिकत्वेन व्यावहारिकगुणत्वानुपपत्तेः, तदभेदपक्षे बिम्बभूतपृथिव्यादिशब्दापेक्षया प्रतिध्वनिरूपप्रतिबिम्बस्य भेदाभावेन तस्य आकाशगुणत्वानुपपत्तेः इति भावः । ननु वर्णरूपप्रतिशब्दस्य वर्णप्रतिबिम्बत्वमवश्यं वाच्यं, न तु साक्षाद्वर्णरूपत्वम् । प्रतिवर्णाभिव्यक्तिस्थले वर्णव्यञ्जककण्ठताल्वादेरभावात् ।
तथा च यथा तत्र पर्वतगुहादिसन्निहितेषु नीरूपेष्वाकाशप्रदेशेषु नीरूपाणां वर्णानां प्रतिबिम्बः तथा प्रकृते किं न स्यादिति - नेत्याह —
वर्णरूपप्रतिशब्दोऽपीति ।
प्रतिध्वनिवत् इत्यापिशब्दार्थः । कण्ठताल्वादिस्थलेऽपि न कण्ठादेर्वर्णव्यञ्जकत्वं, किं तु कण्ठाद्यभिघातजन्यध्वनेः । तथा च यथा मूलध्वनिर्वर्णव्यञ्जकः एवं प्रतिवर्णाभिव्यक्तिस्थले उत्पन्नः प्रतिध्वनिरेव तत्र वर्णानां व्यञ्जकः सम्भवतीति न प्रतिवर्णानां प्रतिबिम्बरूपत्वमभ्युपगन्तव्यमित्यर्थः ।
चैतन्यप्रतिबिम्बनिराकरणमुपसंहरति —
तस्मादिति ।
चैतन्यप्रतिबिम्बासम्भवादित्यर्थः ।
अन्तःकरणानवच्छिन्नचैतन्यस्येश्वरत्वे अन्तःकरणादिषु सर्वविकारेषु परमेश्वरस्यान्तर्यामिभावेनावस्थानप्रतिपादकश्रुतिविरोधं शङ्कते —
न चैवमिति ।
विरुध्येतेति ।
तथा च श्रुतिविरोधपरिहाराय प्रतिबिम्बपक्ष एव स्वीकर्तव्य इति भावः ।
प्रतिबिम्बपक्षाश्रयणेऽपि श्रुतिविरोधमाशङ्क्याह —
प्रतिबिम्बपक्षे त्विति ।
तुशब्दसूचितं विशेषमेव दर्शयति —
जलगतेति ।
द्विगुणीकृत्येति ।
प्रतिबिम्बरूपजीवभावेन तत्तदुपाध्यन्तर्यामिभावेन च इत्यर्थः ।
प्रतिबिम्बपक्षेऽपि अन्तर्यामिब्राह्मणविरोधो दुष्परिहर इत्याह —
यत इति ।
यत ईश्वरेऽन्तर्यामिब्राह्मणाञ्जस्याभावस्तुल्यः अतो न च वाच्यमिति सम्बन्धः ।
तत्रेति ।
अन्तःकरणादावित्यर्थः । ननु - यथा जले कृत्स्नस्य चन्द्रमण्डलस्य प्रतिबिम्बः, तथा कृत्स्नस्यैव चैतन्यस्य अन्तःकरणादौ प्रतिबिम्बोऽस्तु, न तु उपाध्यनन्तर्गतचैतन्यभागस्य अण्डाद्बहिर्भूतस्य ।
तथा च बिम्बभूतेश्वरस्य अण्डान्तरपि सत्त्वात् न अन्तर्यामिब्राह्मणविरोधतौल्यमिति - नेत्याह—
न त्विति ।
असम्भवमेव दर्शयति —
न हीति ।
आलोकस्य वेति ।
बहिस्स्थितस्येति शेषः ।
जलान्तर्गतस्यापीति ।
आकाशादेरित्यनुषङ्गः ।
तत्रेति ।
जलादावित्यर्थः ।
उदाहरणान्तरमाह —
ने वेति ।
ततः किं - तत्राह —
अत इति ।
उपाध्यन्तर्गतभागस्य तत्र प्रतिबिम्बासम्भवादित्यर्थः ।
तदनन्तर्गतस्यैवेति ।
चैतन्यस्येति शेषः । दृष्टानुरोधित्वात् कल्पनायाः इति भावः ।
विकारान्तरिति ।
अण्डान्तर्गतचैतन्यभागस्य उपाध्यन्तर्गतत्वात् तद्बहिस्स्थितस्यैव चैतन्यस्य बिम्बत्वं वाच्यमिति बिम्बभूतेश्वरोऽप्यण्डात् बहिरेव स्यात् इत्यर्थः । यदि च प्रतिबिम्बपक्षे ईश्वरस्य सर्वान्तर्यामित्वप्रतिपादकश्रुत्याद्यनुसारेण लोकदृष्टिमनादृत्य कृत्स्नचैतन्यप्रतिबिम्बमुपेत्य अन्तर्यामिब्राह्मणाञ्जस्यमुपपाद्यते, तदा अनवच्छिन्नचैतन्यमीश्वर इति पक्षेऽपि ‘अन्तःकरणाभावावच्छिन्नचैतन्यमीश्वर इति विवक्षितम्, अन्तःकरणस्य कल्पितत्वेन चैतन्ये अन्तःकरणाद्यवच्छेदेनाप्यन्तः करणाभावस्य वास्तवस्य सत्त्वेन तदवच्छिन्नचैतन्यरूपेश्वरस्य सर्वविकारान्तरवस्थानसम्भवात् तत्प्रतिपादकब्राह्मणाञ्जस्यं तुल्यम्’ इति समाधानं बोध्यम् । अभावस्यापीश्वरोपाधित्वमुक्तं तृप्तिदीपे — ‘अन्तःकरणसाहित्यराहित्याभयं विशिष्यते । उपाधिर्जीवभावस्य ब्रह्मतायाश्च नान्यथा ॥यथा विधिरुपाधिस्स्यात् प्रतिषेधस्तथा न किम् । सुवर्णलोहभेदेन शृङ्खलात्वं न भिद्यते ॥अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन च । वेदान्तानां प्रवृत्तिः स्याद्द्विधेत्याचार्यभाषितम् ॥ (पं.द.७-८५-८७) इति । श्लोकानामयमर्थः — जीवत्वब्रह्मत्वयोरुपाधिः अन्तःकरणसाहित्यराहित्याभ्यां विशिष्यते - भिद्यते । तत्साहित्यं जीवत्वोपाधिः, तद्राहित्यं ब्रह्मताया उपाधिः, इति जीवेश्वरोपाधिभेद इत्यर्थः । नान्यथा - न प्रकारान्तरेण जीवभावाद्युपाधिरित्यर्थः ।
ननु भावस्यैवोपाधित्वं नाभावस्येत्याशङ्क्य विनिगमनाविरहमाह —
यथेति ।
भाववदभावस्य व्यावर्तकोपाधित्वे विशेषो नास्तीत्यत्र दृष्टान्तमाह —
सुवर्णेति ।
शृङ्खलात्वं नाम यथेच्छासञ्चारव्यावर्तकत्वम् ।
ननु भावरूपान्तःकरणादेः द्रष्टृत्वादिरूपेण जीवोपलब्धिसाधनत्वात् तस्य जीवोपाधित्वं युक्तमित्याशङ्क्य तर्ह्यन्तःकरणनिषेधस्यापि ब्रह्मोपलब्धिसाधनत्वात् तस्य ब्रह्मोपाधित्वं युक्तमित्यभिप्रेत्य तत्तुदुपाधिनिषेधस्य ब्रह्मोपलब्धिसाधनत्वं भाष्यकारैरुक्तमित्याह —
अतद्व्यावृत्तीति ।
अत्र तच्छब्देन ब्रह्मोच्यते । तन्न भवतीत्यतत् अन्तःकरणादिरूपमुपाधिजातं, तस्य - अतदो व्यावृत्तिः - निषेधः, तद्रूपेण - तद्बोधनद्वारेनेत्यर्थः । साक्षाद्विधिमुखेन च — ‘मनसस्साक्षी बुद्धेस्साक्षी सर्वस्य साक्षी’ [नृ.उ.] ‘पश्यन् शृण्वन् मन्वानः’ [बृ.उ. १-४-७] इत्यादिप्रकारेण च, प्रवृत्तिः - बोधकता-ब्रह्मणि तेषां प्रामाण्यमिति । तथा च उक्तरीत्या प्रतिबिम्बावच्छेदपक्षयोरुभयोरप्यन्तर्यामिब्राह्मणाञ्जस्याभावाञ्जस्ययोः तुल्यत्वे सति ‘सुतरां नीरूपे’ इत्यादिना चैतन्यप्रतिबिम्बासम्भवस्य दर्शितत्वात् प्रतिबिम्बपक्षं त्यक्त्वा अवच्छेदपक्ष एव आदरणीय इति भावः ।
एवमवच्छेदपक्षे दोषान्तरमपि वक्ष्यमाणदोषतौल्यादिनैव निरस्तमित्याह —
एतेनेति ।
स्वानन्तर्गतस्येति ।
प्रागुक्तयुक्तिरत्रानुसन्धेया । स्वसन्निहितस्येतिविशेषणस्य अयमभिप्रायः — यदि सर्वेष्वन्तःकरणेषु तदनन्तर्गतस्य अण्डात् बहिर्विद्यमानस्यैव चैतन्यभागस्य एकस्य प्रतिबिम्बस्सम्भवेत्, तदा बिम्बचैतन्यप्रदेशभेदाभावात् प्रत्यन्तःकरणं बिम्बचैतन्यप्रदेशभेदेन प्रतिबिम्बभेदापादनं न सम्भवेत् । न च तथा सम्भवति । व्यवहितस्य प्रतिबिम्बायोगात् । किं तु तत्रतत्रान्तःकरणे सन्निहितस्यैव चैतन्यप्रदेशस्य बिम्बत्वं वाच्यम् । ततश्चेह परत्र च प्रतिबिम्बभेदापादनं युक्तमिति ।
दोषतौल्यादिति ।
कृतहानाकृताभ्यागमप्रसङ्गदोषतौल्यादित्यर्थः ।
अविद्यायां चित्प्रतिबिम्ब ईश्वरः, अन्तःकरणे चित्प्रतिबिम्बो जीवः, इति पूर्वप्रदर्शिते संक्षेपशारीरकपक्षे दोषतौल्येऽपि विवरणादिपक्षे उक्तदोषाप्रसक्तेः तस्योपादेयत्वं स्यादिति शङ्कते —
न चेति ।
गत्वरं गमनशीलम् ।
तदुपरीति ।
जलाशयोपरीत्यर्थः ।
विसृत्वरेति ।
यथा तत्रतत्र जलप्रदेशेषु विसृत्वरः - गमनशीलः - मेघच्छिद्रेभ्यो निस्सृतः स्फीतालोकखण्डो महामेघमण्डलप्रतिबिम्बस्य जलाशयव्यापकस्य विशेषेण स्फुरणहेतुः तथा तत्रतत्र - इह परत्र च कर्तृत्वभोक्तृत्वादिविशेषाभिव्यक्तिहेतुः अन्तःकरणं इति पक्षे इत्यर्थः ।
कृतहानादिदोषाभावे हेतुमाह —
अन्तःकरणवदिति ।
यदि प्रतिबिम्बवादिना अन्तःकरणप्रतिबिम्बो जीव इति पक्षं उक्तदोषतौल्येन परित्यज्य अविद्याप्रतिबिम्बो जीव इति पक्षः स्वीक्रियते, तदा अवच्छेदवादिनाऽपि अन्तःकरणावच्छिन्नो जीव इति पक्षं कृतहानादिदोषयुक्तं त्यक्त्वा उक्तदोषरहितं अविद्यावच्छिन्नो जीव इति मतमुपादीयत इत्याह —
तथैवेति ।
जीव इति ।
उपलक्षणं चैतत् । अविद्यायाः कल्पितत्वेन वास्तवतदभावावच्छिन्नश्चिदात्मा ईश्वरः इत्युपगमसम्भवाच्च इत्यपि द्रष्टव्यम् । एवं अविद्याप्रतिबिम्बो जीव इति पक्षे कृतहानादिदोषाभावमुपेत्य तत्साम्यं अविद्यावच्छिन्नस्य जीवत्वपक्षे दर्शितम् ।
इदानीं अन्तःकरणावच्छेदपक्षे कृतहानादिदोषाभावं समर्थयितुमविद्याप्रतिबिम्बो जीव इति पक्षेऽपि कृतहानादिदोषमाशङ्क्य परिहरति —
तत्रापीति ।
अविद्याप्रतिबिम्बो जीव इति पक्षेऽपीत्यर्थः ।
क्वचित् प्रदेश इति ।
ब्राह्मणादिशरीरगतान्तःकरणावच्छिन्नप्रदेशे इत्यर्थः ।
प्रदेशान्तर इति ।
देवादिशरीरगततदवच्छिन्नप्रदेश इत्यर्थः ।
वस्तुत इति ।
प्रदेशभेदे सत्यपि इह परत्र च अविद्याप्रतिबिम्बरूपजीवैक्यमात्रेण कृतहानादिदोषः परिहर्तव्यः, प्रतिबिम्बवादिनां गत्यन्तराभावादित्यर्थः ।
सोऽयं परिहारप्रकारोऽन्तःकरणावच्छेदपक्षेऽपि समान इत्याह —
तन्न्यायादिति ।
वस्तुत इति ।
इह परत्र च अन्तःकरणावच्छेद्यचैतन्यप्रदेशभेदेऽपि चैतन्यस्य वस्तुत एकत्वात् न कृतहानादिदोष इत्यर्थः ।
ननु वास्तवचैतन्यैक्यमात्रस्य जीवान्तरसाधारणत्वात् अन्यकृतकर्मणा अन्यस्य भोगप्रसङ्गः इत्यत आह —
तदवच्छेदकेति ।
तत्पदं चैतन्यपरम् । तथा च एकान्तःकरणावच्छिन्नचैतन्यमेको जीवः, अन्तःकरणान्तरावच्छिन्नचैतन्यमन्यो जीवः, इति स्वीकारात् नोक्तातिप्रसङ्ग इति भावः । अस्मिन्नवच्छेदपक्षे प्रागुक्तरीत्या वास्तवान्तःकरणाभावावच्छिन्नचैतन्यमीश्वरः ‘कारणोपाधिरीश्वरः’ इति श्रुत्यनुरोधेन अविद्यावच्छिन्नचैतन्यं वा ईश्वरः इति बोध्यम् ।
अस्य पक्षस्य श्रुतिसूत्राभ्यां विरोधं शङ्कते —
न चावच्छेदपक्ष इति ।
यथा एको विवस्वान् पात्रभेदेन भिन्ना अपोऽनुगच्छन् — बहुजलपात्रेषु प्रतिबिम्बतः सन्निति यावत्, बहुधा भेदरूपः क्रियते-औपाधिकं नानात्वं प्रतिपद्यते, एवं देवः-स्वप्रकाश आत्मा स्वत एकस्सन् क्षेत्रेषु उपाधिषु प्रतिबिम्बितः भेदरूपः क्रियतेनानात्वं लभते इति यावत् । यथा एकस्य सूर्यस्य बहुषु उपाधिषु - प्रतिबिम्बतत्वप्रयुक्तो भेदः, एवमात्मनोऽपि क्षेत्रेषु प्रतिबिम्बितत्वप्रयुक्तमेव नानात्वं इह विवक्षितं इति वक्तव्यम् । अन्यथा दृष्टान्तदार्ष्टान्तिकयोरतुल्यत्वापत्त्या तयोरसामञ्जस्यप्रसङ्गात् । तथा च अवच्छेदपक्षः श्रुतिविरुद्ध इत्यर्थः । एवम् ‘एक एव तु भूतात्मा भूतेभूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥’ ‘रूपंरूपं प्रतिरूपो बभूव’ ‘जीवेशावाभासेन करोति’ इत्यादिश्रुतयोऽपि चैतन्यस्य प्रतिबिम्बगमकत्वेन द्रष्टव्याः । भूतानां ब्रह्मादिस्तम्बपर्यन्तानां आत्मा-स्वरूपभूतः परः । भूतेभूते इति वीप्सा, तया सर्वे प्रतिबिम्बोपाधयो गृह्यन्ते । तेषु प्रतिबिम्बततया व्यवस्थितः सन् बहुधा दृश्यते । स्वतस्तु शास्त्रादेकधा दृश्यते । रूपशब्द उपाधिपरः । अत्रापि वीप्सा सर्वोपाधिसङ्ग्रहार्था । प्रतिरूपः-प्रतिबिम्बः । पुरुषप्रतिबिम्बे पुरुषप्रतिरूपोऽयमिति प्रयोगदर्शनात् ।
तृतीयाध्यायगतसूत्रमुदाहरति —
अत एवेति ।
यतः चिदात्मनः स्वाभाविकमेकत्वं नानात्वं चौपाधिकं श्रुतिषु विवक्षितम्, अत एव तस्यौपाधिकनानात्वे जलादिषु प्रतिबिम्बितः सूर्यादिः दृष्टान्तत्वेन श्रुतिषूपादीयते इति सूत्रार्थः । ‘रूपंरूपं’ इति श्रुतौ प्रतिरूपशब्दो न प्रतिबिम्बवाचकः । ‘वायुर्यथैको भुवनं प्रविष्टो रूपंरूपं प्रतिरूपो बभूव’ इत्यादौ व्यभिचारात् । अतः सूर्यादिप्रतिबिम्बदृष्टान्तस्वारस्यादेव चैतन्यप्रतिबिम्बो वक्तव्यः ।
तं प्रतिबिम्बं स्वयमेव सूत्रकृदाक्षिपति —
अम्बुवदिति ।
सूत्रे दृष्टान्तभागस्यार्थमाह —
यथेति ।
प्रतिबिम्बोदययोग्यत्वं स्वच्छत्वम् ।
उपाध्यन्तर्गतस्य न तत्र प्रतिबिम्ब इत्याशयेनाह —
तत इति ।
बिम्बभूतसूर्यापेक्षयेत्यर्थः ।
दार्ष्टान्तिकभागं व्याचष्टे —
नैवमिति ।
न तथात्वं - चिदात्मनः प्रतिबिम्बतसूर्यादितुल्यत्वं नास्ति । कुतः ? अग्रहणात् - अन्तः - करणादेरात्मप्रतिबिम्बोदययोग्यत्वेनाग्रहणात् । न ह्यन्तःकरणं आत्मापेक्षया विप्रकृष्टदेशवत् । सर्वगतत्वादात्मनः । नापि तत् उद्भूतरूपवत् । अनङ्गीकारात् । चिदात्मनोऽपि सूर्यादिवत् बिम्बत्वयोग्यत्वेनाग्रहणाच्च । तस्य नीरूपद्रव्यत्वात् । तस्मात् प्रतिबिम्बितसूर्यचिदात्मनोर्दृष्टान्तदार्ष्टान्तिकभावानुपपत्तिरिति तुशब्दार्थः ।
दृष्टान्तदार्ष्टान्तिकयोः प्रतिबिम्बितत्वांशेन साम्याभावेऽपि न तद्भावविरोधोऽस्ति, विवक्षितांशेन साम्यस्य तत्रापि सम्भवात्, न हि तयोस्सर्वसाम्यं क्वचिदपि सम्भवति, तथासति दृष्टान्तदार्ष्टान्तिकभावोच्छेदप्रसङ्गात् - इत्यभिप्रेत्य विवक्षितांशसाम्यं सूत्रकृद्दर्शयति —
वृद्धिहासेति ।
तदनन्तरेत्यत्र तत्पदं अम्बुवदितिसूत्रपरं सूत्रं व्याचष्टे -
यथेति ।
आध्यासिकमिति ।
भ्रान्तिसिद्धमित्यर्थः ।
तथेति ।
चिदात्मनो बुद्ध्याद्यवच्छिन्नतया बुद्ध्याद्युपाधावन्तर्भावात् जगादिशरीरे अन्तःकरणवृद्धौ चिदात्मा वर्धत इव मशकादिशरीरेऽन्तःकरणह्रासे ह्रसत इव तच्चलने चलतीव, तद्भेदे भिन्न इव च भाति । तथा च श्रुतिः - ‘ध्यायतीव लेलायतीव’ इति । बुद्धौ ध्यायन्त्यामात्मा ध्यायतीव, तस्यां चलन्त्यामांत्मा चलतीव, न तु वस्तुतो ध्यायति चलति वा, इत्यर्थः । एवमध्याससिद्धमन्तः करणानुरोधिवृद्ध्यादिमत्त्वं आत्मनोऽत्र विवक्षितं साम्यमित्यर्थः ।
तयोरिति ।
चैतन्यस्य प्रतिबिम्बितत्वगमकश्रुतितन्मूलकसूत्रयोः पूर्वमुदात्हृतयोरित्यर्थः ।
अवच्छेदपक्षे न केवलं श्रुतिसूत्रविरोधाभाव एव किं तु श्रुतिसूत्रानुग्रहोऽप्यस्तीत्याह —
घटसंवृतमिति ।
घटसंवृतं - घटावच्छिन्नं आकाशं प्रसिद्धमस्ति । तच्च घटे नीयमानेऽपि न नीयते । यथा अयं दृष्टान्तः तद्वत् जीवो नभोपमः - नभसा तुल्यः । एतदुक्तं भवति — जीवस्य नभोपमशब्देन घटसंवृताकाशतुल्यत्वमभिदधता अवच्छिन्नचैतन्यरूपत्वमुक्तमिति । एवं प्रवेशश्रुतिरपि चिदात्मनो बुद्ध्याद्यवच्छेदकृतमेव द्रष्टृत्वादिधर्मलाभं दर्शयति, न प्रतिबिम्बभावकृतम् । तथाहि - ‘स एष इह प्रविष्ट आनखाग्रेम्यः’ इत्युपक्रम्य ‘प्राणन्नैव प्राणो नाम भवति वदन् वाक् पश्यन् चक्षुः शृण्वन् श्रोत्रं मन्वानो मनः’ (बृ.उ.१-४) इति पुरुषविधब्राह्मणे श्रूयते । अयमर्थः - सः - सर्ववेदान्तेषु प्रसिद्धः, एषः - नामरूपव्याकर्तृत्वेन सन्निहितः, इह - कार्यकरणसङ्घाते, नखाग्रमवधीकृत्य प्रविष्टः । ननु - यथा देवदत्तस्य गृहे सर्पस्य वा बिले प्रवेशः प्रसिद्धः न तथा आत्मनः प्रवेशः कल्पयितुं शक्यते । तस्य सर्वगतत्वात् । नापि जलपात्रेषु सूर्यादेरिव प्रतिबिम्बभावलक्षणः प्रवेशः सम्भवति । तस्य तैत्तिरीयकादौ प्रवेशवाक्यविचारावसरे भाष्यकारैरेव निरस्तत्वात् ।
अतः कीदृशः प्रवेशः प्रविष्टपदेन विवक्षितः — इति जिज्ञासायां यथा जले प्रतिबिम्बभावेन प्रविष्टस्य सूर्यादेस्तद्धर्मवत्तया उपलभ्यमानत्वमस्ति, एवमात्मनः सङ्घाते अधिष्ठानतया प्राक्सिद्धस्यैव प्राणबुद्ध्यादिधर्मवत्तया उपलभ्यमानत्वमेव प्रकृते प्रविष्टपदेन विवक्षितं, न तु मुख्यः प्रवेशः, इति मन्वाना श्रुतिः स्वयमेव प्रविष्टपदं व्याचष्टे —
प्राणन्नैवेत्यादिना ।
प्राणन् — प्राणनचेष्टां प्राणोपाधिद्वारा कुर्वन् ‘प्राणस्य प्राणं’ इत्यादिश्रुतौ द्वितीयप्राणपदवाच्यो भवति । रूपं पश्यन् — रूपगोचरचाक्षुषवृत्तिं अन्तःकरणतादात्म्यापत्त्या कुर्वन् ‘चक्षुषश्चक्षुः’ इत्यादिश्रुतौ द्वितीयचक्षुश्शब्दवाच्यो भवति । शृण्वन् — शब्दगोचरां श्रोत्रकरणिकां वृत्तिं अन्तःकरणतादात्म्यापत्त्यैव कुर्वन् ‘श्रोत्रस्य श्रोत्रं’ इत्यादिश्रुतौ द्वितीयश्रोत्रशब्दवाच्यो भवति । मन्वानः — मननरूपां चक्षुरादिनिरपेक्षां वृत्तिं कुर्वन् ‘मनसो मनः’ इत्यादिश्रुतौ मनश्शब्दवाच्यो भवति । चक्षुरादिव्यापारग्रहणं कार्यकरणसङ्घातव्यापारमात्रस्योपलक्षणम् । संघातधर्माणां सर्वेषां आत्मन्युपलभ्यमानत्वात् । नन्वेवमपि अवच्छेदपक्षस्य द्वितीयाध्यायगतेन ‘आभास एव च’ [ब्र.सू. २-३-५०] इति सूत्रेण तद्भाष्येण च विरोधो दुर्वारः । तयोः चैतन्यप्रतिबिम्बस्य स्पष्टमुक्तत्वात् । सूत्रार्थस्तु - आभास एव - जीवः परमात्मनः प्रतिबिम्ब एव, न निरुपाधिकः परमात्मैव जीवः । नापि न्यायमत इव परमात्मसकाशादत्यन्तभिन्नः । तत्त्वमस्याद्यभेदश्रुतिविरोधात् । प्रतिबिम्बस्य च वस्तुतो बिम्बाभिन्नत्वेन आभासत्वपक्षे उक्तश्रुतिविरोधाभावादिति चशब्दार्थः इति — न - उदाहृतसूत्रतद्भाष्ययोः उक्तप्रतिबिम्बपक्षस्य ‘भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत्’ [ब्र.सू. २-१-१३] इति सूत्रोक्तसिद्धान्तवत् मतान्तरत्वोपपत्तेः । न च तथाकल्पने किं विनिगमकमिति वाच्यम् । तृतीयाध्याये स्वयं सूत्रकृतैव न्यायपूर्वकं कृतस्य चैतन्यप्रतिबिम्बनिरासस्य नियामकत्वात्, आभाससूत्रे च जीवस्य प्रतिबिम्बत्वे उपपत्त्यादेरनुपन्यासाच्च । भोक्त्रापत्तिसूत्रस्य अयमर्थः — ‘सर्वं खल्विदं ब्रह्म’ [छा.उ. ३-१-४१] इति श्रुत्या प्रपञ्चस्य ब्रह्माभेदः प्रतिपाद्यते । ‘अहं ब्रह्मास्मि’ [बृ.उ.१-४-१०] इति श्रुत्या अहंशब्दार्थभूतभोक्तृवर्गस्य च ब्रह्माभेदः प्रतिपाद्यते । तथा च श्रुतिद्वयानुसारेण भोक्तृभोग्यप्रपञ्चयोः एकब्रह्माभेदस्वीकारे भोग्यप्रपञ्चस्य भोक्त्रापत्तेः - भोक्त्रभेदापत्तेः, एवं भोक्तुरपि भोग्याभेदापत्तेः, एकब्रह्माभिन्नयोस्तयोः परस्परमप्यभेदावश्यम्भावात् । न चेष्टापत्तिः । तथासत्यविभागः प्रसज्येत - भोक्तृभोग्ययोर्विभागबोधकप्रत्यक्षादिविरोधः प्रसज्येत इति चेत्, उच्यते — श्रुतिसिद्धं भोक्तृभोग्ययोरेकब्रह्माभिन्नत्वं तयोः प्रत्यक्षादिसिद्धं परस्परं विभक्तत्वं चेत्युभयं लोकवत् स्यात् - उपपद्यते । यथा लोके एकसमुद्रविकाराणां फेनबुद्बुदतरङ्गाणामेकसमुद्राभिन्नत्वम्, परिणामानां परिणाम्यभेदस्यानुभवसिद्धत्वात्, तेषामेव फेनादीनां परस्परं भिन्नत्वं चास्ति, भेदस्यानुभवसिद्धत्वात्, एवं एकब्रह्मपरिणामयोर्भोक्तृभोग्ययोरेकब्रह्माभिन्नत्वं परस्परं भिन्नत्वं चोपपद्यत इति न अद्वैतश्रुतीनां प्रत्यक्षादिविरोधप्रसक्तिरिति । अयं च विरोधपरिहारो न सिद्धान्तसम्मतः । कूटस्थनित्यस्य ब्रह्मणः परिणामित्वानभ्युपगमात्, किं तु मतान्तराभिप्रायेण, इति भाष्यादिषु घण्टाघोषः, तथा प्रकृतेऽपीति संक्षेपः ।
अंश इति ।
जीव ईश्वरस्यांशः । कुतः । नानाव्यपदेशात् ‘य आत्मानमन्तरो यमयति’ इत्यादिश्रुतिषु नियम्यनियामकभावादिना जीवेश्वरयोर्नानात्वस्य - भेदस्य व्यपदेशात् इति सूत्रभागस्याक्षरार्थः । अत्र अंशत्वं जीवचैतन्यस्य घटाकाशवदन्तःकरणावच्छिन्नत्वरूपं विवक्षितम्, न तु मुख्यमंशत्वम्, निरवयवस्य ब्रह्मणो मुख्यांशासम्भवात्, इति तदधिकरणभाष्ये स्फुटमिति भावः ।
अवच्छेदपक्षसमर्थनमुपसंहरति —
तस्मादिति ।
प्रतिबिम्बासम्भवात् अवच्छेदपक्षे विरोधाभावात् साधकसत्त्वाच्च इत्यर्थः ।
अवच्छेद्यचैतन्यस्य प्रतिबिम्बपक्षेऽपि सम्मततया उभयसंप्रतिपन्नस्य तस्यैव जीवत्वादिकल्पनं युक्तं लाघवात् इत्याशयेनाह —
अवच्छेदोऽवश्यंभावीति ।
अवच्छिन्न इति ।
अन्तः करणावच्छिन्नो जीवः । जीवग्रहणमुपलक्षणम् । अविद्यावच्छिन्न ईश्वरः । ‘कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः’ इति श्रुतेः । ‘जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति’ इति श्रुतौ च आभासपदमवच्छिन्नपरम् । प्रतिबिम्बासम्भवस्योक्तत्वात् । मायापदं च प्रथमोपात्तजीवोपाधिभूतान्तःकरणपरम् । ‘कार्योपाधिरयं जीवः’ इति श्रुतेः । एवं मायापदोपात्तान्तःकरणस्य च मूलप्रकृत्यात्मकत्वं प्रकृतिविकारभावप्रयुक्तम् । पूर्वं अनवच्छिन्नस्येश्वरत्वोक्तिः तृप्तिदीपवचनानुसारेण अभावावच्छिन्नस्येश्वरत्वोक्तिश्च सम्भवमात्रेण, न तु तात्पर्यतः । ‘कारणोपाधिरीश्वरः’ इति श्रुतिविरोधात्, अनवच्छिन्नस्य ईश्वरत्वपक्षे तस्य उपाध्यभावेन सर्वज्ञानकर्तृत्वादेरसम्भवाच्च । अभावस्येश्वरोपाधित्वपक्षेऽपि समानोऽयं दोषः । मायाऽविद्याव्याकृतशक्त्यक्षरा - काशादिशब्दितभावरूपोपाधेरिव तस्य सर्वज्ञत्वादिप्रयोजकत्वायोगात् । अत एव वाक्यवृत्तौ भगवत्पादैः सर्वज्ञत्वादिप्रयोजकोपाधित्वं अविद्याया दर्शितं ‘मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः’ इति — इति भावः ।
अथ ‘क ईश्वरः कश्च जीवः’ इति प्रश्ने प्रतिवचनत्वेन मतान्तरमुत्थापयति —
अपरे त्विति ।
कस्तर्हि जीव इति पृच्छति —
किं त्विति ।
दृष्टान्तपूर्वकं ब्रह्मैव जीव इत्युत्तरमाह —
कौन्तेयस्यैवेति ।
कुन्तीकुमारस्यैव न तु तत्प्रतिबिम्बादेः इत्येवकारार्थः । राधाया अपत्यं राधेयः, तस्य भावस्तत्त्वम्, तद्वदित्यर्थः । किं तु अविकृतस्यैवेति सम्बन्धः । अवच्छेदप्रतिबिम्बभावरहितस्येत्यर्थः ।
तत्र भाष्यवार्तिकसम्मतिं हेतुत्वेन दर्शयति —
व्याधेत्यादिना ।
यथा राजकुले जातः कर्णो जन्मप्रभृति व्याधकुल एव संवर्धितः तज्जातीयैः सहवासादिजनितभ्रान्तिलक्षणाविद्यया स्वात्मानं राधेयं मन्यते, न तु स्वतःसिद्धमपि कौन्तेयत्वमनुभवति । ततश्च कौन्तेयत्वप्रयुक्ताच्छ्रेयसः सकाशात् प्रच्युतः सर्वत्र नानाविधशापावमानादिलक्षणं बहुविधदुःखं प्राप्तवान् । स च कदाचित् भगवता विवस्वता ‘कर्ण कौन्तेयोऽसि त्वम्, न राघेयः’ इत्युपदेशं कुर्वता स्मारितनिजरूपः सन् स्मृत्या व्याधत्वराधेयत्वादेरविद्याकृतस्य निवृत्तौ सत्यां व्याधत्वराधेयत्वकृतं नानाविधदुःखं त्यक्त्वा कौन्तेयत्वस्मृतिप्रयुक्तं श्रेयः प्राप्तवान्, तथा ब्रह्मापि अनादिसिद्धया स्वाविद्यया आवृतनिजरूपं सत् जीवभावं प्राप्य स्वतःसिद्धात् नित्यनिरतिशयानन्दस्वरूपानुभवात् प्रच्युतं भवति । ततश्च संसरति । एवं संसरत् ब्रह्म कदाचित् स्वप्नदशायामिव स्वाविद्याकल्पितेन गुरुणा शास्त्रेण चोत्पादितया स्वगोचरविद्यया जीवभावादिप्रयोजकाविद्यानिवृत्तौ मुच्यते-नित्यसिद्धनिरतिशयानन्दमनुभवति स्वरूपचैतन्येनैव इति भाष्यार्थः ।
अज्ञस्येति ।
अज्ञानावृतनिजस्वरूपस्येत्यर्थः ।
तत्त्वमस्यादीति ।
गुरूपदिष्टतत्त्वमस्यादिवाक्यजन्यज्ञानेन अज्ञाननिवृत्तौ जीवभाव आत्मनो निवर्तत इत्यर्थः ।
एवं जीवं निरूप्य ईश्वरं निरूपयति —
एवं चेति ।
भाष्यवार्तिकपर्यालोचनया प्रतिबिम्बभावादिरहितस्य पूर्णब्रह्मण एव जीवत्वे सिद्धे सतीत्यर्थः । ईश्वरोऽपि सर्वज्ञत्वादिधर्मैस्सह जीवकल्पित इति सम्बन्धः ।
यथोक्तजीवस्यैवेश्वरकल्पकत्वे हेतुमाह —
स्वाविद्ययेत्यादिना ।
अन्यस्यकल्पकस्याभावादितितात्पर्यकं अवधारणम् ।