कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
आवरणाभिभववादः
तृतीयं पक्षमाक्षिपति —
अथेति ।
निवर्तेतेति ।
अज्ञानस्यैकत्वादितिभावः । न तु निवर्तते । अतो नाज्ञाननाशः आवरणाभिभवः, न चान्यः प्रकारः सम्भवति, अनुपलम्भात् इति भावः ।
अज्ञानैक्यमेवावलम्ब्य परिहरति —
अत्र केचिदाहुरिति ।
चैतन्यमात्रेति ।
मात्रपदं साक्षिव्यतिरिक्तकृत्स्नचैतन्यपरम् । साक्षिण्यावरणाभावस्य वक्ष्यमाणत्वात् ।
एकदेशेन नाशो वेति ।
तथा च तन्मूलप्रपञ्चस्य न निवृत्त्यापत्तिरिति भावः ।
प्रकारान्तरानुपलम्भोऽसिद्ध इत्याशयेनाह —
कटवदित्यादिना ।
निरुक्तमावरणाभिभवं दूषयन् तं प्रकारान्तरेण निर्वक्ति —
अन्ये त्वित्यादिना ।
(पुनस्तत्रेति) [तत्र कन्दलनायोगेनेति।] विषयावच्छिन्नचैतन्ये आवरणोत्पत्त्ययोगेनेत्यर्थः ।
तत्तदिति ।
तत्तद्विषयाकारवृत्तिसंसृष्टावस्थं यत् विषयावच्छिन्नचैतन्यं तदनावारकत्वेत्यर्थः ।
ननु यथा घटं व्याप्य वर्तमानः पटः तमावृणोत्येव एवं विषयावच्छिन्नब्रह्मचैतन्यं व्याप्य वर्तमानमज्ञानमपि चैतन्यमावृणोत्येवेति तदनावारकत्वकल्पनमयुक्तमिति शङ्कते —
न चेति ।
अज्ञाने पटवैलक्षण्यस्यानुभवसिद्धत्वान्नैतञ्चोद्यमवतरतीत्याह —
अहमिति ।
तस्येति ।
अज्ञानस्येत्यर्थः । जीवचैतन्याश्रितमप्यज्ञानं न तदावृणोति, तस्यावृतत्वे सर्वव्यवहारलोपप्रसङ्गात् इति दहराधिकरणभाष्ये साधितत्वात्, साक्षिचैतन्यस्यानावृतताया वक्ष्यमाणत्वाच्च इति भावः ।
प्रपञ्चोपादानमूलाज्ञानापेक्षयाऽन्यदेव विषयावच्छिन्नचैतन्यावारकमज्ञानमिति घटादिज्ञानेन तन्निवृत्तावपि न प्रपञ्चनिवृत्तिप्रसङ्गः, तेन प्रपञ्चमूलाज्ञानानिवृत्तेः-इति मतं दर्शयति —
अपरे त्विति ।
अज्ञानभेदे मानमाह —
घटमिति ।
विरोधित्वेनेति ।
‘न जानामि’ इत्यज्ञानानुभवाभिलापकशब्दे नञो विरोध्यर्थकत्वात् अभिलप्यानुभवोऽपि ज्ञानविरोधिविषयक एव । न च - ‘न जानामि’ इत्यनुभवो ज्ञानप्रागभावविषयक एव, न तु भावरूपाज्ञानविषयकः इति - वाच्यम् । प्रागभावस्यैवासंप्रतिपत्तेः इति भावः ।
तथात्वायोगादिति ।
घटावच्छिन्नचैतन्यविषयकत्वतज्ज्ञाननिवर्त्यत्वयोरयोगादित्यर्थः । किं त्वज्ञानान्तरमिति सम्बन्धः ।
अवस्थाभेदरूपमिति ।
अस्य विशेषणस्य प्रयोजनं वक्ष्यते । न चैवमेकेनेत्यादि ग्रन्थः स्पष्टार्थः ।