कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
ईश्वरसर्वज्ञत्ववादः
एवं श्रुत्युपपत्तिसिद्धं सर्वज्ञत्वं निरूपयितुं आक्षेपमवतारयति —
अथेति ।
जीवस्य हि स्वोपाध्यन्तः-करणवृत्तिज्ञानाश्रयत्वरूपं ज्ञातृत्वं प्रमाणसिद्धम् । ब्रह्मणश्च अन्तःकरणाभावात् ज्ञातृत्वं न सम्भवति । न च ब्रह्मणोऽप्यन्तःकरणमस्त्विति वाच्यम् । ‘कार्योपाधिरयं जीवः’ इतिश्रुत्या तस्य जीवोपाधित्वेन नियमितत्वात् । ज्ञातृत्वं च सर्वज्ञत्वव्यापकम् । ज्ञातृत्वविशेषरूपत्वात् सर्वज्ञत्वस्य । तथा च ब्रह्मणः ज्ञातृत्वस्य व्यापकस्य निवृत्त्या व्याप्यसर्वज्ञत्वनिवृत्तिरित्यर्थः । ज्ञातृत्वाभावे सर्वज्ञत्वं दूरापास्तं इत्येवकारार्थः ।
अन्तःकरणानां जीवोपाधित्वेऽपि तद्वासनानामीश्वरोपाधित्वात् सम्भवति कथञ्चित्तस्य सर्वज्ञत्वमिति परिहरति —
अत्र सर्ववस्त्विति ।
अत्रेत्यस्य अस्मिन्नाक्षेपे इत्यर्थः ।
सर्वविषयवासनासाक्षितयेति ।
स्वोपाधिभूतवासनाविषयसर्ववस्त्ववभासकतयेत्यर्थः ।
अस्मिन् समाधाने प्रागुक्तमस्वरसं मनसि निधाय समाधानान्तरमाह —
प्रकटार्थकारास्त्विति ।
यथा अन्तःकरणं ज्ञातृत्वोपाधिः, तथा मायापि ज्ञातृत्वोपाधिर्भवत्येव । तथा च ब्रह्मणि मायोपाधिके सर्वज्ञत्वव्यापकस्य ज्ञातृत्वस्य निवृत्त्यभावात् न सर्वज्ञत्वनिवृत्तिशङ्केत्यर्थः ।
स्वोपाधिमायेति ।
‘मायिनं’ इतिश्रुतेः ‘मायोपाधिः जगद्योनिः सर्वज्ञत्वादिलक्षणः’ इति वाक्यवृत्तिवचनाच्च मायाया ईश्वरोपाधित्वं सिद्धमिति भावः । सर्वज्ञत्वसर्वनियन्तृत्वसर्वात्मकत्वानि लक्षणानि-असाधारणधर्माः यस्य, सः सर्वज्ञत्वादिलक्षणः इत्यर्थः ।
आकलनादिति ।
विषयीकरणादित्यर्थः ।
तत्त्वशुद्धिकारास्त्विति ।
प्रकटार्थकाराणां मते अतीतानागतप्रपञ्चरूपविषयेऽपि ईश्वरीयं मायावृत्तिप्रतिबिम्बरूपं ज्ञानं अपरोक्षम् । तत्त्वशुद्धिकाराणां मते अतीतादिविषये जीवानामिव ईश्वरज्ञानमपि परोक्षमेव इति विशेषार्थकः तुशब्दः ।
विद्यमानेति ।
लोके प्रत्यक्षज्ञानस्य वर्तमानवस्तुमात्रविषयकत्वस्वाभाव्यदर्शनेन तस्य कॢप्तस्वभावातिलङ्घने कारणाभावात्, सर्वज्ञत्वप्रतिपादकशास्त्रस्य ईश्वरीयज्ञानगतपरोक्षत्वापरोक्षत्वयोः उदासीनत्वादिति भावः ।
तज्जनितेति ।
विद्यमानवस्तुसाक्षात्कारजनितेत्यर्थः ।
अनागतवस्तुज्ञानमुपपादयति —
सृष्टेः प्रागिति ।
स्फुरणपदं वृत्तिपरम् । विवर्तमानत्वं परिणममानत्वम् ।
तदुपाधिकस्येति ।
मायोपाधिकस्येत्यर्थः ।
कथं तदुपाधिकत्वं अत आह —
तत्साक्षितयेति ।
तस्यां मायायां प्रतिबिम्बिततयेत्यर्थः ।
सृष्टेः पूर्वकाले मायायाः तथापरिणामे कारणमाह —
जीवादृष्टेति ।
तत्साधकत्वसिद्धेरिति ।
मायावृत्तिकर्तृत्वसिद्धेरित्यर्थः ।
अनागतेति ।
अनागतवस्तुविषयकस्य ज्ञानस्य वृत्तिप्रतिबिम्बरूपस्य ब्रह्मण्युपपत्तिरित्यर्थः । जीववत् ब्रह्मणोऽपि चैतन्यप्रतिबिम्बोपेतैर्वृत्तिज्ञानैः सर्वज्ञत्वं निरूपितं मतद्वयेन ।
इदानीं स्वरूपज्ञानेनैव तन्निरूपयति —
कौमुदीकृतस्त्विति ।
ननु अतीतानागतप्रपञ्चयोः प्रलयकाले सृष्टिपूर्वकाले च सत्त्वे मानाभावात् तदा ब्रह्मणस्सर्वज्ञत्वं न सिद्ध्यति, असतोस्तयोश्चैतन्यसंसृष्टत्वासम्भवादिति, नेत्याह —
अतीतानागतयोरपीति ।
अतीतप्रपञ्चस्य प्रलयकाले संस्कारात्मना सत्त्वस्य देवताधिकरणे सूत्रभाष्यकारादिभिः साधितत्वात्, तथा अनागतस्यापि सृष्टिपूर्वकाले संस्कारात्म[ना]नैव सत्त्वस्य आरम्भणाधिकरणादिषु साधितत्वात्, अतीतादिवस्तुसंसृष्टब्रह्मचैतन्यस्य तदापि सर्वज्ञत्वसिद्धिः इति भावः । चित्रस्यानुन्मीलितत्वम् अनभिव्यक्तत्वम् । तत्र हेतुर्विमृष्टत्वम् । अविद्यैव चित्रभित्तिरिति रूपकमत्र द्रष्टव्यम् । अत्रेदं चिन्त्यम् — स्थूलप्रपञ्चस्थितिकाले संस्कारात्मकसूक्ष्मप्रपञ्चो नास्ति, प्रलयकालादौ च स्थूलः प्रपञ्चो नास्ति, तथा च ब्रह्मचैतन्यस्य सदा सर्वप्रपञ्चसंसृष्टत्वाभावात् सदा तस्य असंकुचितसर्वज्ञत्वं न सम्भवतीति ।
स्वरूपज्ञानेनैवेत्यत्रत्यस्य अवधारणस्य व्यवच्छेद्यमाह —
न तु वृत्तिज्ञानैरिति ।
श्रुतिगतस्यावधारणस्य ‘स्वप्रकाशात्मातिरिक्तानवभास्यं आदित्यादिजगत्’ इत्यर्थः । अत्रेदं चिन्त्यम् — ब्रह्मचैतन्यस्य जगदवभासनार्थं मायावृत्त्यपेक्षायां यदि श्रोतमवधारणं विरुध्यते, तदा जींवचैतन्यस्य घटाद्यवभासनार्थं अन्तःकरणवृत्त्यपेक्षायामपि तद्विरुध्यत एव, यदि चान्तःकरणवृत्तीनां जडत्वात् तदपेक्षायामपि सर्वं जडवस्तु चैतन्यमात्रावभास्यमिति सावधारणश्रुत्यर्थस्य न बाधः, तदा मायावृत्त्यपेक्षायामपि तुल्यं समाधानमिति ।
प्रलयकाले सर्वज्ञत्वाभावे को दोषः, तत्राह —
प्राथमिकेति ।
तदा सर्वज्ञत्वाभावे सति सर्गादौ ‘तदैक्षत’ इतिश्रुत्युक्तं भूतसृष्ट्यनुकूलमीक्षणं प्रति कर्तृत्वासम्भवेन ईक्षणपूर्वकभूतादिसर्गं प्रत्यपि ब्रह्मणः कर्तृत्वाभावप्रसङ्गादित्यर्थः । अत्रापि इदं चिन्त्यम् — एवमपि सृष्टिपूर्वकाले ब्रह्मचैतन्यव्यतिरिक्तस्य मायातत्सम्बन्धादेः सत्त्वात् अद्वितीयत्वावधारणं मुख्यं न सम्भवति । यदि च मायादेरनादित्वप्रतिपादकश्रुत्यादिबलात् व्याकृतकार्यात्मकद्वितीयाभावावधारणपरं तद्वचनमित्युच्येत, तदा सर्वदा सर्वविषयकज्ञानकर्तृत्वरूपसर्वज्ञत्वप्रतिपादकश्रुत्यादिबलात् सर्वज्ञत्वघटकमायावृत्तिसन्ततिव्यतिरिक्तकार्याभावावधारणपरमद्वितीयत्ववचनमित्यपि कल्पनं तुल्यम् । मायावृत्तिभिस्सर्वज्ञत्वसमर्थनमेव भाष्यसम्मतम् । तथा च ईक्षत्यधिकरणभाष्यम् — ‘अपि च अविद्यादिमतस्संसारिणश्शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यात्, न ज्ञानप्रतिबन्धकारणरहितस्येश्वरस्य’ इति । सृष्टेः पूर्वकाले ब्रह्मणः स्रष्टव्यालोचनरूपमीक्षणं न सम्भवति, वृत्तिज्ञानरूपेक्षणस्य शरीरादिकारकसाध्यताया लोकसिद्धत्वात् ब्रह्मणः तदा शरीराद्यभावात्, इति साङ्ख्यशङ्कानिरासार्थमिदं भाष्यम् — जीवस्यैव वृत्तिज्ञानोत्पत्तिःशरीरादिसाध्या । ईश्वरस्य तु मायावृत्तिरूपज्ञानोत्पत्तिः शरीराद्यनपेक्षा । तथा च सृष्टिपूर्वं प्रलयकालेऽपि तस्य मायावृत्तिरूपमीक्षणं सदा सर्वज्ञत्वं च सम्भवतीति समाधानभाष्याभिप्रायः । इदं भाष्यमित्थमेव व्याख्यातृभिर्नीतम् । भाष्ये ज्ञानप्रतिबन्धकारणमविद्यादीति मन्तव्यम् । ततश्च मायावृत्तिभिस्सर्वज्ञत्वसमर्थनपक्षदूषणं असङ्गतमिति मन्तव्यम् ।
शङ्कते —
एवंसतीति ।
स्वरूपज्ञानेनैव सर्वज्ञत्वसमर्थने सतीत्यर्थः ।
न त्विति ।
स्वरूपज्ञानस्य नित्यत्वादिति भावः ।
न तु सर्वज्ञानकर्तृत्वरूपमिति ।
ब्रह्मण इति शेषः । अत्र यद्यपि ज्ञातृत्वं सामान्यरूपं सर्वज्ञानकर्तृत्वं तु विशेषरूपमिति न तयोः अभेदः सम्भवति, तथाऽपि ब्रह्मणो ज्ञातृत्वं नास्ति इत्यत्रैव तात्पर्यम्, न तयोरभेदोक्तावपि, इत्यविरोधः ।
अत एवेति ।
ब्रह्मणो ज्ञातृत्वाभावादेवेत्यर्थः ।
इत्युक्तमिति ।
बृहदारण्यके मैत्रेयीब्राह्मणे पठ्यते - ‘आत्मनस्तु कामाय सर्वं प्रियं भवति, आत्मा वा अरे द्रष्टव्यः’ [बृ.उ. १-४-५] इत्यादि । अत्र किं जीवो द्रष्टव्यत्वेन उपदिश्यते उत प्रत्यगभिन्नपरमात्मा निष्प्रपञ्चस्वभावः इति संशयः । तत्र पूर्वपक्षः— पूर्ववाक्ये भोक्तुर्जीवस्य प्रकृतत्वात् उपसंहारेऽपि ‘विज्ञातारमरे केन विजानीयात्’ [बृ.उ. २-४-१४] इति विज्ञातृत्वस्य जीवधर्मस्य कीर्तनाच्च जीव एवात्र द्रष्टव्य उपदिश्यते इति । सिद्धान्तस्तु - प्रत्यगभिन्नपरमात्मैव द्रष्टव्यतयोपदिश्यते । कुतः, वाक्यान्वयात् । तथाहि - अत्र आत्मवेदनेन सर्वं विदितं भवतीति प्रतिपाद्यते । तच्च सर्वाधिष्ठानब्रह्मपरिग्रहे घटते, न जीवपरिग्रहे । तथा इदं सर्वमात्मा इत्यादिवाक्यान्यपि सर्वात्मके ब्रह्मण्येव तात्पर्येण प्रतिपादकतया अन्वितानि लक्ष्यन्ते । ‘आत्मनस्तु कामाय सर्वं प्रियं भवति’ इति पूर्ववाक्ये जीवपरामर्शस्तु लोकसिद्धं भोक्तारमनूद्य तस्य शुद्धब्रह्मरूपेण द्रष्टव्यत्वोपदेशार्थः । विज्ञातारमिति वाक्यं तु जीवस्य विज्ञातृत्वरूपधर्मपरं न भवति । तस्य वाक्यस्य मुक्तजीवपरत्वात्, मुक्तजीवे च निरुपाधिके तस्यासम्भवात् । किं तु भूतपूर्वगत्या विज्ञातृत्वानुवादमात्रं, स्वातन्त्र्येण न कस्यचिदर्थस्य साधकम् । तस्मात् मैत्रेयीब्राह्मणं प्रत्यगभिन्ने निर्विशेषे द्रष्टव्ये समन्वितमिति सिद्धमिति । अत्र विज्ञातृत्वं ब्रह्मसाधारणं चेत् जीवलिङ्गतया भाष्यकारैर्नोपन्यस्येत । उपन्यस्तं च । तस्मात् ज्ञातृत्वं ब्रह्मणो नास्तीति गम्यते इति भावः ।
ईश्वरस्य सर्वविषयकज्ञानकर्तृत्वानभ्युपगमे श्रुतिविरोधमाशङ्क्याह —
यस्सर्वज्ञ इति ॥