अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

ईश्वरसर्वज्ञत्ववादः

एवं श्रुत्यु­प­प­त्ति­सिद्धं सर्वज्ञत्वं निरूपयितुं आक्षेपमवतारयति —
अथेति ।
जीवस्य हि स्वोपा­ध्य­न्तः-क­र­ण­वृ­त्ति­ज्ञा­ना­श्र­य­त्व­रूपं ज्ञातृत्वं प्रमाणसिद्धम् । ब्रह्मणश्च अन्तःकरणाभावात् ज्ञातृत्वं न सम्भवति । न च ब्रह्म­णोऽ­प्य­न्तः­क­र­ण­म­स्त्विति वाच्यम् । ‘कार्योपाधिरयं जीवः’ इतिश्रुत्या तस्य जीवोपाधित्वेन नियमितत्वात् । ज्ञातृत्वं च सर्व­ज्ञ­त्व­व्या­प­कम् । ज्ञातृ­त्व­वि­शे­ष­रू­प­त्वात् सर्वज्ञत्वस्य । तथा च ब्रह्मणः ज्ञातृत्वस्य व्यापकस्य निवृत्त्या व्याप्य­स­र्व­ज्ञ­त्व­नि­वृ­त्ति­रि­त्यर्थः । ज्ञातृत्वाभावे सर्वज्ञत्वं दूरापास्तं इत्येवकारार्थः ।

अन्तःकरणानां जीवोपाधित्वेऽपि तद्वा­स­ना­ना­मी­श्व­रो­पा­धि­त्वात् सम्भवति कथञ्चित्तस्य सर्वज्ञत्वमिति परिहरति —
अत्र सर्ववस्त्विति ।
अत्रेत्यस्य अस्मिन्नाक्षेपे इत्यर्थः ।

सर्व­वि­ष­य­वा­स­ना­सा­क्षि­त­येति ।
स्वोपा­धि­भू­त­वा­स­ना­वि­ष­य­स­र्व­व­स्त्व­व­भा­स­क­त­ये­त्यर्थः ।

अस्मिन् समाधाने प्रागु­क्त­म­स्व­रसं मनसि निधाय समाधानान्तरमाह —
प्रक­टा­र्थ­का­रा­स्त्विति ।
यथा अन्तःकरणं ज्ञातृ­त्वो­पाधिः, तथा मायापि ज्ञातृ­त्वो­पा­धि­र्भ­व­त्येव । तथा च ब्रह्मणि मायोपाधिके सर्व­ज्ञ­त्व­व्या­प­कस्य ज्ञातृत्वस्य निवृत्त्यभावात् न सर्व­ज्ञ­त्व­नि­वृ­त्ति­श­ङ्के­त्यर्थः ।

स्वोपाधिमायेति ।
‘मायिनं’ इतिश्रुतेः ‘मायोपाधिः जगद्योनिः सर्व­ज्ञ­त्वा­दि­ल­क्षणः’ इति वाक्य­वृ­त्ति­व­च­नाच्च मायाया ईश्वरोपाधित्वं सिद्धमिति भावः । सर्व­ज्ञ­त्व­स­र्व­नि­य­न्तृ­त्व­स­र्वा­त्म­क­त्वानि लक्ष­णा­नि-अ­सा­धा­र­ण­धर्माः यस्य, सः सर्व­ज्ञ­त्वा­दि­ल­क्षणः इत्यर्थः ।

आकलनादिति ।
विष­यी­क­र­णा­दि­त्यर्थः ।

तत्त्व­शु­द्धि­का­रा­स्त्विति ।
प्रक­टा­र्थ­का­राणां मते अती­ता­ना­ग­त­प्र­प­ञ्च­रू­प­वि­ष­येऽपि ईश्वरीयं माया­वृ­त्ति­प्र­ति­बि­म्ब­रूपं ज्ञानं अपरोक्षम् । तत्त्व­शु­द्धि­का­राणां मते अतीतादिविषये जीवानामिव ईश्वरज्ञानमपि परोक्षमेव इति विशेषार्थकः तुशब्दः ।

विद्यमानेति ।
लोके प्रत्य­क्ष­ज्ञा­नस्य वर्त­मा­न­व­स्तु­मा­त्र­वि­ष­य­क­त्व­स्वा­भा­व्य­द­र्श­नेन तस्य कॢप्त­स्व­भा­वा­ति­ल­ङ्घने कारणाभावात्, सर्व­ज्ञ­त्व­प्र­ति­पा­द­क­शा­स्त्रस्य ईश्व­री­य­ज्ञा­न­ग­त­प­रो­क्ष­त्वा­प­रो­क्ष­त्वयोः उदासीनत्वादिति भावः ।

तज्जनितेति ।
विद्य­मा­न­व­स्तु­सा­क्षा­त्का­र­ज­नि­ते­त्यर्थः ।

अना­ग­त­व­स्तु­ज्ञा­न­मु­प­पा­द­यति —
सृष्टेः प्रागिति ।
स्फुरणपदं वृत्तिपरम् । विवर्तमानत्वं परिणममानत्वम् ।

तदुपाधिकस्येति ।
मायो­पा­धि­क­स्ये­त्यर्थः ।

कथं तदुपाधिकत्वं अत आह —
तत्साक्षितयेति ।
तस्यां मायायां प्रति­बि­म्बि­त­त­ये­त्यर्थः ।

सृष्टेः पूर्वकाले मायायाः तथापरिणामे कारणमाह —
जीवादृष्टेति ।

तत्सा­ध­क­त्व­सि­द्धे­रिति ।
माया­वृ­त्ति­क­र्तृ­त्व­सि­द्धे­रि­त्यर्थः ।

अनागतेति ।
अना­ग­त­व­स्तु­वि­ष­य­कस्य ज्ञानस्य वृत्ति­प्र­ति­बि­म्ब­रू­पस्य ब्रह्म­ण्यु­प­प­त्ति­रि­त्यर्थः । जीववत् ब्रह्मणोऽपि चैत­न्य­प्र­ति­बि­म्बो­पे­तै­र्वृ­त्ति­ज्ञानैः सर्वज्ञत्वं निरूपितं मतद्वयेन ।

इदानीं स्वरूपज्ञानेनैव तन्निरूपयति —
कौमु­दी­कृ­त­स्त्विति ।

ननु अती­ता­ना­ग­त­प्र­प­ञ्चयोः प्रलयकाले सृष्टिपूर्वकाले च सत्त्वे मानाभावात् तदा ब्रह्म­ण­स्स­र्व­ज्ञत्वं न सिद्ध्यति, अस­तो­स्त­यो­श्चै­त­न्य­सं­सृ­ष्ट­त्वा­स­म्भ­वा­दिति, नेत्याह —
अती­ता­ना­ग­त­यो­र­पीति ।
अतीतप्रपञ्चस्य प्रलयकाले संस्कारात्मना सत्त्वस्य देवताधिकरणे सूत्र­भा­ष्य­का­रा­दिभिः साधितत्वात्, तथा अनागतस्यापि सृष्टिपूर्वकाले संस्का­रा­त्म[ना]नैव सत्त्वस्य आर­म्भ­णा­धि­क­र­णा­दिषु साधितत्वात्, अती­ता­दि­व­स्तु­सं­सृ­ष्ट­ब्र­ह्म­चै­त­न्यस्य तदापि सर्व­ज्ञ­त्व­सिद्धिः इति भावः । चित्र­स्या­नु­न्मी­लि­त­त्वम् अनभिव्यक्तत्वम् । तत्र हेतु­र्वि­मृ­ष्ट­त्वम् । अविद्यैव चित्रभित्तिरिति रूपकमत्र द्रष्टव्यम् । अत्रेदं चिन्त्यम् — स्थूल­प्र­प­ञ्च­स्थि­ति­काले संस्का­रा­त्म­क­सू­क्ष्म­प्र­पञ्चो नास्ति, प्रलयकालादौ च स्थूलः प्रपञ्चो नास्ति, तथा च ब्रह्मचैतन्यस्य सदा सर्व­प्र­प­ञ्च­सं­सृ­ष्ट­त्वा­भा­वात् सदा तस्य असं­कु­चि­त­स­र्व­ज्ञत्वं न सम्भवतीति ।

स्वरू­प­ज्ञा­ने­नै­वे­त्य­त्र­त्यस्य अवधारणस्य व्यवच्छेद्यमाह —
न तु वृत्ति­ज्ञा­नै­रिति ।
श्रुति­ग­त­स्या­व­धा­र­णस्य ‘स्वप्र­का­शा­त्मा­ति­रि­क्ता­न­व­भास्यं आदित्यादिजगत्’ इत्यर्थः । अत्रेदं चिन्त्यम् — ब्रह्मचैतन्यस्य जगदवभासनार्थं माया­वृ­त्त्य­पे­क्षायां यदि श्रोतमवधारणं विरुध्यते, तदा जींवचैतन्यस्य घटा­द्य­व­भा­स­नार्थं अन्तः­क­र­ण­वृ­त्त्य­पे­क्षा­या­मपि तद्विरुध्यत एव, यदि चान्तः­क­र­ण­वृ­त्तीनां जडत्वात् तदपेक्षायामपि सर्वं जडवस्तु चैत­न्य­मा­त्रा­व­भा­स्य­मिति साव­धा­र­ण­श्रु­त्य­र्थस्य न बाधः, तदा माया­वृ­त्त्य­पे­क्षा­या­मपि तुल्यं समाधानमिति ।

प्रलयकाले सर्वज्ञत्वाभावे को दोषः, तत्राह —
प्राथमिकेति ।
तदा सर्वज्ञत्वाभावे सति सर्गादौ ‘तदैक्षत’ इतिश्रुत्युक्तं भूत­सृ­ष्ट्य­नु­कू­ल­मी­क्षणं प्रति कर्तृ­त्वा­स­म्भ­वेन ईक्ष­ण­पू­र्व­क­भू­ता­दि­सर्गं प्रत्यपि ब्रह्मणः कर्तृ­त्वा­भा­व­प्र­स­ङ्गा­दि­त्यर्थः । अत्रापि इदं चिन्त्यम् — एवमपि सृष्टिपूर्वकाले ब्रह्म­चै­त­न्य­व्य­ति­रि­क्तस्य माया­त­त्स­म्ब­न्धादेः सत्त्वात् अद्वि­ती­य­त्वा­व­धा­रणं मुख्यं न सम्भवति । यदि च माया­दे­र­ना­दि­त्व­प्र­ति­पा­द­क­श्रु­त्या­दि­ब­लात् व्याकृ­त­का­र्या­त्म­क­द्वि­ती­या­भा­वा­व­धा­र­ण­परं तद्व­च­न­मि­त्यु­च्येत, तदा सर्वदा सर्व­वि­ष­य­क­ज्ञा­न­क­र्तृ­त्व­रू­प­स­र्व­ज्ञ­त्व­प्र­ति­पा­द­क­श्रु­त्या­दि­ब­लात् सर्व­ज्ञ­त्व­घ­ट­क­मा­या­वृ­त्ति­स­न्त­ति­व्य­ति­रि­क्त­का­र्या­भा­वा­व­धा­र­ण­प­र­म­द्वि­ती­य­त्व­व­च­न­मि­त्यपि कल्पनं तुल्यम् । माया­वृ­त्ति­भि­स्स­र्व­ज्ञ­त्व­स­म­र्थ­न­मेव भाष्यसम्मतम् । तथा च ईक्ष­त्य­धि­क­र­ण­भा­ष्यम् — ‘अपि च अवि­द्या­दि­म­त­स्सं­सा­रि­ण­श्श­री­रा­द्य­पेक्षा ज्ञानोत्पत्तिः स्यात्, न ज्ञान­प्र­ति­ब­न्ध­का­र­ण­र­हि­त­स्ये­श्व­रस्य’ इति । सृष्टेः पूर्वकाले ब्रह्मणः स्रष्ट­व्या­लो­च­न­रू­प­मी­क्षणं न सम्भवति, वृत्ति­ज्ञा­न­रू­पे­क्ष­णस्य शरी­रा­दि­का­र­क­सा­ध्य­ताया लोकसिद्धत्वात् ब्रह्मणः तदा शरीराद्यभावात्, इति साङ्ख्य­श­ङ्का­नि­रा­सा­र्थ­मिदं भाष्यम् — जीवस्यैव वृत्ति­ज्ञा­नो­त्प­त्तिः­श­री­रा­दि­साध्या । ईश्वरस्य तु माया­वृ­त्ति­रू­प­ज्ञा­नो­त्पत्तिः शरीराद्यनपेक्षा । तथा च सृष्टिपूर्वं प्रलयकालेऽपि तस्य माया­वृ­त्ति­रू­प­मी­क्षणं सदा सर्वज्ञत्वं च सम्भवतीति समा­धा­न­भा­ष्या­भि­प्रायः । इदं भाष्यमित्थमेव व्याख्या­तृ­भि­र्नी­तम् । भाष्ये ज्ञान­प्र­ति­ब­न्ध­का­र­ण­म­वि­द्या­दीति मन्तव्यम् । ततश्च माया­वृ­त्ति­भि­स्स­र्व­ज्ञ­त्व­स­म­र्थ­न­प­क्ष­दू­षणं असङ्गतमिति मन्तव्यम् ।

शङ्कते —
एवंसतीति ।
स्वरूपज्ञानेनैव सर्व­ज्ञ­त्व­स­म­र्थने सतीत्यर्थः ।

न त्विति ।
स्वरूपज्ञानस्य नित्यत्वादिति भावः ।

न तु सर्व­ज्ञा­न­क­र्तृ­त्व­रू­प­मिति ।
ब्रह्मण इति शेषः । अत्र यद्यपि ज्ञातृत्वं सामान्यरूपं सर्व­ज्ञा­न­क­र्तृत्वं तु विशेषरूपमिति न तयोः अभेदः सम्भवति, तथाऽपि ब्रह्मणो ज्ञातृत्वं नास्ति इत्यत्रैव तात्पर्यम्, न तयो­र­भे­दो­क्ता­वपि, इत्यविरोधः ।

अत एवेति ।
ब्रह्मणो ज्ञातृ­त्वा­भा­वा­दे­वे­त्यर्थः ।

इत्युक्तमिति ।
बृहदारण्यके मैत्रे­यी­ब्रा­ह्मणे पठ्यते - ‘आत्मनस्तु कामाय सर्वं प्रियं भवति, आत्मा वा अरे द्रष्टव्यः’ [बृ.उ. १-४-५] इत्यादि । अत्र किं जीवो द्रष्टव्यत्वेन उपदिश्यते उत प्रत्य­ग­भि­न्न­प­र­मात्मा निष्प्र­प­ञ्च­स्व­भावः इति संशयः । तत्र पूर्वपक्षः— पूर्ववाक्ये भोक्तुर्जीवस्य प्रकृतत्वात् उपसंहारेऽपि ‘विज्ञातारमरे केन विजानीयात्’ [बृ.उ. २-४-१४] इति विज्ञातृत्वस्य जीवधर्मस्य कीर्तनाच्च जीव एवात्र द्रष्टव्य उपदिश्यते इति । सिद्धान्तस्तु - प्रत्य­ग­भि­न्न­प­र­मा­त्मैव द्रष्ट­व्य­त­यो­प­दि­श्यते । कुतः, वाक्यान्वयात् । तथाहि - अत्र आत्मवेदनेन सर्वं विदितं भवतीति प्रतिपाद्यते । तच्च सर्वा­धि­ष्ठा­न­ब्र­ह्म­प­रि­ग्रहे घटते, न जीवपरिग्रहे । तथा इदं सर्वमात्मा इत्या­दि­वा­क्या­न्यपि सर्वात्मके ब्रह्मण्येव तात्पर्येण प्रतिपादकतया अन्वितानि लक्ष्यन्ते । ‘आत्मनस्तु कामाय सर्वं प्रियं भवति’ इति पूर्ववाक्ये जीवपरामर्शस्तु लोकसिद्धं भोक्तारमनूद्य तस्य शुद्ध­ब्र­ह्म­रू­पेण द्रष्ट­व्य­त्वो­प­दे­शार्थः । विज्ञातारमिति वाक्यं तु जीवस्य विज्ञा­तृ­त्व­रू­प­ध­र्म­परं न भवति । तस्य वाक्यस्य मुक्त­जी­व­प­र­त्वात्, मुक्तजीवे च निरुपाधिके तस्यासम्भवात् । किं तु भूतपूर्वगत्या विज्ञा­तृ­त्वा­नु­वा­द­मात्रं, स्वातन्त्र्येण न कस्यचिदर्थस्य साधकम् । तस्मात् मैत्रे­यी­ब्रा­ह्मणं प्रत्यगभिन्ने निर्विशेषे द्रष्टव्ये समन्वितमिति सिद्धमिति । अत्र विज्ञातृत्वं ब्रह्मसाधारणं चेत् जीवलिङ्गतया भाष्य­का­रै­र्नो­प­न्य­स्येत । उपन्यस्तं च । तस्मात् ज्ञातृत्वं ब्रह्मणो नास्तीति गम्यते इति भावः ।

ईश्वरस्य सर्व­वि­ष­य­क­ज्ञा­न­क­र्तृ­त्वा­न­भ्यु­प­गमे श्रुति­वि­रो­ध­मा­श­ङ्क्याह —
यस्सर्वज्ञ इति ॥