कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
नानाविद्यावादे प्रपञ्चैकत्वनानात्वविचारः
एवं नानाजीववादे बन्धमोक्षव्यवस्थां बहुप्रकारामुपपाद्य तदुपपादनोपयोगितया प्रसक्तं अविद्यानानात्वं उपजीव्य आक्षेपमवतारयति —
अस्मिन् पक्ष इति ।
अविद्यानानात्वपक्षे इत्यर्थः ।
कस्येति ।
किमेकस्य जीवस्य अविद्यया प्रपञ्चारम्भः, उत सर्वेषामविद्याभिः । नाद्यः विनिगमनाविरहात् । न द्वितीयः, एकाविद्यानाशे सर्वप्रपञ्चनाशापत्त्या मुक्तेरजीवानां प्रपञ्चानुपलब्धिप्रसङ्गात् इत्याक्षेपाभिप्रायः ।
द्वितीयपक्षं परिगृह्य तत्रोक्तानुपपत्तिं परिहरति —
विनिगमकाभावादित्यादिना ।
सर्वाविद्याकृत इति ।
सर्वेषां जीवानां सर्वाविद्यापरिणामः इत्यर्थः । यद्वा सर्वाविद्याविषयीकृतब्रह्मविवर्तः प्रपञ्चः इत्यर्थः ।
प्रथमव्याख्याने दृष्टान्तमाह —
अनेकतन्त्वारब्धेति ।
सकलेतरेति ।
सकलाः समस्ताः मुक्तजीवापेक्षया ये इतरे तेषां साधारणप्रपञ्चान्तरस्येत्यर्थः ।
प्रपञ्चस्य सर्वाविद्याकार्यत्वेऽपि तद्भेदात् प्रपञ्चस्यापि प्रतिपुरुषं भेद एवेति मतं सदृष्टान्तमाह —
तत्तदिति ।
ननु यत्र एकदा बहूनां शुक्तौ रजतभ्रमो भवति तत्र प्रतिपुरुषमज्ञानभेदेन तत्कृतरजतभेदोऽत्र दृष्टान्तत्वेन वक्तव्यः । स च न सम्भवति, तत्रापि तावत्पुरुषाणामज्ञानेः (???) एकस्यैव रजतस्य उत्पत्तिसम्भवात् इति चेत् न तत्र दैवयोगादेकस्य पुरुषस्य प्रथमं शुक्तित्वविशेषदर्शने सति नेदं रजतमिति बाधकप्रत्यक्षेण सोपादानस्य रजतस्य नाशेऽपि तदितरेषां रजतभ्रमानुवृत्त्या रजतभेदस्यावश्यकतया दृष्टान्तसिद्धेरिति भावः ।
न्यायमत इति ।
सिद्धान्ते तु एकत्ववत् द्वित्वादिकमपि यावद्द्रव्यभाव्येव, न तु तत्तदपेक्षाबुद्धिजन्यम् । अनन्तद्वित्वादेः तदुत्पत्त्यादीनां च कल्पने गौरवात्, अपेक्षाबुद्धेस्तद्व्यञ्जकत्वाभ्युपगमात् न सदा तत्प्रत्यक्षापत्तिः इति स्वीकारात्, इति भावः । ननु तर्हि यथा तत्तद्रजतं तस्यतस्यैव प्रत्यक्षं नान्यस्य, तथा तत्तदविद्याकल्पितः प्रपञ्चोऽपि तस्यतस्यैव प्रत्यक्षः स्यात् नान्यस्य ।
तथा च यः प्रपञ्चः त्वयाऽनुभूयते स एव मयाप्यनुभूयते इति प्रत्यभिज्ञानप्रत्यक्षं न स्यात् इति शङ्कां दृष्टान्तेन परिहरति —
शुक्तिरजत इति ।
उपलक्षणमेतत् । यौ द्वौ रामकृष्णौ त्वया दृष्टौ तावेव मयापि दृष्टौ इति प्रत्यभिज्ञानं न्यायमते द्वित्वभेदेऽपि दृश्यते तद्वदिति बोध्यम् ।
वियदादिप्रपञ्चो न जीवाविद्यापरिणामः, किं तु जीवाश्रिताविद्यासंघात् भिन्ना माया सर्वजीवान् प्रति साधारणा वियदादिप्रपञ्चपरिणाम्युपादानमुपेयते, अतो वियदादिप्रपञ्चस्यैकत्वात् तदेकत्वप्रतीतिः न भ्रममात्रम्, इति मतं दर्शयति —
जीवाश्रितेति ।
मायाया अविद्याभ्यो भिन्नत्वे ईश्वराश्रितत्वे च प्रमाणादिकं प्रागेव दर्शितमिति नात्र तदुच्यते ।
अविद्यानां प्रपञ्चोपादानत्वाभावे वैयर्थ्यमाशङ्क्याह —
जीवानामिति ।
उक्तशङ्कानिवृत्त्यर्थः तुशब्दः । यत्किञ्चित्कार्यं प्रत्यप्युपादानत्वाभावो मात्रशब्दार्थः । न च - ‘नाहं प्रकाशस्सर्वस्य योगमायासमावृतः’ [भ.गी. ७-२५] इति भगवद्वचने - अहं - परमात्मा सर्वस्य प्राणिजातस्य प्रकाशः - पूर्णानन्दादिरूपेण स्फुरद्रूपः न भवामि, मम सर्वज्ञत्वसर्वेश्वरत्वसर्वात्मकत्वादिधर्मजातं घटयन्त्या मायया आवृतत्वात् - इत्यर्थके ईश्वराश्रितमायाया एव ब्रह्मावारकत्वप्रतिपादनात् तद्विरोध इति - वाच्यम् । ‘ब्रह्म तत्त्वतो न जानामि’ इति आवारकस्य जीवाश्रितत्वानुभवानुसारेण जीवाश्रिताविद्याया एव तदावारकत्वे वक्तव्ये सति भगवद्वचनगतमायापदस्य जीवचैतन्ये संसारघटकाविद्यालक्षकत्वोपपत्तेः इति भावः ।
अविद्याया आवरण इव प्रातिभासिकविक्षेपेऽपि परिणाम्युपादानत्वस्वीकारात् न वैयर्थ्यशङ्कावकाशः इत्याशयेनाह —
प्रातिभासिकेति ।
ननु जीवाश्रिताविद्यानां जीवचैतन्याध्यस्तप्रातिभासिकस्वप्नप्रपञ्चोपादानतया तत्रोपयोगसम्भवेऽपि शुक्तिरजताद्युपादानत्वं न सम्भवति, शुक्त्याद्यवच्छिन्नचैतन्ये रजताद्यधिष्ठाने तासामभावात् इति चेत्, सत्यम् । आदिपदगृहीतः स्वप्न एवात्र विवक्षितः इत्यदोषः । यद्वा वाचस्पतिमत इव शुक्तिरजतादेरपि जीवाविद्याविषयीकृतशुक्त्याद्यवच्छिन्नचैतन्यविवर्तत्वमभिप्रेत्य जीवाविद्यानां प्रातिभासिकरजतादावुपयोगकथनोपपत्तेः न दोषः ।