अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

नानाविद्यावादे प्रपञ्चैकत्वनानात्वविचारः

एवं नानाजीववादे बन्ध­मो­क्ष­व्य­वस्थां बहु­प्र­का­रा­मु­प­पाद्य तदु­प­पा­द­नो­प­यो­गि­तया प्रसक्तं अविद्यानानात्वं उपजीव्य आक्षेपमवतारयति —
अस्मिन् पक्ष इति ।
अवि­द्या­ना­ना­त्व­पक्षे इत्यर्थः ।

कस्येति ।
किमेकस्य जीवस्य अविद्यया प्रपञ्चारम्भः, उत सर्वे­षा­म­वि­द्याभिः । नाद्यः विनिगमनाविरहात् । न द्वितीयः, एकाविद्यानाशे सर्व­प्र­प­ञ्च­ना­शा­पत्त्या मुक्तेरजीवानां प्रप­ञ्चा­नु­प­ल­ब्धि­प्र­स­ङ्गात् इत्या­क्षे­पा­भि­प्रायः ।

द्वितीयपक्षं परिगृह्य तत्रो­क्ता­नु­प­पत्तिं परिहरति —
विनि­ग­म­का­भा­वा­दि­त्या­दिना ।

सर्वाविद्याकृत इति ।
सर्वेषां जीवानां सर्वा­वि­द्या­प­रि­णामः इत्यर्थः । यद्वा सर्वा­वि­द्या­वि­ष­यी­कृ­त­ब्र­ह्म­वि­वर्तः प्रपञ्चः इत्यर्थः ।

प्रथमव्याख्याने दृष्टान्तमाह —
अने­क­त­न्त्वा­र­ब्धेति ।

सकलेतरेति ।
सकलाः समस्ताः मुक्त­जी­वा­पे­क्षया ये इतरे तेषां साधा­र­ण­प्र­प­ञ्चा­न्त­र­स्ये­त्यर्थः ।

प्रपञ्चस्य सर्वा­वि­द्या­का­र्य­त्वेऽपि तद्भेदात् प्रपञ्चस्यापि प्रतिपुरुषं भेद एवेति मतं सदृष्टान्तमाह —
तत्तदिति ।
ननु यत्र एकदा बहूनां शुक्तौ रजतभ्रमो भवति तत्र प्रति­पु­रु­ष­म­ज्ञा­न­भे­देन तत्कृ­त­र­ज­त­भे­दोऽत्र दृष्टान्तत्वेन वक्तव्यः । स च न सम्भवति, तत्रापि ताव­त्पु­रु­षा­णा­म­ज्ञानेः (???) एकस्यैव रजतस्य उत्प­त्ति­स­म्भ­वात् इति चेत् न तत्र दैवयोगादेकस्य पुरुषस्य प्रथमं शुक्ति­त्व­वि­शे­ष­द­र्शने सति नेदं रजतमिति बाधकप्रत्यक्षेण सोपादानस्य रजतस्य नाशेऽपि तदितरेषां रज­त­भ्र­मा­नु­वृत्त्या रज­त­भे­द­स्या­व­श्य­क­तया दृष्टा­न्त­सि­द्धे­रिति भावः ।

न्यायमत इति ।
सिद्धान्ते तु एकत्ववत् द्वित्वादिकमपि याव­द्द्र­व्य­भा­व्येव, न तु तत्त­द­पे­क्षा­बु­द्धि­ज­न्यम् । अन­न्त­द्वि­त्वादेः तदु­त्प­त्त्या­दीनां च कल्पने गौरवात्, अपे­क्षा­बु­द्धे­स्त­द्व्य­ञ्ज­क­त्वा­भ्यु­प­ग­मात् न सदा तत्प्र­त्य­क्षा­पत्तिः इति स्वीकारात्, इति भावः । ननु तर्हि यथा तत्तद्रजतं तस्यतस्यैव प्रत्यक्षं नान्यस्य, तथा तत्त­द­वि­द्या­क­ल्पितः प्रपञ्चोऽपि तस्यतस्यैव प्रत्यक्षः स्यात् नान्यस्य ।

तथा च यः प्रपञ्चः त्वयाऽनुभूयते स एव मयाप्यनुभूयते इति प्रत्य­भि­ज्ञा­न­प्र­त्यक्षं न स्यात् इति शङ्कां दृष्टान्तेन परिहरति —
शुक्तिरजत इति ।
उपलक्षणमेतत् । यौ द्वौ रामकृष्णौ त्वया दृष्टौ तावेव मयापि दृष्टौ इति प्रत्यभिज्ञानं न्यायमते द्वित्वभेदेऽपि दृश्यते तद्वदिति बोध्यम् ।

वियदादिप्रपञ्चो न जीवा­वि­द्या­प­रि­णामः, किं तु जीवा­श्रि­ता­वि­द्या­सं­घात् भिन्ना माया सर्वजीवान् प्रति साधारणा विय­दा­दि­प्र­प­ञ्च­प­रि­णा­म्यु­पा­दा­न­मु­पे­यते, अतो विय­दा­दि­प्र­प­ञ्च­स्यै­क­त्वात् तदेकत्वप्रतीतिः न भ्रममात्रम्, इति मतं दर्शयति —
जीवाश्रितेति ।
मायाया अविद्याभ्यो भिन्नत्वे ईश्वराश्रितत्वे च प्रमाणादिकं प्रागेव दर्शितमिति नात्र तदुच्यते ।

अविद्यानां प्रप­ञ्चो­पा­दा­न­त्वा­भावे वैय­र्थ्य­मा­श­ङ्क्याह —
जीवानामिति ।
उक्त­श­ङ्का­नि­वृ­त्त्यर्थः तुशब्दः । यत्कि­ञ्चि­त्कार्यं प्रत्य­प्यु­पा­दा­न­त्वा­भावो मात्रशब्दार्थः । न च - ‘नाहं प्रकाशस्सर्वस्य योगमायासमावृतः’ [भ.गी. ७-२५] इति भगवद्वचने - अहं - परमात्मा सर्वस्य प्राणिजातस्य प्रकाशः - पूर्णा­न­न्दा­दि­रू­पेण स्फुरद्रूपः न भवामि, मम सर्व­ज्ञ­त्व­स­र्वे­श्व­र­त्व­स­र्वा­त्म­क­त्वा­दि­ध­र्म­जातं घटयन्त्या मायया आवृतत्वात् - इत्यर्थके ईश्व­रा­श्रि­त­मा­याया एव ब्रह्मा­वा­र­क­त्व­प्र­ति­पा­द­नात् तद्विरोध इति - वाच्यम् । ‘ब्रह्म तत्त्वतो न जानामि’ इति आवारकस्य जीवा­श्रि­त­त्वा­नु­भ­वा­नु­सा­रेण जीवा­श्रि­ता­वि­द्याया एव तदावारकत्वे वक्तव्ये सति भग­व­द्व­च­न­ग­त­मा­या­प­दस्य जीवचैतन्ये संसा­र­घ­ट­का­वि­द्या­ल­क्ष­क­त्वो­प­पत्तेः इति भावः ।

अविद्याया आवरण इव प्राति­भा­सि­क­वि­क्षे­पेऽपि परि­णा­म्यु­पा­दा­न­त्व­स्वी­का­रात् न वैय­र्थ्य­श­ङ्का­व­काशः इत्याशयेनाह —
प्रातिभासिकेति ।
ननु जीवा­श्रि­ता­वि­द्यानां जीव­चै­त­न्या­ध्य­स्त­प्रा­ति­भा­सि­क­स्व­प्न­प्र­प­ञ्चो­पा­दा­न­तया तत्रो­प­यो­ग­स­म्भ­वेऽपि शुक्ति­र­ज­ता­द्यु­पा­दा­नत्वं न सम्भवति, शुक्त्या­द्य­व­च्छि­न्न­चै­तन्ये रजताद्यधिष्ठाने तासामभावात् इति चेत्, सत्यम् । आदिपदगृहीतः स्वप्न एवात्र विवक्षितः इत्यदोषः । यद्वा वाचस्पतिमत इव शुक्तिरजतादेरपि जीवा­वि­द्या­वि­ष­यी­कृ­त­शु­क्त्या­द्य­व­च्छि­न्न­चै­त­न्य­वि­व­र्त­त्व­म­भि­प्रेत्य जीवाविद्यानां प्राति­भा­सि­क­र­ज­ता­दा­वु­प­यो­ग­क­थ­नो­प­पत्तेः न दोषः ।