अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

जीवब्रह्मभेदनिरसनम्

इदानीं सर्वेषु शरीरेष्वात्मन एकत्वपक्षे सुख­दुः­खा­दि­व्य­व­स्था­वि­रो­ध­मा­शङ्क्य तां निरूपयितुं प्रसङ्गमाह —
नन्वित्यादिना ।

अपवर्गेति ।
जीवानां स्वरूपेण मिथ्यात्वे तत्त्वज्ञानेन निवृ­त्त्या­पत्त्या तेषां मुक्तिभाक्त्वं न स्यादित्यर्थः ।

ननु जीवानां ब्रह्माभेदस्य वेदा­न्त­प्र­मा­ण­कस्य प्रथ­म­प­रि­च्छे­दा­व­साने उक्तत्वात् ब्रह्मणो नाद्वि­ती­य­त्वा­नु­प­पत्तिः इत्याशङ्क्य निराकरोति —
न च तेषामिति ।

जीवानां पर­स्प­र­भे­दा­सि­द्धि­मा­श­ङ्क्याह —
न च तदिति ।
एकस्य यदा दुःखं भवति तदा जीवान्तरस्य सुखं भवतीति सुख­दुः­ख­व्य­वस्था, एवं राग­द्वे­षा­दि­व्य­व­स्थाऽ­प्य­नु­भ­व­सिद्धा द्रष्टव्या ।

तया तेषां पर­स्प­र­भे­द­स्सि­द्ध्य­ती­त्याह —
सुखेति ।

नन्वा­र­म्भ­णे­त्या­दिना प्राप्तं प्रति­श­री­र­मा­त्म­भे­द­पक्षं प्रतिक्षिपति —
नेति ।

उपपत्तेरिति ।
नात्मभेदः प्रामाणिक इत्यर्थः ।