कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
जीवब्रह्मभेदनिरसनम्
इदानीं सर्वेषु शरीरेष्वात्मन एकत्वपक्षे सुखदुःखादिव्यवस्थाविरोधमाशङ्क्य तां निरूपयितुं प्रसङ्गमाह —
नन्वित्यादिना ।
अपवर्गेति ।
जीवानां स्वरूपेण मिथ्यात्वे तत्त्वज्ञानेन निवृत्त्यापत्त्या तेषां मुक्तिभाक्त्वं न स्यादित्यर्थः ।
ननु जीवानां ब्रह्माभेदस्य वेदान्तप्रमाणकस्य प्रथमपरिच्छेदावसाने उक्तत्वात् ब्रह्मणो नाद्वितीयत्वानुपपत्तिः इत्याशङ्क्य निराकरोति —
न च तेषामिति ।
जीवानां परस्परभेदासिद्धिमाशङ्क्याह —
न च तदिति ।
एकस्य यदा दुःखं भवति तदा जीवान्तरस्य सुखं भवतीति सुखदुःखव्यवस्था, एवं रागद्वेषादिव्यवस्थाऽप्यनुभवसिद्धा द्रष्टव्या ।
तया तेषां परस्परभेदस्सिद्ध्यतीत्याह —
सुखेति ।
नन्वारम्भणेत्यादिना प्राप्तं प्रतिशरीरमात्मभेदपक्षं प्रतिक्षिपति —
नेति ।
उपपत्तेरिति ।
नात्मभेदः प्रामाणिक इत्यर्थः ।