कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
ब्रह्मज्ञानस्य मूलाज्ञाननिवर्तकत्वसमर्थनम्
वेदान्तजन्यज्ञानस्यापि मूलाज्ञाननिवर्तकत्वमाक्षिपति —
नन्विति ।
तादृशेति ।
कार्यस्य लोके उपादानस्थितिविरोधित्वादर्शनादित्यर्थः ।
ब्रह्मगोचरवृत्तिं प्रति अन्तःकरणस्यैवोपादानत्वेन तां प्रत्यज्ञानस्यानुपादानत्वात् तन्निवर्तकत्वं सम्भवतीति मत्वा आह —
नेति ।
उपादानत्वमुपेत्याप्याह —
कार्येति ।
उपादानोपादेययोर्निवर्त्यनिवर्तकभावप्रयोजकविरोधो नास्तीत्युत्सर्गः । स च ब्रह्मज्ञानतदुपादानस्थले अपोद्यते । निवर्त्यनिवर्तकभावप्रयोजकतयालोकेकॢप्तस्य समानविषयज्ञानाज्ञानभावस्य विशेषरूपतया तेन सामान्यरूपस्य उपादानोपादेयभावप्रयुक्ताविरोधस्य बोधोपपत्तेरित्यर्थः ।
लोके उपादानोपादेययोर्निवर्त्यनिवर्तकभावप्रयोजकविरोधादर्शनमसिद्धं चेत्याह —
कार्यकारणयोरपीति ।
अग्निसंयोगरूपकार्यस्य स्वोपादानपटनाशकत्वदर्शनादित्यर्थः ।
ननु तत्र अग्निसंयोगस्य नाशकत्वदर्शनं भ्रान्तिरिति मत्वा शङ्कते —
न चाग्नीति ।
प्रक्रिययेति ।
अग्निसंयोगात्तन्तुषु क्रिया, ततस्तेषां विभागः, ततस्तेषां पटासमवायिकारणसंयोगनाशः, ततः पटनाशः, इति वैशेषिकप्रक्रिया ।
तन्तुषु विभागप्रक्रियैव भ्रान्तिमूलेत्याह —
दग्धपटेऽपीति ।
पूर्वसंस्थानं - संयुक्तावस्था ।
व्यतिरेकदृष्टान्तमाह —
मुद्गरेति ।
यथा मुद्गरचूर्णींकृतस्य घटस्य अवयवेषु विभागो दृश्यते तथा पटदाहानन्तरं दग्धतन्तुषु विभागादर्शनेन इत्यर्थः ।
तत्रेति ।
तन्तुष्वित्यर्थः ।
वैशेषिकप्रक्रियान्तरमपि भ्रान्तिमूलमेवेत्याह —
नापीत्यादिना ।
तत्रेति ।
पटदाहस्थल इत्यर्थः ।
अग्निसंयोगस्य क्वचिदुपादानद्रव्यनाशकताया आवश्यकत्वात् पटनाशकत्वमपि तस्यैवेत्याह —
यत इति ।
यतः - द्व्यणुकात् अधस्तात् द्व्यणुकावयवस्य परमाणोः न नाशः, तत्र द्व्यणुके विद्यमानात् अग्निसंयोगादेव तदुपादानभूतद्व्यणुकनाशस्य वाच्यत्वात् । न च तत्र अवयवविभागप्रक्रियया परमाणुद्वयसंयोगनाशादेव द्व्यणुकनाश इति वाच्यम् । अवयवविभागप्रक्रियायाः निरस्तत्वात् । तथा च अग्निसंयोगस्य स्वोपादानपटनाशकत्वदर्शनं न भ्रान्तिरिति भावः ।