अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

ब्रह्मज्ञानस्य मूलाज्ञाननिवर्तकत्वसमर्थनम्

वेदा­न्त­ज­न्य­ज्ञा­न­स्यापि मूला­ज्ञा­न­नि­व­र्त­क­त्व­मा­क्षि­पति —
नन्विति ।

तादृशेति ।
कार्यस्य लोके उपा­दा­न­स्थि­ति­वि­रो­धि­त्वा­द­र्श­ना­दि­त्यर्थः ।

ब्रह्म­गो­च­र­वृत्तिं प्रति अन्तः­क­र­ण­स्यै­वो­पा­दा­न­त्वेन तां प्रत्य­ज्ञा­न­स्या­नु­पा­दा­न­त्वात् तन्निवर्तकत्वं सम्भवतीति मत्वा आह —
नेति ।

उपा­दा­न­त्व­मु­पे­त्या­प्याह —
कार्येति ।
उपा­दा­नो­पा­दे­य­यो­र्नि­व­र्त्य­नि­व­र्त­क­भा­व­प्र­यो­ज­क­वि­रोधो नास्ती­त्यु­त्सर्गः । स च ब्रह्म­ज्ञा­न­त­दु­पा­दा­न­स्थले अपोद्यते । निव­र्त्य­नि­व­र्त­क­भा­व­प्र­यो­ज­क­त­या­लो­के­कॢ­प्तस्य समा­न­वि­ष­य­ज्ञा­ना­ज्ञा­न­भा­वस्य विशेषरूपतया तेन सामान्यरूपस्य उपा­दा­नो­पा­दे­य­भा­व­प्र­यु­क्ता­वि­रो­धस्य बोधो­प­प­त्ते­रि­त्यर्थः ।

लोके उपा­दा­नो­पा­दे­य­यो­र्नि­व­र्त्य­नि­व­र्त­क­भा­व­प्र­यो­ज­क­वि­रो­धा­द­र्श­न­म­सिद्धं चेत्याह —
कार्य­का­र­ण­यो­र­पीति ।
अग्नि­सं­यो­ग­रू­प­का­र्यस्य स्वोपा­दा­न­प­ट­ना­श­क­त्व­द­र्श­ना­दि­त्यर्थः ।

ननु तत्र अग्निसंयोगस्य नाशकत्वदर्शनं भ्रान्तिरिति मत्वा शङ्कते —
न चाग्नीति ।

प्रक्रिययेति ।
अग्नि­सं­यो­गा­त्त­न्तुषु क्रिया, ततस्तेषां विभागः, ततस्तेषां पटा­स­म­वा­यि­का­र­ण­सं­यो­ग­नाशः, ततः पटनाशः, इति वैशे­षि­क­प्र­क्रिया ।

तन्तुषु विभागप्रक्रियैव भ्रान्ति­मू­ले­त्याह —
दग्धपटेऽपीति ।
पूर्वसंस्थानं - संयुक्तावस्था ।

व्यति­रे­क­दृ­ष्टा­न्त­माह —
मुद्गरेति ।
यथा मुद्ग­र­चू­र्णीं­कृ­तस्य घटस्य अवयवेषु विभागो दृश्यते तथा पटदाहानन्तरं दग्धतन्तुषु विभागादर्शनेन इत्यर्थः ।

तत्रेति ।
तन्तु­ष्वि­त्यर्थः ।

वैशे­षि­क­प्र­क्रि­या­न्त­र­मपि भ्रान्ति­मू­ल­मे­वे­त्याह —
नापीत्यादिना ।

तत्रेति ।
पटदाहस्थल इत्यर्थः ।

अग्निसंयोगस्य क्वचि­दु­पा­दा­न­द्र­व्य­ना­श­क­ताया आवश्यकत्वात् पटनाशकत्वमपि तस्यैवेत्याह —
यत इति ।
यतः - द्व्यणुकात् अधस्तात् द्व्यणुकावयवस्य परमाणोः न नाशः, तत्र द्व्यणुके विद्यमानात् अग्निसंयोगादेव तदु­पा­दा­न­भू­त­द्व्य­णु­क­ना­शस्य वाच्यत्वात् । न च तत्र अव­य­व­वि­भा­ग­प्र­क्रि­यया पर­मा­णु­द्व­य­सं­यो­ग­ना­शा­देव द्व्यणुकनाश इति वाच्यम् । अव­य­व­वि­भा­ग­प्र­क्रि­यायाः निरस्तत्वात् । तथा च अग्निसंयोगस्य स्वोपा­दा­न­प­ट­ना­श­क­त्व­द­र्शनं न भ्रान्तिरिति भावः ।