कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
मुक्तस्वरूपविचारः
इति विवेचनीयमिति ।
इत्याकाङ्क्षायां सत्यां विविच्य वक्तव्यमिति प्रश्नार्थः ।
मतभेदेन विवेकं दर्शयति —
उच्यत इत्यादिना ।
तदेकाज्ञानेति ।
तस्य जीवस्य यदेकमज्ञानं तत्कल्पितेत्यर्थः । जीवस्यैकत्वात् तदीयंमूलाज्ञानमप्येकमेव । तथा च तस्यैकस्य जीवस्य यत्र क्वाप्यन्तःकरणे तत्त्वसाक्षात्कारोदये सति अज्ञानस्य देवतिर्यङ्मनुष्यादिरूपसर्वप्रमातृसाधारणस्य सकार्यस्य तस्मिन्नेव क्षणे निश्शेषं प्रविलयादित्यर्थः । न चैवं शुकाद्यन्तःकरणोत्पन्नतत्त्वज्ञानेनैव समूलस्य सर्वप्रमातृसाधारणसंसारस्य निवृत्तत्वात् इदानीं संसारानुपलब्धिप्रसङ्ग इति वाच्यम् । शुकादिमुक्तौ मानाभावात्, शुकादिमुक्तिप्रतिपादकशास्त्रस्य अन्यपरतायाः प्राग्दर्शितत्वादिति भावः ।
एकजीववादे अस्वरसं सूचयन् नानाजीववादं पुरस्करोति —
अनेकेति ।
कश्चिज्जीवो बद्धः कश्चिज्जीवो मुक्तः — इति व्यवस्थाभ्युपगम इत्यर्थः ।
नानाजीववादे मुक्तस्येश्वरभावापत्तिरिति मनसि निधाय तत्र तत्सम्भवमाह —
यद्यपीति ।
अनुवर्तत इति ।
तथा च नानाजीववादे मुक्तस्य वक्ष्यमाणविधया यावत्सर्वमुक्ति बद्धपुरुषान्तराविद्याकृतेश्वरभावापत्तिस्सम्भवतीति भावः । नन्वेवं — x‘यद्यपि’ इत्युक्तिरनुपपन्ना । तदुक्त्या हि यद्यपीश्वरभावापत्तिस्सम्भवति, तथापि न सम्भवतीत्यर्थप्रतीतेः - इति चेत्, नायं दोषः — नानाजीववादो हि बहुविधः । तथा च सर्वेषु नानाजीववादेषु मुक्तस्येश्वरभावापत्तिर्न सम्भवतीति ‘यद्यपि’ इत्युक्तेस्तात्पर्यात् ।
एतदेव प्रपञ्चयति —
तथापीत्यादिना ।
बिम्बभूतेति ।
न तु प्रतिबिम्बविशेषरूपेश्वररूपेणावस्थानं इत्येवकारार्थः ।
एवकारार्थे हेतुमाह —
अनेकेत्यादिना ।
एकस्य ब्रह्मचैतन्यस्येत्यर्थः ।
प्रतिबिम्बभूतस्य बिम्बप्राप्तिनियमं विहाय प्रतिबिम्बान्तरत्वापत्तिसम्भवाभ्युपगमे बाधकमाह —
तत्सम्भव इति ।
दृष्टान्तं प्रपञ्चयति —
अत एवेति ।
पुनर्बन्धापत्तेरेवेत्यर्थः ।
यदवच्छेदेनेति ।
पूर्णचैतन्ये यच्चैतन्यप्रदेशावच्छेदेन मुक्तिः तत्प्रदेशावच्छेदेन तत्र चैतन्ये उपाध्यन्तरसम्बन्धे सति पुनर्बन्धापत्तेरित्यर्थः । यच्चैतन्यप्रदेशो मुक्तः तस्य बन्धापत्तेरिति यावत् । अत्रेदं चिन्त्यम् — चैतन्यं तावत् स्वतो नित्यमुक्तम् । तस्य च अनाद्युपाध्यवच्छिन्नस्य उपाध्युपहितस्य वा जीवत्वं बन्धश्चेति स्थितिः । तथा च मुक्तेः पूर्वं यस्योपाधिपरतन्त्रस्य चैतन्यप्रदेशस्य बन्ध आसीत् न तस्य पुनर्बन्धः आपादयितुं शक्यते । मुक्तिकाले तदुपाधिनिवृत्त्या तत्परतन्त्रस्य पूर्वं बन्धाश्रयस्य निवृत्तत्वात् । नापि मुक्तस्य शुद्धचैतन्यस्य तदापादनं सम्भवति । तस्य बद्धजीवान्तरोपाधिसंसर्गे जीवान्तरत्वापत्तावपि, ‘पूर्वं यो बद्धस्सन् मुक्तिं गतः तस्य बन्धाप्रसक्त्या पुनर्बन्धापत्तेः’ इत्युक्त्ययोगात् । किं च मुक्तचैतन्यस्य अन्तःकरणान्तरसंसर्गेण तदुपाधिकजीवान्तरत्वापत्तौ सत्यां ‘योऽहं पूर्वं संसारी सन् कथञ्चिन्मुक्तः सोऽहं पुनःसंसारं प्राप्तः’ इत्यनुसन्धानं तावत् न सम्भवति । मुक्तजीवस्य बद्धजीवस्य च उपाध्यैक्याभावात् । तथा च इयं जीवान्तरतापत्तिः अकिञ्चित्करेति न दोषावहा । एवं पूर्वोक्ता मुक्तस्य प्रतिबिम्बरूपजीवान्तरत्वापत्तिरप्यकिञ्चित्करेति ।
ननु — नानाजीववादे यदि प्रतिबिम्बेश्वरपक्षे मुक्तस्येश्वरभावापत्तिर्न सम्भवति, अवच्छेदपक्षे च मुक्तिरेव न सम्भवति दूरे ईश्वरभावापत्तिः; तर्हि कस्मिन् पक्षे मुक्तस्येश्वरभावापत्तिरिष्यते, तत्राह —
प्रतिबिम्बो जीव इति ।
अस्मिन्नपि पक्षे सर्वेषां जीवानां मुक्त्यनन्तरं मुक्तस्य निर्विशेषशुद्धचैतन्यमात्ररूपेणैवावस्थानं, तदा सर्वेषामुपाधीनां निश्शेषं चिन्मात्रे विलीनत्वेन जीवेश्वरविभागाभावात् इत्याशयेनाह —
यावदिति ।
ननु — ततः पूर्वमपि बिम्बप्रतिबिम्बोभयानुस्यूतशुद्धचैतन्यरूपेणैवावस्थानमस्तु, तथासति निर्गुणविद्याफलभूताया मुक्तेः ऐकरूप्यप्रतिपादकस्य तृतीयाध्यायान्तिमाधिकरणस्य सामञ्जस्योपपत्तेः, इत्यत आह —
यथेति ।
तदानीमपीति ।
एकदर्पणापनयनकालेऽपीत्यर्थः ।
एकस्मिन्निति ।
एकस्मिन् प्रतिबिम्बरूपे जीवे विद्योदये सति तेनविद्योदयेन तस्य - विदुषः उपाधिलये सति, तत्प्रतिबिम्बस्य - मुक्तस्य प्रतिबिम्बजीवस्येत्यर्थः ।
ननु — मुक्तस्य निरुपाधिकत्वात् कथं तस्यैश्वर्यं सम्भवतीति शङ्कते —
न च मुक्तस्येति ।
परिहरति —
तदविद्येति ।
तस्य - मुक्तस्याविद्याभावेऽपीत्यर्थः । अत्र अविद्यानानात्वव्यवहारेणाविद्याप्रतिबिम्बा एव जीवाः, अन्तःकरणानि तु तेषां कर्तृत्वाद्युपाधयः - इति सूचितम् । तथा च मुक्तस्य आविद्यकमेवैश्वर्यं इत्युपगमात् परमार्थत एकरूपैव सदा मुक्तिरिति न तृतीयाध्यायान्तिमाधिकरणविरोध इति भावः । ननु — जीवस्य संसारित्वं यथा स्वाविद्याकृतं, तथा ईश्वरस्याप्यैश्वर्यं स्वोपाधिकृतमेव वाच्यम् ।
तथा च मुक्तस्य स्वोपाध्यभावान्नैश्वर्यं सम्भवति — इति शङ्कां निराकरोति —
न हीति ।
तत्र किं ईश्वरस्योपाधिः अविद्या, किं वा तदतिरिक्ता माया । नान्त्यः । अविद्यासु बिम्बभूतस्य चैतन्यस्य जीवाश्रिताविद्याभिरैश्वर्यसम्भवेन तदतिरिक्तमायोपाधिकल्पनावैयर्थ्यात्, तत्तज्जीवगततत्त्वज्ञानेन तत्तदविद्यानिवृत्तिरिति क्रमेण सर्वजीवमुक्त्यनन्तरमपि मायायाः निवर्तकाभावेन तदाऽपि मायावशेषप्रसङ्गाच्च, अविद्यानामपि बिम्बभूतेश्वरसंबन्धित्वसत्त्वेन ईश्वरस्य तासु विक्षेपशक्तिप्राधान्येन ‘मम माया’ इत्यादिनिर्देशोपपत्तेश्च, बन्धमुक्तिप्रतिपादकशास्त्रानुसारिभिः ‘इन्द्रो मायाभिः पुरुरूपः [बृ.उ.२-५-१९] यो योनिंयोनिं [श्वे.उ.४-११] इत्यादिश्रुतिवाक्यैः अविद्यानानात्वसिद्धौ ‘मायाम्’ इत्याद्येकवचनस्य जात्यभिप्रायत्वोपपत्तेश्च ।
(तस्मान्नान्त्यः कल्पस्सम्भवति ।) नाद्य इत्याह —
स्वाविद्याकृतमिति ।
स्वाश्रिताविद्याकृतमित्यर्थः ।
बद्धपुरुषेति ।
अविद्यानां जीवाश्रितत्वं च प्रथमपरिच्छेदे निरूपितमस्माभिरिति नात्र निरूप्यते ।
निरञ्जनत्वादिति ।
दोषानाश्रयत्वादित्यर्थः ।
ननु — निर्गुणब्रह्मविद्याफलभूतायां मुक्तावपि ईश्वरसायुज्याभ्युपगमे सगुणविद्याफलादविशेषापत्त्या सगुणनिर्गुणविद्ययोः फलतो भेदो न स्यात् इत्याशङ्कां निराकरोति —
न चेत्यादिना ।
यादृग्गुणकब्रह्मध्यानवान् अस्मिन् लोके भवति, तादृशं ब्रह्म देहपातानन्तरं प्राप्नोति इति ‘यथाक्रतुः’ इतिश्रुत्यर्थः । तं ईश्वरं यथायथा-येनयेन गुणजातेन विशिष्टं उपासते तादृशमेव तं प्राप्नुवन्तीत्यर्थः । सगुणोपासकं प्रकृत्य श्रुतं ‘आप्नोति स्वाराज्यं’ [तै.उ. १-६-२] इत्यादिश्रुतिवाक्यं आदिशब्दार्थः ।
अविशेषापत्तिरिति ।
तथा च सगुणोपासकानां ब्रह्मलोकं गतानां निर्गुणविद्याश्रयणं व्यर्थं स्यादिति भावः ।
लमेदं दर्शयति —
सगुणेत्यादिना ।
जगदिति ।
सकलजगत्सृष्टिस्थितिसंहारकर्तृत्वलक्षणव्यापारव्यतिरिक्तं स्वभोगोपयुक्तभोग्यभोगोपकरणमात्रसृष्टिसामर्थ्यरूपमेवैश्वर्यमुपासकानां भवितुमर्हति, न तु सकलजगद्व्यापारः । स तु नित्यसिद्धस्य परमात्मन एव । कुतः । ‘आत्मन आकाशस्सम्भूतः’ [तै.उ. २-१] इत्यादिसृष्टिवाक्येषु परमात्मन एव प्रकृतत्वात् उपासकानामसन्निहितत्वाच्च ।
इतश्च सगुणोपासकानां न निरङ्कुशमैश्वर्यमित्याह —
भोगेति ।
उपासकानां नित्यसिद्धेन परमेश्वरेण हिरण्यगर्भमाविश्य भोगान् भुञ्जानेन भोगमात्रे साम्यगमकस्य सत्त्वादित्यर्थः ।
तथा च श्रुतिः —
x‘तमाह आपो वै खलु मीयन्ते लोकोऽसौ’ [कौ.उ. १-६] इति ।
तं - उपासकं स्वसमीपमागतं प्रत्याह हिरण्यगर्भः ‘मया खल्वापोऽमृतलक्षणा भुज्यन्ते, तवाप्यसावब्लक्षणपदार्थो लोको - भोग्यः’ इति श्रुत्यर्थः ।
ननु, ‘सङ्कल्पादेव तु तच्छ्रुतेः’ [ब्र.सू. ४-४-८] इति सूत्रेण तेषामीश्वरवत् सत्यसङ्कल्पत्वव्यवस्थापनात् कथं गजद्व्यापाराभावः, इत्यत आह —
सङ्कल्पमात्रादिति ।
‘यं यं कामं पित्रादिरूपं कामयते, स स कामस्सङ्कल्पादेव समुत्तिष्ठति’ इति भोग्यादिपदार्थानामेव श्रुतौ सङ्कल्पमात्रसिद्धत्वप्रतिपादनात् तावन्मात्रविषयमेवोपासकानां सत्यसङ्कल्पत्वमिति सूत्रतात्पर्यान्न तद्विरोध इति भावः ।
निस्सन्धिबन्धमिति ।
सर्वात्मनेत्यर्थः ।
तत्सर्वमिति ।
अविद्यानिवृत्त्यादिकं पूर्वोक्तं सर्वमित्यर्थः ।
परममुक्तस्य ईश्वरभावापत्तौ बाधकमाशङ्क्य निराकरोति —
न चेत्यादिना ।
परमेश्वरस्येति ।
श्रीमहाविष्णोरित्यर्थः । श्रीकृष्णाद्यवतार आदिशब्दार्थः ।
तमस्वित्वेति ।
‘आत्मानं मानुषं मन्ये रामं दशरथात्मजम्’ [वाल्मीकिरामायणम् ६-१२०] इत्यादिश्रीरामवाक्यैरेव स्वकीयविष्णुत्वलक्ष्मीभर्तृत्वादिविषये अज्ञानावगमात् । ‘राज्यनाशो वने वासस्सीता नष्टा द्विजो हतः । ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम् ॥’ [वाल्मीकिरामायणम् ३-६७] ‘न मद्विधो दुष्कृतकर्मकारी’ इत्यादिभिः श्रीरामवाक्यैरेवात्यन्तदुःखित्वप्रतीतेश्च इत्यर्थः । ‘सुग्रीवं शरणं गतः’ [वाल्मीकिरामायणम् ४-४] इत्यादिवाक्यावगतदैन्यादिकमादिपदार्थः । तस्य कथंचिदभिनयमात्रपरत्वादिति सम्बन्धः । तस्येत्यस्य तमस्वित्वादिश्रवणस्येत्यर्थः । कथञ्चिदित्यस्य स्वेच्छयेत्यर्थः । विप्रशापामोघत्वादिरूपा या स्वेन-परमेश्वरेण कृता मर्यादा व्यवस्था तत्परिपालनायेत्यर्थः । सर्वज्ञस्यापि श्रीरामस्य महादेवब्रह्मेन्द्रादिदेवानां सन्निधौ ‘आत्मानं मानुषं मन्ये’ इत्यादिवचनेन ‘देवानां सन्निधौ मनुष्येण विनय एव कर्तव्यः, न तु प्रागल्भ्यं कर्तव्यम्, तथासति मनुष्यस्यानर्थो भवेत्’ इति या परमेश्वरकृता मर्यादा, सा श्रीरामेण परिपालिता । एवमन्या अपि मनुष्याणां हितार्थाय गुरुशिष्यसम्प्रदायादिलक्षणा मर्यादाः परमेश्वरेण कृताः, तास्सर्वा अपि तदातदा श्रीरामकृष्णाद्यैः लोकहितार्थायानुष्ठिताः, तासां सङ्ग्रहार्थमादिपदम् ।
भृग्विति ।
भृगुशापस्य स्वयं तच्छापाङ्गीकारस्य च सत्यत्वं मनुष्यलोके प्रकाशयितुमित्यर्थः । तत्प्रकाशनफलं च श्रेयोऽर्थिनां विप्रशापादिभ्योऽतिभीत्या निवृत्तिद्वारा श्रेयःप्राप्तिरेव । भृगुशापादिकं च वाल्मीकीये उत्तररामायणे [७-५१] व्यक्तम् । तथा हि वसिष्ठसन्निधौ दशरथं प्रति दुर्वासाः --- शृणु राजन् पुरावृत्तं पुरा देवासुरे युधि । दैत्यास्सुरैर्हन्यमानाः भृगुपत्नीमुपाश्रिताः । तया दत्ताभयास्तत्र न्यवसन् निर्भयास्तदा । तया परिगृहीतांस्तान् दृष्ट्वा क्रुद्धस्सुरोत्तमः । चक्रेण शितधारेण भृगुपत्न्याशिशरोऽहरत् । ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः । शशाप सहसा क्रुद्धो विष्णुं रिपुबलार्दनम्’ । सहसा-विष्णोर्जगदीश्वरस्य शापानभिभाव्यत्वमविचार्येत्यर्थः । यस्मादवध्यां मे भार्यामवधीः क्रोधमूर्छितः । तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन । तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् । एवं शापं भृगुर्दत्वा विष्णोर्देवस्य विव्यथे । विष्णुशक्तिमविद्वान् सन् प्रपेदे शापमूढताम् । विष्णुशक्तिमविद्वान् सन् विष्णोश्शापं दत्वा पश्चाद्विष्णुशक्तिप्रतिहतं शापं स्वात्मानं प्रति पुनः प्राप्तं ज्ञात्वा व्यथां-भीतिं प्राप्तवान्, व्यथितश्च शापेन मूढतां विसंज्ञतां प्राप्त इत्यर्थः । ‘चिरकालमसंज्ञोऽभूच्छापान्धतमसावृतः दृष्ट्वा सप्तर्षयश्चैनं कृपां चक्रुश्च भक्तिभिः ॥’ एनं चिरकालं शापान्धतमसावृतं भृगुं दृष्ट्वा पूर्वं सप्तर्षिषु भृगुणा कृताभिर्भक्तिभिः-पूजाभिः तस्मिन् ते ऋषयः कृपां चक्रुः । शापं च कृपया भृगोस्सकाशान्निस्सारितवन्त इत्यर्थः । ‘स च शापः पुरस्तस्थौ मन्दं भृगुरथाब्रवीत् । रक्षध्वं मामृषिश्रेष्ठाःशापान्मत्पुरतस्स्थितात् । श्रुत्वा तु भृगुवाक्यं तमाहुश्च परमर्षयः । स्तुत्यैर्ब्रह्मेशशक्राद्यैस्स्तूयमानमहर्निशम् ।’
स्तुत्यैरिति ।
अस्माभिस्स्तुत्यैरपीत्यर्थः । ‘नारायणं प्रपद्यस्व स्तोत्रैरेव च सुव्रत ।’ नारायणमेव प्रपद्यस्व, नान्यश्शक्तस्त्वां मोक्षयितुमित्यर्थः । ‘भृगुणाऽराधितो विष्णुरागतस्त्वरितं भृगुम् ।’ कृतापराधमपि भृगुं भक्तवात्सल्यात् त्वरया आगत इत्यर्थः । ‘माभैर्भृगोऽनृतं वाक्यं नाभविष्यत् द्विजस्य ते ।’ अनृतं न भविष्यतीत्यर्थः । ‘सम्मोचयित्वा शापात्त्वामहमेनं गृहीतवान् ।’ अङ्गीकृतवानित्यर्थः । ‘अर्चयामास तं देवं भृगुश्शापेन पीडितः । ततोऽब्रवीद्देवदेवः प्रीतिमान् भक्तवत्सलः । लोकानां तु हितार्थाय शापं तं ग्राह्यमुक्तवान् ।’ तव च हितार्थायेति तुशब्दार्थः । ‘इति शप्तो महातेजाः भृगुणा पूर्वजन्मनि । इहागतस्स पुत्रत्वं तव पार्थिवसत्तम । राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ॥’ इति । अहर्निशं ब्रह्मेशादिस्तुत्यत्वदेवदेवत्वादिप्रतिपादकरामायणवचनैरेव श्रीमहाविष्णोर्लोकहितार्थाय श्रीरामरूपेणावतीर्णस्य तमस्त्विदिश्रवणमभिनयमात्रपरमिति (???) भावः ।
अन्यथेति ।
तस्याभिनयमात्रपरत्वानङ्गीकार इत्यर्थः ।
तस्येति ।
‘नारायणात् ब्रह्मा जायते’ [ना.उ.१] ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थितः’ [म.ना.उ. ९-५] इत्यादिश्रुतिसहस्रसिद्धेश्वर[त्व]स्येत्यर्थः । ‘एष त आत्मान्तर्याम्यमृतः’ [बृ.उ.३-७-३] ‘एष सर्वेश्वरः’ [बृ.उ. ४-४-२१] ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ [श्वे.उ. ६-८] ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’ [क.उ. ३-९] इत्यादिश्रुतिषु नारायणस्य नित्यमुक्तत्वसर्वेश्वरत्वसमाभ्यधिकरहितत्वमुक्तप्राप्यत्वादिश्रवणेन तद्विरोधप्रसङ्गादित्यर्थः ।
तस्मादिति ।
मुक्तस्येश्वरभावापत्तौ बाधकाभावादित्यर्थः ।
ननु, बाधकाभावेऽपि साधकमानं विना कथमीश्वरभावापत्तिस्तस्य सिद्ध्यतीत्याशङ्क्य तत्र मानमाह —
अयमेवेति ।
अस्मिन् ब्रह्मणः - परमात्मनः उपलब्धिस्थानभूते पुरे - शरीरे यदिदं दहरं-अल्पं पुण्डरीकमस्ति वेश्माकारम्, अस्मिन् पुण्डरीकेऽन्तर्दहर आकाशो यः श्रुतःस भूताकाशो वा, जीवो वा, परमेश्वरो वा’ इति संशये रूढिबलात् भूताकाश इत्येकः पूर्वः पक्षः, आकाशविशेषणदहरत्वलिङ्गादल्पोपाधिपरिच्छिन्नो जीव इति द्वितीयः पूर्वः पक्षः ।
पक्षद्वयनिषेधपूर्वकं सिद्धान्तं वदन् सूत्रं व्याचष्टे —
न भूताकाश इत्यादिना ।
वाक्यशेषमेव खण्डश उदाहरति —
उभे इति ।
अस्मिन् - प्रकृते दहराकाशे समाहिते-स्थिते । अयमाकाशः-भूताकाशः । एतच्छब्दाभ्यां दहराकाशो निर्दिष्टः । जिघत्सा - भक्षणेच्छा तद्रहितः, पिपासारहितश्च । अत्र भूताकाशे भूताकाशोपमितत्वसत्यकामत्वादयो गुणा न सम्भवन्तीति तन्निरासः । परिच्छिन्ने जीवे आकाशोपमितत्वद्यावापृथिव्यादिजगदाधारत्वापहतपाप्मत्वादयो गुणा न सम्भवन्तीति जीवनिरासः । उक्तहेतूनां परमेश्वरे सम्भवात् आकाशशब्दस्य तत्र निरूढत्वाच्च स एव दहराकाशः । तस्य दहरत्वं तु न स्वाभाविकं, किं तूपासनार्थं कल्पितं-अणीयस्त्वादिवत् इति निर्णयः । ‘सूत्रान्तरेण जीवेऽप्यपहतपाप्मत्वादिगुणाष्टकमस्तीति तद्गुणाष्टकं निर्णायकं न भवति’ इत्याशङ्क्य समादधानः सूत्रकारो मुक्तस्येश्वरभावापत्तिमाहेति सम्बन्धः । ‘जीवेऽपि गुणाष्टकमस्ति’ इत्यत्र ‘गुणाष्टकयुक्तमात्मानमुपदेश्यमुपक्षिप्य जीवस्योपदेशात्’ इति हेतुः ।
गुणाष्टकयुक्तमात्मानमुपदेश्यत्वेनोपक्रम्य प्रजापतिना जीव उपदिष्ट इति कथमवगम्यत इत्यत आह —
य एषोऽक्षिणीत्यादिना ।
प्रजापतिना हि पर्यायचतुष्टयेनात्मा इन्द्रं प्रत्युपदिष्टः ।
तत्र प्रथमपर्यायवाक्यं —
x‘य एषोऽक्षिणि’ इति ।
पुरुषो जीवः । अक्षिग्रहणं सर्वेन्द्रियोपलक्षणार्थम् । ‘चक्षुरादिषु रूपाद्युपलब्धिक्रियां कुर्वत्सु सत्सु यः पुरुषो दृश्यते रूपाद्युपलब्धिक्रियाकर्तृत्वेनानुमीयते, एषः युवाभ्यां पृष्ट आत्मा’ इतीन्द्रविरोचनौ प्रति प्रजापतेरुपदेशः ।
तत्राक्षिग्रहणेन जाग्रदवस्थावान् जीव इह विवक्षित इति प्रतीयते, अवस्थान्तरेष्विन्द्रियव्यापाराभावादिति मत्वा प्रथमपर्यायवाक्यस्य तात्पर्यमाह —
जाग्रदवस्थायामिति ।
द्रष्टृत्वेनेति ।
इन्द्रियैः रूपादिद्रष्टृत्वेनेत्यर्थः । अक्षिसन्निहितस्य स्वप्नावस्थापन्नस्य सुषुप्त्यवस्थापन्नस्य अवस्थात्रयोत्तीर्णस्य च जीवस्योपदेशात् इति सम्बन्धः ।
द्वितीयपर्यायवाक्यमुदाहरति —
य एष स्वप्न इति ।
महीयमानः - वनितादिभिः पूज्यमान इत्यर्थः । चरति - विषयान्वासनामयाननुभवति यः, एषः इन्द्रेण त्वया पृष्ट आत्मा इत्यर्थः ।
तृतीयपर्यायवाक्यमुदाहरति —
तद्यत्रैतदिति ।
यत्र-यस्मिन् काले एतत्-एष जीवः सुप्तः-स्वापं प्राप्तः समस्तः-सम्यग्विलीकरणग्रामः सम्प्रसन्नः-स्वरूपानन्दानुभववान् स्वप्नमपि न विजानाति, एष एव त्वया पृष्ट आत्मा इत्यर्थः ।
चतुर्थपर्यायवाक्यमुदाहरति —
एष सम्प्रसाद - इति ।
सम्यक् प्रसीदत्यस्मिन् जीव इति व्युत्पत्त्या सम्प्रसादशब्दस्सुषुप्तस्थानवाचकस्सन् सुषुप्त्यवस्थोपलक्षितं जीवमुपलक्षयति । शरीरादुत्क्रम्य परं-उत्कृष्टं ज्योतिः आदित्यं उपसम्पद्य आदित्योपलक्षितं देवयानमार्गं प्राप्य स्वेन स्वकीयेनोपासनाफलभूतैश्वर्यविशिष्टेन रूपेण अभिनिष्पद्यते । ब्रह्मलोकं गत उपासकः स उत्तमः पुरुषः - उपक्रान्तापहतपाप्मत्वादिगुणक इति पूर्वपक्षरीत्या चतुर्थपर्यायवाक्यार्थो द्रष्टव्यः । ननु, प्रजापतिवाक्ये पर्यायचतुष्टयस्य जाग्रदाद्यवस्थापन्नजीवविषयकत्वमनुपपन्नम् । प्रथमपर्याये जाग्रदवस्थावाचिपदाभावेन तस्य जाग्रज्जीवविषयकत्वस्यास्फुटत्वात् ।
तथा च प्रथमपर्याये इन्द्रविरोचनाभ्यां पृष्टोऽपहतपाप्मत्वादिगुणक आत्मैव निर्दिष्टः, स च ब्रह्मैवेति प्रजापतिवाक्येऽपि ब्रह्मण एव गुणाष्टकमुपदिष्टं न जीवस्य इति चोद्यस्यात्र नावकाश इत्याह —
य एष स्वप्न इत्यादिपर्यायेष्विति ।
(स्फुटेति ।) स्फुटानि स्वप्नस्वापशरीरात्समुत्थानरूपाणि जीवलिङ्गानि येषु पर्यायेषु, तेषामेव जीवविषयत्वम्, तेषां ब्रह्मविषयकत्वचोद्यानवकाशात्; प्रथमपर्यायस्य त्वस्फुटजीवलिङ्गस्य ब्रह्मविषयकत्वमिति चोद्यं सावकाशं इति भ्रमो न कर्तव्य इत्यत्र हेतुमाह —
प्रतिपर्यायमिति ।
द्वितीयपर्यायादौ ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ इति श्रवणेन प्रथमपर्यायस्य ब्रह्मविषयत्वासम्भवादित्यर्थः । एतदुक्तं भवति — द्वितीयादिपर्यायत्रयस्य जीवविषयत्वं तावत् सम्प्रतिपन्नम् । प्रथमपर्यायस्यापि जीवविषयत्वं वक्तव्यम् । प्रथमपर्यायनिर्दिष्टस्यैव ‘एतम्’ इति सर्वनाम्ना आकृष्यमाणत्वात् अर्थभेदे तदयोगादिति । एतेन-प्रथमपर्यायस्य चक्षुर्गोलकस्थप्रतिबिम्बविषयत्वमेव तस्याक्षिणि दृश्यत इति दृश्यमानत्वसम्भवादिति चोद्यमपि निरस्तम् । द्वितीयपर्यायगतैतत्पदेन प्रथमपर्यायनिर्दिष्टं पुरुषमाकृष्य तस्योत्तरत्र स्वप्नजीवरूपत्वोपदेशात्; प्रथमपर्याय एवाक्षिणि निर्दिष्टस्य पुरुषस्यामृतत्वाभयत्वब्रह्मत्वसङ्गीर्तनाच्च । न च प्रतिबिम्बे तत् सम्भवति । न च जीवस्यापि तदसम्भव इति वाच्यम् । जाग्रदाद्यवस्थासु अमृतत्वादेरसम्भवेऽप्यवस्थात्रयोत्तीर्णस्य तस्य प्रजापतिवाक्यप्रामाण्यात् तत्सम्भवात् इति पूर्वपक्ष्याशयः ।
एवं ‘उत्तराच्चेत्’ इति सौत्रशङ्काभागं व्याख्याय ‘आविर्भूतस्वरूपस्तु’ इति सिद्धान्तभागं व्याचष्टे —
तत्रेति ।
पर्यायचतुष्टयमध्य इत्यर्थः ।
सकलेति ।
तत्त्वसाक्षात्कारेणाविद्यानिवृत्तौ सत्यां तन्मूलकसकलबन्धविनिर्मुक्त्या आविर्भूतं अमृताभयब्रह्मलक्षणं स्वरूपमस्य इत्याविभूतस्वरूपो जीवः प्रतिपाद्यत इत्यर्थः । ननु-चतुर्थपर्यायेऽपि पूर्वपर्यायेष्विव संसार्यात्मैव कुतो न निरूप्यते ।
तत्पर्यायेऽपि ‘शरीरात् समुत्थाय’ इति शरीरावधिकोत्क्रान्त्यवस्थाविशेषविशिष्टस्य संसारिण एव स्पष्टं प्रतीतेः-इत्याशङ्कां सौत्रावधारणार्थकतुशब्दव्याख्यानेन परिहरति —
न त्विति ।
तत्रेति ।
संसारिणीत्यर्थः । तथा च चतुर्थपर्यायेऽपि संसारिण एव निरूपणे इन्द्रेण पृष्टस्यापहतपाप्मत्वादिगुणकस्य प्रजापतिना अनुपदिष्टत्वात् प्रजापतिवाक्यं प्रतिवचनमेव न स्यात् । अतश्चतुर्थपर्यायो गुणाष्टकयोग्यमुक्तजीवविषय एवेत्यर्थः । न च - पूर्वपक्षोक्तरीत्या सगुणविद्यया ब्रह्मलोकं गतस्य अपहतपाप्मत्वादिगुणाष्टकसम्भवात्-आत्यन्तिकमुक्तविषयत्वं चतुर्थपर्यायस्य न वक्तव्यम् । तथा च संसारिविषयत्वमेवास्यापि पर्यायस्येति-वाच्यम् । सगुणविद्याफलभूतस्यापि तस्याविद्यानिवृत्त्यादेरभावेन निरङ्कुशापहतपाप्मत्वादेरसम्भवात्, प्रजापतिवाक्यस्य निर्गुणब्रह्मपरत्वस्य समन्वयाध्याय एव सप्रपञ्चं निरूपितत्वाच्च न तद्विद उत्क्रान्त्यादिसम्भव इति भावः । तथाचोक्ततात्पर्यानुरोधेन चतुर्थपर्यायस्यायमर्थः — शरीरात् समुत्थानं-शरीरत्रयविलक्षणस्य त्वंपदलक्ष्यस्य निर्णयः, परं ज्योतिः-ब्रह्म, तदुपसम्पत्तिः-तत्साक्षात्कारः, तत्फलं मुक्तिः-स्वस्वरूपाविर्भावः स्वेन रूपेणाभिनिष्पत्तिः । स च मुक्तः उत्तमः पुरुषः -
परमात्मैवेति ।
ननुः चतुर्थपर्यायस्यैव पृष्टगुणाष्टकयुक्तात्मनिरूपणपरत्वे पूर्वपर्यायाणामवस्थात्रयोपन्यासरूपाणां वैयर्थ्यं स्यादिति, नेत्याह —
अवस्थात्रयोपन्यासस्येति ।
जाग्रदवस्थायामन्धत्वविनाशित्वादिदोषाभिधानेन स्वप्नावस्थायां रोदनादिदोषाभिधानेन सुषुप्त्यवस्थायां स्वपरज्ञानाभावविनष्टप्रायत्वादिदोषाभिधानेन चावस्थात्रयकलुषितस्य जैवरूपस्य लोकसिद्धस्य हेयत्वज्ञापनद्वारा तज्जिहासोरधिकारिणो वास्तवब्रह्मस्वरूपनिरूपणार्थं चतुर्थपर्यायप्रवृत्तिरित्यवगमात् पूर्वपर्यायाणां चतुर्थपर्यायशेषत्वं प्रतीयते । अतो न तेषां वैयर्थ्यमित्यर्थः ।
समादधान इति ।
अपहतपाप्मत्वादिगुणाष्टकं दहराकाशस्य ईश्वरत्वनिर्णायकं न भवति । प्रजापतिवाक्यात् जीवेऽपि गुणाष्टकसत्त्वेन तस्य व्यभिचारित्वात्, इत्याशङ्क्य-प्रजापतिवाक्ये मुक्तजीव एव गुणाष्टकयुक्तः प्रतिपाद्यते, न तु बद्धजीवः । ततो न गुणाष्टकस्य परमेश्वरादन्यत्र सत्त्वम् । येन तस्यान्यत्रापि सत्त्वेन व्यभिचारितया निर्णायकत्वं न स्यात् इति समादधान इत्यर्थः ।
ननु ‘तत्र सत्यसङ्कल्पत्वादिगुणबाधात्’ इति पूर्वग्रन्थेन चतुर्थपर्याये गुणाष्टकयुक्तो मुक्तजीवः प्रतिपाद्यत इति सूत्रतात्पर्यं वर्णितम्, तावता मुक्तस्येश्वरभावापत्तिः कथं सूत्रकारेणोक्ता, तत्राह —
तदभाव इति ।
मुक्तस्येश्वरभावापत्त्यभावे बद्धजीव इव मुक्तजीवेऽपि निरस्तोपाधिके सत्यसङ्कल्पत्वादिगुणायोगात् गुणाष्टकयुक्तस्यात्मनो निरूपणं प्रजापतिवाक्ये न स्यात् । अतो मुक्तजीवस्य गुणाष्टकयुक्तत्वमीश्वरभावापत्त्यैवेति सूत्रकारस्य तात्पर्यं निश्चीयत इत्यर्थः ।
ननु जीवेश्वरयोर्वस्तुत एव भिन्नत्वान्मुक्तस्य नेश्वरभावापत्त्या गुणाष्टकयोगः किं तु स्वत एवेत्याशङ्कां निराकरोति —
अनुक्रान्तस्येति ।
उपक्रमे श्रुतस्येत्यर्थः ।
कृतेति ।
गुणाष्टकस्य जीवसाधारणत्वेन ईश्वरासाधारणत्वाभावात् न ईश्वरलिङ्गत्वं गुणाष्टकस्य-इति या शङ्का ‘उत्तराच्चेत्’ इति सूत्रभागेन कृता, तस्याश्शङ्कायाः गुणाष्टकयुक्तस्य मुक्तस्य वस्तुगत्या ईश्वरात् भिन्नत्वपक्षे परिहारो न लभ्यते । तथा च सूत्रविरोधात् न मुक्तस्येश्वरात् भेदेनावस्थानमिति भावः ।
तस्मिन्निति ।
‘उत्तराच्चेदाविर्भूतस्वरूपस्तु’ इत्यस्मिन्नित्यर्थः ।
तस्मादिति ।
जीवब्रह्माभेदस्य वास्तवत्वादित्यर्थः । ‘तस्मात्’ इत्यनन्तरं ‘यत्’ इति पदमध्याहर्तव्यम् । विद्यया तद्विलयनेनाविद्यकसंसारनिवृत्तिद्वारा संसारविलक्षणं रूपं प्रतिपद्यत इत्यर्थः । ननु - अत्र मुक्तस्येश्वरभावापत्तौ किं ‘उत्तराच्चेत्’ इति सूत्रभागकृतशङ्कापरिहारालाभप्रसङ्गो नियामकत्वेनाभिमतः, किं वा प्रजापतिवाक्यमेव मुक्तस्येश्वरभावापत्तौ नियामकत्वेनाभिमतम् । नाद्यः । मुक्तस्य बिम्बभूतेश्वरभावापत्तिं विना केवलचिन्मात्ररूपेणैवावस्थानाभ्युपगमे गुणाष्टकस्य बिम्बभूतेश्वरादन्यत्राभावेन तस्य तदसाधारणस्य दहराकाशे ईश्वरत्वनिर्णायकत्वसम्भवात् । न द्वितीयः । निर्गुणविद्याप्रकरणरूपे प्रजापतिवाक्ये गुणानामविवक्षितत्वेन मुक्तजीवेऽपि गुणाष्टकवैशिष्ट्यस्याप्रतिपाद्यत्वात् । ज्ञेयब्रह्मप्रकरणे गुणवैशिष्ट्यस्याप्रतिपाद्यत्वं आनन्दमयाधिकरणारम्भभाष्ये स्पष्टमभिहितम् ।
तथा च भाष्यम् —
x‘एकमपि ब्रह्मापेक्षितोपाधिसम्बन्धं निरस्तोपाधिसम्बन्धं चोपास्यत्वेन ज्ञेयत्वेन च वेदान्तेषूपदिश्यते’ [ब्र.सू.भा. १-१-६/१२] इति ।
अत्र भाष्ये वेदान्तेषु निरस्तोपाधिसम्बन्धं ब्रह्म ज्ञेयत्वेनोपदिश्यत इत्युक्त्या ज्ञेयब्रह्मप्रकरणेषु गुणवैशिष्ट्यस्याप्रतिपाद्यत्वं स्पष्टं प्रतीयते । अत एव सिद्धान्ते ज्ञेयब्रह्मपराणां वेदान्तानां संसर्गागोचरप्रमितिजनकत्वरूपमखण्डार्थत्वमिष्यते । तस्मात् प्रजापतिवाक्योपक्रमे श्रुतं सत्यसङ्कल्पत्वादिकं बृहदारण्यकषष्ठाध्यायगतसर्वेश्वरत्वादिगुणजातवत् ज्ञेयब्रह्मप्रशंसापरम्, उपलक्षणमात्रं वा, न तु दहरविद्यागतगुणाष्टकवत् प्रतिपाद्यम् । ‘तद्विपरीतं अपहतपाप्मत्वादिगुणकं पारमेश्वरं रूपं विद्यया प्रतिपद्यते’ इति भाष्यमपि गुणाष्टकोपलक्षितं ब्रह्म प्रतिपद्यत इति योजनीयम् ।
अतो मुक्तस्येश्वरभावापत्तौ नोदाहृतश्रुतिसूत्रभाष्याणि प्रमाणं भवितुमर्हन्ति इत्यस्वरसादाह —
अविरोधाध्यायेऽपीति ।
वेदान्तसमन्वयस्य प्रथमाध्याये निरूपितस्य मानान्तरविरोधसमाधानप्रतिपादके द्वितीयाध्यायेऽपीत्यर्थः । अविरोधाध्यायेऽपि समाहितेन शङ्काग्रन्थेन भाष्यकारो मुक्तस्येश्वरभावापत्तिं स्पष्टीचकार - इति सम्बन्धः । उन्निनीषते - उत्कृष्टं लोकं नेतुमिच्छतीति यावत् । कर्मकर्ता जीव उपकार्यः, कर्मकारयिता ईश्वर उपकारकः, तयोः श्रुत्यवगतोपकार्योपकारकभावबलात् सामान्यतः कश्चित् सम्बन्धोऽवगतः, सम्बन्धं विना लोके तद्भावादर्शनात् । स च सम्बन्धः क इति विशेषाकाङ्क्षायां तयोरंशांशिभावस्सम्बन्ध इति निरूपणार्थत्वेनेत्यर्थः । जीव ईश्वरस्यांशः । कुतः । नानात्वस्य - भेदस्य व्यपदेशादिति सूत्रभागाक्षरार्थः ।
भाष्यं पठति —
जीवस्येत्यादिना ।
ईश्वरस्य स्वांशभूतसकलजीवगतदुःखभाक्त्वे को दोषः ? तत्राह —
ततश्चेति ।
तत्पदमीश्वरपरम् ।
तत इति ।
ईश्वरप्राप्तेस्सकाशात् पूर्वावस्थितसंसाराङ्गीकरणमेव वरमिति बुद्ध्या ईश्वरप्राप्त्युपाये सम्यग्ज्ञाने कोऽपि न प्रवर्तेत, ततश्च ज्ञानशास्त्रमप्रमाणं स्यादित्यर्थः । अस्याश्शङ्कायाः परिहारग्रन्थरूपयोः सूत्रभाष्ययोः अभिप्रेतो जीवपरमेश्वरयोरंशांशिनोः परस्परं धर्मासङ्करो भामत्यादिग्रन्थेषु स्पष्टीकृतः । कथं ? जीवास्तावदविद्याप्रतिबिम्बभूता ईश्वरांशत्वेन श्रुतिसूत्रभाष्येषु विवक्षिताः, न तु हस्तपादादिवदवयवाः । तथा बिम्बभूतेश्वरोंऽशित्वेन विवक्षितः, न त्ववयवी । बिम्बप्रतिबिम्बयोश्च लोके धर्मासाङ्कर्यं प्रसिद्धम् । अतो न जीवगतानां दुःखानामीश्वरे प्रसक्तिरिति ।
स्पष्टीचकारेति ।
ननु मुक्तस्य ईश्वरभावापत्तिर्न सिद्धान्तसम्मता । तथा हि — यावत्सर्वमुक्ति ईश्वरभावापत्तिर्मुक्तस्येति स्वीकारे हि चरमं मुच्यमानस्य निर्विशेषचिन्मात्रस्वरूपेणैवावस्थानलक्षणा मुक्तिः, ततः प्राङ्मुच्यमानानां तु स्वतश्चिन्मात्ररूपेणावस्थितानामीश्वरभावापत्त्या निरवग्रहैश्वर्यप्राप्तिरूपा मुक्तिः, इति परममुक्तौ बहूनामैश्वर्यप्राप्तिः एकस्य तत् नास्तीत्येकं वैषम्यं, बहूनामैश्वर्यप्राप्तावपि क्रमेण मुच्यमानानां चिराचिरकालैश्वर्यलक्षणमपरं तारतम्यं, तेषामेव किञ्चित्कालमैश्वर्यं पश्चात्तदभाव इत्यादिरूपं तारतम्यं कल्पितं स्यात् । तच्च तृतीयाध्यायान्तिमाधिकरणविरुद्धम् । तत्र हि सगुणविद्याफलभूतायामवान्तरमुक्तावेव तारतम्यं न तु परममुक्ताविति व्यवस्थापितम् । न च - तदधिकरणस्य परममुक्तौ वस्तुतस्तारतम्यं नास्तीति प्रतिपादने तात्पर्यम्, तथा च काल्पनिकतारतम्ये सत्यपि न तदधिकरणविरोध इति - वाच्यम् । सिद्धान्ते सगुणविद्याफलभूतावान्तरमुक्तावपि वास्तवतारतम्याभावेन ‘सगुणमुक्तावेव तारतम्यं न निर्गुणविद्याफलभूतायां परममुक्तौ’ इति व्यवस्थापनपरस्य भाष्यादेर्निरालम्बनत्वापत्तेः । अतो मुक्तस्येश्वरभावापत्तिर्न सिद्धान्तसम्मता । एवंस्थिते प्रकृते किं शङ्काभाष्यपर्यालोचनया ईश्वरभावापत्तिर्भाष्यकाराभिमतेति कल्प्यते, किं वा परिहारभाष्याभिप्रायालोचनया तथा कल्प्यते ? नाद्यः । शङ्केन सिद्धान्त्यनभिमतामीश्वरभावापत्तिमापाद्य चोद्यकरणोपपत्तेः । न हि सर्वत्र सिद्धान्त्यभिमतमेवार्थमवलम्ब्य पूर्वपक्षिणा सिद्धान्तिनं प्रत्यनिष्टमाशङ्क्यत इति नियमो दृश्यते ।
द्वितीयकल्पस्य हीत्थमुत्थितिः —
x‘ईश्वरभावं प्राप्तानां महत्तरं दुःखं स्यात्’ इति शङ्काया द्वेधा परिहारस्सम्भवति ।
ईश्वरस्य सकलजीवदुःखैः दुःखित्वेऽपि न मुक्तानां महत्तरदुःखप्राप्तिः, तेषां शुद्धचिन्मात्ररूपेणैवावस्थानाभ्युपगमेनेश्वरभावापत्तेरनभ्युपगमात् - इत्येकः प्रकारः । ईश्वरस्य दुःखाभावे समर्थिते सति तं प्राप्तानां मुक्तानां दुःखं स्यादिति शङ्का अर्थात्परिहृता भवतीत्याशयेन बिम्बप्रतिबिम्बभावकृतभेदाधीनधर्मव्यवस्थासमर्थनं द्वितीयः प्रकारः । तत्र परिहारभाष्यभामत्यादिनिबन्धनेषु प्रथमप्रकारं विहाय द्वितीयप्रकारस्यैवावलम्बनात् शङ्काग्रन्थोक्ता मुक्तानामीश्वरभावापत्तिः भाष्यकाराद्यनुमतेति प्रतीयते । अनेनैवाभिप्रायेण ‘भामत्यादिस्पष्टीकृतबिम्बप्रतिबिम्बभावकृतासङ्करमुपादाय समाहितेन’ इत्युक्तमिति ।
एवमुत्थितः परिहारभाष्यपर्यालोचनारूपो द्वितीयप्रकारोऽपि मुक्तस्येश्वरभावापत्तावनन्यथासिद्धहेतुर्न भवति ।
परिहारभाष्यादौ प्रथमप्रकारमवलम्ब्य ‘मुक्तानामीश्वरभावापत्तिर्नास्ति । तेषां शुद्धचिन्मात्ररूपेणैवावस्थानाभ्युपगमात् । अतो न ज्ञानानर्थक्यप्रसङ्गः’ इति वास्तवपरिहारे कथिते हि ज्ञानानर्थक्यशङ्कापरिहारेऽपि ईश्वरस्य सकलजीवदुःखैर्दुःखित्वप्रसङ्गः परिहृतो न भवतीति तत्प्रसङ्गशङ्का अवशिष्येत, सापि शङ्का माभूदित्यालोच्य प्रथमं प्रकारं विहाय द्वितीयप्रकारमवलम्ब्य महता यत्नेन परमेश्वरस्य दुःखित्वप्रसङ्गः परिहृतो भाष्यादिष्विति वक्तुं शक्यत्वात् । परिहारभाष्यादिषु परमेश्वरस्य दुःखित्वप्रसङ्गपरिहारानन्तरं ‘तथा च मुक्तानामीश्वरभावापत्तिर्नानुपपन्ना’ इति परापादितानुपपत्त्यभावोपसंहारादर्शनाच्च । किं च छान्दोग्ये सप्तमाध्याये ‘स एकधा भवति त्रिधा भवति पञ्चधा, सप्तधा नवधा चैव पुनश्चैकादश स्मृतः । शतं च दश चैकश्च सहस्राणि च विंशतिः’ [छा.उ. ७-२६-२] इति वाक्येन परब्रह्मविदो अनेकशरीरपरिग्रहादिरूपमैश्वर्यं श्रूयते । तच्च मुक्तस्येश्वरभावापत्तिपक्षे परममुक्तस्यैव सम्भवति । तथा च ‘एकधा भवति’ इत्यादिवचनं निर्गुणविद्याफलसमर्पकं न भवति, किं तु सगुणोपासनाफलसमर्पकम्, तच्च निर्गुणविद्याफलप्रशंसार्थं निर्गुणविद्याप्रकरणे पठ्यते इति भाष्यादिव्यवहारो विरुध्येत ।
तथा च सगुणविद्याफलविचारप्रस्तावे भाष्यं —
x‘यद्यपि निर्गुणायां भूमविद्यायामनेकधाभावविकल्पः पठ्यते, तथापि विद्यमानमेवेदं सगुणावस्थायामैश्वर्यं भूमविद्यास्तुतये सङ्कीर्त्यते’ इति ।
यदि मुक्तस्येश्वरभावापत्तिः सूत्रभाष्यकारयोरभिप्रेता स्यात्, तदा ‘स एकधा भवति’ इति वचनस्य निर्गुणविद्याफलसमर्पकत्वेन प्रकरणसमवेतार्थस्य सगुणविद्याफलसमर्पकत्वायोगात् एतद्वचनस्य तत्फलसमर्पकत्वमाश्रित्य सूत्रभाष्ययोः प्रवृत्तो ‘भावं चैमिनिर्विकल्पामननात् [ब्र.सू. ४-४-११] इत्यादिविचारो निरालम्बन एव स्यात् । ब्रह्मलोकं गतस्य सगुणोपासकस्य स्थूलशरीरसद्भावं जैमिनिराचार्यो मन्यते । ‘स एकधा भवति’ इत्यादिना अनेकधाभावरूपविकल्पश्रवणात् स्थूलशरीरभेदं विना एकस्योपासकस्यानेकधाभावासम्भवात् इति सूत्रार्थः ।
तस्मात् उदाहृतशङ्काभाष्यग्रन्थस्य तत्परिहारभाष्यादिग्रन्थस्य च मुक्तानामीश्वरभावापत्तावनन्यथासिद्धप्रमाणत्वाभावात् उदाहृतानेकाधिकरणतद्भाष्यादिविरोधाच्च सा भाष्याभिमतेति कल्पयितुं न शक्यत इत्यस्वरसादाह —
साधनाध्यायेऽपीति ।
ब्रह्मविद्यासाधनवैराग्यादिप्रतिपादकतृतीयाध्यायेऽपीत्यर्थः । साधनाध्यायेऽपि सूत्रकारः सूत्राभिप्रायं वर्णयन् भाष्यकारश्च मुक्तस्य परमेश्वरभावापत्तिं स्पष्टीचकार इति सम्बन्धः । सन्ध्ये-जाग्रत्सुषुप्त्योः सन्धौ भवे स्वप्नस्थाने रथादिसृष्टिः सत्या भवितुमर्हति । हि - यस्मात् श्रुतिराह रथादिसृष्टिम् ‘अथ रथान् रथयोगान् पथस्सृजते’ [बृ.उ. ४-३-१०] इत्यादिका । न हि श्रुतिसिद्धा सृष्टिरसत्या भवितुमर्हति । वियदादिसृष्टौ श्रुतिसिद्धायामसत्यत्वादर्शनात् — इति सूत्रार्थः । रथयोगाः - अश्वाः ।
कर्तृत्वमाशङ्क्येति ।
यथा अग्न्यंशस्य विष्फुलिङ्गस्याग्नेरिव दहनप्रकाशनसामर्थ्यमस्ति, तथा जीवस्य परमेश्वरांशत्वात्तद्वदेव जीवस्यापि स्वप्नादिसृष्ट्यनुकूलं सत्यसङ्कल्पत्वादिलक्षणं सामर्थ्यमस्ति, अतस्तस्य स्वप्नसृष्टौ कर्तृत्वं सम्भवतीत्याशङ्क्येत्यर्थः । सत्यं जीवस्य सत्यसङ्कल्पत्वादिकमस्ति, किं तु तत्तिरोहितं वर्तते संसारदशायाम् । अतो न सृष्ट्यादावुपयोगस्तस्य । तच्च तिरोहितमैश्वर्यं परस्यबिम्बभूतेश्वरस्य अभिध्यानादीश्वरसाक्षात्कारपर्यन्तात्तिरोधायकनिवृत्तावभिव्यज्यते ।
ईश्वरध्यानादभिव्यक्तौ हेतुमाह —
तत इति ।
हि - यस्मात् कारणात् ततः - ईश्वरादज्ञातात् बन्धोऽस्य जीवस्य, तत एव ज्ञातात् बन्धविपर्ययः ऐश्वर्याविर्भावः - इति सूत्रार्थः ।
सदपीत्यत्र हेतुः —
ईश्वराभिन्नत्वादिति ।
जन्तोः - र्जीवस्य सत्यसङ्कल्पत्वादिलक्षणैश्वर्याविर्भावार्थं यतमानस्य श्रवणमननात्मकं विचारमनुतिष्ठतः क्रमेण परं परमेश्वरं-अभेदेन ध्यायतः कस्यचिदेवप्रतिबन्धरहितस्य श्रवणमननध्यानानुष्ठानजनितात् ईश्वरप्रसादात् संसिद्धस्य-अप्रतिबद्धपरमेश्वरसाक्षात्कारवतः (इत्यर्थः ।) तिमिरेण-रोगविशेषेण तिरस्कृता दृशःचक्षुषश्शक्तिर्यथा औषधवीर्यादाविर्भवति, तथेत्यर्थः ।
न स्वभावत एवेति ।
यथोक्तसाधनसम्पत्तिं विनेत्यर्थः ।
अभिव्यक्त्यङ्गीकारेणेति ।
ईश्वरभावापत्तिं विना मुक्तस्य सत्यसङ्कल्पत्वाद्यभिव्यक्तिर्न सम्भवतीत्यर्थः । अत्रेदं विचार्यते — किं प्रतिबिम्बत्वविशिष्टचैतन्यरूपजीवगतस्य सत्यसङ्कल्पत्वादेः मुक्तावाविर्भावः प्रतिपाद्यते, किं वा बिम्बत्वविशिष्टचैतन्यरूपेश्वरगतस्य । नाद्यः । ईश्वरगतसत्यसङ्कल्पत्वाद्यपेक्षया जीवे पृथक् सत्यसङ्कल्पत्वादिसत्त्वे प्रमाणाभावात् । न हीश्वरस्येव जीवस्यापि पृथक् तत्सत्त्वप्रतिपादकं शास्त्रमस्ति । न च जीवस्येश्वराभिन्नत्वात्तत्समानधर्मवत्त्वमनुमातुं शक्यते । लोके बिम्बमुखाभिन्नस्यापि प्रतिबिम्बमुखस्य बिम्बवत् अवदातत्वादिधर्मादर्शनेन व्यभिचारात्, तत्त्वसाक्षात्कारादविद्यानिवृत्तौ अविद्यानिरूपितप्रतिबिम्बत्वस्यापि निवृत्त्या प्रतिबिम्बजीवाश्रितसत्यसङ्कल्पत्वादेरवस्थानस्यैवाभावेन मुक्तौ तदभिव्यक्त्यसम्भवात्, बन्धदशायामावृतस्य सत्यसङ्कल्पत्वादेरुपयोगाभावस्य स्पष्टतया जीवे पृथक्तत्कल्पनवैयर्थ्याच्च । न च - बन्धदशायामेव सगुणविद्याफलभूतावान्तरमुक्तौ सत्यसङ्कल्पत्वादेरुपयोगोऽस्तीति न तद्वैयर्थ्यं - इति वाच्यम् । तत्रापि ईश्वरसमानसत्यसङ्कल्पत्वाद्यभिव्यक्त्यनभ्युपगमेन जीवे तत्समानैश्वर्यस्य तिरोहितस्य कल्पनावैयर्थ्यात् । तस्मात् प्रतिबिम्बचैतन्यरूपजीवे पृथक् सत्यसङ्कल्पत्वादिकल्पनं प्रमाणप्रयोजनशून्यम् । तथा ‘बिम्बभूतेश्वरगतं सत्यसङ्कल्पत्वाद्यैश्वर्यं बन्धदशायां जीवान्प्रति जीवाविद्याभिस्तिरोहितं सत् ईश्वरसाक्षात्कारात् मुक्तौ तेषामभिव्यज्यते’ इति द्वितीयपक्षोऽप्यनुपपन्नः । सत्यसङ्कल्पत्वादिविशिष्टेश्वरस्याविद्यावृतत्वे मानाभावात् । न च ‘इदानीमहं सत्यसङ्कल्पत्वादिगुणक ईश्वरोऽस्मि’ इत्यनुभवाभावात् तद्विशिष्टेश्वरस्यावृतत्वं कल्प्यत - इति वाच्यम् । प्रतिबिम्बजीवानां बिम्बभूतेश्वरस्य च कल्पितभेदाभ्युपगमे तत एव जीवस्य जीवान्तरसाक्षात्काराभाववदीश्वरसाक्षात्काराभावोपपत्त्या तद्विशिष्टेश्वरस्य आवृतत्वकल्पनावैयर्थ्यात्, विशिष्टेश्वरस्यावृतत्वकल्पने विशिष्टावारकाविद्यानिवर्तकज्ञानासम्भवेन तदनिवृत्तिप्रसङ्गाच्च, तत्त्वमस्यादिवाक्यजन्यज्ञानस्य शुद्धचिन्मात्रगोचरस्य तद्विशिष्टेश्वरविषयकत्वाभावेन विशिष्टावरणानिवर्तकत्वात्, अविद्यायाश्शुद्धचिन्मात्रावारकत्वाश्रयणे च सत्यसङ्कल्पत्वाद्यैश्वर्यस्य अविद्यया तिरोधानासिद्धेश्च । न च जीवस्य स्वकीयत्वेनेश्वरगतसत्यसङ्कल्पत्वाद्यप्रतीतिरेवात्र तिरोधानं विवक्षितं इति वाच्यम् । तथासति तदुत्तरसूत्रे तिरोधानस्य अविद्याप्रयुक्तावरणरूपत्वप्रतिपादनविरोधात् । तस्मात् ईश्वरगतसत्यसङ्कल्पत्वाद्यैश्वर्यस्य जीवाविद्यातिरोहितत्वं ऐश्वर्यतिरोधानस्य तत्त्वसाक्षात्कारनिवर्त्यत्वं चाभ्युपेत्य ‘पराभिध्यानात्’ इति सूत्रतद्भाष्ययोः प्रवृत्तिरिति वक्तव्यम् ।
उक्तं चास्य सूत्रस्य अभ्युपेत्यवादत्वं सर्वज्ञात्ममुनिभिः, तेषां वचनं मूल एवोदाहरिष्यते — इति मुक्तस्येश्वरभावापत्तौ नैतत्सूत्रादिकमपि मानमित्यस्वरसादाह —
फलाध्यायेऽपीति ।
केन रूपेणेति ।
किं सर्वज्ञत्वसर्वेश्वरत्वापहतपाप्मत्वादिगुणविशिष्टेन रूपेण मुक्तोऽवतिष्ठते, किं वा शुद्धचिन्मात्ररूपेणैवावतिष्ठते, अथवा द्विविधेन रूपेण ? इति जिज्ञासायां सत्यामित्यर्थः ।
उपन्यासेनेति ।
उद्देशरूपवाक्यजातेनेत्यर्थः । ‘य आत्माऽपहतपाप्मा’ इत्युपक्रम्य ‘सोऽन्वेष्टव्यः’ इति विचारविधानात् । तथा ‘एष सर्वेश्वरः’ इत्याद्युपक्रम्य ‘तमेतं यज्ञादिना विविदिषन्ति’ इति तद्वेदने यज्ञादिविधानात् । उपन्यासग्रहणं सर्वज्ञत्वादिव्यपदेशस्याप्युपलक्षणम् । तथा च सर्वज्ञत्वादिव्यपदेशः — x‘यस्सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः’ [मु.उ. १-१-९] इत्यादिः । व्यपदेशो नाम यो वाक्यसन्दर्भः उद्देशरूपो न भवति विधिरूपश्च न भवति स एव । सर्वज्ञत्वादिसन्दर्भश्च नोद्देशरूपः, विधेयानुपलम्भात् । नापि विधिः । यच्छब्दघटितत्वेन अनुवादत्वप्रतीतेः । तथा च ‘मुक्तो ब्राह्मेण वास्तवेन धर्मजातेन युक्तोऽवतिष्ठते । कुतः । उपन्यासव्यपदेशविधिभ्यःतस्य ब्रह्माभिन्नस्य तद्रूपयुक्तत्वावगमात्’ इति सूत्रार्थः । सः-मुक्तः तत्र — प्रकृते ब्रह्मणि स्थितः जक्षत् - हसन् ।
ऐश्वर्यावेदनेनेति ।
अज्ञातस्य ऐश्वर्यस्य आवेदनेन ज्ञापकेन-विधिवाक्येनेति यावत् । अज्ञातज्ञापकवाक्यस्यापि उत्पत्तिविधित्वस्वीकारात् । चितितन्मात्रेण - चितिः - चैतन्यं, चैतन्यमात्ररूपेणैव मुक्तोऽवतिष्ठते इत्यर्थः । यथा लवणपिण्डो बहिरन्तश्च लवणैकरसः, एवमेव अरे-मैत्रेयी प्रकृत आत्मा शरीराद्यन्तस्तद्बहिश्च चैतन्यैकस्वभावः — इति श्रुत्यर्थः ।
तन्मात्रेणेति ।
मुक्तौ ब्रह्माभेदेन विद्यमानस्य न कश्चिद्धर्मोऽस्ति, ब्रह्मस्वरूपे मुक्ते उपन्यासाद्यवगतगुणैश्वर्यादीनां श्रुतितात्पर्यविषयत्वाभावेन तुच्छत्वात् - इतितात्पर्यकमौडुलोभिमतम् । इदं च मतद्वयं पूर्वपक्षः ।
सूत्रं व्याचष्टे —
वस्तुदृष्ट्येति ।
परमार्थत इत्यर्थः । जैमिनिमत इव गुणकलापस्य वास्तवत्वानभ्युपगमात् न चिन्मात्रप्रतिपादकश्रुतिविरोधः, औडुलोमिमत इव गुणकलापस्य तुच्छत्वानभ्युपगमात् न गुणकलापादिश्रुतीनां निर्विषयत्वापत्तिरूपोऽपि विरोधोऽस्तीत्यर्थः । ‘एवमपि’ इति सौत्रभागेन मुक्तस्य चिन्मात्रत्वमुपेत्य उपन्यासाद्यवगतगुणकलापादेरपि ‘पूर्वभावात्’ इत्यनेन सौत्रभागेन मुक्तात्मन्यङ्गीकृतत्वात्, ईश्वरभावापत्तिं विना मुक्तस्य गुणकलापादेरयोगात् तस्येश्वरभावापत्तिः सूत्रे भातीत्यर्थः ।
अस्यार्थस्य भाष्यादिकमपि न प्रतिकूलं, किं त्वनुकूलमेवेत्याह —
सूत्रत्रयमित्यादिना ।
अत्रेदं विचार्यते — मुक्तस्येश्वरभावापत्तिस्वीकारे बिम्बभूतेश्वरस्य साधकानुग्रहार्थं मायामयशरीराङ्गीकारेण मुक्तोऽपि शरीर्येव स्यात् । अन्यथा ‘क्रीडन् रममाणः’ इत्यादिश्रुतिसिद्धैश्वर्यायोगात् । तथा च ‘अशरीरं वाव सन्तं’ [छा.उ.८-१-२१] इति श्रुत्या मुक्तस्याशरीरत्वप्रतिपादनं विरुद्ध्येत । ‘कथमिदं अशरीरत्वं सम्भवति’ इत्याकाङ्क्षायां विद्यासामर्थ्यात् परब्रह्मप्राप्तौ सत्यां तत्सम्पद्यते नान्यथा इति प्रतिपादनार्थं अशरीरत्वप्रतिपादकवाक्यानन्तरं ‘परं ज्योतिरुपसम्पद्य’ इतिवाक्यं — इति प्रतिपादकं ज्योतिरधिकरणभाष्यं च विरुद्ध्येत । परब्रह्मप्राप्त्यनन्तरमपि सशरीरत्वाभ्युपगमात् । तथा च तदधिकरणभाष्यम् — “ ‘अशरीरं वाव सन्तम्’ इति च अशरीरतायै ज्योतिस्सम्पत्तेः अस्याभिधानात्, ब्रह्मभावाच्चान्यत्राशरीरत्वानुपपत्तेः” इति । ज्योतिरत्र ब्रह्म विवक्षितम् । किञ्च मुक्तस्य सर्वज्ञत्वाद्यभ्युपगमे ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’ इत्यादिना तस्य विशेषविज्ञानाभावप्रतिपादनं विरुद्ध्येत । इदं च वचनं परममुक्तिविषयमिति ‘स्वाप्ययसम्पत्त्योः’ [ब्र.सू.४-४-१६] इति सूत्रतद्भाष्यादौ स्पष्टम् । किञ्च सर्वेश्वरभावं प्राप्तस्य मुक्तस्य तद्भावापत्तिदशायां सगुणविद्याफलभूतेश्वरभावापत्तिदशायामिव ‘योऽहं पूर्वं संसार्यभूवं सोऽहमिदानीमीश्वरस्सम्पन्नः’ इति प्रतिसन्धानं अभ्युपगम्यते, न वा । नाद्यः । पूर्वोपाधेर्निवृत्तत्वेन तथाऽनुसन्धानासम्भवात्, उपाध्यैक्यस्य अनुसन्धानप्रयोजकशरीरप्रविष्टत्वात् । न द्वितीयः । ईश्वरभावापत्तौ केवलस्वरूपेणैवावस्थानापेक्षया मुक्तस्य फलतो विशेषाभावेन तद्भावापत्त्युपपादनस्यानतिप्रयोजनत्वापत्तेः । तस्मात् मुक्तस्येश्वरभावापत्तिप्रतिपादनं ‘यत्र त्वस्य’ इत्यादिश्रुतिविरुद्धं तदनुसारिबहुभाष्यादिविरुद्धं प्रयोजनशून्यं चेति सिद्धम् । अत एव न्यायरक्षामणौ आविर्भूतस्वरूपस्य सत्यकामत्वसर्वेश्वरभावापत्तौ अत्र साधितायां यथोक्तमस्वरसं मनसि निधाय मुक्तानां शुद्धचैतन्यभावापत्तिः तत्पक्षे जक्षणाद्यैश्वर्योपपत्तिश्च दर्शिता दीक्षीतैरेव ‘मुक्तानां यावत्सर्वमुक्ति बिम्बेश्वरभावापत्तिरस्ति इत्यस्माभिः सिद्धान्तलेशसङ्ग्रहे समर्थितत्वेन आविर्भूतस्वरूपस्य सत्यकामत्वं सत्यसङ्कल्पत्वं चोपपद्यते । तस्य शुद्धचैतन्यभावापत्तावपि तत्सर्वमुपपद्यत एव । शुद्धचैतन्यस्य जीवेश्वरानुस्यूतचैतन्यसामान्यात्मना अवस्थानात् । अत एव साक्षात्कृतब्रह्मणां यावत्सर्वमुक्ति सर्वात्मतापत्तिरस्तीति वामदेवस्य मनुसूर्यादिभावापत्तिःश्रूयते । एवं च मुक्तस्य सार्वभौमादिमानुषात्मना इन्द्रादिलोकपालात्मना दहराद्युपासनाफलानुभवितृपुरुषात्मना च जक्षणादिकं सर्वलोककामावाप्तिमत्त्वं ब्रह्मलोकसमाहितसत्यकामानुभवितृत्वं च व्यपदेष्टुं शक्यमिति जक्षणादिश्रवणमप्युपपद्यते” इत्यादिग्रन्थेन । तथा च तदनुसारेण प्रकृतसूत्रभाष्यादौ ब्राह्मस्यैश्वर्यस्य मुक्तजीवगतत्वाङ्गीकरणं - मुक्तस्य ब्राह्मेण रूपेणावस्थानाभ्युपगमेऽपि जैमिनिमत इव सिद्धान्ते नाद्वैतविरोधः, तस्य रूपस्य बद्धजीवान्तराविद्याकृतत्वाभ्युपगमात् - इत्येतावन्मात्रपरं, न तु मुक्तस्येश्वरभावापत्तिपरमिति सङ्क्षेपः ।
ननु अध्यायचतुष्टयेऽप्युदाहृतश्रुतिसूत्रभाष्यादिग्रन्थजातस्य सर्वज्ञात्ममुनिभिः उक्तयुक्तिभिः प्रौढिवादत्वप्रतीतेः कथं मुक्तस्येश्वरभावापत्तौ एतच्छ्रुत्यादिकं प्रमाणं स्यादित्यत आह —
न चेति ।
‘एतावतः’ इत्यनेन बहुश्रुतिसूत्रभाष्यादिविरोधात् सङ्क्षेपशारीरकमतं हेयमिति सूचितम् । अस्य-शरीरिणः तत्-सत्यसङ्कल्पत्वादिलक्षणमैश्वर्यं उपेत्य मुक्तौ ध्यानादभिव्यज्यत इत्युदितं-उक्तं सूत्रकृता इत्यर्थः ।
अभ्युपेत्यवादत्वे हेतुमाह —
उक्तहेतोरिति ।
मुक्तस्येश्वरभावापत्तिप्रमाणत्वेनोदाहृतश्रुतिभाष्यादिकं व्याख्याय अन्ते अस्वरसादिरूपेण मुक्तस्येश्वरभावापत्तिं प्रत्यनुपपत्तिरूपा या युक्तयोऽस्माभिः प्रदर्शिताः तास्सर्वा अप्यत्र उक्तहेतोरित्यनेन विवक्षिता इति बोध्यम् ।
तस्मादिति ।
उक्तप्रमाणबलादित्यर्थः । मुक्तस्येश्वरभावापत्तिरेतच्छब्दार्थः । उपसृप्यता-प्राप्यता ।
एकेति ।
एकजीववादे एतदसम्भवः प्रागेव दर्शितः ।
पारमार्थिकेति ।
‘पारमार्थिको जीवेश्वरयोर्भेदः’ इति वादेऽपि मुक्तस्येश्वरभावापत्त्यसम्भवो दोष इत्यर्थः । एतदुपलक्षणम् । शुद्धब्रह्मरूपेणावस्थानलक्षणमुक्त्यसम्भवोऽपि पारमार्थिकजीवेशभेदवादे दोष इति बोध्यम् । ननु — x‘प्रजापतिविद्यायां मुक्तस्यापहतपाप्मत्वादिगुणाष्टकं प्रतिपाद्यते, तच्च मुक्तस्येश्वरभावापत्त्यनभ्युपगमे न सम्भवतीति तस्य तद्भावापत्तिरेष्टव्या । सा च पारमार्थिकजीवभेदवादे न सम्भवति’ इति खलु तवाभिप्रायः । स चानुपपन्नः । भेदपक्षेऽपि श्रुतिसूत्राभ्यां निरूपितस्य मुक्ते गुणकलापस्य मुक्तस्येश्वरभावापत्त्या विनाऽपि सम्भवात्-इति द्वैतिनां मध्ये केचिच्छ्रुतिसूत्रव्याख्यातारः ।
तेषां मतमनूद्य दूषयति —
यत्त्वित्यादिना ।
तत्रापीति ।
मुक्तजीवेऽपीत्यर्थः ।
तथा सतीति ।
जीवस्य पृथगपहतपाप्मत्वाद्यभ्युपगमे सतीत्यर्थः । इति या शङ्का ‘उत्तराच्चेत्’ इति सूत्रभागेन कृता, तस्याः ‘आविर्भूतस्वरूपस्तु’ इति परिहारभागेन मुक्तजीवे गुणाष्टकाविर्भावकथनेऽपि परिहारालाभादित्यर्थः । तथा च मुक्तब्रह्मणोर्भेदपक्षे गुणकलापस्य जीवसाधारणस्य ब्रह्मासाधारणत्वरूपब्रह्मलिङ्गत्वालाभात् दहराकाशस्य ईश्वरत्वनिर्णायकं गुणाष्टकं न स्यात् इति भावः ।
भेदपक्षे मुक्तजीवगतस्य अपहतपाप्मत्वादेः ब्राह्मत्वनिर्देशविरोधश्च इत्याह —
ब्राह्मेणेति ।
ननु भेदिनां मते मुक्तगतापहतपाप्मत्वादेर्जक्षणाद्यैश्वर्यस्य च ब्राह्मत्वमसिद्धम्, अत आह —
परेषामपीति ।
भेदे इति ।
जीवब्रह्मभेदपक्षे वास्तवगुणवतो जीवस्य चिन्मात्रत्वायोगात् इति भावः ।
किं च, किं गुणजातं मुक्तावुत्पद्यते किं चा नित्यसिद्धं इति विकल्पं मनसि निधाय आद्यनिराकरणपूर्वकं द्वितीयं परिशेषयति —
सम्पद्याविर्भाव इत्यादिना ।
तत्र हीति ।
सम्पद्याधिकरणे हि इत्यर्थः । ‘स्वेन रूपेणाभिनिष्पद्यते’ इत्यनेन मुक्तिरभिधीयते ।
सा किमागन्तुकस्य स्वरूपस्योत्पत्तिरेव स्वर्गादिरूपोत्पत्तिवद्विवक्षिता, किं वा आमस्वरूपस्यैव विद्ययाऽविर्भावमात्ररूपा विवक्षिता, इति संशये मुक्तेरपि स्वर्गादिवत् फलत्वात् तद्वदेव आगन्तुकातिशयरूपनिष्पत्तिर्मुक्तिरिति पूर्वपक्षनिषेधपूर्वकं सिद्धान्तमाह —
आगन्तुनेत्यादिना ।
कथं तद्वैयर्थ्यम्, अत आह —
येनेति ।
स्वर्गाद्यागन्तुकरूपवत् यत् मुक्तिलक्षणं रूपमुत्पद्यते मुक्तस्य, तत् स्वशब्देनानुक्तावपि स्वीयमेव भवति । अतःस्वशब्दस्य स्वीयवाचित्वे वैयर्थ्यमेवेत्यर्थः ।
तस्मादिति ।
‘आगन्तुकरूपाभिनिष्पत्तिर्मुक्तिः’ इति पक्षे स्वशब्दस्य स्वकीयार्थकताया एव वक्तव्यत्वेन उक्तरीत्या तद्वैयर्थ्यापत्तेरित्यर्थः ।
आत्मेति ।
स्वकीय इव स्वस्वरूपेऽपि स्वशब्दस्य रूढत्वेन नानार्थत्वे सति स्वकीयार्थकत्वस्य प्रकृते असम्भवात् आत्मस्वरूपवाचित्वं निश्चितमिति भावः । इदमेव अत्र आत्मवाचिस्वपदोपादानप्रयोजनं-यत् मुक्तेस्स्वर्गादिवत् आगन्तुकरूपत्वनिराकरणम्, अन्यथा आत्मवाचिस्वपदवैयर्थ्यादेवेति बोध्यम् ।
सत्यसङ्कल्पत्वादिरूपस्य ‘स्वेन रूपेण’ इत्यत्र मुक्तित्वेनाभिमतस्य आगन्तुकत्वपक्षे तदागन्तुकत्वनिषेधाधिकरणविरोधवत् तस्य बन्धदशायां तिरोधानप्रतिपादकसूत्रेण मुक्तिदशायामाविर्भावप्रतिपादकपूर्वेण च विरोधो भवेत्, मुक्तावभिनवतयोत्पद्यमानस्य उक्ततिरोधानाविर्भावयोरयोगादित्याह —
किञ्चेदमिति ।
द्वितीयविकल्पपरिशेषस्य फलमाह —
इति बन्धस्येति ।
अपहतपाप्मत्वादेरीश्वर इव जीवेऽपि नित्यसिद्धत्वादिति इतिशब्दार्थः ।
तदेवोपपादयति —
नित्यसिद्धमिति ।
तन्मूलेति ।
पाप्मसम्बन्धमूलकेत्यर्थः ।
एवञ्चेति ।
बन्धस्य मिथ्यात्वे सतीत्यर्थः ।
ननु किं बन्धस्य मिथ्यात्वसाधनेन ? तस्य सत्त्वेऽपि जीवब्रह्माभेदबोधनसम्भवात् इति भास्करमतमाशङ्क्याह —
श्रुतीति ।
बन्धस्य सत्यत्वमते परमात्मगतनित्यमुक्तत्वस्यापि सत्यत्वेन परमार्थभूतविरुद्धधर्माक्रान्तयोर्जीवब्रह्मणोर्दहनहिमयोरिव श्रुतिबोध्याभेदासम्भवादित्यर्थः ।
अन्यथेति ।
बन्धस्य मिथ्यात्वस्वीकारपूर्वकं जीवब्रह्मणोरभेदानङ्गीकार इत्यर्थः । कुतस्तिरोधानोक्त्ययोग इति चेत्, तत्र वक्तव्यं — किं जीवगतस्य नित्यसिद्धसत्यसङ्कल्पत्वादेःतिरोहितत्वं ‘पराभिध्यानात्’ इति सूत्रेणाभिधीयते, किं वा ईश्वरगतस्यैव जीवं प्रति तेन तिरोहितत्वमभिधीयते ।
नाद्य इत्याह —
न हीति ।
यत्किञ्चिदर्थगोचरोऽपि सत्यसङ्कल्पः तिरोहितोऽस्तीति नेष्यते, सर्वार्थगोचरसत्यसङ्कल्पः तिरोहितोऽस्तीति नेष्यत इति किमु वक्तव्यमित्यर्थः । अद्वैतिभिरिव इत्यपिशब्दार्थः । न हि सिद्धान्ते ‘प्रतिबिम्बचैतन्यरूपेषु जीवेषु बिम्बचैतन्यरूपेश्वरगतसत्यसङ्कल्पत्वाद्यपेक्षया पृथक् सत्यसङ्कल्पत्वादिकं संसारदशायां तिरोहितमस्ति’ इति इष्यते । तत्र प्रमाणप्रयोजनयोरभावात् । एतच्च प्रागेवास्माभिर्दर्शितम् ।
द्वितीये तु कल्पे दूरं गत्वापि सिद्धान्तिमतमेवावलम्बनीयम्, तथा च न पारमार्थिकभेदसिद्धिरिति दूषणमाह —
किन्त्वीश्वरस्येति ।
ईश्वरेति ।
बिम्बभूतेनेश्वरेण सह जीवस्य यो वास्तवाभेदः तदनभिव्यक्त्येत्यर्थः ।
जीवब्रह्मणोरभेदापत्तिभयात् जीवे पृथगेवापहतपाप्मत्वादिकं स्वीकृत्य तस्य वास्तवबन्धाविरुद्धत्वं शङ्कते —
नन्विति ।
किञ्च, निषिद्धकर्माचरणेऽपि पापोत्पत्तिप्रतिबन्धकशक्तिः अपहतपाप्मशब्दार्थत्वेन कल्प्यमाना किं विद्योदयात् प्राक् तत्प्रतिबन्धार्थं कल्प्यते, किं वा विद्योदयानन्तरं त्वदभिमतमुक्तेः प्राक् तत्प्रतिबन्धार्थं कल्प्यते, अथवा त्वदभिमतमुक्तिकाले मुक्तस्य देहेन्द्रियादिसत्त्वेन पाप्महेतुनिषिद्धकर्माचरणसम्भवात् तदा तत्प्रतिबन्धार्थं कल्प्यते, इति विकल्पं मनसि निधाय क्रमेण दूषयति —
न हीत्यादिना ।
इष्टत्वादिति ।
तवापि सम्मतत्वादित्यर्थः । तस्य - ब्रह्मणः अधिगमे - साक्षात्कारे सति विद्योदयात् पूर्वाधस्य विनाशो भवति, तदुदयोत्तरकालीनाघस्य च अश्लेषो भवति । कुतः । तस्य-विद्ययाऽधविनाशादेःश्रुतिस्मृतिषु व्यपदेशात्-श्रुत्यादिसिद्धत्वात् इत्यर्थः ।
मुक्तस्येश्वरभावापत्तिमुपपादितामुपसंहरति —
तस्मादिति ।
उदाहृतश्रुतिसूत्रभाष्यादिस्वारस्यादित्यर्थः । अविरोधित्वमैश्वर्यविशेषणम् ।
तदनुगुणेति ।
ऐश्वर्यानुगुणेत्यर्थः । समृद्धत्वमीश्वरभावापत्तिविशेषणम् ।
श्रीकृष्णचरणद्वंद्वे स्मर्तॄणां मङ्गलप्रदे ।
योगिध्येये कृतिरियमलङ्कारार्थमर्पिता ॥
श्रीकृष्णं मनसा ध्यात्वा श्रीकृष्णं सम्प्रणम्य च ।
व्याख्यातोऽयं परिच्छेदः श्रीकृष्णपरितुष्टये ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्स्वयंप्रकाशानन्दसरस्वतीदिव्यश्रीचरणारविन्दसंलग्नरजोभूतस्याच्युतकृष्णानन्दतीर्थस्य कृतौ शास्त्रसिद्धान्तलेशसंग्रहव्याख्यायां कृष्णालङ्काराख्यायां चतुर्थः परिच्छेदः समाप्तः ॥ ॐ ॥