अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

मुक्तस्वरूपविचारः

इति विवेचनीयमिति ।
इत्या­का­ङ्क्षायां सत्यां विविच्य वक्तव्यमिति प्रश्नार्थः ।

मतभेदेन विवेकं दर्शयति —
उच्यत इत्यादिना ।

तदेकाज्ञानेति ।
तस्य जीवस्य यदेकमज्ञानं तत्क­ल्पि­ते­त्यर्थः । जीवस्यैकत्वात् तदी­यं­मू­ला­ज्ञा­न­म­प्ये­क­मेव । तथा च तस्यैकस्य जीवस्य यत्र क्वाप्यन्तःकरणे तत्त्व­सा­क्षा­त्का­रो­दये सति अज्ञानस्य देव­ति­र्य­ङ्म­नु­ष्या­दि­रू­प­स­र्व­प्र­मा­तृ­सा­धा­र­णस्य सकार्यस्य तस्मिन्नेव क्षणे निश्शेषं प्रवि­ल­या­दि­त्यर्थः । न चैवं शुका­द्य­न्तः­क­र­णो­त्प­न्न­त­त्त्व­ज्ञा­ने­नैव समूलस्य सर्व­प्र­मा­तृ­सा­धा­र­ण­सं­सा­रस्य निवृत्तत्वात् इदानीं संसा­रा­नु­प­ल­ब्धि­प्र­सङ्ग इति वाच्यम् । शुकादिमुक्तौ मानाभावात्, शुका­दि­मु­क्ति­प्र­ति­पा­द­क­शा­स्त्रस्य अन्यपरतायाः प्राग्द­र्शि­त­त्वा­दिति भावः ।

एकजीववादे अस्वरसं सूचयन् नानाजीववादं पुरस्करोति —
अनेकेति ।
कश्चिज्जीवो बद्धः कश्चिज्जीवो मुक्तः — इति व्यवस्थाभ्युपगम इत्यर्थः ।

नानाजीववादे मुक्त­स्ये­श्व­र­भा­वा­प­त्ति­रिति मनसि निधाय तत्र तत्सम्भवमाह —
यद्यपीति ।

अनुवर्तत इति ।
तथा च नानाजीववादे मुक्तस्य वक्ष्यमाणविधया यावत्सर्वमुक्ति बद्ध­पु­रु­षा­न्त­रा­वि­द्या­कृ­ते­श्व­र­भा­वा­प­त्ति­स्स­म्भ­व­तीति भावः । नन्वेवं — x‘यद्यपि’ इत्यु­क्ति­र­नु­प­पन्ना । तदुक्त्या हि यद्य­पी­श्व­र­भा­वा­प­त्ति­स्स­म्भ­वति, तथापि न सम्भ­व­ती­त्य­र्थ­प्र­तीतेः - इति चेत्, नायं दोषः — नानाजीववादो हि बहुविधः । तथा च सर्वेषु नानाजीववादेषु मुक्त­स्ये­श्व­र­भा­वा­प­त्तिर्न सम्भवतीति ‘यद्यपि’ इत्यु­क्ते­स्ता­त्प­र्यात् ।

एतदेव प्रपञ्चयति —
तथापीत्यादिना ।

बिम्बभूतेति ।
न तु प्रति­बि­म्ब­वि­शे­ष­रू­पे­श्व­र­रू­पे­णा­व­स्थानं इत्येवकारार्थः ।

एवकारार्थे हेतुमाह —
अनेकेत्यादिना ।
एकस्य ब्रह्म­चै­त­न्य­स्ये­त्यर्थः ।

प्रति­बि­म्ब­भू­तस्य बिम्ब­प्रा­प्ति­नि­यमं विहाय प्रति­बि­म्बा­न्त­र­त्वा­प­त्ति­स­म्भ­वा­भ्यु­प­गमे बाधकमाह —
तत्सम्भव इति ।

दृष्टान्तं प्रपञ्चयति —
अत एवेति ।
पुन­र्ब­न्धा­प­त्ते­रे­वे­त्यर्थः ।

यदवच्छेदेनेति ।
पूर्णचैतन्ये यच्चै­त­न्य­प्र­दे­शा­व­च्छे­देन मुक्तिः तत्प्र­दे­शा­व­च्छे­देन तत्र चैतन्ये उपा­ध्य­न्त­र­स­म्बन्धे सति पुन­र्ब­न्धा­प­त्ते­रि­त्यर्थः । यच्चै­त­न्य­प्र­देशो मुक्तः तस्य बन्धापत्तेरिति यावत् । अत्रेदं चिन्त्यम् — चैतन्यं तावत् स्वतो नित्यमुक्तम् । तस्य च अना­द्यु­पा­ध्य­व­च्छि­न्नस्य उपाध्युपहितस्य वा जीवत्वं बन्धश्चेति स्थितिः । तथा च मुक्तेः पूर्वं यस्यो­पा­धि­प­र­त­न्त्रस्य चैतन्यप्रदेशस्य बन्ध आसीत् न तस्य पुनर्बन्धः आपादयितुं शक्यते । मुक्तिकाले तदु­पा­धि­नि­वृत्त्या तत्परतन्त्रस्य पूर्वं बन्धाश्रयस्य निवृत्तत्वात् । नापि मुक्तस्य शुद्धचैतन्यस्य तदापादनं सम्भवति । तस्य बद्ध­जी­वा­न्त­रो­पा­धि­सं­सर्गे जीवा­न्त­र­त्वा­प­त्ता­वपि, ‘पूर्वं यो बद्धस्सन् मुक्तिं गतः तस्य बन्धाप्रसक्त्या पुन­र्ब­न्धा­पत्तेः’ इत्यु­क्त्य­यो­गात् । किं च मुक्तचैतन्यस्य अन्तः­क­र­णा­न्त­र­सं­स­र्गेण तदु­पा­धि­क­जी­वा­न्त­र­त्वा­पत्तौ सत्यां ‘योऽहं पूर्वं संसारी सन् कथञ्चिन्मुक्तः सोऽहं पुनःसंसारं प्राप्तः’ इत्यनुसन्धानं तावत् न सम्भवति । मुक्तजीवस्य बद्धजीवस्य च उपा­ध्यै­क्या­भा­वात् । तथा च इयं जीवा­न्त­र­ता­पत्तिः अकिञ्चित्करेति न दोषावहा । एवं पूर्वोक्ता मुक्तस्य प्रति­बि­म्ब­रू­प­जी­वा­न्त­र­त्वा­प­त्ति­र­प्य­कि­ञ्चि­त्क­रेति ।

ननु — नानाजीववादे यदि प्रति­बि­म्बे­श्व­र­पक्षे मुक्त­स्ये­श्व­र­भा­वा­प­त्तिर्न सम्भवति, अवच्छेदपक्षे च मुक्तिरेव न सम्भवति दूरे ईश्व­र­भा­वा­पत्तिः; तर्हि कस्मिन् पक्षे मुक्त­स्ये­श्व­र­भा­वा­प­त्ति­रि­ष्यते, तत्राह —
प्रतिबिम्बो जीव इति ।

अस्मिन्नपि पक्षे सर्वेषां जीवानां मुक्त्यनन्तरं मुक्तस्य निर्वि­शे­ष­शु­द्ध­चै­त­न्य­मा­त्र­रू­पे­णै­वा­व­स्थानं, तदा सर्वे­षा­मु­पा­धीनां निश्शेषं चिन्मात्रे विलीनत्वेन जीवे­श्व­र­वि­भा­गा­भा­वात् इत्याशयेनाह —
यावदिति ।

ननु — ततः पूर्वमपि बिम्ब­प्र­ति­बि­म्बो­भ­या­नु­स्यू­त­शु­द्ध­चै­त­न्य­रू­पे­णै­वा­व­स्था­न­मस्तु, तथासति निर्गु­ण­वि­द्या­फ­ल­भू­ताया मुक्तेः ऐक­रू­प्य­प्र­ति­पा­द­कस्य तृती­या­ध्या­या­न्ति­मा­धि­क­र­णस्य साम­ञ्ज­स्यो­प­पत्तेः, इत्यत आह —
यथेति ।

तदानीमपीति ।
एक­द­र्प­णा­प­न­य­न­का­लेऽ­पी­त्यर्थः ।

एकस्मिन्निति ।
एकस्मिन् प्रतिबिम्बरूपे जीवे विद्योदये सति तेनविद्योदयेन तस्य - विदुषः उपाधिलये सति, तत्प्र­ति­बि­म्बस्य - मुक्तस्य प्रति­बि­म्ब­जी­व­स्ये­त्यर्थः ।

ननु — मुक्तस्य निरुपाधिकत्वात् कथं तस्यैश्वर्यं सम्भवतीति शङ्कते —
न च मुक्तस्येति ।

परिहरति —
तदविद्येति ।
तस्य - मुक्त­स्या­वि­द्या­भा­वेऽ­पी­त्यर्थः । अत्र अवि­द्या­ना­ना­त्व­व्य­व­हा­रे­णा­वि­द्या­प्र­ति­बिम्बा एव जीवाः, अन्तःकरणानि तु तेषां कर्तृ­त्वा­द्यु­पा­धयः - इति सूचितम् । तथा च मुक्तस्य आवि­द्य­क­मे­वै­श्वर्यं इत्युपगमात् परमार्थत एकरूपैव सदा मुक्तिरिति न तृती­या­ध्या­या­न्ति­मा­धि­क­र­ण­वि­रोध इति भावः । ननु — जीवस्य संसारित्वं यथा स्वाविद्याकृतं, तथा ईश्व­र­स्या­प्यै­श्वर्यं स्वोपाधिकृतमेव वाच्यम् ।

तथा च मुक्तस्य स्वोपा­ध्य­भा­वा­न्नै­श्वर्यं सम्भवति — इति शङ्कां निराकरोति —
न हीति ।
तत्र किं ईश्वरस्योपाधिः अविद्या, किं वा तदतिरिक्ता माया । नान्त्यः । अविद्यासु बिम्बभूतस्य चैतन्यस्य जीवा­श्रि­ता­वि­द्या­भि­रै­श्व­र्य­स­म्भ­वेन तद­ति­रि­क्त­मा­यो­पा­धि­क­ल्प­ना­वै­य­र्थ्यात्, तत्त­ज्जी­व­ग­त­त­त्त्व­ज्ञा­नेन तत्त­द­वि­द्या­नि­वृ­त्ति­रिति क्रमेण सर्व­जी­व­मु­क्त्य­न­न्त­र­मपि मायायाः निवर्तकाभावेन तदाऽपि माया­व­शे­ष­प्र­स­ङ्गाच्च, अविद्यानामपि बिम्ब­भू­ते­श्व­र­सं­ब­न्धि­त्व­स­त्त्वेन ईश्वरस्य तासु विक्षे­प­श­क्ति­प्रा­धा­न्येन ‘मम माया’ इत्या­दि­नि­र्दे­शो­प­प­त्तेश्च, बन्ध­मु­क्ति­प्र­ति­पा­द­क­शा­स्त्रा­नु­सा­रिभिः ‘इन्द्रो मायाभिः पुरुरूपः [बृ.उ.२-५-१९] यो योनिंयोनिं [श्वे.उ.४-११] इत्या­दि­श्रु­ति­वाक्यैः अवि­द्या­ना­ना­त्व­सिद्धौ ‘मायाम्’ इत्या­द्ये­क­व­च­नस्य जात्य­भि­प्रा­य­त्वो­प­प­त्तेश्च ।

(तस्मा­न्नान्त्यः कल्पस्सम्भवति ।) नाद्य इत्याह —
स्वावि­द्या­कृ­त­मिति ।
स्वाश्रि­ता­वि­द्या­कृ­त­मि­त्यर्थः ।

बद्धपुरुषेति ।
अविद्यानां जीवाश्रितत्वं च प्रथमपरिच्छेदे निरू­पि­त­म­स्मा­भि­रिति नात्र निरूप्यते ।

निरञ्जनत्वादिति ।
दोषा­ना­श्र­य­त्वा­दि­त्यर्थः ।

ननु — निर्गु­ण­ब्र­ह्म­वि­द्या­फ­ल­भू­तायां मुक्तावपि ईश्व­र­सा­यु­ज्या­भ्यु­प­गमे सगु­ण­वि­द्या­फ­ला­द­वि­शे­षा­पत्त्या सगु­ण­नि­र्गु­ण­वि­द्ययोः फलतो भेदो न स्यात् इत्याशङ्कां निराकरोति —
न चेत्यादिना ।
यादृ­ग्गु­ण­क­ब्र­ह्म­ध्या­न­वान् अस्मिन् लोके भवति, तादृशं ब्रह्म देहपातानन्तरं प्राप्नोति इति ‘यथाक्रतुः’ इतिश्रुत्यर्थः । तं ईश्वरं यथायथा-येनयेन गुणजातेन विशिष्टं उपासते तादृशमेव तं प्राप्नु­व­न्ती­त्यर्थः । सगुणोपासकं प्रकृत्य श्रुतं ‘आप्नोति स्वाराज्यं’ [तै.उ. १-६-२] इत्या­दि­श्रु­ति­वाक्यं आदिशब्दार्थः ।

अवि­शे­षा­प­त्ति­रिति ।
तथा च सगुणोपासकानां ब्रह्मलोकं गतानां निर्गु­ण­वि­द्या­श्र­यणं व्यर्थं स्यादिति भावः ।

लमेदं दर्शयति —
सगुणेत्यादिना ।
जगदिति ।
सक­ल­ज­ग­त्सृ­ष्टि­स्थि­ति­सं­हा­र­क­र्तृ­त्व­ल­क्ष­ण­व्या­पा­र­व्य­ति­रिक्तं स्वभो­गो­प­यु­क्त­भो­ग्य­भो­गो­प­क­र­ण­मा­त्र­सृ­ष्टि­सा­म­र्थ्य­रू­प­मे­वै­श्व­र्य­मु­पा­स­कानां भवितुमर्हति, न तु सकलजगद्व्यापारः । स तु नित्यसिद्धस्य परमात्मन एव । कुतः । ‘आत्मन आकाशस्सम्भूतः’ [तै.उ. २-१] इत्या­दि­सृ­ष्टि­वा­क्येषु परमात्मन एव प्रकृतत्वात् उपा­स­का­ना­म­स­न्नि­हि­त­त्वाच्च ।

इतश्च सगुणोपासकानां न निर­ङ्कु­श­मै­श्व­र्य­मि­त्याह —
भोगेति ।
उपासकानां नित्यसिद्धेन परमेश्वरेण हिर­ण्य­ग­र्भ­मा­विश्य भोगान् भुञ्जानेन भोगमात्रे साम्यगमकस्य सत्त्वा­दि­त्यर्थः ।

तथा च श्रुतिः —
x‘तमाह आपो वै खलु मीयन्ते लोकोऽसौ’ [कौ.उ. १-६] इति ।
तं - उपासकं स्वसमीपमागतं प्रत्याह हिरण्यगर्भः ‘मया खल्वा­पोऽ­मृ­त­ल­क्षणा भुज्यन्ते, तवा­प्य­सा­व­ब्ल­क्ष­ण­प­दार्थो लोको - भोग्यः’ इति श्रुत्यर्थः ।

ननु, ‘सङ्कल्पादेव तु तच्छ्रुतेः’ [ब्र.सू. ४-४-८] इति सूत्रेण तेषामीश्वरवत् सत्य­स­ङ्क­ल्प­त्व­व्य­व­स्था­प­नात् कथं गज­द्व्या­पा­रा­भावः, इत्यत आह —
सङ्क­ल्प­मा­त्रा­दिति ।
‘यं यं कामं पित्रादिरूपं कामयते, स स काम­स्स­ङ्क­ल्पा­देव समुत्तिष्ठति’ इति भोग्या­दि­प­दा­र्था­ना­मेव श्रुतौ सङ्क­ल्प­मा­त्र­सि­द्ध­त्व­प्र­ति­पा­द­नात् ताव­न्मा­त्र­वि­ष­य­मे­वो­पा­स­कानां सत्य­स­ङ्क­ल्प­त्व­मिति सूत्र­ता­त्प­र्यान्न तद्विरोध इति भावः ।

निस्स­न्धि­ब­न्ध­मिति ।
सर्वा­त्म­ने­त्यर्थः ।

तत्सर्वमिति ।
अवि­द्या­नि­वृ­त्त्या­दिकं पूर्वोक्तं सर्वमित्यर्थः ।

परममुक्तस्य ईश्वरभावापत्तौ बाधकमाशङ्क्य निराकरोति —
न चेत्यादिना ।

परमेश्वरस्येति ।
श्रीम­हा­वि­ष्णो­रि­त्यर्थः । श्रीकृ­ष्णा­द्य­व­तार आदिशब्दार्थः ।

तमस्वित्वेति ।
‘आत्मानं मानुषं मन्ये रामं दशरथात्मजम्’ [वाल्मी­कि­रा­मा­य­णम् ६-१२०] इत्या­दि­श्री­रा­म­वा­क्यै­रेव स्वकी­य­वि­ष्णु­त्व­ल­क्ष्मी­भ­र्तृ­त्वा­दि­वि­षये अज्ञानावगमात् । ‘राज्यनाशो वने वासस्सीता नष्टा द्विजो हतः । ईदृशीयं ममा­ल­क्ष्मी­र्नि­र्द­हे­दपि पावकम् ॥’ [वाल्मी­कि­रा­मा­य­णम् ३-६७] ‘न मद्विधो दुष्कृ­त­क­र्म­कारी’ इत्यादिभिः श्रीरा­म­वा­क्यै­रे­वा­त्य­न्त­दुः­खि­त्व­प्र­ती­तेश्च इत्यर्थः । ‘सुग्रीवं शरणं गतः’ [वाल्मी­कि­रा­मा­य­णम् ४-४] इत्या­दि­वा­क्या­व­ग­त­दै­न्या­दि­क­मा­दि­प­दार्थः । तस्य कथं­चि­द­भि­न­य­मा­त्र­प­र­त्वा­दिति सम्बन्धः । तस्येत्यस्य तम­स्वि­त्वा­दि­श्र­व­ण­स्ये­त्यर्थः । कथञ्चिदित्यस्य स्वेच्छ­ये­त्यर्थः । विप्र­शा­पा­मो­घ­त्वा­दि­रूपा या स्वेन-प­र­मे­श्व­रेण कृता मर्यादा व्यवस्था तत्प­रि­पा­ल­ना­ये­त्यर्थः । सर्वज्ञस्यापि श्रीरामस्य महा­दे­व­ब्र­ह्मे­न्द्रा­दि­दे­वानां सन्निधौ ‘आत्मानं मानुषं मन्ये’ इत्यादिवचनेन ‘देवानां सन्निधौ मनुष्येण विनय एव कर्तव्यः, न तु प्रागल्भ्यं कर्तव्यम्, तथासति मनुष्यस्यानर्थो भवेत्’ इति या परमेश्वरकृता मर्यादा, सा श्रीरामेण परिपालिता । एवमन्या अपि मनुष्याणां हितार्थाय गुरु­शि­ष्य­स­म्प्र­दा­या­दि­ल­क्षणा मर्यादाः परमेश्वरेण कृताः, तास्सर्वा अपि तदातदा श्रीरा­म­कृ­ष्णाद्यैः लोक­हि­ता­र्था­या­नु­ष्ठिताः, तासां सङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

भृग्विति ।
भृगुशापस्य स्वयं तच्छा­पा­ङ्गी­का­रस्य च सत्यत्वं मनुष्यलोके प्रका­श­यि­तु­मि­त्यर्थः । तत्प्रकाशनफलं च श्रेयोऽर्थिनां विप्र­शा­पा­दि­भ्योऽ­ति­भीत्या निवृत्तिद्वारा श्रेयः­प्रा­प्ति­रेव । भृगुशापादिकं च वाल्मीकीये उत्तररामायणे [७-५१] व्यक्तम् । तथा हि वसिष्ठसन्निधौ दशरथं प्रति दुर्वासाः --- शृणु राजन् पुरावृत्तं पुरा देवासुरे युधि । दैत्या­स्सु­रै­र्ह­न्य­मानाः भृगु­प­त्नी­मु­पा­श्रिताः । तया दत्ताभयास्तत्र न्यवसन् निर्भयास्तदा । तया परि­गृ­ही­तां­स्तान् दृष्ट्वा क्रुद्ध­स्सु­रो­त्तमः । चक्रेण शितधारेण भृगु­प­त्न्या­शि­श­रोऽ­ह­रत् । ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः । शशाप सहसा क्रुद्धो विष्णुं रिपुबलार्दनम्’ । सह­सा-वि­ष्णो­र्ज­ग­दी­श्व­रस्य शापा­न­भि­भा­व्य­त्व­म­वि­चा­र्ये­त्यर्थः । यस्मादवध्यां मे भार्यामवधीः क्रोधमूर्छितः । तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन । तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् । एवं शापं भृगुर्दत्वा विष्णोर्देवस्य विव्यथे । विष्णु­श­क्ति­म­वि­द्वान् सन् प्रपेदे शापमूढताम् । विष्णु­श­क्ति­म­वि­द्वान् सन् विष्णोश्शापं दत्वा पश्चा­द्वि­ष्णु­श­क्ति­प्र­ति­हतं शापं स्वात्मानं प्रति पुनः प्राप्तं ज्ञात्वा व्यथां-भीतिं प्राप्तवान्, व्यथितश्च शापेन मूढतां विसंज्ञतां प्राप्त इत्यर्थः । ‘चिर­का­ल­म­सं­ज्ञोऽ­भू­च्छा­पा­न्ध­त­म­सा­वृतः दृष्ट्वा सप्तर्षयश्चैनं कृपां चक्रुश्च भक्तिभिः ॥’ एनं चिरकालं शापान्धतमसावृतं भृगुं दृष्ट्वा पूर्वं सप्तर्षिषु भृगुणा कृता­भि­र्भ­क्ति­भिः-पू­जाभिः तस्मिन् ते ऋषयः कृपां चक्रुः । शापं च कृपया भृगो­स्स­का­शा­न्नि­स्सा­रि­त­वन्त इत्यर्थः । ‘स च शापः पुरस्तस्थौ मन्दं भृगुरथाब्रवीत् । रक्षध्वं मामृ­षि­श्रे­ष्ठाः­शा­पा­न्म­त्पु­र­त­स्स्थि­तात् । श्रुत्वा तु भृगुवाक्यं तमाहुश्च परमर्षयः । स्तुत्यै­र्ब्र­ह्मे­श­श­क्रा­द्यै­स्स्तू­य­मा­न­म­ह­र्नि­शम् ।’

स्तुत्यैरिति ।
अस्मा­भि­स्स्तु­त्यै­र­पी­त्यर्थः । ‘नारायणं प्रपद्यस्व स्तोत्रैरेव च सुव्रत ।’ नारायणमेव प्रपद्यस्व, नान्य­श्श­क्तस्त्वां मोक्ष­यि­तु­मि­त्यर्थः । ‘भृगुणाऽराधितो विष्णु­रा­ग­त­स्त्व­रितं भृगुम् ।’ कृतापराधमपि भृगुं भक्तवात्सल्यात् त्वरया आगत इत्यर्थः । ‘माभै­र्भृ­गोऽ­नृतं वाक्यं नाभविष्यत् द्विजस्य ते ।’ अनृतं न भविष्यतीत्यर्थः । ‘सम्मोचयित्वा शापा­त्त्वा­म­ह­मेनं गृहीतवान् ।’ अङ्गी­कृ­त­वा­नि­त्यर्थः । ‘अर्चयामास तं देवं भृगुश्शापेन पीडितः । ततोऽ­ब्र­वी­द्दे­व­देवः प्रीतिमान् भक्तवत्सलः । लोकानां तु हितार्थाय शापं तं ग्राह्य­मु­क्त­वान् ।’ तव च हितार्थायेति तुशब्दार्थः । ‘इति शप्तो महातेजाः भृगुणा पूर्वजन्मनि । इहागतस्स पुत्रत्वं तव पार्थिवसत्तम । राम इत्य­भि­वि­ख्या­त­स्त्रिषु लोकेषु मानद ॥’ इति । अहर्निशं ब्रह्मे­शा­दि­स्तु­त्य­त्व­दे­व­दे­व­त्वा­दि­प्र­ति­पा­द­क­रा­मा­य­ण­व­च­नै­रेव श्रीम­हा­वि­ष्णो­र्लो­क­हि­ता­र्थाय श्रीरा­म­रू­पे­णा­व­ती­र्णस्य तम­स्त्वि­दि­श्र­व­ण­म­भि­न­य­मा­त्र­प­र­मिति (???) भावः ।

अन्यथेति ।
तस्या­भि­न­य­मा­त्र­प­र­त्वा­न­ङ्गी­कार इत्यर्थः ।

तस्येति ।
‘नारायणात् ब्रह्मा जायते’ [ना.उ.१] ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थितः’ [म.ना.उ. ९-५] इत्या­दि­श्रु­ति­स­ह­स्र­सि­द्धे­श्व­र[त्व]स्ये­त्यर्थः । ‘एष त आत्मा­न्त­र्या­म्य­मृतः’ [बृ.उ.३-७-३] ‘एष सर्वेश्वरः’ [बृ.उ. ४-४-२१] ‘न तत्स­म­श्चा­भ्य­धि­कश्च दृश्यते’ [श्वे.उ. ६-८] ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’ [क.उ. ३-९] इत्यादिश्रुतिषु नारायणस्य नित्य­मु­क्त­त्व­स­र्वे­श्व­र­त्व­स­मा­भ्य­धि­क­र­हि­त­त्व­मु­क्त­प्रा­प्य­त्वा­दि­श्र­व­णेन तद्वि­रो­ध­प्र­स­ङ्गा­दि­त्यर्थः ।

तस्मादिति ।
मुक्त­स्ये­श्व­र­भा­वा­पत्तौ बाध­का­भा­वा­दि­त्यर्थः ।

ननु, बाधकाभावेऽपि साधकमानं विना कथ­मी­श्व­र­भा­वा­प­त्ति­स्तस्य सिद्ध्य­ती­त्या­शङ्क्य तत्र मानमाह —
अयमेवेति ।
अस्मिन् ब्रह्मणः - परमात्मनः उप­ल­ब्धि­स्था­न­भूते पुरे - शरीरे यदिदं दहरं-अल्पं पुण्डरीकमस्ति वेश्माकारम्, अस्मिन् पुण्ड­री­केऽ­न्त­र्द­हर आकाशो यः श्रुतःस भूताकाशो वा, जीवो वा, परमेश्वरो वा’ इति संशये रूढिबलात् भूताकाश इत्येकः पूर्वः पक्षः, आका­श­वि­शे­ष­ण­द­ह­र­त्व­लि­ङ्गा­द­ल्पो­पा­धि­प­रि­च्छिन्नो जीव इति द्वितीयः पूर्वः पक्षः ।

पक्ष­द्व­य­नि­षे­ध­पू­र्वकं सिद्धान्तं वदन् सूत्रं व्याचष्टे —
न भूताकाश इत्यादिना ।

वाक्यशेषमेव खण्डश उदाहरति —
उभे इति ।
अस्मिन् - प्रकृते दहराकाशे समाहिते-स्थिते । अय­मा­का­शः-भू­ता­काशः । एतच्छब्दाभ्यां दहराकाशो निर्दिष्टः । जिघत्सा - भक्षणेच्छा तद्रहितः, पिपासारहितश्च । अत्र भूताकाशे भूता­का­शो­प­मि­त­त्व­स­त्य­का­म­त्वा­दयो गुणा न सम्भवन्तीति तन्निरासः । परिच्छिन्ने जीवे आका­शो­प­मि­त­त्व­द्या­वा­पृ­थि­व्या­दि­ज­ग­दा­धा­र­त्वा­प­ह­त­पा­प्म­त्वा­दयो गुणा न सम्भवन्तीति जीवनिरासः । उक्तहेतूनां परमेश्वरे सम्भवात् आकाशशब्दस्य तत्र निरूढत्वाच्च स एव दहराकाशः । तस्य दहरत्वं तु न स्वाभाविकं, किं तूपासनार्थं कल्पि­तं-अ­णी­य­स्त्वा­दि­वत् इति निर्णयः । ‘सूत्रान्तरेण जीवेऽ­प्य­प­ह­त­पा­प्म­त्वा­दि­गु­णा­ष्ट­क­म­स्तीति तद्गुणाष्टकं निर्णायकं न भवति’ इत्याशङ्क्य समादधानः सूत्रकारो मुक्त­स्ये­श्व­र­भा­वा­प­त्ति­मा­हेति सम्बन्धः । ‘जीवेऽपि गुणाष्टकमस्ति’ इत्यत्र ‘गुणा­ष्ट­क­यु­क्त­मा­त्मा­न­मु­प­दे­श्य­मु­प­क्षिप्य जीवस्योपदेशात्’ इति हेतुः ।

गुणा­ष्ट­क­यु­क्त­मा­त्मा­न­मु­प­दे­श्य­त्वे­नो­प­क्रम्य प्रजापतिना जीव उपदिष्ट इति कथमवगम्यत इत्यत आह —
य एषोऽ­क्षि­णी­त्या­दिना ।
प्रजापतिना हि पर्या­य­च­तु­ष्ट­ये­नात्मा इन्द्रं प्रत्युपदिष्टः ।

तत्र प्रथ­म­प­र्या­य­वाक्यं —
x‘य एषोऽक्षिणि’ इति ।
पुरुषो जीवः । अक्षिग्रहणं सर्वे­न्द्रि­यो­प­ल­क्ष­णा­र्थम् । ‘चक्षुरादिषु रूपा­द्यु­प­ल­ब्धि­क्रियां कुर्वत्सु सत्सु यः पुरुषो दृश्यते रूपा­द्यु­प­ल­ब्धि­क्रि­या­क­र्तृ­त्वे­ना­नु­मी­यते, एषः युवाभ्यां पृष्ट आत्मा’ इतीन्द्रविरोचनौ प्रति प्रजापतेरुपदेशः ।

तत्रा­क्षि­ग्र­ह­णेन जाग्रदवस्थावान् जीव इह विवक्षित इति प्रतीयते, अव­स्था­न्त­रे­ष्वि­न्द्रि­य­व्या­पा­रा­भा­वा­दिति मत्वा प्रथ­म­प­र्या­य­वा­क्यस्य तात्पर्यमाह —
जाग्र­द­व­स्था­या­मिति ।

द्रष्टृत्वेनेति ।
इन्द्रियैः रूपा­दि­द्र­ष्टृ­त्वे­ने­त्यर्थः । अक्षि­स­न्नि­हि­तस्य स्वप्ना­व­स्था­प­न्नस्य सुषु­प्त्य­व­स्था­प­न्नस्य अव­स्था­त्र­यो­त्ती­र्णस्य च जीवस्योपदेशात् इति सम्बन्धः ।

द्विती­य­प­र्या­य­वा­क्य­मु­दा­ह­रति —
य एष स्वप्न इति ।
महीयमानः - वनितादिभिः पूज्यमान इत्यर्थः । चरति - विष­या­न्वा­स­ना­म­या­न­नु­भ­वति यः, एषः इन्द्रेण त्वया पृष्ट आत्मा इत्यर्थः ।

तृती­य­प­र्या­य­वा­क्य­मु­दा­ह­रति —
तद्यत्रैतदिति ।
यत्र-यस्मिन् काले एतत्-एष जीवः सुप्तः-स्वापं प्राप्तः सम­स्तः-स­म्य­ग्वि­ली­क­र­ण­ग्रामः सम्प्र­स­न्नः-स्व­रू­पा­न­न्दा­नु­भ­व­वान् स्वप्नमपि न विजानाति, एष एव त्वया पृष्ट आत्मा इत्यर्थः ।

चतु­र्थ­प­र्या­य­वा­क्य­मु­दा­ह­रति —
एष सम्प्रसाद - इति ।
सम्यक् प्रसीदत्यस्मिन् जीव इति व्युत्पत्त्या सम्प्र­सा­द­श­ब्द­स्सु­षु­प्त­स्था­न­वा­च­क­स्सन् सुषु­प्त्य­व­स्थो­प­ल­क्षितं जीवमुपलक्षयति । शरीरादुत्क्रम्य परं-उत्कृष्टं ज्योतिः आदित्यं उपसम्पद्य आदित्योपलक्षितं देवयानमार्गं प्राप्य स्वेन स्वकी­ये­नो­पा­स­ना­फ­ल­भू­तै­श्व­र्य­वि­शि­ष्टेन रूपेण अभिनिष्पद्यते । ब्रह्मलोकं गत उपासकः स उत्तमः पुरुषः - उप­क्रा­न्ता­प­ह­त­पा­प्म­त्वा­दि­गु­णक इति पूर्वपक्षरीत्या चतु­र्थ­प­र्या­य­वा­क्यार्थो द्रष्टव्यः । ननु, प्रजापतिवाक्ये पर्या­य­च­तु­ष्ट­यस्य जाग्र­दा­द्य­व­स्था­प­न्न­जी­व­वि­ष­य­क­त्व­म­नु­प­प­न्नम् । प्रथमपर्याये जाग्र­द­व­स्था­वा­चि­प­दा­भा­वेन तस्य जाग्र­ज्जी­व­वि­ष­य­क­त्व­स्या­स्फु­ट­त्वात् ।

तथा च प्रथमपर्याये इन्द्र­वि­रो­च­नाभ्यां पृष्टोऽ­प­ह­त­पा­प्म­त्वा­दि­गु­णक आत्मैव निर्दिष्टः, स च ब्रह्मैवेति प्रजा­प­ति­वा­क्येऽपि ब्रह्मण एव गुणा­ष्ट­क­मु­प­दिष्टं न जीवस्य इति चोद्यस्यात्र नावकाश इत्याह —
य एष स्वप्न इत्या­दि­प­र्या­ये­ष्विति ।

(स्फुटेति ।) स्फुटानि स्वप्न­स्वा­प­श­री­रा­त्स­मु­त्था­न­रू­पाणि जीवलिङ्गानि येषु पर्यायेषु, तेषामेव जीवविषयत्वम्, तेषां ब्रह्म­वि­ष­य­क­त्व­चो­द्या­न­व­का­शात्; प्रथमपर्यायस्य त्वस्फु­ट­जी­व­लि­ङ्गस्य ब्रह्म­वि­ष­य­क­त्व­मिति चोद्यं सावकाशं इति भ्रमो न कर्तव्य इत्यत्र हेतुमाह —
प्रतिपर्यायमिति ।
द्विती­य­प­र्या­यादौ ‘एतं त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि’ इति श्रवणेन प्रथमपर्यायस्य ब्रह्म­वि­ष­य­त्वा­स­म्भ­वा­दि­त्यर्थः । एतदुक्तं भवति — द्विती­या­दि­प­र्या­य­त्र­यस्य जीवविषयत्वं तावत् सम्प्रतिपन्नम् । प्रथ­म­प­र्या­य­स्यापि जीवविषयत्वं वक्तव्यम् । प्रथ­म­प­र्या­य­नि­र्दि­ष्ट­स्यैव ‘एतम्’ इति सर्वनाम्ना आकृष्यमाणत्वात् अर्थभेदे तदयोगादिति । एते­न-प्र­थ­म­प­र्या­यस्य चक्षु­र्गो­ल­क­स्थ­प्र­ति­बि­म्ब­वि­ष­य­त्व­मेव तस्याक्षिणि दृश्यत इति दृश्य­मा­न­त्व­स­म्भ­वा­दिति चोद्यमपि निरस्तम् । द्विती­य­प­र्या­य­ग­तै­त­त्प­देन प्रथ­म­प­र्या­य­नि­र्दिष्टं पुरुषमाकृष्य तस्योत्तरत्र स्वप्न­जी­व­रू­प­त्वो­प­दे­शात्; प्रथमपर्याय एवाक्षिणि निर्दिष्टस्य पुरु­ष­स्या­मृ­त­त्वा­भ­य­त्व­ब्र­ह्म­त्व­स­ङ्गी­र्त­नाच्च । न च प्रतिबिम्बे तत् सम्भवति । न च जीवस्यापि तदसम्भव इति वाच्यम् । जाग्र­दा­द्य­व­स्थासु अमृ­त­त्वा­दे­र­स­म्भ­वेऽ­प्य­व­स्था­त्र­यो­त्ती­र्णस्य तस्य प्रजा­प­ति­वा­क्य­प्रा­मा­ण्यात् तत्सम्भवात् इति पूर्वपक्ष्याशयः ।

एवं ‘उत्तराच्चेत्’ इति सौत्रशङ्काभागं व्याख्याय ‘आवि­र्भू­त­स्व­रू­पस्तु’ इति सिद्धान्तभागं व्याचष्टे —
तत्रेति ।
पर्या­य­च­तु­ष्ट­य­मध्य इत्यर्थः ।

सकलेति ।
तत्त्व­सा­क्षा­त्का­रे­णा­वि­द्या­नि­वृत्तौ सत्यां तन्मू­ल­क­स­क­ल­ब­न्ध­वि­नि­र्मुक्त्या आविर्भूतं अमृ­ता­भ­य­ब्र­ह्म­ल­क्षणं स्वरूपमस्य इत्या­वि­भू­त­स्व­रूपो जीवः प्रतिपाद्यत इत्यर्थः । ननु-च­तु­र्थ­प­र्या­येऽपि पूर्व­प­र्या­ये­ष्विव संसार्यात्मैव कुतो न निरूप्यते ।

तत्पर्यायेऽपि ‘शरीरात् समुत्थाय’ इति शरी­रा­व­धि­को­त्क्रा­न्त्य­व­स्था­वि­शे­ष­वि­शि­ष्टस्य संसारिण एव स्पष्टं प्रती­तेः-इ­त्या­शङ्कां सौत्रा­व­धा­र­णा­र्थ­क­तु­श­ब्द­व्या­ख्या­नेन परिहरति —
न त्विति ।

तत्रेति ।
संसारिणीत्यर्थः । तथा च चतु­र्थ­प­र्या­येऽपि संसारिण एव निरूपणे इन्द्रेण पृष्ट­स्या­प­ह­त­पा­प्म­त्वा­दि­गु­ण­कस्य प्रजापतिना अनुपदिष्टत्वात् प्रजापतिवाक्यं प्रतिवचनमेव न स्यात् । अत­श्च­तु­र्थ­प­र्यायो गुणा­ष्ट­क­यो­ग्य­मु­क्त­जी­व­वि­षय एवेत्यर्थः । न च - पूर्व­प­क्षो­क्त­रीत्या सगुणविद्यया ब्रह्मलोकं गतस्य अप­ह­त­पा­प्म­त्वा­दि­गु­णा­ष्ट­क­स­म्भ­वा­त्-आ­त्य­न्ति­क­मु­क्त­वि­ष­यत्वं चतुर्थपर्यायस्य न वक्तव्यम् । तथा च संसा­रि­वि­ष­य­त्व­मे­वा­स्यापि पर्या­य­स्ये­ति-वा­च्यम् । सगु­ण­वि­द्या­फ­ल­भू­त­स्यापि तस्या­वि­द्या­नि­वृ­त्त्या­दे­र­भा­वेन निर­ङ्कु­शा­प­ह­त­पा­प्म­त्वा­दे­र­स­म्भ­वात्, प्रजा­प­ति­वा­क्यस्य निर्गु­ण­ब्र­ह्म­प­र­त्वस्य समन्वयाध्याय एव सप्रपञ्चं निरूपितत्वाच्च न तद्विद उत्क्रा­न्त्या­दि­स­म्भव इति भावः । तथा­चो­क्त­ता­त्प­र्या­नु­रो­धेन चतु­र्थ­प­र्या­य­स्या­य­मर्थः — शरीरात् समु­त्था­नं-श­री­र­त्र­य­वि­ल­क्ष­णस्य त्वंपदलक्ष्यस्य निर्णयः, परं ज्योतिः-ब्रह्म, तदु­प­स­म्प­त्तिः-त­त्सा­क्षा­त्कारः, तत्फलं मुक्तिः-स्व­स्व­रू­पा­वि­र्भावः स्वेन रूपे­णा­भि­नि­ष्पत्तिः । स च मुक्तः उत्तमः पुरुषः -

परमात्मैवेति ।

ननुः चतु­र्थ­प­र्या­य­स्यैव पृष्ट­गु­णा­ष्ट­क­यु­क्ता­त्म­नि­रू­प­ण­प­रत्वे पूर्व­प­र्या­या­णा­म­व­स्था­त्र­यो­प­न्या­स­रू­पाणां वैयर्थ्यं स्यादिति, नेत्याह —
अव­स्था­त्र­यो­प­न्या­स­स्येति ।
जाग्र­द­व­स्था­या­म­न्ध­त्व­वि­ना­शि­त्वा­दि­दो­षा­भि­धा­नेन स्वप्नावस्थायां रोद­ना­दि­दो­षा­भि­धा­नेन सुषु­प्त्य­व­स्थायां स्वप­र­ज्ञा­ना­भा­व­वि­न­ष्ट­प्रा­य­त्वा­दि­दो­षा­भि­धा­नेन चाव­स्था­त्र­य­क­लु­षि­तस्य जैवरूपस्य लोकसिद्धस्य हेय­त्व­ज्ञा­प­न­द्वारा तज्जि­हा­सो­र­धि­का­रिणो वास्त­व­ब्र­ह्म­स्व­रू­प­नि­रू­प­णार्थं चतु­र्थ­प­र्या­य­प्र­वृ­त्ति­रि­त्य­व­ग­मात् पूर्वपर्यायाणां चतु­र्थ­प­र्या­य­शे­षत्वं प्रतीयते । अतो न तेषां वैय­र्थ्य­मि­त्यर्थः ।

समादधान इति ।
अप­ह­त­पा­प्म­त्वा­दि­गु­णा­ष्टकं दहराकाशस्य ईश्व­र­त्व­नि­र्णा­यकं न भवति । प्रजा­प­ति­वा­क्यात् जीवेऽपि गुणा­ष्ट­क­स­त्त्वेन तस्य व्यभि­चा­रि­त्वात्, इत्या­श­ङ्क्य-प्र­जा­प­ति­वाक्ये मुक्तजीव एव गुणाष्टकयुक्तः प्रतिपाद्यते, न तु बद्धजीवः । ततो न गुणाष्टकस्य पर­मे­श्व­रा­द­न्यत्र सत्त्वम् । येन तस्यान्यत्रापि सत्त्वेन व्यभिचारितया निर्णायकत्वं न स्यात् इति समादधान इत्यर्थः ।

ननु ‘तत्र सत्य­स­ङ्क­ल्प­त्वा­दि­गु­ण­बा­धात्’ इति पूर्वग्रन्थेन चतुर्थपर्याये गुणाष्टकयुक्तो मुक्तजीवः प्रतिपाद्यत इति सूत्रतात्पर्यं वर्णितम्, तावता मुक्त­स्ये­श्व­र­भा­वा­पत्तिः कथं सूत्र­का­रे­णोक्ता, तत्राह —
तदभाव इति ।
मुक्त­स्ये­श्व­र­भा­वा­प­त्त्य­भावे बद्धजीव इव मुक्तजीवेऽपि निरस्तोपाधिके सत्य­स­ङ्क­ल्प­त्वा­दि­गु­णा­यो­गात् गुणा­ष्ट­क­यु­क्त­स्या­त्मनो निरूपणं प्रजापतिवाक्ये न स्यात् । अतो मुक्तजीवस्य गुणा­ष्ट­क­यु­क्त­त्व­मी­श्व­र­भा­वा­प­त्त्यै­वेति सूत्रकारस्य तात्पर्यं निश्चीयत इत्यर्थः ।

ननु जीवे­श्व­र­यो­र्व­स्तुत एव भिन्न­त्वा­न्मु­क्तस्य नेश्व­र­भा­वा­पत्त्या गुणाष्टकयोगः किं तु स्वत एवेत्याशङ्कां निराकरोति —
अनु­क्रा­न्त­स्येति ।
उपक्रमे श्रुत­स्ये­त्यर्थः ।

कृतेति ।
गुणाष्टकस्य जीवसाधारणत्वेन ईश्व­रा­सा­धा­र­ण­त्वा­भा­वात् न ईश्वरलिङ्गत्वं गुणाष्टकस्य-इति या शङ्का ‘उत्तराच्चेत्’ इति सूत्रभागेन कृता, तस्याश्शङ्कायाः गुणा­ष्ट­क­यु­क्तस्य मुक्तस्य वस्तुगत्या ईश्वरात् भिन्नत्वपक्षे परिहारो न लभ्यते । तथा च सूत्रविरोधात् न मुक्त­स्ये­श्व­रात् भेदे­ना­व­स्था­न­मिति भावः ।

तस्मिन्निति ।
‘उत्त­रा­च्चे­दा­वि­र्भू­त­स्व­रू­पस्तु’ इत्य­स्मि­न्नि­त्यर्थः ।

तस्मादिति ।
जीव­ब्र­ह्मा­भे­दस्य वास्त­व­त्वा­दि­त्यर्थः । ‘तस्मात्’ इत्यनन्तरं ‘यत्’ इति पद­म­ध्या­ह­र्त­व्यम् । विद्यया तद्वि­ल­य­ने­ना­वि­द्य­क­सं­सा­र­नि­वृ­त्ति­द्वारा संसारविलक्षणं रूपं प्रतिपद्यत इत्यर्थः । ननु - अत्र मुक्त­स्ये­श्व­र­भा­वा­पत्तौ किं ‘उत्तराच्चेत्’ इति सूत्र­भा­ग­कृ­त­श­ङ्का­प­रि­हा­रा­ला­भ­प्र­सङ्गो निया­म­क­त्वे­ना­भि­मतः, किं वा प्रजा­प­ति­वा­क्य­मेव मुक्त­स्ये­श्व­र­भा­वा­पत्तौ निया­म­क­त्वे­ना­भि­म­तम् । नाद्यः । मुक्तस्य बिम्ब­भू­ते­श्व­र­भा­वा­पत्तिं विना केव­ल­चि­न्मा­त्र­रू­पे­णै­वा­व­स्था­ना­भ्यु­प­गमे गुणाष्टकस्य बिम्ब­भू­ते­श्व­रा­द­न्य­त्रा­भा­वेन तस्य तदसाधारणस्य दहराकाशे ईश्व­र­त्व­नि­र्णा­य­क­त्व­स­म्भ­वात् । न द्वितीयः । निर्गु­ण­वि­द्या­प्र­क­र­ण­रूपे प्रजापतिवाक्ये गुणा­ना­म­वि­व­क्षि­त­त्वेन मुक्तजीवेऽपि गुणा­ष्ट­क­वै­शि­ष्ट्य­स्या­प्र­ति­पा­द्य­त्वात् । ज्ञेय­ब्र­ह्म­प्र­क­रणे गुण­वै­शि­ष्ट्य­स्या­प्र­ति­पा­द्यत्वं आन­न्द­म­या­धि­क­र­णा­र­म्भ­भाष्ये स्पष्टमभिहितम् ।

तथा च भाष्यम् —
x‘एकमपि ब्रह्मा­पे­क्षि­तो­पा­धि­स­म्बन्धं निर­स्तो­पा­धि­स­म्बन्धं चोपास्यत्वेन ज्ञेयत्वेन च वेदा­न्ते­षू­प­दि­श्यते’ [ब्र.सू.भा. १-१-६/१२] इति ।
अत्र भाष्ये वेदान्तेषु निर­स्तो­पा­धि­स­म्बन्धं ब्रह्म ज्ञेय­त्वे­नो­प­दि­श्यत इत्युक्त्या ज्ञेय­ब्र­ह्म­प्र­क­र­णेषु गुण­वै­शि­ष्ट्य­स्या­प्र­ति­पा­द्यत्वं स्पष्टं प्रतीयते । अत एव सिद्धान्ते ज्ञेय­ब्र­ह्म­प­राणां वेदान्तानां संस­र्गा­गो­च­र­प्र­मि­ति­ज­न­क­त्व­रू­प­म­ख­ण्डा­र्थ­त्व­मि­ष्यते । तस्मात् प्रजा­प­ति­वा­क्यो­प­क्रमे श्रुतं सत्य­स­ङ्क­ल्प­त्वा­दिकं बृह­दा­र­ण्य­क­ष­ष्ठा­ध्या­य­ग­त­स­र्वे­श्व­र­त्वा­दि­गु­ण­जा­त­वत् ज्ञेय­ब्र­ह्म­प्र­शं­सा­प­रम्, उपलक्षणमात्रं वा, न तु दह­र­वि­द्या­ग­त­गु­णा­ष्ट­क­वत् प्रतिपाद्यम् । ‘तद्विपरीतं अप­ह­त­पा­प्म­त्वा­दि­गु­णकं पारमेश्वरं रूपं विद्यया प्रतिपद्यते’ इति भाष्यमपि गुणा­ष्ट­को­प­ल­क्षितं ब्रह्म प्रतिपद्यत इति योजनीयम् ।

अतो मुक्त­स्ये­श्व­र­भा­वा­पत्तौ नोदा­हृ­त­श्रु­ति­सू­त्र­भा­ष्याणि प्रमाणं भवितुमर्हन्ति इत्यस्वरसादाह —
अवि­रो­धा­ध्या­येऽ­पीति ।
वेदा­न्त­स­म­न्व­यस्य प्रथमाध्याये निरूपितस्य माना­न्त­र­वि­रो­ध­स­मा­धा­न­प्र­ति­पा­दके द्विती­या­ध्या­येऽ­पी­त्यर्थः । अवि­रो­धा­ध्या­येऽपि समाहितेन शङ्काग्रन्थेन भाष्यकारो मुक्त­स्ये­श्व­र­भा­वा­पत्तिं स्पष्टीचकार - इति सम्बन्धः । उन्निनीषते - उत्कृष्टं लोकं नेतुमिच्छतीति यावत् । कर्मकर्ता जीव उपकार्यः, कर्मकारयिता ईश्वर उपकारकः, तयोः श्रुत्य­व­ग­तो­प­का­र्यो­प­का­र­क­भा­व­ब­लात् सामान्यतः कश्चित् सम्बन्धोऽवगतः, सम्बन्धं विना लोके तद्भावादर्शनात् । स च सम्बन्धः क इति विशे­षा­का­ङ्क्षायां तयो­रं­शां­शि­भा­व­स्स­म्बन्ध इति निरू­प­णा­र्थ­त्वे­ने­त्यर्थः । जीव ईश्वरस्यांशः । कुतः । नानात्वस्य - भेदस्य व्यपदेशादिति सूत्र­भा­गा­क्ष­रार्थः ।

भाष्यं पठति —
जीवस्येत्यादिना ।

ईश्वरस्य स्वांश­भू­त­स­क­ल­जी­व­ग­त­दुः­ख­भाक्त्वे को दोषः ? तत्राह —
ततश्चेति ।
तत्पदमीश्वरपरम् ।

तत इति ।
ईश्व­र­प्रा­प्ते­स्स­का­शात् पूर्वा­व­स्थि­त­सं­सा­रा­ङ्गी­क­र­ण­मेव वरमिति बुद्ध्या ईश्व­र­प्रा­प्त्यु­पाये सम्यग्ज्ञाने कोऽपि न प्रवर्तेत, ततश्च ज्ञान­शा­स्त्र­म­प्र­माणं स्यादित्यर्थः । अस्याश्शङ्कायाः परि­हा­र­ग्र­न्थ­रू­पयोः सूत्रभाष्ययोः अभिप्रेतो जीव­प­र­मे­श्व­र­यो­रं­शां­शिनोः परस्परं धर्मासङ्करो भाम­त्या­दि­ग्र­न्थेषु स्पष्टीकृतः । कथं ? जीवा­स्ता­व­द­वि­द्या­प्र­ति­बि­म्ब­भूता ईश्वरांशत्वेन श्रुति­सू­त्र­भा­ष्येषु विवक्षिताः, न तु हस्त­पा­दा­दि­व­द­व­यवाः । तथा बिम्ब­भू­ते­श्व­रोंऽ­शि­त्वेन विवक्षितः, न त्ववयवी । बिम्ब­प्र­ति­बि­म्ब­योश्च लोके धर्मासाङ्कर्यं प्रसिद्धम् । अतो न जीवगतानां दुःखानामीश्वरे प्रसक्तिरिति ।

स्पष्टीचकारेति ।
ननु मुक्तस्य ईश्व­र­भा­वा­प­त्तिर्न सिद्धान्तसम्मता । तथा हि — यावत्सर्वमुक्ति ईश्व­र­भा­वा­प­त्ति­र्मु­क्त­स्येति स्वीकारे हि चरमं मुच्यमानस्य निर्वि­शे­ष­चि­न्मा­त्र­स्व­रू­पे­णै­वा­व­स्था­न­ल­क्षणा मुक्तिः, ततः प्राङ्मु­च्य­मा­नानां तु स्वत­श्चि­न्मा­त्र­रू­पे­णा­व­स्थि­ता­ना­मी­श्व­र­भा­वा­पत्त्या निर­व­ग्र­है­श्व­र्य­प्रा­प्ति­रूपा मुक्तिः, इति परममुक्तौ बहू­ना­मै­श्व­र्य­प्राप्तिः एकस्य तत् नास्तीत्येकं वैषम्यं, बहू­ना­मै­श्व­र्य­प्रा­प्ता­वपि क्रमेण मुच्यमानानां चिरा­चि­र­का­लै­श्व­र्य­ल­क्ष­ण­म­परं तारतम्यं, तेषामेव किञ्चि­त्का­ल­मै­श्वर्यं पश्चात्तदभाव इत्यादिरूपं तारतम्यं कल्पितं स्यात् । तच्च तृती­या­ध्या­या­न्ति­मा­धि­क­र­ण­वि­रु­द्धम् । तत्र हि सगु­ण­वि­द्या­फ­ल­भू­ता­या­म­वा­न्त­र­मु­क्ता­वेव तारतम्यं न तु परममुक्ताविति व्यवस्थापितम् । न च - तदधिकरणस्य परममुक्तौ वस्तु­त­स्ता­र­तम्यं नास्तीति प्रतिपादने तात्पर्यम्, तथा च काल्प­नि­क­ता­र­तम्ये सत्यपि न तदधिकरणविरोध इति - वाच्यम् । सिद्धान्ते सगु­ण­वि­द्या­फ­ल­भू­ता­वा­न्त­र­मु­क्ता­वपि वास्त­व­ता­र­त­म्या­भा­वेन ‘सगुणमुक्तावेव तारतम्यं न निर्गु­ण­वि­द्या­फ­ल­भू­तायां परममुक्तौ’ इति व्यवस्थापनपरस्य भाष्या­दे­र्नि­रा­ल­म्ब­न­त्वा­पत्तेः । अतो मुक्त­स्ये­श्व­र­भा­वा­प­त्तिर्न सिद्धान्तसम्मता । एवंस्थिते प्रकृते किं शङ्का­भा­ष्य­प­र्या­लो­च­नया ईश्व­र­भा­वा­प­त्ति­र्भा­ष्य­का­रा­भि­म­तेति कल्प्यते, किं वा परि­हा­र­भा­ष्या­भि­प्रा­या­लो­च­नया तथा कल्प्यते ? नाद्यः । शङ्केन सिद्धा­न्त्य­न­भि­म­ता­मी­श्व­र­भा­वा­प­त्ति­मा­पाद्य चोद्य­क­र­णो­प­पत्तेः । न हि सर्वत्र सिद्धा­न्त्य­भि­म­त­मे­वा­र्थ­म­व­लम्ब्य पूर्वपक्षिणा सिद्धान्तिनं प्रत्य­नि­ष्ट­मा­श­ङ्क्यत इति नियमो दृश्यते ।

द्वितीयकल्पस्य हीत्थमुत्थितिः —
x‘ईश्वरभावं प्राप्तानां महत्तरं दुःखं स्यात्’ इति शङ्काया द्वेधा परिहारस्सम्भवति ।
ईश्वरस्य सकलजीवदुःखैः दुःखित्वेऽपि न मुक्तानां मह­त्त­र­दुः­ख­प्राप्तिः, तेषां शुद्ध­चि­न्मा­त्र­रू­पे­णै­वा­व­स्था­ना­भ्यु­प­ग­मे­ने­श्व­र­भा­वा­प­त्ते­र­न­भ्यु­प­ग­मात् - इत्येकः प्रकारः । ईश्वरस्य दुःखाभावे समर्थिते सति तं प्राप्तानां मुक्तानां दुःखं स्यादिति शङ्का अर्थात्परिहृता भवतीत्याशयेन बिम्ब­प्र­ति­बि­म्ब­भा­व­कृ­त­भे­दा­धी­न­ध­र्म­व्य­व­स्था­स­म­र्थनं द्वितीयः प्रकारः । तत्र परि­हा­र­भा­ष्य­भा­म­त्या­दि­नि­ब­न्ध­नेषु प्रथमप्रकारं विहाय द्विती­य­प्र­का­र­स्यै­वा­व­ल­म्ब­नात् शङ्का­ग्र­न्थोक्ता मुक्ता­ना­मी­श्व­र­भा­वा­पत्तिः भाष्य­का­रा­द्य­नु­म­तेति प्रतीयते । अने­नै­वा­भि­प्रा­येण ‘भाम­त्या­दि­स्प­ष्टी­कृ­त­बि­म्ब­प्र­ति­बि­म्ब­भा­व­कृ­ता­स­ङ्क­र­मु­पा­दाय समाहितेन’ इत्युक्तमिति ।

एवमुत्थितः परि­हा­र­भा­ष्य­प­र्या­लो­च­ना­रूपो द्विती­य­प्र­का­रोऽपि मुक्त­स्ये­श्व­र­भा­वा­प­त्ता­व­न­न्य­था­सि­द्ध­हे­तुर्न भवति ।
परिहारभाष्यादौ प्रथ­म­प्र­का­र­म­व­लम्ब्य ‘मुक्ता­ना­मी­श्व­र­भा­वा­प­त्ति­र्नास्ति । तेषां शुद्ध­चि­न्मा­त्र­रू­पे­णै­वा­व­स्था­ना­भ्यु­प­ग­मात् । अतो न ज्ञाना­न­र्थ­क्य­प्र­सङ्गः’ इति वास्तवपरिहारे कथिते हि ज्ञाना­न­र्थ­क्य­श­ङ्का­प­रि­हा­रेऽपि ईश्वरस्य सक­ल­जी­व­दुः­खै­र्दुः­खि­त्व­प्र­सङ्गः परिहृतो न भवतीति तत्प्रसङ्गशङ्का अवशिष्येत, सापि शङ्का माभूदित्यालोच्य प्रथमं प्रकारं विहाय द्विती­य­प्र­का­र­म­व­लम्ब्य महता यत्नेन परमेश्वरस्य दुःखि­त्व­प्र­सङ्गः परिहृतो भाष्यादिष्विति वक्तुं शक्यत्वात् । परि­हा­र­भा­ष्या­दिषु परमेश्वरस्य दुःखि­त्व­प्र­स­ङ्ग­प­रि­हा­रा­न­न्तरं ‘तथा च मुक्ता­ना­मी­श्व­र­भा­वा­प­त्ति­र्ना­नु­प­पन्ना’ इति परा­पा­दि­ता­नु­प­प­त्त्य­भा­वो­प­सं­हा­रा­द­र्श­नाच्च । किं च छान्दोग्ये सप्तमाध्याये ‘स एकधा भवति त्रिधा भवति पञ्चधा, सप्तधा नवधा चैव पुनश्चैकादश स्मृतः । शतं च दश चैकश्च सहस्राणि च विंशतिः’ [छा.उ. ७-२६-२] इति वाक्येन परब्रह्मविदो अने­क­श­री­र­प­रि­ग्र­हा­दि­रू­प­मै­श्वर्यं श्रूयते । तच्च मुक्त­स्ये­श्व­र­भा­वा­प­त्ति­पक्षे परममुक्तस्यैव सम्भवति । तथा च ‘एकधा भवति’ इत्यादिवचनं निर्गु­ण­वि­द्या­फ­ल­स­म­र्पकं न भवति, किं तु सगु­णो­पा­स­ना­फ­ल­स­म­र्प­कम्, तच्च निर्गु­ण­वि­द्या­फ­ल­प्र­शं­सार्थं निर्गु­ण­वि­द्या­प्र­क­रणे पठ्यते इति भाष्या­दि­व्य­व­हारो विरुध्येत ।

तथा च सगु­ण­वि­द्या­फ­ल­वि­चा­र­प्र­स्तावे भाष्यं —
x‘यद्यपि निर्गुणायां भूम­वि­द्या­या­म­ने­क­धा­भा­व­वि­कल्पः पठ्यते, तथापि विद्यमानमेवेदं सगु­णा­व­स्था­या­मै­श्वर्यं भूम­वि­द्या­स्तु­तये सङ्कीर्त्यते’ इति ।
यदि मुक्त­स्ये­श्व­र­भा­वा­पत्तिः सूत्र­भा­ष्य­का­र­यो­र­भि­प्रेता स्यात्, तदा ‘स एकधा भवति’ इति वचनस्य निर्गु­ण­वि­द्या­फ­ल­स­म­र्प­क­त्वेन प्रक­र­ण­स­म­वे­ता­र्थस्य सगु­ण­वि­द्या­फ­ल­स­म­र्प­क­त्वा­यो­गात् एतद्वचनस्य तत्फ­ल­स­म­र्प­क­त्व­मा­श्रित्य सूत्रभाष्ययोः प्रवृत्तो ‘भावं चैमि­नि­र्वि­क­ल्पा­म­न­नात् [ब्र.सू. ४-४-११] इत्यादिविचारो निरालम्बन एव स्यात् । ब्रह्मलोकं गतस्य सगुणोपासकस्य स्थूल­श­री­र­स­द्भावं जैमिनिराचार्यो मन्यते । ‘स एकधा भवति’ इत्यादिना अने­क­धा­भा­व­रू­प­वि­क­ल्प­श्र­व­णात् स्थूलशरीरभेदं विना एक­स्यो­पा­स­क­स्या­ने­क­धा­भा­वा­स­म्भ­वात् इति सूत्रार्थः ।

तस्मात् उदा­हृ­त­श­ङ्का­भा­ष्य­ग्र­न्थस्य तत्प­रि­हा­र­भा­ष्या­दि­ग्र­न्थस्य च मुक्ता­ना­मी­श्व­र­भा­वा­प­त्ता­व­न­न्य­था­सि­द्ध­प्र­मा­ण­त्वा­भा­वात् उदा­हृ­ता­ने­का­धि­क­र­ण­त­द्भा­ष्या­दि­वि­रो­धाच्च सा भाष्याभिमतेति कल्पयितुं न शक्यत इत्यस्वरसादाह —
साध­ना­ध्या­येऽ­पीति ।
ब्रह्म­वि­द्या­सा­ध­न­वै­रा­ग्या­दि­प्र­ति­पा­द­क­तृ­ती­या­ध्या­येऽ­पी­त्यर्थः । साधनाध्यायेऽपि सूत्रकारः सूत्राभिप्रायं वर्णयन् भाष्यकारश्च मुक्तस्य पर­मे­श्व­र­भा­वा­पत्तिं स्पष्टीचकार इति सम्बन्धः । सन्ध्ये-जा­ग्र­त्सु­षुप्त्योः सन्धौ भवे स्वप्नस्थाने रथादिसृष्टिः सत्या भवितुमर्हति । हि - यस्मात् श्रुतिराह रथादिसृष्टिम् ‘अथ रथान् रथयोगान् पथस्सृजते’ [बृ.उ. ४-३-१०] इत्यादिका । न हि श्रुतिसिद्धा सृष्टिरसत्या भवितुमर्हति । वियदादिसृष्टौ श्रुति­सि­द्धा­या­म­स­त्य­त्वा­द­र्श­नात् — इति सूत्रार्थः । रथयोगाः - अश्वाः ।

कर्तृ­त्व­मा­श­ङ्क्येति ।
यथा अग्न्यंशस्य विष्फु­लि­ङ्ग­स्या­ग्ने­रिव दह­न­प्र­का­श­न­सा­म­र्थ्य­मस्ति, तथा जीवस्य पर­मे­श्व­रां­श­त्वा­त्त­द्व­देव जीवस्यापि स्वप्ना­दि­सृ­ष्ट्य­नु­कूलं सत्य­स­ङ्क­ल्प­त्वा­दि­ल­क्षणं सामर्थ्यमस्ति, अतस्तस्य स्वप्नसृष्टौ कर्तृत्वं सम्भ­व­ती­त्या­श­ङ्क्ये­त्यर्थः । सत्यं जीवस्य सत्य­स­ङ्क­ल्प­त्वा­दि­क­मस्ति, किं तु तत्तिरोहितं वर्तते संसारदशायाम् । अतो न सृष्ट्या­दा­वु­प­यो­ग­स्तस्य । तच्च तिरो­हि­त­मै­श्वर्यं पर­स्य­बि­म्ब­भू­ते­श्व­रस्य अभि­ध्या­ना­दी­श्व­र­सा­क्षा­त्का­र­प­र्य­न्ता­त्ति­रो­धा­य­क­नि­वृ­त्ता­व­भि­व्य­ज्यते ।

ईश्व­र­ध्या­ना­द­भि­व्यक्तौ हेतुमाह —
तत इति ।
हि - यस्मात् कारणात् ततः - ईश्वरादज्ञातात् बन्धोऽस्य जीवस्य, तत एव ज्ञातात् बन्धविपर्ययः ऐश्व­र्या­वि­र्भावः - इति सूत्रार्थः ।

सदपीत्यत्र हेतुः —
ईश्व­रा­भि­न्न­त्वा­दिति ।
जन्तोः - र्जीवस्य सत्य­स­ङ्क­ल्प­त्वा­दि­ल­क्ष­णै­श्व­र्या­वि­र्भा­वार्थं यतमानस्य श्रवणमननात्मकं विचारमनुतिष्ठतः क्रमेण परं पर­मे­श्व­रं-अ­भे­देन ध्यायतः कस्य­चि­दे­व­प्र­ति­ब­न्ध­र­हि­तस्य श्रव­ण­म­न­न­ध्या­ना­नु­ष्ठा­न­ज­नि­तात् ईश्वरप्रसादात् संसि­द्ध­स्य-अ­प्र­ति­ब­द्ध­प­र­मे­श्व­र­सा­क्षा­त्का­र­वतः (इत्यर्थः ।) तिमि­रे­ण-रो­ग­वि­शे­षेण तिरस्कृता दृशः­च­क्षु­ष­श्श­क्ति­र्यथा औष­ध­वी­र्या­दा­वि­र्भ­वति, तथेत्यर्थः ।

न स्वभावत एवेति ।
यथो­क्त­सा­ध­न­स­म्पत्तिं विनेत्यर्थः ।

अभि­व्य­क्त्य­ङ्गी­का­रे­णेति ।
ईश्वरभावापत्तिं विना मुक्तस्य सत्य­स­ङ्क­ल्प­त्वा­द्य­भि­व्य­क्तिर्न सम्भवतीत्यर्थः । अत्रेदं विचार्यते — किं प्रति­बि­म्ब­त्व­वि­शि­ष्ट­चै­त­न्य­रू­प­जी­व­ग­तस्य सत्य­स­ङ्क­ल्प­त्वादेः मुक्ता­वा­वि­र्भावः प्रतिपाद्यते, किं वा बिम्ब­त्व­वि­शि­ष्ट­चै­त­न्य­रू­पे­श्व­र­ग­तस्य । नाद्यः । ईश्व­र­ग­त­स­त्य­स­ङ्क­ल्प­त्वा­द्य­पे­क्षया जीवे पृथक् सत्य­स­ङ्क­ल्प­त्वा­दि­सत्त्वे प्रमाणाभावात् । न हीश्वरस्येव जीवस्यापि पृथक् तत्स­त्त्व­प्र­ति­पा­दकं शास्त्रमस्ति । न च जीव­स्ये­श्व­रा­भि­न्न­त्वा­त्त­त्स­मा­न­ध­र्म­व­त्त्व­म­नु­मातुं शक्यते । लोके बिम्ब­मु­खा­भि­न्न­स्यापि प्रति­बि­म्ब­मु­खस्य बिम्बवत् अव­दा­त­त्वा­दि­ध­र्मा­द­र्श­नेन व्यभिचारात्, तत्त्व­सा­क्षा­त्का­रा­द­वि­द्या­नि­वृत्तौ अवि­द्या­नि­रू­पि­त­प्र­ति­बि­म्ब­त्व­स्यापि निवृत्त्या प्रति­बि­म्ब­जी­वा­श्रि­त­स­त्य­स­ङ्क­ल्प­त्वा­दे­र­व­स्था­न­स्यै­वा­भा­वेन मुक्तौ तद­भि­व्य­क्त्य­स­म्भ­वात्, बन्ध­द­शा­या­मा­वृ­तस्य सत्य­स­ङ्क­ल्प­त्वा­दे­रु­प­यो­गा­भा­वस्य स्पष्टतया जीवे पृथ­क्त­त्क­ल्प­न­वै­य­र्थ्याच्च । न च - बन्धदशायामेव सगु­ण­वि­द्या­फ­ल­भू­ता­वा­न्त­र­मुक्तौ सत्य­स­ङ्क­ल्प­त्वा­दे­रु­प­यो­गो​​ऽ­स्तीति न तद्वैयर्थ्यं - इति वाच्यम् । तत्रापि ईश्व­र­स­मा­न­स­त्य­स­ङ्क­ल्प­त्वा­द्य­भि­व्य­क्त्य­न­भ्यु­प­ग­मेन जीवे तत्स­मा­नै­श्व­र्यस्य तिरोहितस्य कल्प­ना­वै­य­र्थ्यात् । तस्मात् प्रति­बि­म्ब­चै­त­न्य­रू­प­जीवे पृथक् सत्य­स­ङ्क­ल्प­त्वा­दि­क­ल्पनं प्रमा­ण­प्र­यो­ज­न­शू­न्यम् । तथा ‘बिम्ब­भू­ते­श्व­र­गतं सत्य­स­ङ्क­ल्प­त्वा­द्यै­श्वर्यं बन्धदशायां जीवान्प्रति जीवा­वि­द्या­भि­स्ति­रो­हितं सत् ईश्व­र­सा­क्षा­त्का­रात् मुक्तौ तेषा­म­भि­व्य­ज्यते’ इति द्विती­य­प­क्षो​​ऽ­प्य­नु­प­पन्नः । सत्य­स­ङ्क­ल्प­त्वा­दि­वि­शि­ष्टे­श्व­र­स्या­वि­द्या­वृ­तत्वे मानाभावात् । न च ‘इदानीमहं सत्य­स­ङ्क­ल्प­त्वा­दि­गु­णक ईश्वरो​​ऽस्मि’ इत्यनुभवाभावात् तद्वि­शि­ष्टे­श्व­र­स्या­वृ­तत्वं कल्प्यत - इति वाच्यम् । प्रति­बि­म्ब­जी­वानां बिम्ब­भू­ते­श्व­रस्य च कल्पि­त­भे­दा­भ्यु­प­गमे तत एव जीवस्य जीवा­न्त­र­सा­क्षा­त्का­रा­भा­व­व­दी­श्व­र­सा­क्षा­त्का­रा­भा­वो­प­पत्त्या तद्वि­शि­ष्टे­श्व­रस्य आवृ­त­त्व­क­ल्प­ना­वै­य­र्थ्यात्, विशि­ष्टे­श्व­र­स्या­वृ­त­त्व­क­ल्पने विशि­ष्टा­वा­र­का­वि­द्या­नि­व­र्त­क­ज्ञा­ना­स­म्भ­वेन तद­नि­वृ­त्ति­प्र­स­ङ्गाच्च, तत्त्व­म­स्या­दि­वा­क्य­ज­न्य­ज्ञा­नस्य शुद्ध­चि­न्मा­त्र­गो­च­रस्य तद्वि­शि­ष्टे­श्व­र­वि­ष­य­क­त्वा­भा­वेन विशि­ष्टा­व­र­णा­नि­व­र्त­क­त्वात्, अवि­द्या­या­श्शु­द्ध­चि­न्मा­त्रा­वा­र­क­त्वा­श्र­यणे च सत्य­स­ङ्क­ल्प­त्वा­द्यै­श्व­र्यस्य अविद्यया तिरो­धा­ना­सि­द्धेश्च । न च जीवस्य स्वकी­य­त्वे­ने­श्व­र­ग­त­स­त्य­स­ङ्क­ल्प­त्वा­द्य­प्र­ती­ति­रे­वात्र तिरोधानं विवक्षितं इति वाच्यम् । तथासति तदुत्तरसूत्रे तिरोधानस्य अवि­द्या­प्र­यु­क्ता­व­र­ण­रू­प­त्व­प्र­ति­पा­द­न­वि­रो­धात् । तस्मात् ईश्व­र­ग­त­स­त्य­स­ङ्क­ल्प­त्वा­द्यै­श्व­र्यस्य जीवा­वि­द्या­ति­रो­हि­तत्वं ऐश्व­र्य­ति­रो­धा­नस्य तत्त्व­सा­क्षा­त्का­र­नि­व­र्त्यत्वं चाभ्युपेत्य ‘पराभिध्यानात्’ इति सूत्र­त­द्भा­ष्ययोः प्रवृत्तिरिति वक्तव्यम् ।

उक्तं चास्य सूत्रस्य अभ्यु­पे­त्य­वा­दत्वं सर्व­ज्ञा­त्म­मु­निभिः, तेषां वचनं मूल एवोदाहरिष्यते — इति मुक्त­स्ये­श्व­र­भा­वा­पत्तौ नैत­त्सू­त्रा­दि­क­मपि मान­मि­त्य­स्व­र­सा­दाह —
फला­ध्या­ये​​ऽ­पीति ।

केन रूपेणेति ।
किं सर्व­ज्ञ­त्व­स­र्वे­श्व­र­त्वा­प­ह­त­पा­प्म­त्वा­दि­गु­ण­वि­शि­ष्टेन रूपेण मुक्तो​​ऽ­व­ति­ष्ठते, किं वा शुद्ध­चि­न्मा­त्र­रू­पे­णै­वा­व­ति­ष्ठते, अथवा द्विविधेन रूपेण ? इति जिज्ञासायां सत्यामित्यर्थः ।

उपन्यासेनेति ।
उद्दे­श­रू­प­वा­क्य­जा­ते­ने­त्यर्थः । ‘य आत्मा​​ऽ­प­ह­त­पाप्मा’ इत्युपक्रम्य ‘सो​​ऽन्वे­ष्टव्यः’ इति विचारविधानात् । तथा ‘एष सर्वेश्वरः’ इत्या­द्यु­प­क्रम्य ‘तमेतं यज्ञादिना विविदिषन्ति’ इति तद्वेदने यज्ञादिविधानात् । उपन्यासग्रहणं सर्व­ज्ञ­त्वा­दि­व्य­प­दे­श­स्या­प्यु­प­ल­क्ष­णम् । तथा च सर्व­ज्ञ­त्वा­दि­व्य­प­देशः — x‘यस्सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः’ [मु.उ. १-१-९] इत्यादिः । व्यपदेशो नाम यो वाक्यसन्दर्भः उद्देशरूपो न भवति विधिरूपश्च न भवति स एव । सर्व­ज्ञ­त्वा­दि­स­न्द­र्भश्च नोद्देशरूपः, विधे­या­नु­प­ल­म्भात् । नापि विधिः । यच्छ­ब्द­घ­टि­त­त्वेन अनु­वा­द­त्व­प्र­तीतेः । तथा च ‘मुक्तो ब्राह्मेण वास्तवेन धर्मजातेन युक्तो​​ऽ­व­ति­ष्ठते । कुतः । उप­न्या­स­व्य­प­दे­श­वि­धि­भ्यः­तस्य ब्रह्माभिन्नस्य तद्रू­प­यु­क्त­त्वा­व­ग­मात्’ इति सूत्रार्थः । सः-मुक्तः तत्र — प्रकृते ब्रह्मणि स्थितः जक्षत् - हसन् ।

ऐश्व­र्या­वे­द­ने­नेति ।
अज्ञातस्य ऐश्वर्यस्य आवेदनेन ज्ञाप­के­न-वि­धि­वा­क्ये­नेति यावत् । अज्ञा­त­ज्ञा­प­क­वा­क्य­स्यापि उत्प­त्ति­वि­धि­त्व­स्वी­का­रात् । चितितन्मात्रेण - चितिः - चैतन्यं, चैत­न्य­मा­त्र­रू­पे­णैव मुक्तो​​ऽ­व­ति­ष्ठते इत्यर्थः । यथा लवणपिण्डो बहिरन्तश्च लवणैकरसः, एवमेव अरे-मैत्रेयी प्रकृत आत्मा शरी­रा­द्य­न्त­स्त­द्ब­हिश्च चैतन्यैकस्वभावः — इति श्रुत्यर्थः ।

तन्मात्रेणेति ।
मुक्तौ ब्रह्माभेदेन विद्यमानस्य न कश्चि­द्ध­र्मो​​ऽस्ति, ब्रह्मस्वरूपे मुक्ते उप­न्या­सा­द्य­व­ग­त­गु­णै­श्व­र्या­दीनां श्रुति­ता­त्प­र्य­वि­ष­य­त्वा­भा­वेन तुच्छत्वात् - इति­ता­त्प­र्य­क­मौ­डु­लो­भि­म­तम् । इदं च मतद्वयं पूर्वपक्षः ।

सूत्रं व्याचष्टे —
वस्तुदृष्ट्येति ।
परमार्थत इत्यर्थः । जैमिनिमत इव गुणकलापस्य वास्त­व­त्वा­न­भ्यु­प­ग­मात् न चिन्मा­त्र­प्र­ति­पा­द­क­श्रु­ति­वि­रोधः, औडुलोमिमत इव गुणकलापस्य तुच्छ­त्वा­न­भ्यु­प­ग­मात् न गुण­क­ला­पा­दि­श्रु­तीनां निर्वि­ष­य­त्वा­प­त्ति­रू­पो​​ऽपि विरो­धो​​ऽ­स्ती­त्यर्थः । ‘एवमपि’ इति सौत्रभागेन मुक्तस्य चिन्मा­त्र­त्व­मु­पेत्य उप­न्या­सा­द्य­व­ग­त­गु­ण­क­ला­पा­दे­रपि ‘पूर्वभावात्’ इत्यनेन सौत्रभागेन मुक्ता­त्म­न्य­ङ्गी­कृ­त­त्वात्, ईश्वरभावापत्तिं विना मुक्तस्य गुण­क­ला­पा­दे­र­यो­गात् तस्ये­श्व­र­भा­वा­पत्तिः सूत्रे भातीत्यर्थः ।

अस्यार्थस्य भाष्यादिकमपि न प्रतिकूलं, किं त्वनु­कू­ल­मे­वे­त्याह —
सूत्र­त्र­य­मि­त्या­दिना ।
अत्रेदं विचार्यते — मुक्त­स्ये­श्व­र­भा­वा­प­त्ति­स्वी­कारे बिम्ब­भू­ते­श्व­रस्य साध­का­नु­ग्र­हार्थं माया­म­य­श­री­रा­ङ्गी­का­रेण मुक्तोऽपि शरीर्येव स्यात् । अन्यथा ‘क्रीडन् रममाणः’ इत्या­दि­श्रु­ति­सि­द्धै­श्व­र्या­यो­गात् । तथा च ‘अशरीरं वाव सन्तं’ [छा.उ.८-१-२१] इति श्रुत्या मुक्त­स्या­श­री­र­त्व­प्र­ति­पा­दनं विरुद्ध्येत । ‘कथमिदं अशरीरत्वं सम्भवति’ इत्या­का­ङ्क्षायां विद्या­सा­म­र्थ्यात् पर­ब्र­ह्म­प्राप्तौ सत्यां तत्सम्पद्यते नान्यथा इति प्रतिपादनार्थं अश­री­र­त्व­प्र­ति­पा­द­क­वा­क्या­न­न्तरं ‘परं ज्योति­रु­प­स­म्पद्य’ इतिवाक्यं — इति प्रतिपादकं ज्योति­र­धि­क­र­ण­भाष्यं च विरुद्ध्येत । पर­ब्र­ह्म­प्रा­प्त्य­न­न्त­र­मपि सश­री­र­त्वा­भ्यु­प­ग­मात् । तथा च तदधिकरणभाष्यम् — “ ‘अशरीरं वाव सन्तम्’ इति च अशरीरतायै ज्योति­स्स­म्पत्तेः अस्याभिधानात्, ब्रह्म­भा­वा­च्चा­न्य­त्रा­श­री­र­त्वा­नु­प­पत्तेः” इति । ज्योतिरत्र ब्रह्म विवक्षितम् । किञ्च मुक्तस्य सर्व­ज्ञ­त्वा­द्य­भ्यु­प­गमे ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत् तत्केन कं पश्येत्’ इत्यादिना तस्य विशे­ष­वि­ज्ञा­ना­भा­व­प्र­ति­पा­दनं विरुद्ध्येत । इदं च वचनं पर­म­मु­क्ति­वि­ष­य­मिति ‘स्वाप्य­य­स­म्पत्त्योः’ [ब्र.सू.४-४-१६] इति सूत्र­त­द्भा­ष्यादौ स्पष्टम् । किञ्च सर्वेश्वरभावं प्राप्तस्य मुक्तस्य तद्भा­वा­प­त्ति­द­शायां सगु­ण­वि­द्या­फ­ल­भू­ते­श्व­र­भा­वा­प­त्ति­द­शा­या­मिव ‘योऽहं पूर्वं संसार्यभूवं सोऽह­मि­दा­नी­मी­श्व­र­स्स­म्पन्नः’ इति प्रतिसन्धानं अभ्युपगम्यते, न वा । नाद्यः । पूर्वो­पा­धे­र्नि­वृ­त्त­त्वेन तथाऽ­नु­स­न्धा­ना­स­म्भ­वात्, उपाध्यैक्यस्य अनु­स­न्धा­न­प्र­यो­ज­क­श­री­र­प्र­वि­ष्ट­त्वात् । न द्वितीयः । ईश्वरभावापत्तौ केव­ल­स्व­रू­पे­णै­वा­व­स्था­ना­पे­क्षया मुक्तस्य फलतो विशेषाभावेन तद्भा­वा­प­त्त्यु­प­पा­द­न­स्या­न­ति­प्र­यो­ज­न­त्वा­पत्तेः । तस्मात् मुक्त­स्ये­श्व­र­भा­वा­प­त्ति­प्र­ति­पा­दनं ‘यत्र त्वस्य’ इत्या­दि­श्रु­ति­वि­रुद्धं तद­नु­सा­रि­ब­हु­भा­ष्या­दि­वि­रुद्धं प्रयोजनशून्यं चेति सिद्धम् । अत एव न्यायरक्षामणौ आवि­र्भू­त­स्व­रू­पस्य सत्य­का­म­त्व­स­र्वे­श्व­र­भा­वा­पत्तौ अत्र साधितायां यथोक्तमस्वरसं मनसि निधाय मुक्तानां शुद्ध­चै­त­न्य­भा­वा­पत्तिः तत्पक्षे जक्ष­णा­द्यै­श्व­र्यो­प­प­त्तिश्च दर्शिता दीक्षीतैरेव ‘मुक्तानां यावत्सर्वमुक्ति बिम्बे­श्व­र­भा­वा­प­त्ति­रस्ति इत्यस्माभिः सिद्धा­न्त­ले­श­स­ङ्ग्रहे समर्थितत्वेन आवि­र्भू­त­स्व­रू­पस्य सत्यकामत्वं सत्यसङ्कल्पत्वं चोपपद्यते । तस्य शुद्ध­चै­त­न्य­भा­वा­प­त्ता­वपि तत्सर्वमुपपद्यत एव । शुद्धचैतन्यस्य जीवे­श्व­रा­नु­स्यू­त­चै­त­न्य­सा­मा­न्या­त्मना अवस्थानात् । अत एव साक्षा­त्कृ­त­ब्र­ह्मणां यावत्सर्वमुक्ति सर्वा­त्म­ता­प­त्ति­र­स्तीति वामदेवस्य मनु­सू­र्या­दि­भा­वा­प­त्तिः­श्रू­यते । एवं च मुक्तस्य सार्व­भौ­मा­दि­मा­नु­षा­त्मना इन्द्रा­दि­लो­क­पा­ला­त्मना दह­रा­द्यु­पा­स­ना­फ­ला­नु­भ­वि­तृ­पु­रु­षा­त्मना च जक्षणादिकं सर्व­लो­क­का­मा­वा­प्ति­मत्त्वं ब्रह्म­लो­क­स­मा­हि­त­स­त्य­का­मा­नु­भ­वि­तृत्वं च व्यपदेष्टुं शक्यमिति जक्ष­णा­दि­श्र­व­ण­म­प्यु­प­प­द्यते” इत्यादिग्रन्थेन । तथा च तदनुसारेण प्रकृ­त­सू­त्र­भा­ष्यादौ ब्राह्म­स्यै­श्व­र्यस्य मुक्त­जी­व­ग­त­त्वा­ङ्गी­क­रणं - मुक्तस्य ब्राह्मेण रूपे­णा­व­स्था­ना­भ्यु­प­ग­मेऽपि जैमिनिमत इव सिद्धान्ते नाद्वैतविरोधः, तस्य रूपस्य बद्ध­जी­वा­न्त­रा­वि­द्या­कृ­त­त्वा­भ्यु­प­ग­मात् - इत्ये­ता­व­न्मा­त्र­परं, न तु मुक्त­स्ये­श्व­र­भा­वा­प­त्ति­प­र­मिति सङ्क्षेपः ।

ननु अध्या­य­च­तु­ष्ट­येऽ­प्यु­दा­हृ­त­श्रु­ति­सू­त्र­भा­ष्या­दि­ग्र­न्थ­जा­तस्य सर्व­ज्ञा­त्म­मु­निभिः उक्तयुक्तिभिः प्रौढि­वा­द­त्व­प्र­तीतेः कथं मुक्त­स्ये­श्व­र­भा­वा­पत्तौ एत­च्छ्रु­त्या­दिकं प्रमाणं स्यादित्यत आह —
न चेति ।
‘एतावतः’ इत्यनेन बहु­श्रु­ति­सू­त्र­भा­ष्या­दि­वि­रो­धात् सङ्क्षे­प­शा­री­र­क­मतं हेयमिति सूचितम् । अस्य-शरीरिणः तत्-स­त्य­स­ङ्क­ल्प­त्वा­दि­ल­क्ष­ण­मै­श्वर्यं उपेत्य मुक्तौ ध्याना­द­भि­व्य­ज्यत इत्युदितं-उक्तं सूत्रकृता इत्यर्थः ।

अभ्यु­पे­त्य­वा­दत्वे हेतुमाह —
उक्तहेतोरिति ।
मुक्त­स्ये­श्व­र­भा­वा­प­त्ति­प्र­मा­ण­त्वे­नो­दा­हृ­त­श्रु­ति­भा­ष्या­दिकं व्याख्याय अन्ते अस्वरसादिरूपेण मुक्त­स्ये­श्व­र­भा­वा­पत्तिं प्रत्य­नु­प­प­त्ति­रूपा या युक्तयोऽस्माभिः प्रदर्शिताः तास्सर्वा अप्यत्र उक्त­हे­तो­रि­त्य­नेन विवक्षिता इति बोध्यम् ।

तस्मादिति ।
उक्त­प्र­मा­ण­ब­ला­दि­त्यर्थः । मुक्त­स्ये­श्व­र­भा­वा­प­त्ति­रे­त­च्छ­ब्दार्थः । उप­सृ­प्य­ता-प्रा­प्यता ।

एकेति ।
एकजीववादे एतदसम्भवः प्रागेव दर्शितः ।

पारमार्थिकेति ।
‘पारमार्थिको जीवे­श्व­र­यो­र्भेदः’ इति वादेऽपि मुक्त­स्ये­श्व­र­भा­वा­प­त्त्य­स­म्भवो दोष इत्यर्थः । एतदुपलक्षणम् । शुद्ध­ब्र­ह्म­रू­पे­णा­व­स्था­न­ल­क्ष­ण­मु­क्त्य­स­म्भ­वोऽपि पार­मा­र्थि­क­जी­वे­श­भे­द­वादे दोष इति बोध्यम् । ननु — x‘प्रजा­प­ति­वि­द्यायां मुक्त­स्या­प­ह­त­पा­प्म­त्वा­दि­गु­णा­ष्टकं प्रतिपाद्यते, तच्च मुक्त­स्ये­श्व­र­भा­वा­प­त्त्य­न­भ्यु­प­गमे न सम्भवतीति तस्य तद्भा­वा­प­त्ति­रे­ष्टव्या । सा च पार­मा­र्थि­क­जी­व­भे­द­वादे न सम्भवति’ इति खलु तवाभिप्रायः । स चानुपपन्नः । भेदपक्षेऽपि श्रुति­सू­त्राभ्यां निरूपितस्य मुक्ते गुणकलापस्य मुक्त­स्ये­श्व­र­भा­वा­पत्त्या विनाऽपि सम्भवात्-इति द्वैतिनां मध्ये केचि­च्छ्रु­ति­सू­त्र­व्या­ख्या­तारः ।

तेषां मतमनूद्य दूषयति —
यत्त्वित्यादिना ।

तत्रापीति ।
मुक्त­जी­वेऽ­पी­त्यर्थः ।

तथा सतीति ।
जीवस्य पृथ­ग­प­ह­त­पा­प्म­त्वा­द्य­भ्यु­प­गमे सतीत्यर्थः । इति या शङ्का ‘उत्तराच्चेत्’ इति सूत्रभागेन कृता, तस्याः ‘आवि­र्भू­त­स्व­रू­पस्तु’ इति परिहारभागेन मुक्तजीवे गुणा­ष्ट­का­वि­र्भा­व­क­थ­नेऽपि परि­हा­रा­ला­भा­दि­त्यर्थः । तथा च मुक्त­ब्र­ह्म­णो­र्भे­द­पक्षे गुणकलापस्य जीवसाधारणस्य ब्रह्मा­सा­धा­र­ण­त्व­रू­प­ब्र­ह्म­लि­ङ्ग­त्वा­ला­भात् दहराकाशस्य ईश्व­र­त्व­नि­र्णा­यकं गुणाष्टकं न स्यात् इति भावः ।

भेदपक्षे मुक्तजीवगतस्य अप­ह­त­पा­प्म­त्वादेः ब्राह्म­त्व­नि­र्दे­श­वि­रो­धश्च इत्याह —
ब्राह्मेणेति ।

ननु भेदिनां मते मुक्त­ग­ता­प­ह­त­पा­प्म­त्वा­दे­र्ज­क्ष­णा­द्यै­श्व­र्यस्य च ब्राह्म­त्व­म­सि­द्धम्, अत आह —
परेषामपीति ।

भेदे इति ।
जीव­ब्र­ह्म­भे­द­पक्षे वास्तवगुणवतो जीवस्य चिन्मा­त्र­त्वा­यो­गात् इति भावः ।

किं च, किं गुणजातं मुक्ता­वु­त्प­द्यते किं चा नित्यसिद्धं इति विकल्पं मनसि निधाय आद्य­नि­रा­क­र­ण­पू­र्वकं द्वितीयं परिशेषयति —
सम्पद्याविर्भाव इत्यादिना ।

तत्र हीति ।
सम्पद्याधिकरणे हि इत्यर्थः । ‘स्वेन रूपे­णा­भि­नि­ष्प­द्यते’ इत्यनेन मुक्तिरभिधीयते ।

सा किमागन्तुकस्य स्वरू­प­स्यो­त्प­त्ति­रेव स्वर्गा­दि­रू­पो­त्प­त्ति­व­द्वि­व­क्षिता, किं वा आमस्वरूपस्यैव विद्य­याऽ­वि­र्भा­व­मा­त्र­रूपा विवक्षिता, इति संशये मुक्तेरपि स्वर्गादिवत् फलत्वात् तद्वदेव आग­न्तु­का­ति­श­य­रू­प­नि­ष्प­त्ति­र्मु­क्ति­रिति पूर्व­प­क्ष­नि­षे­ध­पू­र्वकं सिद्धान्तमाह —
आग­न्तु­ने­त्या­दिना ।

कथं तद्वैयर्थ्यम्, अत आह —
येनेति ।
स्वर्गा­द्या­ग­न्तु­क­रू­प­वत् यत् मुक्तिलक्षणं रूपमुत्पद्यते मुक्तस्य, तत् स्वश­ब्दे­ना­नु­क्ता­वपि स्वीयमेव भवति । अतःस्वशब्दस्य स्वीयवाचित्वे वैय­र्थ्य­मे­वे­त्यर्थः ।

तस्मादिति ।
‘आग­न्तु­क­रू­पा­भि­नि­ष्प­त्ति­र्मुक्तिः’ इति पक्षे स्वशब्दस्य स्वकीयार्थकताया एव वक्तव्यत्वेन उक्तरीत्या तद्वै­य­र्थ्या­प­त्ते­रि­त्यर्थः ।

आत्मेति ।
स्वकीय इव स्वस्वरूपेऽपि स्वशब्दस्य रूढत्वेन नानार्थत्वे सति स्वकी­या­र्थ­क­त्वस्य प्रकृते असम्भवात् आत्म­स्व­रू­प­वा­चित्वं निश्चितमिति भावः । इदमेव अत्र आत्म­वा­चि­स्व­प­दो­पा­दा­न­प्र­यो­ज­नं-यत् मुक्ते­स्स्व­र्गा­दि­वत् आग­न्तु­क­रू­प­त्व­नि­रा­क­र­णम्, अन्यथा आत्म­वा­चि­स्व­प­द­वै­य­र्थ्या­दे­वेति बोध्यम् ।

सत्य­स­ङ्क­ल्प­त्वा­दि­रू­पस्य ‘स्वेन रूपेण’ इत्यत्र मुक्ति­त्वे­ना­भि­म­तस्य आगन्तुकत्वपक्षे तदा­ग­न्तु­क­त्व­नि­षे­धा­धि­क­र­ण­वि­रो­ध­वत् तस्य बन्धदशायां तिरो­धा­न­प्र­ति­पा­द­क­सू­त्रेण मुक्ति­द­शा­या­मा­वि­र्भा­व­प्र­ति­पा­द­क­पू­र्वेण च विरोधो भवेत्, मुक्ता­व­भि­न­व­त­यो­त्प­द्य­मा­नस्य उक्त­ति­रो­धा­ना­वि­र्भा­व­यो­र­यो­गा­दि­त्याह —
किञ्चेदमिति ।

द्विती­य­वि­क­ल्प­प­रि­शे­षस्य फलमाह —
इति बन्धस्येति ।
अप­ह­त­पा­प्म­त्वा­दे­री­श्वर इव जीवेऽपि नित्य­सि­द्ध­त्वा­दिति इतिशब्दार्थः ।

तदेवोपपादयति —
नित्यसिद्धमिति ।

तन्मूलेति ।
पाप्म­स­म्ब­न्ध­मू­ल­के­त्यर्थः ।

एवञ्चेति ।
बन्धस्य मिथ्यात्वे सतीत्यर्थः ।

ननु किं बन्धस्य मिथ्यात्वसाधनेन ? तस्य सत्त्वेऽपि जीव­ब्र­ह्मा­भे­द­बो­ध­न­स­म्भ­वात् इति भास्क­र­म­त­मा­श­ङ्क्याह —
श्रुतीति ।
बन्धस्य सत्यत्वमते पर­मा­त्म­ग­त­नि­त्य­मु­क्त­त्व­स्यापि सत्यत्वेन पर­मा­र्थ­भू­त­वि­रु­द्ध­ध­र्मा­क्रा­न्त­यो­र्जी­व­ब्र­ह्म­णो­र्द­ह­न­हि­म­यो­रिव श्रुति­बो­ध्या­भे­दा­स­म्भ­वा­दि­त्यर्थः ।

अन्यथेति ।
बन्धस्य मिथ्या­त्व­स्वी­का­र­पू­र्वकं जीव­ब्र­ह्म­णो­र­भे­दा­न­ङ्गी­कार इत्यर्थः । कुत­स्ति­रो­धा­नो­क्त्य­योग इति चेत्, तत्र वक्तव्यं — किं जीवगतस्य नित्य­सि­द्ध­स­त्य­स­ङ्क­ल्प­त्वा­देः­ति­रो­हि­तत्वं ‘पराभिध्यानात्’ इति सूत्रे­णा­भि­धी­यते, किं वा ईश्वरगतस्यैव जीवं प्रति तेन तिरो­हि­त­त्व­म­भि­धी­यते ।

नाद्य इत्याह —
न हीति ।
यत्कि­ञ्चि­द­र्थ­गो­च­रोऽपि सत्यसङ्कल्पः तिरोहितोऽस्तीति नेष्यते, सर्वा­र्थ­गो­च­र­स­त्य­स­ङ्कल्पः तिरोहितोऽस्तीति नेष्यत इति किमु वक्त­व्य­मि­त्यर्थः । अद्वैतिभिरिव इत्यपिशब्दार्थः । न हि सिद्धान्ते ‘प्रति­बि­म्ब­चै­त­न्य­रू­पेषु जीवेषु बिम्ब­चै­त­न्य­रू­पे­श्व­र­ग­त­स­त्य­स­ङ्क­ल्प­त्वा­द्य­पे­क्षया पृथक् सत्य­स­ङ्क­ल्प­त्वा­दिकं संसारदशायां तिरोहितमस्ति’ इति इष्यते । तत्र प्रमा­ण­प्र­यो­ज­न­यो­र­भा­वात् । एतच्च प्रागे­वा­स्मा­भि­र्द­र्शि­तम् ।

द्वितीये तु कल्पे दूरं गत्वापि सिद्धा­न्ति­म­त­मे­वा­व­ल­म्ब­नी­यम्, तथा च न पार­मा­र्थि­क­भे­द­सि­द्धि­रिति दूषणमाह —
किन्त्वी­श्व­र­स्येति ।

ईश्वरेति ।
बिम्ब­भू­ते­ने­श्व­रेण सह जीवस्य यो वास्तवाभेदः तद­न­भि­व्य­क्त्ये­त्यर्थः ।

जीव­ब्र­ह्म­णो­र­भे­दा­प­त्ति­भ­यात् जीवे पृथ­गे­वा­प­ह­त­पा­प्म­त्वा­दिकं स्वीकृत्य तस्य वास्त­व­ब­न्धा­वि­रु­द्धत्वं शङ्कते —
नन्विति ।

किञ्च, निषि­द्ध­क­र्मा­च­र­णेऽपि पापो­त्प­त्ति­प्र­ति­ब­न्ध­क­शक्तिः अप­ह­त­पा­प्म­श­ब्दा­र्थ­त्वेन कल्प्यमाना किं विद्योदयात् प्राक् तत्प्र­ति­ब­न्धार्थं कल्प्यते, किं वा विद्योदयानन्तरं त्वदभिमतमुक्तेः प्राक् तत्प्र­ति­ब­न्धार्थं कल्प्यते, अथवा त्वद­भि­म­त­मु­क्ति­काले मुक्तस्य देहे­न्द्रि­या­दि­स­त्त्वेन पाप्म­हे­तु­नि­षि­द्ध­क­र्मा­च­र­ण­स­म्भ­वात् तदा तत्प्र­ति­ब­न्धार्थं कल्प्यते, इति विकल्पं मनसि निधाय क्रमेण दूषयति —
न हीत्यादिना ।

इष्टत्वादिति ।
तवापि सम्म­त­त्वा­दि­त्यर्थः । तस्य - ब्रह्मणः अधिगमे - साक्षात्कारे सति विद्योदयात् पूर्वाधस्य विनाशो भवति, तदु­द­यो­त्त­र­का­ली­ना­घस्य च अश्लेषो भवति । कुतः । तस्य-वि­द्य­याऽ­ध­वि­ना­शा­देः­श्रु­ति­स्मृ­तिषु व्यप­दे­शा­त्-श्रु­त्या­दि­सि­द्ध­त्वात् इत्यर्थः ।

मुक्त­स्ये­श्व­र­भा­वा­प­त्ति­मु­प­पा­दि­ता­मु­प­सं­ह­रति —
तस्मादिति ।
उदा­हृ­त­श्रु­ति­सू­त्र­भा­ष्या­दि­स्वा­र­स्या­दि­त्यर्थः । अवि­रो­धि­त्व­मै­श्व­र्य­वि­शे­ष­णम् ।

तदनुगुणेति ।
ऐश्व­र्या­नु­गु­णे­त्यर्थः । समृ­द्ध­त्व­मी­श्व­र­भा­वा­प­त्ति­वि­शे­ष­णम् ।
श्रीकृ­ष्ण­च­र­ण­द्वंद्वे स्मर्तॄणां मङ्गलप्रदे ।
योगिध्येये कृति­रि­य­म­ल­ङ्का­रा­र्थ­म­र्पिता ॥
श्रीकृष्णं मनसा ध्यात्वा श्रीकृष्णं सम्प्रणम्य च ।
व्याख्यातोऽयं परिच्छेदः श्रीकृ­ष्ण­प­रि­तु­ष्टये ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­त्स्व­यं­प्र­का­शा­न­न्द­स­र­स्व­ती­दि­व्य­श्री­च­र­णा­र­वि­न्द­सं­ल­ग्न­र­जो­भू­त­स्या­च्यु­त­कृ­ष्णा­न­न्द­ती­र्थस्य कृतौ शास्त्र­सि­द्धा­न्त­ले­श­सं­ग्र­ह­व्या­ख्यायां कृष्णा­ल­ङ्का­रा­ख्यायां चतुर्थः परिच्छेदः समाप्तः ॥ ॐ ॥