कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
अवस्थाज्ञानानादित्वपक्षपरिष्कारः
एवमत्रापि योजनीयमिति परिहरति —
अत्र केचिदाहुरिति ।
ननु - दृष्टान्तो विषमः, ज्ञानप्रागभावस्यानावारकत्वात्, भावरूपाज्ञानस्य च विषयावारकत्वात्, आवरणसत्त्वे च न विषयप्रकाशोपपत्तिरिति, नेत्याह —
संशयादीति ।
विपर्ययः आदिपदार्थः । सिद्धान्ते भावरूपाज्ञानस्यावारकत्वं हि अज्ञातत्वाभिमते वस्तुनि संशयादिजननसमर्थत्वम् । तच्च परमते ज्ञानप्रागभावरूपाज्ञानस्यापि समानम् । ततो न दृष्टान्तवैषम्यमिति भावः ।
एकमेवेति ।
फलबलादिति भावः । ‘नन्वनादित्वपक्षे’ इत्यादिग्रन्थेन कृताक्षेपे प्रकारान्तरेण समाधानमाह —
अन्ये त्विति ।
अस्य वदन्तीत्यनेन सम्बन्धः ।
पूर्वपरिहारे अन्येषामभिप्रेतमस्वरसं स्वयं दर्शयति —
आवृतस्येति ।
आवृतस्यापि पर्वतीयदहनादेः सिद्धान्ते परोक्षज्ञानाङ्गीकारात् अपरोक्षज्ञानमित्युक्तम् ।
यावदिति ।
स्थाण्वादौ संशयादिविरोधिदर्शनप्रागभावमात्रं न संशयादिजननसमर्थम् । ‘स्थाणुरयम्’ इति निश्चयदशायामपि तत्समानविषयकनिश्चयान्तरप्रागभावसत्त्वेन तदा पुरुषत्वस्मृतिमतः पुनरपि संशयप्रसङ्गात् । किं तु संशयादिसमानविषयकनिश्चयानां यावन्तः प्रागभावाः तावतां समुदायः संशयादिजननसमर्थतया परमते विषयावरणत्वेन वाच्यः । एकनिश्चयकाले च यावद्विशेषदर्शनाभावकूटरूपस्य परमते आवरणत्वेन सम्मतस्य विशेषादर्शनस्य अभावात् न पुनः संशयादिप्रसङ्गः, न वा प्रथमघटादिज्ञानकाले परमते विषयप्रकाशानुपपत्तिः । आवरणत्वाभिमतप्रागभावकूटाभावात् । तस्मात् ‘आवृतस्यापि विषयस्य प्रथमज्ञानसमये प्रकाशः सम्भवति’ इत्यत्र नायं दृष्टान्तस्सम्भवतीत्यर्थः ।
न चैवमिति ।
सर्वदा सर्वेषामवस्थाऽज्ञानानाभावारकत्वाभावे सतीत्यर्थः ।
ततोऽपीति ।
ब्रह्मावगमादपीत्यर्थः । निवृत्त्यभावप्रसङ्गे हेतुः अनावारकत्वेन स्थितिः । यदि ब्रह्मावगमोत्पत्तिकाले मूलाज्ञानवत् अवस्थाऽज्ञानान्यपि ब्रह्मचैतन्यं विषयप्रदेशेष्वावृत्य तिष्ठेयुः तदा ब्रह्मावगमेन तत्समानविषयकमूलाज्ञानस्येव चैतन्यावारकत्वेनस्थितानामवस्थाऽज्ञानानामपि निवृत्तिस्स्यात् । समानविषयकत्वाविशेषात् । तेषां तदनावारकत्वेन स्थितौ तु निवृत्तिर्न सम्भवति तत्समानविषयकत्वाभावादित्यर्थः । ततश्च विदेहकैवल्येऽपि तेषामनुवृत्तिप्रसङ्ग इति भावः । एवंसति अनिवृत्तिप्रसङ्ग इति न च इति सम्बन्धः ।
तत्र हेतुमाह —
तेषामिति ।
अत्र द्वितीयतृतीयतच्छब्दौ ब्रह्मावगमपरौ । तुर्यतच्छब्दो मूलाज्ञानपरः । यथा अज्ञाननिवृत्तौ चैतन्याज्ञानयोस्सम्बन्धो निवर्तते, तस्य सम्बन्ध्यज्ञानपरतन्त्रत्वात्, तद्वदित्यर्थः ।
नन्ववस्थाऽज्ञानानां मूलाज्ञानपरतन्त्रत्वमसिद्धमित्याशङ्क्याह —
एतदर्थमेवेति ।
यथा संसारस्य अज्ञाननिवृत्त्या निवृत्तिसिद्धये तन्मूलकतया संसारस्य तत्पारतन्त्र्यं कल्प्यते तद्वत् प्रकृतेऽपीति भावः । ‘यदुक्तं अवस्थाभेदरूपमिति विशेषणस्य प्रयोजनं वक्ष्यते’ इति तदत्र दर्शितमिति मन्तव्यम् । ‘नन्वनादित्वपक्षे’ इत्यादिना कृताक्षेपे एव समाधानं प्रकारान्तरेण दर्शयति —
अपरे त्विति ।
अपरे तु कल्पयन्तीति सम्बन्धः ।
तेषामाशयं दर्शयति —
अज्ञानस्येति ।
ननु सर्वमज्ञानं (स्वस्थितिकाले) सर्वदा विषयमावृणोतीति नियमो नास्ति, एकज्ञानकाले एकस्याज्ञानस्य नाशः, इतरेषां तदा सत्त्वेऽप्यावरणशक्तिप्रतिबन्धरूपतिरस्कारस्य वक्ष्यमाणत्वेन एकज्ञानकाले तेषामावारकत्वाभावात् इत्यत आह —
उत्सर्गत इति ।
ननु सर्वं सर्वदा आवृणोतीत्युक्तेः घटादिविषयोत्पत्तेः पूर्वकालेऽपि घटाद्यवच्छिन्नचैतन्यावारकत्वमवस्थाऽज्ञानानां प्रतीयते, तदनुपपन्नम्, तदानीमवच्छेदकविषयाभावेन तदवच्छिन्नचैतन्यस्य अवस्थाऽज्ञानैरावरणीयस्य अभावात् इति शङ्कामपनुदति —
न चेत्यादिना ।
तदाऽपीति ।
कार्यमात्रस्य उत्पत्तेः पूर्वकाले नाशोत्तरकाले च अनभिव्यक्तरूपेणावस्थानस्य श्रुतिस्मृतिन्यायैस्तत्र तत्र पूर्वाचार्यैस्साधितत्वादिति भावः ।
एवमिति ।
ज्ञानं कर्तृ ।
यावज्ज्ञानस्थितिरिति ।
सर्वं सर्वदा आवृणोतीत्युत्सर्गस्य ज्ञानस्थितिरपवादहेतुरिति भावः ।