अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

अवस्थाज्ञानानादित्वपक्षपरिष्कारः

एवमत्रापि योजनीयमिति परिहरति —
अत्र केचिदाहुरिति ।

ननु - दृष्टान्तो विषमः, ज्ञान­प्रा­ग­भा­व­स्या­ना­वा­र­क­त्वात्, भावरूपाज्ञानस्य च विष­या­वा­र­क­त्वात्, आवरणसत्त्वे च न विष­य­प्र­का­शो­प­प­त्ति­रिति, नेत्याह —
संशयादीति ।
विपर्ययः आदिपदार्थः । सिद्धान्ते भाव­रू­पा­ज्ञा­न­स्या­वा­र­कत्वं हि अज्ञातत्वाभिमते वस्तुनि संश­या­दि­ज­न­न­स­म­र्थ­त्वम् । तच्च परमते ज्ञान­प्रा­ग­भा­व­रू­पा­ज्ञा­न­स्यापि समानम् । ततो न दृष्टा­न्त­वै­ष­म्य­मिति भावः ।

एकमेवेति ।
फलबलादिति भावः । ‘नन्व­ना­दि­त्व­पक्षे’ इत्यादिग्रन्थेन कृताक्षेपे प्रकारान्तरेण समाधानमाह —

अन्ये त्विति ।
अस्य वदन्तीत्यनेन सम्बन्धः ।

पूर्वपरिहारे अन्ये­षा­म­भि­प्रे­त­म­स्व­रसं स्वयं दर्शयति —
आवृतस्येति ।
आवृतस्यापि पर्वतीयदहनादेः सिद्धान्ते परो­क्ष­ज्ञा­ना­ङ्गी­का­रात् अप­रो­क्ष­ज्ञा­न­मि­त्यु­क्तम् ।

यावदिति ।
स्थाण्वादौ संश­या­दि­वि­रो­धि­द­र्श­न­प्रा­ग­भा­व­मात्रं न संश­या­दि­ज­न­न­स­म­र्थम् । ‘स्थाणुरयम्’ इति निश्चयदशायामपि तत्स­मा­न­वि­ष­य­क­नि­श्च­या­न्त­र­प्रा­ग­भा­व­स­त्त्वेन तदा पुरु­ष­त्व­स्मृ­ति­मतः पुनरपि संशयप्रसङ्गात् । किं तु संश­या­दि­स­मा­न­वि­ष­य­क­नि­श्च­यानां यावन्तः प्रागभावाः तावतां समुदायः संश­या­दि­ज­न­न­स­म­र्थ­तया परमते विषयावरणत्वेन वाच्यः । एकनिश्चयकाले च याव­द्वि­शे­ष­द­र्श­ना­भा­व­कू­ट­रू­पस्य परमते आवरणत्वेन सम्मतस्य विशेषादर्शनस्य अभावात् न पुनः संश­या­दि­प्र­सङ्गः, न वा प्रथ­म­घ­टा­दि­ज्ञा­न­काले परमते विष­य­प्र­का­शा­नु­प­पत्तिः । आव­र­ण­त्वा­भि­म­त­प्रा­ग­भा­व­कू­टा­भा­वात् । तस्मात् ‘आवृतस्यापि विषयस्य प्रथमज्ञानसमये प्रकाशः सम्भवति’ इत्यत्र नायं दृष्टा­न्त­स्स­म्भ­व­ती­त्यर्थः ।

न चैवमिति ।
सर्वदा सर्वे­षा­म­व­स्थाऽ­ज्ञा­ना­ना­भा­वा­र­क­त्वा­भावे सतीत्यर्थः ।

ततोऽपीति ।
ब्रह्मा­व­ग­मा­द­पी­त्यर्थः । निवृ­त्त्य­भा­व­प्र­सङ्गे हेतुः अनावारकत्वेन स्थितिः । यदि ब्रह्मा­व­ग­मो­त्प­त्ति­काले मूलाज्ञानवत् अव­स्थाऽ­ज्ञा­ना­न्यपि ब्रह्मचैतन्यं विष­य­प्र­दे­शे­ष्वा­वृत्य तिष्ठेयुः तदा ब्रह्मावगमेन तत्स­मा­न­वि­ष­य­क­मू­ला­ज्ञा­न­स्येव चैत­न्या­वा­र­क­त्वे­न­स्थि­ता­ना­म­व­स्थाऽ­ज्ञा­ना­ना­मपि निवृ­त्ति­स्स्यात् । समा­न­वि­ष­य­क­त्वा­वि­शे­षात् । तेषां तदनावारकत्वेन स्थितौ तु निवृत्तिर्न सम्भवति तत्स­मा­न­वि­ष­य­क­त्वा­भा­वा­दि­त्यर्थः । ततश्च विदेहकैवल्येऽपि तेषा­म­नु­वृ­त्ति­प्र­सङ्ग इति भावः । एवंसति अनि­वृ­त्ति­प्र­सङ्ग इति न च इति सम्बन्धः ।

तत्र हेतुमाह —
तेषामिति ।
अत्र द्विती­य­तृ­ती­य­त­च्छब्दौ ब्रह्मावगमपरौ । तुर्यतच्छब्दो मूलाज्ञानपरः । यथा अज्ञाननिवृत्तौ चैत­न्या­ज्ञा­न­यो­स्स­म्बन्धो निवर्तते, तस्य सम्ब­न्ध्य­ज्ञा­न­प­र­त­न्त्र­त्वात्, तद्वदित्यर्थः ।

नन्व­व­स्थाऽ­ज्ञा­नानां मूला­ज्ञा­न­प­र­त­न्त्र­त्व­म­सि­द्ध­मि­त्या­श­ङ्क्याह —
एतदर्थमेवेति ।
यथा संसारस्य अज्ञा­न­नि­वृत्त्या निवृत्तिसिद्धये तन्मूलकतया संसारस्य तत्पारतन्त्र्यं कल्प्यते तद्वत् प्रकृतेऽपीति भावः । ‘यदुक्तं अव­स्था­भे­द­रू­प­मिति विशेषणस्य प्रयोजनं वक्ष्यते’ इति तदत्र दर्शितमिति मन्तव्यम् । ‘नन्व­ना­दि­त्व­पक्षे’ इत्यादिना कृताक्षेपे एव समाधानं प्रकारान्तरेण दर्शयति —

अपरे त्विति ।
अपरे तु कल्पयन्तीति सम्बन्धः ।

तेषामाशयं दर्शयति —
अज्ञानस्येति ।

ननु सर्वमज्ञानं (स्वस्थितिकाले) सर्वदा विषयमावृणोतीति नियमो नास्ति, एकज्ञानकाले एकस्याज्ञानस्य नाशः, इतरेषां तदा सत्त्वेऽ­प्या­व­र­ण­श­क्ति­प्र­ति­ब­न्ध­रू­प­ति­र­स्का­रस्य वक्ष्यमाणत्वेन एकज्ञानकाले तेषा­मा­वा­र­क­त्वा­भा­वात् इत्यत आह —
उत्सर्गत इति ।

ननु सर्वं सर्वदा आवृ­णो­ती­त्युक्तेः घटा­दि­वि­ष­यो­त्पत्तेः पूर्वकालेऽपि घटा­द्य­व­च्छि­न्न­चै­त­न्या­वा­र­क­त्व­म­व­स्थाऽ­ज्ञा­नानां प्रतीयते, तदनुपपन्नम्, तदा­नी­म­व­च्छे­द­क­वि­ष­या­भा­वेन तद­व­च्छि­न्न­चै­त­न्यस्य अव­स्थाऽ­ज्ञा­नै­रा­व­र­णी­यस्य अभावात् इति शङ्कामपनुदति —
न चेत्यादिना ।

तदाऽपीति ।
कार्यमात्रस्य उत्पत्तेः पूर्वकाले नाशोत्तरकाले च अन­भि­व्य­क्त­रू­पे­णा­व­स्था­नस्य श्रुति­स्मृ­ति­न्या­यै­स्तत्र तत्र पूर्वा­चा­र्यै­स्सा­धि­त­त्वा­दिति भावः ।

एवमिति ।
ज्ञानं कर्तृ ।

याव­ज्ज्ञा­न­स्थि­ति­रिति ।
सर्वं सर्वदा आवृ­णो­ती­त्यु­त्स­र्गस्य ज्ञान­स्थि­ति­र­प­वा­द­हे­तु­रिति भावः ।