कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
साक्ष्यानन्दस्यानावृतत्वविचारः
शङ्कते —
साक्षिचैतन्यस्येति ।
ननु इष्टापत्तेरिति वक्तुं न शक्यते, संसारदशायां स्वरूपानन्दप्रकाशप्रयुक्तकार्यादर्शनात् इत्यत आह —
आनन्दरूपेति ।
लोके हि तस्य तस्य अनुभूयमाने आनन्दे प्रीतिरनुभवसिद्धा । तथा च प्रीतेः प्रकाशमानानन्दविषयकत्वे सिद्धे प्राणिमात्रस्य स्वात्मनि दुःखदशायामपि प्रीतिदर्शनात् आत्मगोचरप्रीतेरपि प्रकाशमानात्मानन्दविषयकत्वं सिद्ध्यति । पुत्रादिगोचरप्रीतिस्तावदौपाधिकी । उपाधिश्च आत्मसुखाभिव्यक्तिसाधनत्वम् । उपाधिव्यतिरेकदशायां तेषु प्रीतेरदर्शनात् । आत्मनि तु प्रीतिर्निरुपाधिकी । पुत्रादिष्विव आत्मनि प्रीतेरन्यार्थत्वाभावात् । तथा च श्रुतिः — ‘आत्मनस्तु कामाय सर्वं प्रियं भवति’ [बृ.उ.२-४-५] तथा ‘तदेतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं’ [बृ.उ.१-४-८] इति । अन्तरतरमित्यनेन सर्वान्तरमुच्यते । तथा च यत् सर्वान्तरमात्मचैतन्यं तत् एतत् - अपरोक्षं प्रीतिविषयत्वेन सम्भावितात् पुत्रादेस्सर्वस्मात् अतिशयेन प्रियं इति द्वितीयश्रुत्यर्थः । तथा च आत्मानन्दो यदि न प्रकाशेत तदा आत्मनि श्रुत्यनुभवसिद्धा निरुपाधिकप्रीतिर्न स्यात् । प्रीतेः प्रकाशमानानन्दविषयकत्वनियमात् । अतः साक्ष्यनन्दप्रकाशापादने इष्टापत्त्यभिधानं युक्तमेव ।
उक्तार्थे वृद्धसम्मतिमप्याह —
भासत एवेति ।
परमप्रेमास्पदत्वंपरमप्रेमविषयत्वं, तत् लक्षणं यस्य सुखस्य तत्तथा । सुखं भासत एव, परमप्रेमास्पदत्वात्, अन्यथा तन्न स्यात् इत्येवकाराभिप्रायः । तच्च सुखं साक्षिचैतन्याभिन्नमिति स्वरूपानन्दप्रकाशे सम्मतिर्भवत्येव ।
संसारदशायां स्वरूपानन्दस्फुरणाभ्युपगमे बाधकमाशङ्कते —
स्यादेतदित्यादीना तस्मात्साक्ष्यानन्दस्यानावृतत्वकल्पनमयुक्तमित्यन्तेन ।
सिद्धान्ती विशेषं शङ्कते —
नान्विति ।
अविद्यायामानन्दप्रतिबिम्बस्साक्ष्यानन्दः । तस्य बिम्बभूतानन्दात् भेदः कल्पितः । तथा च संसारदशायामनावृतसाक्ष्यभिन्नप्रतिबिम्बानन्दप्रकाशेऽपि बिम्बभूतब्रह्मानन्दो न प्रकाशते । तथा प्रकाशमानोऽपि साक्ष्यानन्दः प्रतिशरीरं भिन्न एव प्रकाशते न त्वनवच्छिन्न इति विशेषोऽस्तीत्यर्थः ।
बिम्बभूतब्रह्मानन्दाप्रकाशे हेतुः —
आवृतस्येति ।
अत्र यद्यपि मूलाज्ञानं शुद्धचिन्मात्राश्रयं तद्विषयकं च, न तु बिम्बभूतेश्वरविषयकम्, तस्यानावृतत्वेऽपि जीवापेक्षया कल्पितभेदवत्त्वात् तस्य जीवं प्रति अप्रकाशमानत्वं सम्भवति, तथा मुक्तौ बिम्बभूतब्रह्मानन्दस्फुरणमप्यसिद्धम्, मूलाज्ञाननिवृत्तौ तत्प्रयुक्तप्रतिबिम्बभावस्येव बिम्बभावस्यापि निवृत्त्यवश्यम्भावात्; तथापि पूर्वपक्षिमुखपिधानमात्रे सिद्धान्तिनस्तात्पर्यमिति बोध्यम् । किमनवच्छिन्नानन्दस्फुरणं मोक्षे विशेषः, आनन्दस्फुरणमात्रं वा ।
उभयथाऽपि विशेषो वक्तुं न शक्यत इत्याह पूर्ववादी —
नेति ।
अवच्छेदो हि भेदः । स च आत्मनि कल्पितः ।
तथा च अवच्छेदाभावो यद्यानन्दादतिरिक्तः तदा दोषमाह —
अनवच्छेदांशस्येति ।
यद्यानन्द एव, कल्पिताभावस्याधिष्ठानात्मकत्वात्, तदाऽस्य द्वितीयप्रकार एवान्तर्भाव इति मत्वा तं प्रकारं दूषयति —
आनन्दापरोक्षमात्रस्य चेति ।
तथा च न मुक्तिसंसारयोर्विशेष इति भावः ।
सिद्धान्ती प्रकारान्तरेण विशेषमाशङ्कते —
नन्ववच्छिन्न इति ।
प्रतिशरीरमवच्छिन्नत्वेन प्रकाशमानः साक्ष्यानन्दः सातिशयः - उत्कर्षापकर्षरूपातिशयवानित्यर्थः ।
साक्ष्यानन्दस्यातिशयवत्त्वे हेतुमाह —
सुषुप्तिसाधारणादित्यादिना ।
स्पष्टता-उत्कर्षः । अतिस्पष्टता - अत्युत्कर्षः । सुषुप्तिकाले प्रकाशमानोऽपि साक्ष्यानन्दः स्पष्ट एव । इतरथा तस्य ‘सुखमस्वाप्सम्’ इति परामर्शनीयत्वाभावप्रसङ्गात् । लोके हि य आनन्दः स्पष्टनुभूतः स एव पुनः परामर्शयोग्यः न त्वनुभूतानन्दमात्रमिति प्रसिद्धम् । तथा च ततः-साक्ष्यानन्दात् सुषुप्तावतिस्पष्टतारहितात् स्त्रक्चन्दनादिविषयप्रयुक्तानन्देषूत्कर्षविशेषानुभवादित्यर्थः ।
अनवच्छिन्न इति ।
कल्पितावछेदाभावात्मा ब्रह्मानन्दो मुक्तिकाले प्रकाशमानः अतिशयसामान्यरहित एव इत्यक्षरार्थः । मुक्तौ ब्रह्मानन्द एकरूपेण पूर्णतया च प्रकाशते । इदानीं तादृशब्रह्मानन्दप्रकाशो नास्ति, किं तु उत्कर्षापकर्षोपेतानन्दप्रकाश एवास्ति । अतस्स्वरूपानन्दस्फुरणेऽपि तत्तदुत्कृष्टानन्दाभिलाषरूपपिशाचीग्रस्ततया कस्यापि निर्वृतिर्नास्तीति संसारमोक्षयोर्विशेष इति भावः ।
अविद्याप्रतिबिम्बरूपसाक्ष्यानन्दस्य लोके विषयानन्दत्वेन गृहीतस्य सातिशयत्वे ब्रह्मानन्दस्यैकरूपत्वे च श्रुतिं प्रमाणयति —
आनन्दवल्ल्यामिति ।
मानुषानन्दः-सार्वभौमानन्दः । स च शतगुणितस्सन् मनुष्यगन्धर्वानन्दो भवति । सोऽपि शतगुणितस्सन् देवगन्धर्वानन्दो भवति । एवमेव पित्रानन्दादिषु ‘स एको ब्रह्मण आनन्दः’ [तै.उ.२-८] इत्युक्तहिरण्यगर्भानन्दान्तेषु उत्कर्षापकर्षयोरुपवर्णनं योजनीयम् ।
समापनादिति ।
‘स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः’ [तै.उ.२-८] इति वाक्येनेति शेषः । पुरुषो मनुष्यः । आद्यचकारस्तिर्यगादिसङ्ग्रहार्थः । आदित्यपदं मण्डलाभिमानिदेवतापरम् । द्वितीयचकारस्तदितरसकलदेवतासङ्ग्रहार्थः । तथा च देवमनुष्यतिर्यक्षु सर्वत्र विद्यमानो ब्रह्मानन्दः एकः एकरूप एव, न तु साक्ष्यानन्दवत् सातिशय इति श्रुत्यर्थः । साक्ष्यानन्दविषयानन्दब्रह्मानन्दानां सति भेदे उक्तरीत्या मुक्तिसंसारयोर्विशेषो वक्तुं शक्यते ।
स एव तवासिद्ध इति पूर्ववादी दूषयति —
नेति ।
असम्भवादिति ।
उत्कर्षापकर्षयोर्जातिविशेषरूपयोः एकस्यां व्यक्तावसम्भवादित्यर्थः ।
नन्वानन्दव्यक्तेर्वस्तुगत्या एकत्वेऽपि कल्पितभेदवत्यां तस्यां उत्कर्षादिस्सम्भवतीत्यभिसन्धिमान् सिद्धान्ती शङ्कते —
मानुषानन्दादीनामिति ।
अनुभवानुसारिश्रुतिसिद्धानन्दोत्कर्षादेरपलापकरणमयुक्तं पूर्ववादिन इत्यर्थः ।
अभिसन्धिमविद्वानिव पूर्ववादी दूषयति —
को वेति ।
का तर्ह्यनुपपत्तिरिति सिद्धान्ती शङ्कते —
किं त्विति ।
तामाह —
अद्वैतवाद इति ।
आनन्दैकत्वमते इत्यर्थः ।
अशक्यमिति ।
औपाधिकभेदेनापि तदुपपादनमशक्यम्, अनुरूपदृष्टान्ताभावात्, इति पूर्ववादिनोऽप्यभिसन्धिः ।
एकस्यामप्यानन्दव्यक्तौ औपाधिकभेदेन श्रुत्यनुभवसिद्धानन्दोत्कर्षादेरुपपादनं कर्तुं शक्यमिति स्वाभिसन्धिमुद्घाटयन् सिद्धान्ती शङ्कते —
नन्वेकस्यैवेति ।
आलोकस्य करतलादिसम्बन्धरहितस्य या अभिव्यक्तिः तदापेक्षया करतले ईषदधिका अभिव्यक्तिः तदपेक्षया स्फटिके अधिका अभिव्यक्तिः तदपेक्षयाप्यधिका दर्पणादावभिव्यक्तिरनुभवसिद्धा, तद्वत् प्रकृतेऽपि स्वरूपानन्दव्यञ्जकवृत्तितारतम्येन तत्तद्वृत्त्युपहितसाक्ष्यानन्दे उत्कर्षादिकमुपपद्यते इत्यर्थः । यद्यालोक एक एकरूपश्च स्वतो भवेत् तदा तथाविधस्वरूपानन्दस्य दृष्टान्तो भवेत् । न त्वालोकस्यैकव्यक्तित्त्वमस्ति, तस्य नानाकिरणसमूहरूपत्वात् ।
नाप्येकरूपत्वं तस्यास्ति, तत्रतत्र सौरकिरणानां अल्पत्वबाहुल्यरूपनानारूपत्वावगमात् - इति पूर्ववादी स्वाभिसन्धिं उद्घाटयन् दूषयति —
नेति ।
अस्म्प्रतिपत्तेरिति ।
ममासम्मतत्वादित्यर्थः ।
प्रसृमरस्येति ।
गमनशीलस्येत्यर्थः ।
गतिप्रतिहताविति ।
सूर्यकिरणानां गतिप्रतिबन्धे सतीत्यर्थः । अत एव यत्र भूभागे करतलादिकृतप्रतिबन्धवशात् सूर्यकिरणा न प्रसरन्ति तत्र तमोरूपा छाया दृश्यते ।
आलोकस्य गतिप्रतिहत्या बहुलीभावे दृष्टान्तमाह —
निम्नतल इति ।
यथा निम्नतले प्रसृमरस्य जलस्य करतलसम्बन्धेन गतिप्रतिहतौ जलस्य बहुलीभावः तथेत्यर्थः ।
अधिकेति ।
करतलादिसम्बन्धरहितगगने यः आलोकस्यास्फुटं प्रकाशः तदापेक्षया अधिकेत्यर्थः ।
तदीयदीप्तिसंवलनादिति ।
दर्पणादेर्या दीप्तिः-प्रभा तया मिश्रणादित्यर्थः ।
ततोऽपीति ।
करतलगतप्रकाशादपीत्यर्थः ।
तत्रेति ।
एकरूपस्यालोकस्य उपाधितारतम्यकृताभिव्यक्तितारतम्यासम्प्रतिपत्तेर्न तस्य दृष्टान्तत्वं सम्भवतीत्यर्थः ।
उक्तदृष्टान्ताङ्गीकारे सिद्धान्तिनो बाधकमप्याह —
दृष्टान्तसम्प्रतिपत्तौ चेति ।
मुक्तित इति ।
तथा च सिद्धान्ते मुक्तिमुद्दिश्य तत्साधनेषु कस्यापि प्रवृत्तिर्न स्यादिति भावः ।
मुक्तिसंसारयोरविशेषप्रसङ्गचोद्ये समाधानप्रकारविशेषोऽपि वक्ष्यमाणहेतुना निरस्त इत्याह पूर्ववादी —
एतेनेति ।
अनात्मनि देहादावात्मत्वज्ञानं वस्तुत आत्मसम्बन्धशून्ये देहादावात्मीयत्वज्ञानं च मिथ्याज्ञानम् । तच्च जाग्रदादिकाले स्वरूपानन्दस्य प्रकाशमानस्यापि विक्षेपकं — अस्पष्टतापादकं, मिथ्याज्ञानजन्यसंस्कारश्च सुषुप्तौ प्रकाशमानस्याप्यानन्दस्य विक्षेपकः-पुरुषार्थत्वविघटकः । भोगप्रदकर्मविशेषेण उद्बोधितमिथ्याज्ञानसंस्कारवशादेव हि सर्वो जन्तुस्सौषुप्तमानन्दानुभवं परित्यजति । ततश्च सौषुप्तानन्दप्रकाशस्याध्रुवस्य मुमुक्ष्वभिलषितत्वाभावात् अपुरुषार्थत्वमिति भावः ।
दृष्टान्ते प्रभायास्सावयवत्वात् तीव्रवायुना केषाञ्चिदवयवानां नाशरूपाद्वा प्रभारूपगतभास्वरत्वस्य तेन प्रतिबन्धरूपाद्वा विक्षेपात् प्रकाशमानायामपि दीपप्रभायां अस्पष्टप्रकाशता उपपद्यते, अवयवगुणादिविशेषरहितस्य ब्रह्मानन्दस्य तु न तथा विशेष उपपद्यते - इत्याह —
निर्विशेषेति ।
प्रकाशमाने इति सतिसप्तमी । तत्रेत्यधिकरणसप्तमी ।
मुक्त्यन्वयिन इति ।
मुक्तिदशायां प्रकाशमानस्येत्यर्थः ।
अतिशयस्येति ।
दृष्टान्त इव अवयवरूपस्य जातिविशेषरूपस्य वेत्यर्थः ।
तस्मादिति ।
मुक्तिसंसारयोरविशेषप्रसङ्गादित्यर्थः ।
स्यादेतदित्यादिना प्राप्तं पूर्वपक्षं निराकरोति —
अत्राहुरित्यादिना ।
एकस्य एकरूपस्य स्वरूपानन्दस्य अभिव्यक्तितारतम्येऽनुरूपं दृष्टान्तं वदन् स्वरूपानन्दे श्रुत्यनुभवसिद्धं तारतम्यशब्दोक्तमुत्कर्षापकर्षवत्त्वं उपपादयति —
यथेति ।
अत्युत्कृष्टस्येति ।
धवलरूपाणां मध्ये सर्वोत्तमस्येत्यर्थः ।
एकस्येति ।
अनेन वक्ष्यमाणौ उत्कर्षापकर्षौ तत्र स्वतो न स्त इति सूचितम् । ‘तत्रतत्र प्रतिबिम्बे’ इत्येतानि पदानि समानाधिकरणानि ।
धावल्यापकर्ष इति ।
ईषन्मलिनदर्पणप्रतिबिम्बे अपकर्षोऽध्यस्यते । मध्यमविधमलिनदर्पणप्रतिबिम्बे च तदपेक्षया अधिकोऽपकर्षोऽध्यस्यते । अत्यन्तमलिनदर्पणप्रतिबिम्बेचात्यन्तापकर्षोऽध्यस्यते । ततश्च तादृशदर्पणेषु प्रतिबिम्बतं धवलरूपं तारतम्येनाभिव्यज्यते वस्तुत एकरूपमपि स्वरूपेण प्रकाशमानमपि इत्यर्थः ।
अन्तःकरणेति ।
सुषुप्तावप्यन्तःकरणं सूक्ष्मरूपेण तिष्ठतीति साक्ष्यानन्दस्य सुषुप्तिसाधारण्यं बोध्यम् । मतान्तरेषु तु अविद्यायां प्रतिबिम्बिततया साक्ष्यानन्दभावो द्रष्टव्यः ।
आनन्दभाव इति ।
प्राप्ते सतीति शेषः । सम्पत्तिः — परिपाकः-फलजननौन्मुख्यमिति यावत् । प्राक्तनसुकृतसम्पत्त्यधीनो यो विषयविशेषसम्पर्कः तत्प्रयुक्तौ यौ सत्त्वस्योत्कर्षापकर्षौ तद्रूपं यच्छुद्धितारतम्यं तद्युक्तासु सुखरूपास्वन्तःकरणवृत्तिषु प्रतिबिम्बिततया विषयानन्दभावे च प्राप्ते सतीत्यर्थः । वृत्तीनां स्वरूपसुखव्यञ्जकतया सुखरूपत्वमुक्तम् । एतदुक्तं भवति - पूर्वजन्मसु सम्पादितपुण्यकर्मपरिपाकवशात् अन्तःकरणस्य स्त्रक्चन्दनादिरूपविषयविशेषगोचरवृत्तिद्वारा विषयविशेषैः सह सम्बन्धे सति तद्गतसत्त्वगुणस्य उत्कृष्टविषयसम्बन्धादुत्कर्षो भवति । निकृष्टविषयसम्बन्धान्निकर्षो भवति । ततश्च अन्तःकरणगतसत्त्वांशपरिणामरूपाः वृत्तयः स्वरूपानन्दगोचरा जायन्ते । जायमानाश्च ताः उत्कर्षापकर्षोपेता एव जायन्ते । तास्वानन्दप्रतिबिम्बो विषयानन्द इत्युच्यते — इति । ननु - स्वरूपानन्दगोचरसत्त्ववृत्तिगतापकर्षवशात् प्रतिबिम्बरूपे विषयानन्दे अपकर्षाध्यासो वक्तव्यः । मलिनद्रव्यकृतदर्पणोपाधिनिष्ठापकर्षवशात् तत्प्रतिबिम्बे अपकर्षाध्यासदर्शनात् ।
तथा च स्वरूपानन्दगोचरासु वृत्तिषु सत्त्वगुणपरिणामभूतासु अपकर्षप्रयोजकं मलिनद्रव्यं किञ्चिदवश्यं वक्तव्यम्, साक्षाद्दर्पणसंयुक्तस्यैव मलिनद्रव्यस्य दर्पणेऽपकर्षाधायकत्वदर्शनात् - इत्यत आह —
तमोगुणरूपेति ।
अन्तःकरणस्य सत्त्वरजस्तमोगुणात्मकत्वात्, तद्वृत्तिष्वपि तमोगुणरूपोपाधिरनुवर्तते, तत्कृतो यो मालिन्यतारतम्यदोषः - अपकर्षतारतम्यात्मको वृत्तिगतदोष इति यावत्, तस्माद्दोषात् अपकर्षः सत्त्ववृत्तिप्रतिबिम्बरूपे विषयानन्देऽध्यस्यते इत्यर्थः । पूर्वं विषयसम्पर्कः सुखरूपवृत्तिकारणत्वेन निर्दिष्टः । तत्र ‘विषयविशेष’ इति विशेषपदं विषयगतोत्कर्षतारतम्यपरम् । तत्तारतम्यं च सुखरूपवृत्तिगतोत्कर्षतारतम्यप्रयोजकत्वेन निर्दिष्टम्, इह तु सुखरूपवृत्तिष्वेवापकर्षप्रयोजकतया अपकर्षतारतम्यप्रयोजकतया च तारतम्योपेतं तमोगुणात्मकं मलिनद्रव्यं निर्दिष्टम् — इति विभागो बोध्यः ।
ततः किं तत्राह —
इति संसारदशायामिति ।
प्रकाशमानेऽप्यानन्दे यत् अध्यस्तमपकर्षतारतम्यं तेन सातिशयत्वाद्विषयानन्दस्येत्यर्थः । तथा च निकृष्टमानन्दमनुभवतः उत्कृष्टानन्दतृष्णाभिभूतस्य तत्सम्पादनाय प्रयतमानस्य तत्साधनत्वभ्रान्त्या कदाचित् दुःखसाधनेष्वपि प्रवर्तमानस्य देवमनुष्यतिर्यगादियोन्यापत्तिलक्षणो भवत्यनर्थ इति नास्ति निर्वृतिरित्यर्थः ।
निवृत्तेरिति ।
मूलाज्ञाननिवृत्तौ तत्कार्योपाधिनिवृत्त्या तत्कृतापकर्षाद्यध्यासनिवृत्तेरित्यर्थः ।
कृतकृत्यतेति ।
कृत्यं - कर्तव्यजातं कृतं येन सः कृतकृत्यः । तस्य भावस्तत्ता । पुरुषस्य हि विद्योदयात्पूर्वं दुःखनिवृत्तये सुखावाप्तये च बहुकर्तव्यजातमासीत् । विद्योदये तु दुःखमात्रस्य निवृत्तत्वात् अत्युत्कृष्टधवलरूपस्य निर्मलदर्पण इव निरतिशयस्वरूपानन्दभानाच्च तन्निवृत्तये तत्प्राप्तये वा न किञ्चित् कर्तव्यमस्तीति कृतकृत्यतेति भावः । तदाह भगवान् श्रीकृष्णः - ‘एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत’ इति [भ.गी.१५-२०] एतत्-निरतिशायानन्दरूपं ब्रह्म अपरोक्षतया बुद्ध्वा बुद्धिमान्-पण्डितो भवति, कृतकृत्यश्च भवति, हे भारत-अर्जुन । यतस्तत्त्वज्ञानं विना पाण्डित्यादिकं न लभ्यते तस्मात्तदेव सम्पादय, अन्यत् सर्वं परित्यज, इति भावः ।
विशेषोपपत्तेरिति ।
मुक्तिसंसारयोरिति शेषः ।
ननु ब्रह्मानन्दवत् साक्ष्यानन्दोऽपि आवृतोऽस्तु, तथा च मुक्तिसंसारयोर्विशेषस्सुवच इति, नेत्याह —
निरुपाधिकेति ।
एवंभूतः प्रेमा स्वरूपानन्दावरणसत्त्वे न सम्भवति, लोके प्रकाशमानसुख एव प्रीतेरनुभवसिद्धत्वात् इति भावः । ‘साक्षिचैतन्यस्यानावृतत्वे तदभिन्नस्यानन्दस्याप्यनावृतत्वापत्त्या मुक्तिसंसारयोरविशेषप्रसङ्गः’ इति पूर्वपक्षे प्राप्ते स्वरूपानन्दस्यानावृतत्वेऽपि तयोर्विशेषस्सम्भवतीति सिद्धान्तो दर्शितः ।
इदानीं तस्यावृतत्वमुपेत्यैव विशेषं मुक्तिसंसारयोर्वदन् सिद्धान्तं दर्शयति —
अन्ये त्विति ।
‘वेदान्तप्रतिपाद्यस्वरूपानन्दो मे नास्ति न प्रकाशते’ इति व्यवहारदर्शनात् तद्धेभूतमावरणं तावदस्त्येव संसारदशायाम्, मुक्तौ तु तदावरणनाशात् स्वरूपानन्दस्फुरणमस्तीति न तयोरविशेषप्रसङ्ग इत्यर्थः । अत्र प्रकाशमानोऽप्यानन्द आवृत एवेति सम्बन्धः । न त्वनावृतः, तस्यानावृतत्वे उक्तव्यवहारविरोधप्रसङ्गात् - इत्येवकाराभिप्रायः । नन्वेवमात्मनि सदा निरुपाधिकप्रेमा न स्यात्, अनावृतस्वरूपानन्दस्फुरणस्याभावात् वृत्तिकृतानन्दस्फुरणस्य च कादाचित्कत्वादिति चेत्, न - फलबलेनावृतस्यापि स्वरूपानन्दप्रकाशस्य निरुपाधिकप्रेमहेतुत्वकल्पनात्, ‘भासत एव परमप्रेमास्पदत्वलक्षणं सुखं’ इति विवरणस्याप्यत्रैव तात्पर्योपपत्तेश्च । अनेनैवाभिप्रायेण प्रकाशमानोऽपीत्युक्तम् । अन्यथा प्रकाशमानत्वविशेषणस्यावृतत्वकल्पने उपयोगाभावेन वैयर्थ्यप्रसङ्गादिति बोध्यम् ।
साक्षिचैतन्याभिन्नस्य साक्ष्यानन्दस्य आवृतत्वे साक्षिचैतन्यमप्यावृतं स्यात्, एकत्र आवृतत्वानावृतत्वयोर्युगपद्विरोधात्, इत्यत आह —
एकस्मिन्नपीति ।
यथा वस्तुत एकस्मिन्नेव चैतन्ये जीत्वेश्वरत्वाख्यौ रूपभेदौ कल्प्येते, ‘नाहमीश्वरः किं तु संसारी’ इति व्यवहारबलात्, तथा ‘अहं सुखी’ इत्यादिज्ञानं आनन्दो न भवति इत्यादिरूपेणाहङ्काराद्यवभासकज्ञानस्यानन्द्राद्भेदव्यवहारदर्शनात् तदनुरोधेन चित्त्वानन्दत्वाख्यौ रूपभेदावनादिसिद्धौ कल्प्येते । यथा च एकस्मिन्नेव चैतन्ये जीवत्वावच्छेदेनाज्ञत्वादिकं ईश्वरत्वावच्छेदेन तदभावश्च कल्प्यते तथैवानन्दत्वावच्छेदेन आवृतत्वं चित्त्वावच्छेदेन अहङ्काराद्यवभासकचैतन्ये तदभावश्च कल्प्यते फलबलात् इति न विरोधः, जीवत्वादेरिव चित्त्वादिरूपभेदस्याप्यविद्याकल्पितत्वाभ्युपगमात् नाद्वैतविरोधश्चेत्यर्थः ।
नन्वेकस्मिन् साक्षिणि रूपभेदेनावृतत्वतदभावयोर्विरोधाभावेऽपि ‘आनन्दः प्रकाशमानोऽप्यावृतः’ इति विरुद्धम्, प्रकाशस्यावरणविरोधित्वादिति-नेत्याह —
स्वरूपप्रकाशस्येति ।
आगन्तुकवृत्तिरूपप्रकाशस्य आवरणविरोधित्वकल्पनात् न स्वरूपप्रकाशस्तद्विरोधी, तस्यावरणसाधकत्वादित्यर्थः । नन्वेवं ‘प्रकाशमानोऽप्यानन्द आवृतः’ इति ग्रन्थे प्रकाशमानत्वविशेषणं स्वरूपप्रकाशस्यावरणाविरोधित्वज्ञापनार्थमिति तत्प्रयोजनसम्भवात् तद्विशेषणमात्मनि निरुपाधिकप्रेमसम्भवज्ञापनप्रयोजनकमिति यदुक्तं तत् न सम्भवतीति चेत्, तर्हि विनिगमकाभावेन तद्विशेषणस्योभयप्रयोजनकत्वमस्तु । स्वरूपप्रकाशे आवरणाविरोधित्वस्येव आनन्दावरणपक्षे आनन्दरूपे आत्मनि निरुपाधिकप्रेमसम्भवस्याप्यवश्यं ज्ञापनीयत्वात् ।
स्वरूपप्रकाशस्यावरणाविरोधित्वे हेत्वन्तरमाह —
त्वदुक्तमिति ।
एवकारानन्तरं आप्तोक्तार्थे इति शेषः । ‘श्रीकृष्णः एव वेदान्तवेद्यः परमात्मा दुर्विज्ञेयोऽयमकृतात्मभिः, इत्याप्तोपदेशानन्तरं मन्दस्य वाक्यार्थबोधो न भवति । स च मन्दः ‘त्वदुक्तमर्थं न जानामि’ इत्यज्ञानमनुभवतीति प्रसिद्धं लोके । तत्र ‘त्वद्वाक्यस्यास्तिकश्चिदर्थ इति जानामि, आप्तवाक्यत्वात्, विशेषं तु न जानामि’ इति व्यवहारदर्शनात् अवगतो यः त्वद्वाक्यार्थत्वलक्षणस्सामान्याकारः स एव विशेषावारकाज्ञानस्य विशेषणतय प्रकाशते ।
तथा च ‘त्वदुक्तमर्थं न जानामि’ इत्यनुभवे अज्ञानविशेषणतया प्रकाशमानस्य सामान्याकारस्य आवरणविषयत्वाभावात् आवरणविषयस्य विशेषस्य प्रकाशमानत्वाभावात् प्रकाशमानस्यावृतत्वे नायमनुभवः प्रमाणमिति शङ्कते —
न च तत्रेति ।
अन्यावारकाज्ञानस्यान्यावच्छेदेन प्रकाशाभ्युपगमे ‘चैत्रं न जानामि’ इत्यनुभूयमानाज्ञानस्य विष्णुमित्रविषयकत्वप्रसङ्ग इति दूषयति —
अन्यावरणस्येति ।
ननु — त्वद्वाक्यार्थत्वलक्षण आकारस्तावत् सामान्यरूपः, आप्तोपदिष्टे श्रीकृष्ण इव तदुपदिष्टेषु श्रीकृष्णप्रतिपत्त्युपायेष्वपि त्वद्वाक्यार्थत्वस्य सत्त्वात् । वेदान्तवेद्यत्वादिलक्षणाकारस्तु विशेषरूपः । तस्य श्रीकृष्णस्वरूपमात्रवृत्तित्वात् ।
तथा च विशेषावारकाज्ञानं सामान्याकारावच्छेदेन प्रकाशत इत्युपगमे नातिप्रसङ्गः, चैत्रत्वविष्णुमित्रत्वयोस्सामान्यविशेषभावाभावात् - इति शङ्कते —
न च सामान्येति ।
किं सामान्यविशेषभावः श्रीकृष्णमूर्तित्वविष्णुमूर्तित्वयोरिव व्याप्यव्यापकभावः, तदतिरिक्तो वा? न द्वितीयः, तस्यानिरूपणात् - इत्याशयेनाह —
व्याप्येति ।
आद्ये दोषमाह —
वह्निमिति ।
तस्मादज्ञानानुभवे अज्ञानविशेषणतया यद्वस्तु प्रकाशते तदेवावरणविषय इति वक्तव्यम् । न च ‘त्वदुक्तमर्थं न जानामि’ इति ज्ञानस्य तवदुक्तार्थप्रकारकत्वे सति अज्ञानविशेष्यकत्वेन त्वदुक्तार्थो विशेषरूप एवेत्युपगमे तज्ज्ञानस्य विशेषणज्ञानरूपकारणस्य अभावात् तद्विशिष्टाज्ञानानुभवो न स्यादिति वाच्यम् । अज्ञानानुभवस्य नित्यसाक्षिरूपत्वोपगमेन तत्र विशेषणज्ञानानपेक्षणात् । न च प्रकाशमानत्वमावृतत्वं च विरुद्धं प्रकाशस्यावरणविरोधित्वादिति वाच्यम् ।
अस्य विरोधस्य प्रागेव परिहृतत्वात् - इत्याशयेनोपसंहरति —
तस्मादिति ।
अन्यावारकाज्ञानस्यान्यावच्छिन्नतया भानासम्भवादित्यर्थः ।
यदवच्छिन्नमिति ।
येन वस्तुना विशेषितं इत्यर्थः ।
नन्वानन्दस्यावृतत्वे विषयसंपर्कदशायां [विशिष्या] [विषया] नन्दप्रकाशो न स्यादित्यत आह —
अज्ञानं चेति ।
ननु वृत्तेरावरणाभिभावकत्वोपगमादज्ञानस्य सुखवृत्तिविषयीकृतानन्दानावारकत्वमिति कथमुच्यते, तत्राह —
स एवेति ।
सुखवृत्तिविषयत्वप्रयुक्तानावारकत्वस्वभाव एव वृत्तिकृतावरणाभिभव इत्यर्थः ।
ननु सुखरूपवृत्तेरेकरूपत्वात् तत्कृतावरणाभिभवोऽप्येकरूप एव स्यात्, तथा च विषयसम्बन्धदशायामानन्दोऽप्येकरूपतयैव प्रकाशेत, न तूत्कृष्टापकृष्टरूपेणेति - नेत्याह —
स चेति ।
यथा प्रत्यूषसमये आलोकतारतम्येन बाह्यतमसः तारतम्ययुक्ताभिभवो भवति, ततश्च तत्तमसाऽऽवृतानां पदार्थानां तारतम्ययुक्तं प्रकाशनं भवति, एवं विषयविशेषरूपकारणविशेषप्रयुक्तो यो वृत्तिषु विशेषः उत्कर्षतारतम्यरूपः तद्वशात् तरतमभावयुक्त एव आवरणाभिभवो भवति, ततश्च आनन्दोऽपि तरतमभावयुक्त एव प्रकाशते इत्यर्थः ।
एवमप्यानन्दस्यैकत्वाभ्युपगमात्तद्भेदप्रथा कथं सिद्ध्यति, तत्राह —
अत इति ।
वस्तुत एकस्मिन्नपि आनन्दे उपाधिप्रयुक्तभेदाभ्युपगमादित्यर्थः । तथा च विद्यया आवरणस्य निवृत्तौ सत्यां प्रकाशमानानन्दः स्वरूपानन्दः, तदनिवृत्तिदशायां वृत्तिसम्बन्धात् प्रकाशमानानन्दो विषयानन्दः, इति स्वरूपानन्दविषयानन्दयोर्भेदो ज्ञातव्यः, तथा वृत्तिभेदेनानन्दभेदाभ्युपगमात् विषयानन्दानां परस्परं भेदप्रसिद्धिश्चावकल्पते, इत्यर्थः ।
अहंकारादीनां केवलसाक्षिभास्यत्वं परमप्रकृतं सिद्धमित्याशयेनाह —
सर्वथापीति ।
स्वरूपानन्दस्यानावृतत्वपक्षे तस्यावृतत्वपक्षे चेत्यर्थः ।
तेनेति ।
साक्षिचैतन्येनेत्यर्थः ।