अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

साक्ष्यानन्दस्यानावृतत्वविचारः

शङ्कते —
साक्षि­चै­त­न्य­स्येति ।

ननु इष्टापत्तेरिति वक्तुं न शक्यते, संसारदशायां स्वरू­पा­न­न्द­प्र­का­श­प्र­यु­क्त­का­र्या­द­र्श­नात् इत्यत आह —
आनन्दरूपेति ।
लोके हि तस्य तस्य अनुभूयमाने आनन्दे प्रीति­र­नु­भ­व­सिद्धा । तथा च प्रीतेः प्रका­श­मा­ना­न­न्द­वि­ष­य­कत्वे सिद्धे प्राणिमात्रस्य स्वात्मनि दुःखदशायामपि प्रीतिदर्शनात् आत्म­गो­च­र­प्री­ते­रपि प्रका­श­मा­ना­त्मा­न­न्द­वि­ष­य­कत्वं सिद्ध्यति । पुत्रा­दि­गो­च­र­प्री­ति­स्ता­व­दौ­पा­धिकी । उपाधिश्च आत्म­सु­खा­भि­व्य­क्ति­सा­ध­न­त्वम् । उपा­धि­व्य­ति­रे­क­द­शायां तेषु प्रीतेरदर्शनात् । आत्मनि तु प्रीति­र्नि­रु­पा­धिकी । पुत्रादिष्विव आत्मनि प्रीते­र­न्या­र्थ­त्वा­भा­वात् । तथा च श्रुतिः — ‘आत्मनस्तु कामाय सर्वं प्रियं भवति’ [बृ.उ.२-४-५] तथा ‘तदेतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽ­न्य­स्मा­त्स­र्व­स्मा­द­न्त­र­तरं’ [बृ.उ.१-४-८] इति । अन्तरतरमित्यनेन सर्वा­न्त­र­मु­च्यते । तथा च यत् सर्वा­न्त­र­मा­त्म­चै­तन्यं तत् एतत् - अपरोक्षं प्रीतिविषयत्वेन सम्भावितात् पुत्रा­दे­स्स­र्व­स्मात् अतिशयेन प्रियं इति द्विती­य­श्रु­त्यर्थः । तथा च आत्मानन्दो यदि न प्रकाशेत तदा आत्मनि श्रुत्य­नु­भ­व­सिद्धा निरु­पा­धि­क­प्री­तिर्न स्यात् । प्रीतेः प्रका­श­मा­ना­न­न्द­वि­ष­य­क­त्व­नि­य­मात् । अतः साक्ष्य­न­न्द­प्र­का­शा­पा­दने इष्टा­प­त्त्य­भि­धानं युक्तमेव ।

उक्तार्थे वृद्ध­स­म्म­ति­म­प्याह —
भासत एवेति ।
पर­म­प्रे­मा­स्प­द­त्वं­प­र­म­प्रे­म­वि­ष­यत्वं, तत् लक्षणं यस्य सुखस्य तत्तथा । सुखं भासत एव, पर­म­प्रे­मा­स्प­द­त्वात्, अन्यथा तन्न स्यात् इत्ये­व­का­रा­भि­प्रायः । तच्च सुखं साक्षि­चै­त­न्या­भि­न्न­मिति स्वरू­पा­न­न्द­प्र­काशे सम्मतिर्भवत्येव ।

संसारदशायां स्वरू­पा­न­न्द­स्फु­र­णा­भ्यु­प­गमे बाधकमाशङ्कते —
स्यादे­त­दि­त्या­दीना तस्मा­त्सा­क्ष्या­न­न्द­स्या­ना­वृ­त­त्व­क­ल्प­न­म­यु­क्त­मि­त्य­न्तेन ।

सिद्धान्ती विशेषं शङ्कते —
नान्विति ।
अवि­द्या­या­मा­न­न्द­प्र­ति­बि­म्ब­स्सा­क्ष्या­नन्दः । तस्य बिम्ब­भू­ता­न­न्दात् भेदः कल्पितः । तथा च संसा­र­द­शा­या­म­ना­वृ­त­सा­क्ष्य­भि­न्न­प्र­ति­बि­म्बा­न­न्द­प्र­का­शेऽपि बिम्ब­भू­त­ब्र­ह्मा­नन्दो न प्रकाशते । तथा प्रकाशमानोऽपि साक्ष्यानन्दः प्रतिशरीरं भिन्न एव प्रकाशते न त्वनवच्छिन्न इति विशे­षोऽ­स्ती­त्यर्थः ।

बिम्ब­भू­त­ब्र­ह्मा­न­न्दा­प्र­काशे हेतुः —
आवृतस्येति ।
अत्र यद्यपि मूलाज्ञानं शुद्ध­चि­न्मा­त्रा­श्रयं तद्विषयकं च, न तु बिम्ब­भू­ते­श्व­र­वि­ष­य­कम्, तस्या­ना­वृ­त­त्वेऽपि जीवापेक्षया कल्पि­त­भे­द­व­त्त्वात् तस्य जीवं प्रति अप्रकाशमानत्वं सम्भवति, तथा मुक्तौ बिम्ब­भू­त­ब्र­ह्मा­न­न्द­स्फु­र­ण­म­प्य­सि­द्धम्, मूला­ज्ञा­न­नि­वृत्तौ तत्प्र­यु­क्त­प्र­ति­बि­म्ब­भा­व­स्येव बिम्बभावस्यापि निवृ­त्त्य­व­श्य­म्भा­वात्; तथापि पूर्व­प­क्षि­मु­ख­पि­धा­न­मात्रे सिद्धा­न्ति­न­स्ता­त्प­र्य­मिति बोध्यम् । किम­न­व­च्छि­न्ना­न­न्द­स्फु­रणं मोक्षे विशेषः, आन­न्द­स्फु­र­ण­मात्रं वा ।

उभयथाऽपि विशेषो वक्तुं न शक्यत इत्याह पूर्ववादी —
नेति ।
अवच्छेदो हि भेदः । स च आत्मनि कल्पितः ।

तथा च अवच्छेदाभावो यद्या­न­न्दा­द­ति­रिक्तः तदा दोषमाह —
अन­व­च्छे­दां­श­स्येति ।

यद्यानन्द एव, कल्पि­ता­भा­व­स्या­धि­ष्ठा­ना­त्म­क­त्वात्, तदाऽस्य द्वितीयप्रकार एवान्तर्भाव इति मत्वा तं प्रकारं दूषयति —
आन­न्दा­प­रो­क्ष­मा­त्रस्य चेति ।
तथा च न मुक्ति­सं­सा­र­यो­र्वि­शेष इति भावः ।

सिद्धान्ती प्रकारान्तरेण विशेषमाशङ्कते —
नन्ववच्छिन्न इति ।
प्रति­श­री­र­म­व­च्छि­न्न­त्वेन प्रकाशमानः साक्ष्यानन्दः सातिशयः - उत्क­र्षा­प­क­र्ष­रू­पा­ति­श­य­वा­नि­त्यर्थः ।

साक्ष्या­न­न्द­स्या­ति­श­य­वत्त्वे हेतुमाह —
सुषु­प्ति­सा­धा­र­णा­दि­त्या­दिना ।
स्पष्ट­ता-उ­त्कर्षः । अतिस्पष्टता - अत्युत्कर्षः । सुषुप्तिकाले प्रकाशमानोऽपि साक्ष्यानन्दः स्पष्ट एव । इतरथा तस्य ‘सुखमस्वाप्सम्’ इति परा­म­र्श­नी­य­त्वा­भा­व­प्र­स­ङ्गात् । लोके हि य आनन्दः स्पष्टनुभूतः स एव पुनः परामर्शयोग्यः न त्वनु­भू­ता­न­न्द­मा­त्र­मिति प्रसिद्धम् । तथा च ततः-सा­क्ष्या­न­न्दात् सुषु­प्ता­व­ति­स्प­ष्ट­ता­र­हि­तात् स्त्रक्च­न्द­ना­दि­वि­ष­य­प्र­यु­क्ता­न­न्दे­षू­त्क­र्ष­वि­शे­षा­नु­भ­वा­दि­त्यर्थः ।

अनवच्छिन्न इति ।
कल्पि­ता­व­छे­दा­भा­वात्मा ब्रह्मानन्दो मुक्तिकाले प्रकाशमानः अति­श­य­सा­मा­न्य­र­हित एव इत्यक्षरार्थः । मुक्तौ ब्रह्मानन्द एकरूपेण पूर्णतया च प्रकाशते । इदानीं तादृ­श­ब्र­ह्मा­न­न्द­प्र­काशो नास्ति, किं तु उत्क­र्षा­प­क­र्षो­पे­ता­न­न्द­प्र­काश एवास्ति । अत­स्स्व­रू­पा­न­न्द­स्फु­र­णेऽपि तत्त­दु­त्कृ­ष्टा­न­न्दा­भि­ला­ष­रू­प­पि­शा­ची­ग्र­स्त­तया कस्यापि निर्वृ­ति­र्ना­स्तीति संसा­र­मो­क्ष­यो­र्वि­शेष इति भावः ।

अवि­द्या­प्र­ति­बि­म्ब­रू­प­सा­क्ष्या­न­न्दस्य लोके विषयानन्दत्वेन गृहीतस्य सातिशयत्वे ब्रह्मा­न­न्द­स्यै­क­रू­पत्वे च श्रुतिं प्रमाणयति —
आन­न्द­व­ल्ल्या­मिति ।
मानु­षा­न­न्दः-सा­र्व­भौ­मा­नन्दः । स च शतगुणितस्सन् मनु­ष्य­ग­न्ध­र्वा­नन्दो भवति । सोऽपि शतगुणितस्सन् देव­ग­न्ध­र्वा­नन्दो भवति । एवमेव पित्रानन्दादिषु ‘स एको ब्रह्मण आनन्दः’ [तै.उ.२-८] इत्यु­क्त­हि­र­ण्य­ग­र्भा­न­न्दा­न्तेषु उत्क­र्षा­प­क­र्ष­यो­रु­प­व­र्णनं योजनीयम् ।

समापनादिति ।
‘स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः’ [तै.उ.२-८] इति वाक्येनेति शेषः । पुरुषो मनुष्यः । आद्य­च­का­र­स्ति­र्य­गा­दि­स­ङ्ग्र­हार्थः । आदित्यपदं मण्ड­ला­भि­मा­नि­दे­व­ता­प­रम् । द्विती­य­च­का­र­स्त­दि­त­र­स­क­ल­दे­व­ता­स­ङ्ग्र­हार्थः । तथा च देव­म­नु­ष्य­ति­र्यक्षु सर्वत्र विद्यमानो ब्रह्मानन्दः एकः एकरूप एव, न तु साक्ष्यानन्दवत् सातिशय इति श्रुत्यर्थः । साक्ष्या­न­न्द­वि­ष­या­न­न्द­ब्र­ह्मा­न­न्दानां सति भेदे उक्तरीत्या मुक्ति­सं­सा­र­यो­र्वि­शेषो वक्तुं शक्यते ।

स एव तवासिद्ध इति पूर्ववादी दूषयति —
नेति ।

असम्भवादिति ।
उत्क­र्षा­प­क­र्ष­यो­र्जा­ति­वि­शे­ष­रू­पयोः एकस्यां व्यक्ता­व­स­म्भ­वा­दि­त्यर्थः ।

नन्वा­न­न्द­व्य­क्ते­र्व­स्तु­गत्या एकत्वेऽपि कल्पितभेदवत्यां तस्यां उत्क­र्षा­दि­स्स­म्भ­व­ती­त्य­भि­स­न्धि­मान् सिद्धान्ती शङ्कते —
मानु­षा­न­न्दा­दी­ना­मिति ।
अनु­भ­वा­नु­सा­रि­श्रु­ति­सि­द्धा­न­न्दो­त्क­र्षा­दे­र­प­ला­प­क­र­ण­म­युक्तं पूर्ववादिन इत्यर्थः ।

अभि­स­न्धि­म­वि­द्वा­निव पूर्ववादी दूषयति —
को वेति ।

का तर्ह्य­नु­प­प­त्ति­रिति सिद्धान्ती शङ्कते —
किं त्विति ।

तामाह —
अद्वैतवाद इति ।
आनन्दैकत्वमते इत्यर्थः ।

अशक्यमिति ।
औपाधिकभेदेनापि तदु­प­पा­द­न­म­श­क्यम्, अनु­रू­प­दृ­ष्टा­न्ता­भा­वात्, इति पूर्व­वा­दि­नोऽ­प्य­भि­सन्धिः ।

एक­स्या­म­प्या­न­न्द­व्यक्तौ औपाधिकभेदेन श्रुत्य­नु­भ­व­सि­द्धा­न­न्दो­त्क­र्षा­दे­रु­प­पा­दनं कर्तुं शक्यमिति स्वाभि­स­न्धि­मु­द्घा­ट­यन् सिद्धान्ती शङ्कते —
नन्वेकस्यैवेति ।
आलोकस्य कर­त­ला­दि­स­म्ब­न्ध­र­हि­तस्य या अभिव्यक्तिः तदापेक्षया करतले ईषदधिका अभिव्यक्तिः तदपेक्षया स्फटिके अधिका अभिव्यक्तिः तद­पे­क्ष­या­प्य­धिका दर्प­णा­दा­व­भि­व्य­क्ति­र­नु­भ­व­सिद्धा, तद्वत् प्रकृतेऽपि स्वरू­पा­न­न्द­व्य­ञ्ज­क­वृ­त्ति­ता­र­त­म्येन तत्त­द्वृ­त्त्यु­प­हि­त­सा­क्ष्या­नन्दे उत्क­र्षा­दि­क­मु­प­प­द्यते इत्यर्थः । यद्यालोक एक एकरूपश्च स्वतो भवेत् तदा तथा­वि­ध­स्व­रू­पा­न­न्दस्य दृष्टान्तो भवेत् । न त्वालो­क­स्यै­क­व्य­क्ति­त्त्व­मस्ति, तस्य नाना­कि­र­ण­स­मू­ह­रू­प­त्वात् ।

नाप्येकरूपत्वं तस्यास्ति, तत्रतत्र सौरकिरणानां अल्प­त्व­बा­हु­ल्य­रू­प­ना­ना­रू­प­त्वा­व­ग­मात् - इति पूर्ववादी स्वाभिसन्धिं उद्घाटयन् दूषयति —
नेति ।

अस्म्प्र­ति­प­त्ते­रिति ।
ममा­स­म्म­त­त्वा­दि­त्यर्थः ।

प्रसृमरस्येति ।
गम­न­शी­ल­स्ये­त्यर्थः ।

गतिप्रतिहताविति ।
सूर्यकिरणानां गतिप्रतिबन्धे सतीत्यर्थः । अत एव यत्र भूभागे कर­त­ला­दि­कृ­त­प्र­ति­ब­न्ध­व­शात् सूर्यकिरणा न प्रसरन्ति तत्र तमोरूपा छाया दृश्यते ।

आलोकस्य गतिप्रतिहत्या बहुलीभावे दृष्टान्तमाह —
निम्नतल इति ।
यथा निम्नतले प्रसृमरस्य जलस्य करतलसम्बन्धेन गतिप्रतिहतौ जलस्य बहुलीभावः तथेत्यर्थः ।

अधिकेति ।
कर­त­ला­दि­स­म्ब­न्ध­र­हि­त­ग­गने यः आलोकस्यास्फुटं प्रकाशः तदापेक्षया अधिकेत्यर्थः ।

तदी­य­दी­प्ति­सं­व­ल­ना­दिति ।
दर्पणादेर्या दीप्तिः-प्रभा तया मिश्र­णा­दि­त्यर्थः ।

ततोऽपीति ।
कर­त­ल­ग­त­प्र­का­शा­द­पी­त्यर्थः ।

तत्रेति ।
एकरूपस्यालोकस्य उपा­धि­ता­र­त­म्य­कृ­ता­भि­व्य­क्ति­ता­र­त­म्या­स­म्प्र­ति­प­त्तेर्न तस्य दृष्टान्तत्वं सम्भवतीत्यर्थः ।

उक्त­दृ­ष्टा­न्ता­ङ्गी­कारे सिद्धान्तिनो बाधकमप्याह —
दृष्टा­न्त­स­म्प्र­ति­पत्तौ चेति ।

मुक्तित इति ।
तथा च सिद्धान्ते मुक्तिमुद्दिश्य तत्साधनेषु कस्यापि प्रवृत्तिर्न स्यादिति भावः ।

मुक्ति­सं­सा­र­यो­र­वि­शे­ष­प्र­स­ङ्ग­चोद्ये समा­धा­न­प्र­का­र­वि­शे­षोऽपि वक्ष्यमाणहेतुना निरस्त इत्याह पूर्ववादी —
एतेनेति ।
अनात्मनि देहा­दा­वा­त्म­त्व­ज्ञानं वस्तुत आत्म­स­म्ब­न्ध­शून्ये देहा­दा­वा­त्मी­य­त्व­ज्ञानं च मिथ्याज्ञानम् । तच्च जाग्रदादिकाले स्वरूपानन्दस्य प्रकाशमानस्यापि विक्षेपकं — अस्पष्टतापादकं, मिथ्या­ज्ञा­न­ज­न्य­सं­स्का­रश्च सुषुप्तौ प्रका­श­मा­न­स्या­प्या­न­न्दस्य विक्षे­प­कः-पु­रु­षा­र्थ­त्व­वि­घ­टकः । भोग­प्र­द­क­र्म­वि­शे­षेण उद्बो­धि­त­मि­थ्या­ज्ञा­न­सं­स्का­र­व­शा­देव हि सर्वो जन्तु­स्सौ­षु­प्त­मा­न­न्दा­नु­भवं परित्यजति । ततश्च सौषु­प्ता­न­न्द­प्र­का­श­स्या­ध्रु­वस्य मुमु­क्ष्व­भि­ल­षि­त­त्वा­भा­वात् अपु­रु­षा­र्थ­त्व­मिति भावः ।

दृष्टान्ते प्रभा­या­स्सा­व­य­व­त्वात् तीव्रवायुना केषा­ञ्चि­द­व­य­वानां नाशरूपाद्वा प्रभा­रू­प­ग­त­भा­स्व­र­त्वस्य तेन प्रति­ब­न्ध­रू­पाद्वा विक्षेपात् प्रकाशमानायामपि दीपप्रभायां अस्पष्टप्रकाशता उपपद्यते, अव­य­व­गु­णा­दि­वि­शे­ष­र­हि­तस्य ब्रह्मानन्दस्य तु न तथा विशेष उपपद्यते - इत्याह —
निर्विशेषेति ।
प्रकाशमाने इति सतिसप्तमी । तत्रे­त्य­धि­क­र­ण­स­प्तमी ।

मुक्त्यन्वयिन इति ।
मुक्तिदशायां प्रका­श­मा­न­स्ये­त्यर्थः ।

अतिशयस्येति ।
दृष्टान्त इव अवयवरूपस्य जातिविशेषरूपस्य वेत्यर्थः ।

तस्मादिति ।
मुक्ति­सं­सा­र­यो­र­वि­शे­ष­प्र­स­ङ्गा­दि­त्यर्थः ।

स्यादे­त­दि­त्या­दिना प्राप्तं पूर्वपक्षं निराकरोति —
अत्रा­हु­रि­त्या­दिना ।

एकस्य एकरूपस्य स्वरूपानन्दस्य अभि­व्य­क्ति­ता­र­त­म्येऽ­नु­रूपं दृष्टान्तं वदन् स्वरूपानन्दे श्रुत्य­नु­भ­व­सिद्धं तार­त­म्य­श­ब्दो­क्त­मु­त्क­र्षा­प­क­र्ष­वत्त्वं उपपादयति —
यथेति ।

अत्यु­त्कृ­ष्ट­स्येति ।
धवलरूपाणां मध्ये सर्वो­त्त­म­स्ये­त्यर्थः ।

एकस्येति ।
अनेन वक्ष्यमाणौ उत्कर्षापकर्षौ तत्र स्वतो न स्त इति सूचितम् । ‘तत्रतत्र प्रतिबिम्बे’ इत्येतानि पदानि समानाधिकरणानि ।

धावल्यापकर्ष इति ।
ईष­न्म­लि­न­द­र्प­ण­प्र­ति­बिम्बे अप­क­र्षोऽ­ध्य­स्यते । मध्य­म­वि­ध­म­लि­न­द­र्प­ण­प्र­ति­बिम्बे च तदपेक्षया अधि­कोऽ­प­क­र्षोऽ­ध्य­स्यते । अत्य­न्त­म­लि­न­द­र्प­ण­प्र­ति­बि­म्बे­चा­त्य­न्ता­प­क­र्षोऽ­ध्य­स्यते । ततश्च तादृशदर्पणेषु प्रतिबिम्बतं धवलरूपं तार­त­म्ये­ना­भि­व्य­ज्यते वस्तुत एकरूपमपि स्वरूपेण प्रकाशमानमपि इत्यर्थः ।

अन्तःकरणेति ।
सुषु­प्ता­व­प्य­न्तः­क­रणं सूक्ष्मरूपेण तिष्ठतीति साक्ष्यानन्दस्य सुषु­प्ति­सा­धा­रण्यं बोध्यम् । मतान्तरेषु तु अविद्यायां प्रतिबिम्बिततया साक्ष्या­न­न्द­भावो द्रष्टव्यः ।

आनन्दभाव इति ।
प्राप्ते सतीति शेषः । सम्पत्तिः — परि­पा­कः-फ­ल­ज­न­नौ­न्मु­ख्य­मिति यावत् । प्राक्त­न­सु­कृ­त­स­म्प­त्त्य­धीनो यो विष­य­वि­शे­ष­स­म्पर्कः तत्प्रयुक्तौ यौ सत्त्व­स्यो­त्क­र्षा­प­कर्षौ तद्रूपं यच्छु­द्धि­ता­र­तम्यं तद्युक्तासु सुख­रू­पा­स्व­न्तः­क­र­ण­वृ­त्तिषु प्रतिबिम्बिततया विषयानन्दभावे च प्राप्ते सतीत्यर्थः । वृत्तीनां स्वरू­प­सु­ख­व्य­ञ्ज­क­तया सुख­रू­प­त्व­मु­क्तम् । एतदुक्तं भवति - पूर्वजन्मसु सम्पा­दि­त­पु­ण्य­क­र्म­प­रि­पा­क­व­शात् अन्तःकरणस्य स्त्रक्च­न्द­ना­दि­रू­प­वि­ष­य­वि­शे­ष­गो­च­र­वृ­त्ति­द्वारा विषयविशेषैः सह सम्बन्धे सति तद्ग­त­स­त्त्व­गु­णस्य उत्कृ­ष्ट­वि­ष­य­स­म्ब­न्धा­दु­त्कर्षो भवति । निकृ­ष्ट­वि­ष­य­स­म्ब­न्धा­न्नि­कर्षो भवति । ततश्च अन्तः­क­र­ण­ग­त­स­त्त्वां­श­प­रि­णा­म­रूपाः वृत्तयः स्वरू­पा­न­न्द­गो­चरा जायन्ते । जायमानाश्च ताः उत्क­र्षा­प­क­र्षो­पेता एव जायन्ते । तास्वा­न­न्द­प्र­ति­बिम्बो विषयानन्द इत्युच्यते — इति । ननु - स्वरू­पा­न­न्द­गो­च­र­स­त्त्व­वृ­त्ति­ग­ता­प­क­र्ष­व­शात् प्रतिबिम्बरूपे विषयानन्दे अपकर्षाध्यासो वक्तव्यः । मलि­न­द्र­व्य­कृ­त­द­र्प­णो­पा­धि­नि­ष्ठा­प­क­र्ष­व­शात् तत्प्रतिबिम्बे अप­क­र्षा­ध्या­स­द­र्श­नात् ।

तथा च स्वरू­पा­न­न्द­गो­च­रासु वृत्तिषु सत्त्व­गु­ण­प­रि­णा­म­भू­तासु अपकर्षप्रयोजकं मलिनद्रव्यं किञ्चिदवश्यं वक्तव्यम्, साक्षा­द्द­र्प­ण­सं­यु­क्त­स्यैव मलिनद्रव्यस्य दर्प­णेऽ­प­क­र्षा­धा­य­क­त्व­द­र्श­नात् - इत्यत आह —
तमोगुणरूपेति ।
अन्तःकरणस्य सत्त्व­र­ज­स्त­मो­गु­णा­त्म­क­त्वात्, तद्वृत्तिष्वपि तमो­गु­ण­रू­पो­पा­धि­र­नु­व­र्तते, तत्कृतो यो मालि­न्य­ता­र­त­म्य­दोषः - अप­क­र्ष­ता­र­त­म्या­त्मको वृत्तिगतदोष इति यावत्, तस्माद्दोषात् अपकर्षः सत्त्व­वृ­त्ति­प्र­ति­बि­म्ब­रूपे विष­या­न­न्देऽ­ध्य­स्यते इत्यर्थः । पूर्वं विषयसम्पर्कः सुख­रू­प­वृ­त्ति­का­र­ण­त्वेन निर्दिष्टः । तत्र ‘विषयविशेष’ इति विशेषपदं विष­य­ग­तो­त्क­र्ष­ता­र­त­म्य­प­रम् । तत्तारतम्यं च सुख­रू­प­वृ­त्ति­ग­तो­त्क­र्ष­ता­र­त­म्य­प्र­यो­ज­क­त्वेन निर्दिष्टम्, इह तु सुख­रू­प­वृ­त्ति­ष्वे­वा­प­क­र्ष­प्र­यो­ज­क­तया अप­क­र्ष­ता­र­त­म्य­प्र­यो­ज­क­तया च तारतम्योपेतं तमोगुणात्मकं मलिनद्रव्यं निर्दिष्टम् — इति विभागो बोध्यः ।

ततः किं तत्राह —
इति संसारदशायामिति ।
प्रका­श­मा­नेऽ­प्या­नन्दे यत् अध्य­स्त­म­प­क­र्ष­ता­र­तम्यं तेन साति­श­य­त्वा­द्वि­ष­या­न­न्द­स्ये­त्यर्थः । तथा च निकृ­ष्ट­मा­न­न्द­म­नु­भ­वतः उत्कृ­ष्टा­न­न्द­तृ­ष्णा­भि­भू­तस्य तत्सम्पादनाय प्रयतमानस्य तत्सा­ध­न­त्व­भ्रान्त्या कदाचित् दुःखसाधनेष्वपि प्रवर्तमानस्य देव­म­नु­ष्य­ति­र्य­गा­दि­यो­न्या­प­त्ति­ल­क्षणो भवत्यनर्थ इति नास्ति निर्वृ­ति­रि­त्यर्थः ।

निवृत्तेरिति ।
मूला­ज्ञा­न­नि­वृत्तौ तत्का­र्यो­पा­धि­नि­वृत्त्या तत्कृ­ता­प­क­र्षा­द्य­ध्या­स­नि­वृ­त्ते­रि­त्यर्थः ।

कृतकृत्यतेति ।
कृत्यं - कर्तव्यजातं कृतं येन सः कृतकृत्यः । तस्य भावस्तत्ता । पुरुषस्य हि विद्यो­द­या­त्पूर्वं दुःखनिवृत्तये सुखावाप्तये च बहु­क­र्त­व्य­जा­त­मा­सीत् । विद्योदये तु दुःखमात्रस्य निवृत्तत्वात् अत्यु­त्कृ­ष्ट­ध­व­ल­रू­पस्य निर्मलदर्पण इव निर­ति­श­य­स्व­रू­पा­न­न्द­भा­नाच्च तन्निवृत्तये तत्प्राप्तये वा न किञ्चित् कर्तव्यमस्तीति कृतकृत्यतेति भावः । तदाह भगवान् श्रीकृष्णः - ‘एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत’ इति [भ.गी.१५-२०] एत­त्-नि­र­ति­शा­या­न­न्द­रूपं ब्रह्म अपरोक्षतया बुद्ध्वा बुद्धि­मा­न्-प­ण्डितो भवति, कृतकृत्यश्च भवति, हे भारत-अर्जुन । यत­स्त­त्त्व­ज्ञानं विना पाण्डित्यादिकं न लभ्यते तस्मात्तदेव सम्पादय, अन्यत् सर्वं परित्यज, इति भावः ।

विशे­षो­प­प­त्ते­रिति ।
मुक्ति­सं­सा­र­यो­रिति शेषः ।

ननु ब्रह्मानन्दवत् साक्ष्या­न­न्दोऽपि आवृतोऽस्तु, तथा च मुक्ति­सं­सा­र­यो­र्वि­शे­ष­स्सु­वच इति, नेत्याह —
निरुपाधिकेति ।
एवंभूतः प्रेमा स्वरू­पा­न­न्दा­व­र­ण­सत्त्वे न सम्भवति, लोके प्रकाशमानसुख एव प्रीते­र­नु­भ­व­सि­द्ध­त्वात् इति भावः । ‘साक्षि­चै­त­न्य­स्या­ना­वृ­तत्वे तद­भि­न्न­स्या­न­न्द­स्या­प्य­ना­वृ­त­त्वा­पत्त्या मुक्ति­सं­सा­र­यो­र­वि­शे­ष­प्र­सङ्गः’ इति पूर्वपक्षे प्राप्ते स्वरू­पा­न­न्द­स्या­ना­वृ­त­त्वेऽपि तयो­र्वि­शे­ष­स्स­म्भ­व­तीति सिद्धान्तो दर्शितः ।

इदानीं तस्या­वृ­त­त्व­मु­पे­त्यैव विशेषं मुक्ति­सं­सा­र­यो­र्व­दन् सिद्धान्तं दर्शयति —
अन्ये त्विति ।
‘वेदा­न्त­प्र­ति­पा­द्य­स्व­रू­पा­नन्दो मे नास्ति न प्रकाशते’ इति व्यवहारदर्शनात् तद्धेभूतमावरणं तावदस्त्येव संसारदशायाम्, मुक्तौ तु तदावरणनाशात् स्वरू­पा­न­न्द­स्फु­र­ण­म­स्तीति न तयो­र­वि­शे­ष­प्र­सङ्ग इत्यर्थः । अत्र प्रका­श­मा­नोऽ­प्या­नन्द आवृत एवेति सम्बन्धः । न त्वनावृतः, तस्यानावृतत्वे उक्त­व्य­व­हा­र­वि­रो­ध­प्र­स­ङ्गात् - इत्ये­व­का­रा­भि­प्रायः । नन्वेवमात्मनि सदा निरुपाधिकप्रेमा न स्यात्, अना­वृ­त­स्व­रू­पा­न­न्द­स्फु­र­ण­स्या­भा­वात् वृत्ति­कृ­ता­न­न्द­स्फु­र­णस्य च कादा­चि­त्क­त्वा­दिति चेत्, न - फल­ब­ले­ना­वृ­त­स्यापि स्वरू­पा­न­न्द­प्र­का­शस्य निरु­पा­धि­क­प्रे­म­हे­तु­त्व­क­ल्प­नात्, ‘भासत एव पर­म­प्रे­मा­स्प­द­त्व­ल­क्षणं सुखं’ इति विव­र­ण­स्या­प्य­त्रैव तात्प­र्यो­प­प­त्तेश्च । अने­नै­वा­भि­प्रा­येण प्रका­श­मा­नोऽ­पी­त्यु­क्तम् । अन्यथा प्रका­श­मा­न­त्व­वि­शे­ष­ण­स्या­वृ­त­त्व­क­ल्पने उपयोगाभावेन वैय­र्थ्य­प्र­स­ङ्गा­दिति बोध्यम् ।

साक्षि­चै­त­न्या­भि­न्नस्य साक्ष्यानन्दस्य आवृतत्वे साक्षि­चै­त­न्य­म­प्या­वृतं स्यात्, एकत्र आवृ­त­त्वा­ना­वृ­त­त्व­यो­र्यु­ग­प­द्वि­रो­धात्, इत्यत आह —
एकस्मिन्नपीति ।
यथा वस्तुत एकस्मिन्नेव चैतन्ये जीत्वे­श्व­र­त्वाख्यौ रूपभेदौ कल्प्येते, ‘नाहमीश्वरः किं तु संसारी’ इति व्यवहारबलात्, तथा ‘अहं सुखी’ इत्यादिज्ञानं आनन्दो न भवति इत्या­दि­रू­पे­णा­ह­ङ्का­रा­द्य­व­भा­स­क­ज्ञा­न­स्या­न­न्द्रा­द्भे­द­व्य­व­हा­र­द­र्श­नात् तदनुरोधेन चित्त्वा­न­न्द­त्वाख्यौ रूप­भे­दा­व­ना­दि­सिद्धौ कल्प्येते । यथा च एकस्मिन्नेव चैतन्ये जीव­त्वा­व­च्छे­दे­ना­ज्ञ­त्वा­दिकं ईश्व­र­त्वा­व­च्छे­देन तदभावश्च कल्प्यते तथै­वा­न­न्द­त्वा­व­च्छे­देन आवृतत्वं चित्त्वा­व­च्छे­देन अह­ङ्का­रा­द्य­व­भा­स­क­चै­तन्ये तदभावश्च कल्प्यते फलबलात् इति न विरोधः, जीवत्वादेरिव चित्त्वा­दि­रू­प­भे­द­स्या­प्य­वि­द्या­क­ल्पि­त­त्वा­भ्यु­प­ग­मात् नाद्वै­त­वि­रो­ध­श्चे­त्यर्थः ।

नन्वेकस्मिन् साक्षिणि रूप­भे­दे­ना­वृ­त­त्व­त­द­भा­व­यो­र्वि­रो­धा­भा­वेऽपि ‘आनन्दः प्रका­श­मा­नोऽ­प्या­वृतः’ इति विरुद्धम्, प्रका­श­स्या­व­र­ण­वि­रो­धि­त्वा­दि­ति-ने­त्याह —
स्वरू­प­प्र­का­श­स्येति ।
आग­न्तु­क­वृ­त्ति­रू­प­प्र­का­शस्य आव­र­ण­वि­रो­धि­त्व­क­ल्प­नात् न स्वरू­प­प्र­का­श­स्त­द्वि­रोधी, तस्या­व­र­ण­सा­ध­क­त्वा­दि­त्यर्थः । नन्वेवं ‘प्रका­श­मा­नोऽ­प्या­नन्द आवृतः’ इति ग्रन्थे प्रका­श­मा­न­त्व­वि­शे­षणं स्वरू­प­प्र­का­श­स्या­व­र­णा­वि­रो­धि­त्व­ज्ञा­प­ना­र्थ­मिति तत्प्र­यो­ज­न­स­म्भ­वात् तद्वि­शे­ष­ण­मा­त्मनि निरु­पा­धि­क­प्रे­म­स­म्भ­व­ज्ञा­प­न­प्र­यो­ज­न­क­मिति यदुक्तं तत् न सम्भवतीति चेत्, तर्हि विनिगमकाभावेन तद्वि­शे­ष­ण­स्यो­भ­य­प्र­यो­ज­न­क­त्व­मस्तु । स्वरूपप्रकाशे आव­र­णा­वि­रो­धि­त्व­स्येव आनन्दावरणपक्षे आनन्दरूपे आत्मनि निरु­पा­धि­क­प्रे­म­स­म्भ­व­स्या­प्य­वश्यं ज्ञापनीयत्वात् ।

स्वरू­प­प्र­का­श­स्या­व­र­णा­वि­रो­धित्वे हेत्वन्तरमाह —
त्वदुक्तमिति ।
एवकारानन्तरं आप्तोक्तार्थे इति शेषः । ‘श्रीकृष्णः एव वेदान्तवेद्यः परमात्मा दुर्वि­ज्ञे­योऽ­य­म­कृ­ता­त्मभिः, इत्या­प्तो­प­दे­शा­न­न्तरं मन्दस्य वाक्यार्थबोधो न भवति । स च मन्दः ‘त्वदुक्तमर्थं न जानामि’ इत्य­ज्ञा­न­म­नु­भ­व­तीति प्रसिद्धं लोके । तत्र ‘त्वद्वा­क्य­स्या­स्ति­क­श्चि­दर्थ इति जानामि, आप्त­वा­क्य­त्वात्, विशेषं तु न जानामि’ इति व्यवहारदर्शनात् अवगतो यः त्वद्वा­क्या­र्थ­त्व­ल­क्ष­ण­स्सा­मा­न्या­कारः स एव विशे­षा­वा­र­का­ज्ञा­नस्य विशेषणतय प्रकाशते ।

तथा च ‘त्वदुक्तमर्थं न जानामि’ इत्यनुभवे अज्ञानविशेषणतया प्रकाशमानस्य सामान्याकारस्य आव­र­ण­वि­ष­य­त्वा­भा­वात् आवरणविषयस्य विशेषस्य प्रका­श­मा­न­त्वा­भा­वात् प्रका­श­मा­न­स्या­वृ­तत्वे नायमनुभवः प्रमाणमिति शङ्कते —
न च तत्रेति ।

अन्या­वा­र­का­ज्ञा­न­स्या­न्या­व­च्छे­देन प्रकाशाभ्युपगमे ‘चैत्रं न जानामि’ इत्य­नु­भू­य­मा­ना­ज्ञा­नस्य विष्णु­मि­त्र­वि­ष­य­क­त्व­प्र­सङ्ग इति दूषयति —
अन्यावरणस्येति ।
ननु — त्वद्वा­क्या­र्थ­त्व­ल­क्षण आकारस्तावत् सामान्यरूपः, आप्तोपदिष्टे श्रीकृष्ण इव तदुपदिष्टेषु श्रीकृ­ष्ण­प्र­ति­प­त्त्यु­पा­ये­ष्वपि त्वद्वा­क्या­र्थ­त्वस्य सत्त्वात् । वेदा­न्त­वे­द्य­त्वा­दि­ल­क्ष­णा­का­रस्तु विशेषरूपः । तस्य श्रीकृ­ष्ण­स्व­रू­प­मा­त्र­वृ­त्ति­त्वात् ।

तथा च विशे­षा­वा­र­का­ज्ञानं सामा­न्या­का­रा­व­च्छे­देन प्रकाशत इत्युपगमे नातिप्रसङ्गः, चैत्र­त्व­वि­ष्णु­मि­त्र­त्व­यो­स्सा­मा­न्य­वि­शे­ष­भा­वा­भा­वात् - इति शङ्कते —
न च सामान्येति ।

किं सामा­न्य­वि­शे­ष­भावः श्रीकृ­ष्ण­मू­र्ति­त्व­वि­ष्णु­मू­र्ति­त्व­यो­रिव व्याप्य­व्या­प­क­भावः, तदतिरिक्तो वा? न द्वितीयः, तस्यानिरूपणात् - इत्याशयेनाह —
व्याप्येति ।

आद्ये दोषमाह —
वह्निमिति ।
तस्मा­द­ज्ञा­ना­नु­भवे अज्ञानविशेषणतया यद्वस्तु प्रकाशते तदेवावरणविषय इति वक्तव्यम् । न च ‘त्वदुक्तमर्थं न जानामि’ इति ज्ञानस्य तव­दु­क्ता­र्थ­प्र­का­र­कत्वे सति अज्ञा­न­वि­शे­ष्य­क­त्वेन त्वदुक्तार्थो विशेषरूप एवेत्युपगमे तज्ज्ञानस्य विशे­ष­ण­ज्ञा­न­रू­प­का­र­णस्य अभावात् तद्वि­शि­ष्टा­ज्ञा­ना­नु­भवो न स्यादिति वाच्यम् । अज्ञानानुभवस्य नित्य­सा­क्षि­रू­प­त्वो­प­ग­मेन तत्र विशे­ष­ण­ज्ञा­ना­न­पे­क्ष­णात् । न च प्रका­श­मा­न­त्व­मा­वृ­तत्वं च विरुद्धं प्रका­श­स्या­व­र­ण­वि­रो­धि­त्वा­दिति वाच्यम् ।

अस्य विरोधस्य प्रागेव परिहृतत्वात् - इत्या­श­ये­नो­प­सं­ह­रति —
तस्मादिति ।
अन्या­वा­र­का­ज्ञा­न­स्या­न्या­व­च्छि­न्न­तया भाना­स­म्भ­वा­दि­त्यर्थः ।

यदवच्छिन्नमिति ।
येन वस्तुना विशेषितं इत्यर्थः ।

नन्वा­न­न्द­स्या­वृ­तत्वे विष­य­सं­प­र्क­द­शायां [विशिष्या] [विषया] नन्दप्रकाशो न स्यादित्यत आह —
अज्ञानं चेति ।

ननु वृत्ते­रा­व­र­णा­भि­भा­व­क­त्वो­प­ग­मा­द­ज्ञा­नस्य सुख­वृ­त्ति­वि­ष­यी­कृ­ता­न­न्दा­ना­वा­र­क­त्व­मिति कथमुच्यते, तत्राह —
स एवेति ।
सुख­वृ­त्ति­वि­ष­य­त्व­प्र­यु­क्ता­ना­वा­र­क­त्व­स्व­भाव एव वृत्ति­कृ­ता­व­र­णा­भि­भव इत्यर्थः ।

ननु सुख­रू­प­वृ­त्ते­रे­क­रू­प­त्वात् तत्कृ­ता­व­र­णा­भि­भ­वोऽ­प्ये­क­रूप एव स्यात्, तथा च विष­य­स­म्ब­न्ध­द­शा­या­मा­न­न्दोऽ­प्ये­क­रू­प­त­यैव प्रकाशेत, न तूत्कृ­ष्टा­प­कृ­ष्ट­रू­पे­णेति - नेत्याह —
स चेति ।
यथा प्रत्यूषसमये आलोकतारतम्येन बाह्यतमसः तार­त­म्य­यु­क्ता­भि­भवो भवति, ततश्च तत्त­म­साऽऽ­वृ­तानां पदार्थानां तारतम्ययुक्तं प्रकाशनं भवति, एवं विष­य­वि­शे­ष­रू­प­का­र­ण­वि­शे­ष­प्र­युक्तो यो वृत्तिषु विशेषः उत्क­र्ष­ता­र­त­म्य­रूपः तद्वशात् तरतमभावयुक्त एव आवरणाभिभवो भवति, ततश्च आनन्दोऽपि तरतमभावयुक्त एव प्रकाशते इत्यर्थः ।

एव­म­प्या­न­न्द­स्यै­क­त्वा­भ्यु­प­ग­मा­त्त­द्भे­द­प्रथा कथं सिद्ध्यति, तत्राह —
अत इति ।
वस्तुत एकस्मिन्नपि आनन्दे उपा­धि­प्र­यु­क्त­भे­दा­भ्यु­प­ग­मा­दि­त्यर्थः । तथा च विद्यया आवरणस्य निवृत्तौ सत्यां प्रकाशमानानन्दः स्वरूपानन्दः, तद­नि­वृ­त्ति­द­शायां वृत्ति­स­म्ब­न्धात् प्रकाशमानानन्दो विषयानन्दः, इति स्वरू­पा­न­न्द­वि­ष­या­न­न्द­यो­र्भेदो ज्ञातव्यः, तथा वृत्ति­भे­दे­ना­न­न्द­भे­दा­भ्यु­प­ग­मात् विषयानन्दानां परस्परं भेद­प्र­सि­द्धि­श्चा­व­क­ल्पते, इत्यर्थः ।

अहंकारादीनां केव­ल­सा­क्षि­भा­स्यत्वं परमप्रकृतं सिद्ध­मि­त्या­श­ये­नाह —
सर्वथापीति ।
स्वरू­पा­न­न्द­स्या­ना­वृ­त­त्व­पक्षे तस्या­वृ­त­त्व­पक्षे चेत्यर्थः ।

तेनेति ।
साक्षि­चै­त­न्ये­ने­त्यर्थः ।