कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
मायायाः जगत्कारणत्वविचारः
इदानीं ब्रह्मलक्षणस्योपादानत्वस्यासम्भवमाशङ्कते —
अथेति ।
श्रुतौ तुशब्दो मायायाः प्रकृतित्वमवधारयति ।
यथा मृदादिगतश्लक्ष्णत्वादेः घटादावनुगमात् घटादौ मृदादेरुपादानत्वं तथा मायागतजाड्यस्य जगत्यनुगमात् तस्यास्तदुपादानत्वमिति युक्तिमप्याह —
मायाजाड्यस्येति ।
कथमिति ।
ननु ब्रह्मण उपादानत्वं बहुश्रुत्युदाहरणेन पूर्वं दर्शितम् । सत्यं दर्शितं, तत्तु न सम्भवति, निरवयवस्य तस्य मृदादेरिव परिणाम्युपादानत्वासम्भवात् । न च - विवर्तोपादानत्वं निरवयवस्यापि सम्भवति गगनादौ नैल्याद्यारोपदर्शनात् इति वाच्यम् । परिणामिष्विव विवर्ताधिष्ठानेषु लोके उपादानत्वप्रसिद्ध्यभावेन तत्रोपादानत्वाभ्युपगमस्य परिभाषामात्रत्वात्, इत्याक्षेपाभिप्रायः ।
उपादानत्वघटितब्रह्मलक्षणस्यासम्भवं निराचष्टे —
अत्राहुरित्यादिना ।
सत्तेति ।
न च बाधायोग्यस्वरूपभूतायास्तस्याः ब्रह्मस्वरूपत्वात् सत्तायास्तद्धर्मत्वोक्तिरयुक्तेति वाच्यम् । ‘राहोश्शिरः’ इतिवत् भेदकल्पनया तद्धर्मत्वव्यवहारोपपत्तेरिति भावः ।
ननु उपादानद्वयं व्यर्थमिति, नेत्याह —
तत्रेति ।
यद्वा निरवयवस्य ब्रह्मणः उपादानत्वमनुपपन्नमिति, नेत्याह —
तत्रेति ।
मायाब्रह्मणोर्मध्ये इत्यर्थः ।
आक्षेपाभिप्रायमनूद्य निराचष्टे —
न चेति ।
मृदादिषु प्रसिद्धस्योपादानलक्षणस्य विवर्ताधिष्ठानेष्वपि सत्त्वात् तेषु उपादानत्वाभ्युपगमस्य परिभाषामात्रत्वं नास्तीत्यर्थः ।
स्वात्मनीति ।
अत्र स्वशब्दः उपादानत्वाभिमतवस्तुपरः । तथा च कार्याधारत्वे सति कार्यजनिहेतुत्वमुपादानत्वम् । निमित्तकारणवारणाय सत्यन्तम् । भूतलादेरपि कार्याधारत्वात् तद्वारणाय विशेष्यम् ।
तत्रापीति ।
विवर्ताधिष्ठानेऽपीत्यर्थः ।
उक्तामेवेति ।
प्रपञ्चे उभयोरपि मायाब्रह्मणोरुपादानत्वम्, तत्र च परिणामितया मायाया उपादानत्वम्, अधिष्ठानतया च ब्रह्मण उपादानत्वम्, उभयोरुपादानत्वे श्रुतिन्याययोरुपपत्तिश्च — इत्येतामित्यर्थः ।
स्वाभिन्नेति ।
स्वशब्देन घटाद्युपादानमृदादिजगत्परिणाम्युपादानभूतमज्ञानं जगद्विवर्तोपादानभूतं ब्रह्म च गृह्यते । तत्र घटादेः मृदादेस्सकाशात् अभेदः स्फुटः ‘मृदेव घटः’ इत्यनुभवात् ।
अज्ञाने ब्रह्मणि च कार्याभेदमनुभवेन दर्शयति —
अस्ति चेति ।
ननु ‘मृत् घटः’ इतिवत् ‘ब्रह्म घटः, ब्रह्म पटः’ इत्यनुभवो नास्ति । तथा ‘अज्ञानं घटः’ इत्याद्यनुभवोऽपि नास्ति । अतः प्रपञ्चस्य अज्ञानेन ब्रह्मणा च कथमभेदोऽस्तीति शङ्कानिरासाय ब्रह्मणस्सद्रूपत्वं विशेषणं दत्तम्, अज्ञानस्य च जडत्वम् ।
तथा च ब्रह्माज्ञानाभ्यां सह ब्रह्मत्वाज्ञानत्वाकारेणाभेदानुभवाभावेऽपि सत्त्वजडत्वरूपेण ताभ्यां सह प्रपञ्चस्याभेदानुभवोऽस्तीत्याह —
सन् घट इत्यादिना ।
ननु घटोत्पत्तेः पूर्वं तत्कारणद्रव्यस्य मृत्त्वानुभवात् मृत्त्वस्य कारणधर्मत्वे सिद्धे सति ‘मृत् घटः’ इति प्रत्यक्षानुभवः कार्यकारणद्रव्ययोरभेदावगाहीति युक्तम् । सत्त्वजडत्वयोस्तु कारणधर्मत्वे किं मानम्, येन ‘सन् घटः, जडो घटः’ इत्यनुभवबलेन सद्रूपजडरूपाभ्यां ब्रह्माज्ञानाभ्यां प्रपञ्चस्य अभेदः सिद्ध्येत्, इति चेत्-उच्यते — ब्रह्मणस्सद्रूपत्वं ‘सदेव’ [छा.उ.६-२-१] इत्यादिश्रुतिसिद्धम् । ’तदेतज्जडं मोहात्मकम्’ [नृ.उ.९-२] इति श्रुत्या अज्ञानस्य जडत्वं सिद्धम् । तथा च घटादौ मृद्द्रव्याभेदात् मृत्त्वानुभववत् सद्वस्त्वादिरूपकारणद्रव्याभेदादेव प्रपञ्चे सत्त्वजडत्वानुभवोपपत्तौ पृथक्सत्त्वादिधर्मो नोपेयते । तथा च ‘सन् घटः, जडो घटः’ इत्याद्यनुभवोऽपि कार्यकारणद्रव्याभेदावगाहीति भावः । न च जडरूपाज्ञानस्य प्रपञ्चाभेदसिद्धावपि मायायाः किमायातमिति वाच्यम्, तयोरभेदाभ्युपगमात् इति भावः ।
कार्यकारणयोरभेदाभ्युपगमे अपसिद्धान्तं शङ्कते —
न चेति ।
तयोः - कार्यकारणयोः अनन्यत्वमुपगन्तव्यम् । कुतः, आरम्भणशब्दादिभ्यः । वाचारम्भणश्रुतिः आरम्भणशब्दार्थः । ‘आत्मैवेदं सर्वम्’ [छा.उ.७-२५-२] इत्यादिसार्वात्म्यप्रतिपादकश्रुतिः ‘नेह नानास्ति किञ्चन’ [बृ.उ.४-४-१९] इत्यादिनिषेधश्रुतिश्च आदिपदार्थः । वाचारम्भणश्रुतिः विवर्तलक्षणकथनावसरे व्याख्याता । कार्यस्य कारणात्तत्त्वान्तरत्वे जगत्कारणस्य ब्रह्मणः सर्वात्मकत्वश्रुतिरनुपपन्ना स्यात् । तथा ब्रह्मोपादानकस्य जगतः सत्यत्वे ब्रह्मणि जगन्निषेधो न स्यात् । अतः कारणीभूतब्रह्मानन्यत्वं प्रपञ्चस्याभ्युपगन्तव्यमिति भावः । ननु सौत्रानन्यत्वपदेन कार्यकारणयोरैक्यं प्रतीयते, तदनुपपन्नम्, कार्यकारणभावविरोधात्, चिज्जडयोः ब्रह्मप्रपञ्चयोरैक्यायोगाच्च इति शङ्कां निराकर्तुं सौत्रानन्यत्वपदं व्याचष्टे भाष्यकारः अनन्यत्वं व्यतिरेकेणाभाव इति । न च कारणव्यतिरेकेण कार्यस्याभावे कथं कार्यकारणभाव इति वाच्यम् । कारणसत्त्वव्यतिरेकेण कार्यसत्त्वाभावस्य विवक्षिततया कार्यस्वरूपापलापशङ्कानवकाशात् । सौत्रानन्यत्वपदतात्पर्यप्रदर्शकं भामतीनिबन्धनवाक्यमुदाहरति न खल्विति । ‘अनन्यत्वम्’ इतिपदेन कार्यकारणयोरभेदं न ब्रूमः । चेतनाचेतनयोरभेदानुपपत्तिः तन्निषेधहेतुः ‘खलु’शब्देन द्योत्यते ।
तर्हि कारणब्रह्मविज्ञानात् सर्वविज्ञानं श्रुतिसिद्धं न सम्भवेत्, अभेदानभ्युपगमात्, इति शङ्कते -
किं त्विति ।
परिहरति -
भेदमिति ।
कार्यकारणयोस्सत्त्वभेदं व्यासेधाम इत्यर्थः । तथा च कारणब्रह्मस्वरूपमेव कार्यस्य वास्तवं स्वरूपमिति तस्मिन् विदिते तद्व्यतिरिक्तं सर्वं तत्त्वतो विदितं भवतीति नैकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधः । न च ब्रह्मस्वरूपज्ञानेन सर्वप्रपञ्चस्य वास्तवस्वरूपे विदितेऽपि तत्तदसाधारणरूपज्ञानासम्भवात् प्रतिज्ञाविरोधस्तदवस्थ एवेति वाच्यम् । ‘आत्मनि….दृष्टे….सर्वं विदितं भवति’ [बृ.उ.४-५-६] इत्यादिप्रतिज्ञावाक्येषु सर्वपदस्य सर्वतत्त्वपरत्वेन तत्तदसाधारणरूपेण सर्वज्ञानस्याविवक्षितत्वात् । न च तथाकल्पनायां किं विनिगमकमिति वाच्यम् । सर्वप्रपञ्चतत्त्वज्ञानमात्रेण अद्वितीयब्रह्मज्ञानस्य मुक्तिसाधनस्य लाभेन तत्तदसाधारणरूपज्ञाननैष्फल्यस्यैव विनिगमकत्वात्, कारणे ब्रह्मणि विदितेऽपि सर्वप्रपञ्चगततत्तदसाधारणरूपज्ञानस्यासम्भवेन सर्वविज्ञानश्रुतेस्तत्परत्वे प्रामाण्याभावप्रसङ्गाच्च, भेददर्शनस्यानर्थहेतुतया श्रुतिषु तत्रतत्र निन्दितत्वाच्च, प्रतिज्ञाश्रुतेः न नानारूपज्ञाने तात्पर्यम् । तदुक्तं पञ्चदश्याम् - अद्वैतेऽभिमुखीकर्तृमेवात्रैकस्य बोधतः । सर्वबोधः श्रुतो नैव नानात्वस्य विवक्षया ॥’ [१३-६०] इति । अस्यार्थः - अत्र - वेदान्तेषु एकस्य - ब्रह्मणः बोधेन सर्वस्य प्रपञ्चस्य बोधः अद्वैते ब्रह्मणि - मुमुक्षुं अभिमुखीकर्तृमेव - मुमुक्षोरद्वितीयब्रह्मबोधार्थमेव श्रुतः । अद्वितीयब्रह्मबोधश्च ‘सर्वस्य ब्रह्मैव वास्तवं स्वरूपम्’ इति ज्ञानमात्रात् सिद्ध्यतीति भावः ।
ननु ब्रह्मणि विदिते सर्वं विदितं भवति इति श्रुतौ स्वरसतः प्रतीयमानं तत्तदसाधारणरूपेण सर्वज्ञानमेव श्रुत्यर्थः किं न स्यादिति, नेत्याह —
नैवेति ।
नानात्वबोधविवक्षया सर्वबोधो नैव श्रुतः इति योजना । प्रयोजनाभावात् बाधितत्वात् निन्दितत्वाच्च इति भावः ।
तयोरिति ।
भाष्यभामतीनिबन्धनयोरित्यर्थः । न च प्रपञ्चब्रह्मणोः वास्तवाभेदनिषेधे सति वास्तवो भेदः स्यात् इति वाच्यम् । भेदस्य वास्तवत्वं हि धर्मिप्रतियोगिनोः वास्तवत्वापेक्षम्, तत्र ब्रह्मणो वास्तवत्वेऽपि प्रपञ्चस्य आरम्भणशब्दादिभ्यो मिथ्यात्वावगमेन तयोर्भेदस्य सत्यत्वायोगात् इति भावः ।
प्रातीतिकेति ।
यथा ‘इदं रजतं’ इति भ्रान्तिसिद्धं रजतेदमर्थयोरभिन्नत्वं तथा ‘सन् घटः’ इत्यादिभ्रान्तिसिद्धाभेदोपगमे सिद्धान्तविरोधाभावादिति भावः । ‘मायां तु प्रकृतिं विद्यात्’ इति श्रुत्या अवधारणार्थक’तु’शब्दवत्या मायाया एव उपादानत्वावगमेन ब्रह्मण उपादानत्वाभावात् उपादानत्वघटितब्रह्मलक्षणस्यासम्भवशङ्कायां सत्यां - मायाब्रह्मणोरुभयोरपि प्रकृतित्वमस्ति, श्रुतियुक्त्योरविशेषात्, ‘मायां तु’ इति श्रुतौ ‘तु’शब्दो नावधारणार्थः, किं तु सद्रूपब्रह्मापेक्षया मायाया वैलक्षण्यद्योतनार्थः, तच्च वैलक्षण्यं परिणामित्वरूपं प्रकृतित्वं मायायाः - इत्याशयवतां पदार्थतत्त्वनिर्णयकारादीनां मतेन लक्षणासम्भवशङ्का परिहृता ।
इदानीं ब्रह्मैवोपादानं न माया, अतो न लक्षणासम्भवशङ्कावकाशः इति मन्यमानानां मतद्वयं आह —
संक्षेपशारीरककृतस्त्वित्यादिना ।
तर्हि व्यर्था मायेति, नेत्याह —
कूटस्थस्येति ।
यदि मायां विनैव ब्रह्म उपादानं स्यात्, तदा ब्रह्मणः स्वतःपरिणामित्वमेव स्यात्, तथा च परिणामवादिभिः परिणामपरिणामिनोः वास्तवाभेदाभ्युपगमात् परिणामस्य जन्मादिविकारैः ब्रह्मापि विकारवदेव स्यात् । न चेष्टापत्तिरत्र वक्तुं शक्यते । ‘न जायते’ [क.उ.२-१८] इत्यादिबहुश्रुतिषु ब्रह्मणो जन्मादिविकारराहित्यरूपकूटस्थत्वप्रति पादनविरोधात् । अतो मायाद्वारा ब्रह्मणः कारणत्वं वक्तव्यमिति न व्यर्था मायेत्यर्थः । यथा मृद्वस्तुन उपादानत्वेऽपि तद्गतश्लक्ष्णत्वादिसंस्कारो द्वारकारणम्, न ह्यसंस्कृतस्य मृद्वस्तुनः घटाद्युपादानत्वं घटते, तथा कूटस्थचैतन्यरूपे ब्रह्मणि समारोपिता माया तत्र जगत्प्रकृतित्वं घटयन्ती सहकारिकारणमुपेयते, इति भावः । न च मायाया उपादानत्वाभावे ‘मायां तु प्रकृतिं विद्यात्’ इति श्रुतिविरोध इति वाच्यम् । ब्रह्मगतप्रकृतित्वनिर्वाहकतामात्रेण तस्यां प्रकृतित्वश्रुत्युपपत्तेः । मायायाः प्रकृतित्वनिर्वाहकत्वमात्रं, न स्वतः प्रकृतित्वमस्ति, इत्याशयेनैव तस्यां शक्तित्वव्यवहारः श्रुतौ दृश्यते — ‘परास्य शक्तिर्विविधैव श्रूयते’ [श्वे.उ.६-८] इति । न हि मृदादिपदार्थगतशक्तेः किञ्चित्कार्यं प्रत्युपादानत्वं प्रसिद्धं लोके । अत एव विनिगमकाभावात् मायाब्रह्मणोरुभयोरप्युपादानत्वमिति निरस्तम् । मायाया ब्रह्मशक्तित्वेन स्वतः उपादानत्वासम्भवात् । न च - तस्याः प्रकृतित्वानुपगमे जगतः परिणाम्युपादानं न स्यात्, ब्रह्मणः परिणामितायाः कूटस्थत्वविरोधेनासकृत् प्रत्युक्तत्वात् - इति वाच्यम् । वाचस्पतिमत इव प्रपञ्चस्य चिदध्यस्तमायाविषयीकृतब्रह्मविवर्तत्वमात्राङ्गीकारोपपत्तेः । न च संक्षेपशारीरकग्रन्थे तत्रतत्र मायायाः परिणामित्वव्यवहारविरोध इति वाच्यम् । तथाव्यवहारस्य मतान्तराभिप्रायत्वोपपत्तेः ।
ननु जडभूतमायाप्रकृतिकत्वाभावे प्रपञ्चस्य जाड्यं न स्यादिति, नेत्याह —
अकारणमपीति ।
अनुपादानमपीत्यर्थः ।
जगत्यनुगतं जाड्यं न कारणगुणः, किं तु जगत एव स्वाभाविकम्, अतस्तत्सिद्धये मायाया उपादानत्वं कार्यानुगतद्वारकारणत्वं वा न कल्पनीयं, इत्याशयेनाह —
वाचस्पतिमिश्रास्त्विति ।
जीवाश्रितेति ।
नन्वक्षरब्राह्मणे आकाशशब्दिताया मायाया अक्षरशब्दितनित्यचैतन्याश्रितत्वस्य प्रतिपादितत्वात् कथं तस्याः जीवाश्रितत्वमुपेयते, ‘मायिनं तु महेश्वरम्’ [श्वे.उ.४-१०] इति श्रुतिविरोधाच्च । अत्र ‘मायिनं’ इत्यनेन महेश्वरशब्दितब्रह्माश्रितत्वप्रतिपादनात् । किं च जीवस्य मायाश्रयत्वे तस्यैव जगदुपादानत्वं स्यात्, प्रपञ्चस्य मायापरिणामत्वात् । प्रपञ्चपरिणामिमायाश्रयत्वं हि ब्रह्मणः प्रपञ्चोपादानत्वम् । जीवस्य मायाश्रयत्वे तु तस्यैव जगदुपादानत्वं स्यात्, न ब्रह्मणः । किं च ‘जीवाश्रितमायाविषयीकृतं ब्रह्म’ इति मते ब्रह्मण उपाध्यनङ्गीकारेण नियन्तृत्वजगत्कर्तृत्वादेरभावप्रसङ्गश्च इति चेत् — उच्यते - जीवाश्रितेतिपदेन जीवत्वविशिष्टचैतन्याश्रितत्वं विवक्षितं न भवति, किं तु अक्षरब्राह्मणानुरोधेन चैतन्याश्रितत्वमेव । जीवत्वं तु मायापदवेदनीयाविद्यायाः चैतन्ये वृत्तौ अवच्छेदकमिति जीवाश्रितमायेत्युच्यते । न च - जीवत्वस्यापि चैतन्ये वृत्तौ मायैवावच्छेदिका वाच्या इति परस्पराश्रयप्रसङ्ग - इति वाच्यम् । द्रव्यत्वगुणाश्रयत्वयोरिव परस्परस्थितिप्रयोजकतया परस्परापेक्षत्वलक्षणपरस्पराश्रयत्वस्यादोषत्वात् । परस्पराश्रयो हि उत्पत्तौ ज्ञप्तौ वा दोषो भवेत् । स च प्रकृते नास्ति । अविद्याजीवत्वयोरनादित्वात् नित्यसाक्षिभास्यत्वाच्च । न च जीवत्वस्य अविद्यास्थितिं प्रति नियामकत्वकल्पनं व्यर्थमिति वाच्यम् । ब्रह्मणि तस्यास्स्थितिनिवारकत्वात् । ‘निरवद्यं निरञ्जनम्’ [श्वे.उ.६-१९] इति श्रुत्या ब्रह्मणो निर्दोषत्वावगमेन तस्य अविद्यारूपदोषाश्रयत्वानुपपत्तेः । न च वस्तुतो निर्दोषत्वपरा सा श्रुतिः इति वाच्यम् । तथासङ्कोचे मानाभावात्, ईश्वररूपब्रह्मवत् जीवस्यापि वस्तुतो निर्दोषत्वाच्च । न च ‘मायिनं तु महेश्वरम्’ इति श्रुतिविरोधः । ‘गृही धनी देवदत्तः’ इत्यादौ देवदत्तस्य गृहाद्याश्रयत्वाभावेऽपि प्रत्ययस्य स्वस्वामिभावलक्षणसम्बन्धान्तरबोधकत्ववत् महेश्वरशब्दितब्रह्मणो मायाश्रयत्वाभावेऽपि मायाब्रह्मणोः विषयविषयिभावलक्षणसम्बन्धान्तरबोधकतया ‘मायिनं’ इति श्रुत्युपपत्तेः । प्रपञ्चस्य च जीवाश्रितमायाविषयीकृतब्रह्मविवर्तत्वमात्राभ्युपगमात् न जीवस्य जगदुपादानत्वप्रसङ्गः । ब्रह्मण उपाध्यभावेऽपि सर्वनियन्तृत्वादि जीवाविद्याविषयीकृतब्रह्मविवर्ततया ब्रह्मधर्मत्वेनैव कल्प्यते, न जीवाविद्यापरिणामतया जीवधर्मत्वेन, अनुभवविरोधात्, ब्रह्मणि च सर्वनियन्तृत्वसर्वकर्तृत्वसर्वज्ञत्वादिप्रतिपादकशास्त्रस्य कल्पकस्य सत्त्वाञ्च । तस्मात् सिद्धं जीवाश्रितमायाविषयीकृतं ब्रह्म प्रपञ्चाकारेण विवर्तमानतया उपादानमिति । उक्तं च आरम्भणाधिकरणभाष्ये — ‘मूलकारणमेव आऽन्त्यात् कार्यात् तेन तेन कार्याकारेण नटवत् सर्वव्यवहारास्पदत्वं प्रतिपद्यते’ इति ।
आऽन्त्यात् कार्यादिति ।
अन्त्यकार्यपर्यन्तमित्यर्थः । नटो हि द्रष्टृभिरविज्ञातनिजरूप एव तत्तदभिनेयासत्यरूपतां प्रतिपद्यते, एवं जीवैरविज्ञाततत्त्वं सत् ब्रह्म असत्यवियदादिप्रपञ्चाकारतां तद्द्वारा व्यवहारविषयतां च प्रतिपद्यते इति भाष्यार्थः । अत्र नटदृष्टान्तोक्त्या वाचस्पतिमतं भाष्याभिमतं निश्चीयते । तदुक्तं कल्पतरौ — ‘अज्ञातं नटवत् ब्रह्म कारणं शङ्करोऽब्रवीत् । जीवाज्ञातं जगद्बीजं जगौ वाचस्पतिस्तथा’ इति ।
इदानीं मायाया एव ‘मायां तु प्रकृतिं विद्यात्’ इति श्रुतिस्वारस्यानुरोधेन मुख्यमुपादानत्वमिति स्वीकृत्यापि ब्रह्मलक्षणासम्भवं परिहरति —
सिद्धान्तमुक्तावलीकृतस्त्विति ।
तत् - प्रकृतम् । एतत्-बुद्ध्यादिसाक्षिरूपम् । पूर्वं-कारणं न विद्यते यस्य तदपूर्वम् । अपरं-कार्यं न विद्यते यस्य तदनपरम् । तस्य-ब्रह्मणः । करणं च - जगत्सृष्टिसाधनं चेत्यर्थः । इत्यादिश्रुतेः न ब्रह्मोपादानमिति पूर्वेण सम्बन्धः ।
तर्हि ब्रह्मणो जगदुपादानत्वप्रतिपादकश्रुतिसूत्रभाष्यादिविरोधः, इत्यत आह —
जगदिति ।
तुशब्दोऽवधारणे ।
तादृशमेवेति ।
जगदुपादानमायाधिष्ठानत्वमेवेत्यर्थः ।