अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

मायायाः जगत्कारणत्वविचारः

इदानीं ब्रह्म­ल­क्ष­ण­स्यो­पा­दा­न­त्व­स्या­स­म्भ­व­मा­श­ङ्कते —
अथेति ।
श्रुतौ तुशब्दो मायायाः प्रकृ­ति­त्व­म­व­धा­र­यति ।

यथा मृदा­दि­ग­त­श्ल­क्ष्ण­त्वादेः घटादावनुगमात् घटादौ मृदा­दे­रु­पा­दा­नत्वं तथा मायागतजाड्यस्य जगत्यनुगमात् तस्या­स्त­दु­पा­दा­न­त्व­मिति युक्तिमप्याह —
मायाजाड्यस्येति ।

कथमिति ।
ननु ब्रह्मण उपादानत्वं बहु­श्रु­त्यु­दा­ह­र­णेन पूर्वं दर्शितम् । सत्यं दर्शितं, तत्तु न सम्भवति, निरवयवस्य तस्य मृदादेरिव परि­णा­म्यु­पा­दा­न­त्वा­स­म्भ­वात् । न च - विव­र्तो­पा­दा­नत्वं निरवयवस्यापि सम्भवति गगनादौ नैल्या­द्या­रो­प­द­र्श­नात् इति वाच्यम् । परिणामिष्विव विव­र्ता­धि­ष्ठा­नेषु लोके उपा­दा­न­त्व­प्र­सि­द्ध्य­भा­वेन तत्रो­पा­दा­न­त्वा­भ्यु­प­ग­मस्य परि­भा­षा­मा­त्र­त्वात्, इत्या­क्षे­पा­भि­प्रायः ।

उपा­दा­न­त्व­घ­टि­त­ब्र­ह्म­ल­क्ष­ण­स्या­स­म्भवं निराचष्टे —
अत्रा­हु­रि­त्या­दिना ।

सत्तेति ।
न च बाधा­यो­ग्य­स्व­रू­प­भू­ता­या­स्तस्याः ब्रह्म­स्व­रू­प­त्वात् सत्ता­या­स्त­द्ध­र्म­त्वो­क्ति­र­यु­क्तेति वाच्यम् । ‘राहोश्शिरः’ इतिवत् भेदकल्पनया तद्ध­र्म­त्व­व्य­व­हा­रो­प­प­त्ते­रिति भावः ।

ननु उपादानद्वयं व्यर्थमिति, नेत्याह —
तत्रेति ।

यद्वा निरवयवस्य ब्रह्मणः उपा­दा­न­त्व­म­नु­प­प­न्न­मिति, नेत्याह —
तत्रेति ।
माया­ब्र­ह्म­णो­र्मध्ये इत्यर्थः ।

आक्षे­पा­भि­प्रा­य­म­नूद्य निराचष्टे —
न चेति ।
मृदादिषु प्रसि­द्ध­स्यो­पा­दा­न­ल­क्ष­णस्य विव­र्ता­धि­ष्ठा­ने­ष्वपि सत्त्वात् तेषु उपा­दा­न­त्वा­भ्यु­प­ग­मस्य परि­भा­षा­मा­त्रत्वं नास्तीत्यर्थः ।

स्वात्मनीति ।
अत्र स्वशब्दः उपा­दा­न­त्वा­भि­म­त­व­स्तु­परः । तथा च कार्याधारत्वे सति कार्य­ज­नि­हे­तु­त्व­मु­पा­दा­न­त्वम् । निमि­त्त­का­र­ण­वा­र­णाय सत्यन्तम् । भूतलादेरपि कार्याधारत्वात् तद्वारणाय विशेष्यम् ।

तत्रापीति ।
विव­र्ता­धि­ष्ठा­नेऽ­पी­त्यर्थः ।

उक्तामेवेति ।
प्रपञ्चे उभयोरपि माया­ब्र­ह्म­णो­रु­पा­दा­न­त्वम्, तत्र च परिणामितया मायाया उपादानत्वम्, अधिष्ठानतया च ब्रह्मण उपादानत्वम्, उभयोरुपादानत्वे श्रुति­न्या­य­यो­रु­प­प­त्तिश्च — इत्ये­ता­मि­त्यर्थः ।

स्वाभिन्नेति ।
स्वशब्देन घटा­द्यु­पा­दा­न­मृ­दा­दि­ज­ग­त्प­रि­णा­म्यु­पा­दा­न­भू­त­म­ज्ञानं जग­द्वि­व­र्तो­पा­दा­न­भूतं ब्रह्म च गृह्यते । तत्र घटादेः मृदादेस्सकाशात् अभेदः स्फुटः ‘मृदेव घटः’ इत्यनुभवात् ।

अज्ञाने ब्रह्मणि च कार्या­भे­द­म­नु­भ­वेन दर्शयति —
अस्ति चेति ।
ननु ‘मृत् घटः’ इतिवत् ‘ब्रह्म घटः, ब्रह्म पटः’ इत्यनुभवो नास्ति । तथा ‘अज्ञानं घटः’ इत्या­द्य­नु­भ­वोऽपि नास्ति । अतः प्रपञ्चस्य अज्ञानेन ब्रह्मणा च कथमभेदोऽस्तीति शङ्कानिरासाय ब्रह्म­ण­स्स­द्रू­पत्वं विशेषणं दत्तम्, अज्ञानस्य च जडत्वम् ।

तथा च ब्रह्मा­ज्ञा­नाभ्यां सह ब्रह्म­त्वा­ज्ञा­न­त्वा­का­रे­णा­भे­दा­नु­भ­वा­भा­वेऽपि सत्त्व­ज­ड­त्व­रू­पेण ताभ्यां सह प्रप­ञ्च­स्या­भे­दा­नु­भ­वोऽ­स्ती­त्याह —
सन् घट इत्यादिना ।
ननु घटोत्पत्तेः पूर्वं तत्का­र­ण­द्र­व्यस्य मृत्त्वानुभवात् मृत्त्वस्य कारणधर्मत्वे सिद्धे सति ‘मृत् घटः’ इति प्रत्यक्षानुभवः कार्य­का­र­ण­द्र­व्य­यो­र­भे­दा­व­गा­हीति युक्तम् । सत्त्व­ज­ड­त्व­योस्तु कारणधर्मत्वे किं मानम्, येन ‘सन् घटः, जडो घटः’ इत्यनुभवबलेन सद्रू­प­ज­ड­रू­पाभ्यां ब्रह्मा­ज्ञा­नाभ्यां प्रपञ्चस्य अभेदः सिद्ध्येत्, इति चेत्-उच्यते — ब्रह्म­ण­स्स­द्रू­पत्वं ‘सदेव’ [छा.उ.६-२-१] इत्या­दि­श्रु­ति­सि­द्धम् । ’तदेतज्जडं मोहात्मकम्’ [नृ.उ.९-२] इति श्रुत्या अज्ञानस्य जडत्वं सिद्धम् । तथा च घटादौ मृद्द्र­व्या­भे­दात् मृत्त्वानुभववत् सद्व­स्त्वा­दि­रू­प­का­र­ण­द्र­व्या­भे­दा­देव प्रपञ्चे सत्त्व­ज­ड­त्वा­नु­भ­वो­प­पत्तौ पृथ­क्स­त्त्वा­दि­धर्मो नोपेयते । तथा च ‘सन् घटः, जडो घटः’ इत्या­द्य­नु­भ­वोऽपि कार्य­का­र­ण­द्र­व्या­भे­दा­व­गा­हीति भावः । न च जडरूपाज्ञानस्य प्रप­ञ्चा­भे­द­सि­द्धा­वपि मायायाः किमायातमिति वाच्यम्, तयो­र­भे­दा­भ्यु­प­ग­मात् इति भावः ।

कार्य­का­र­ण­यो­र­भे­दा­भ्यु­प­गमे अपसिद्धान्तं शङ्कते —
न चेति ।
तयोः - कार्यकारणयोः अन­न्य­त्व­मु­प­ग­न्त­व्यम् । कुतः, आर­म्भ­ण­श­ब्दा­दिभ्यः । वाचा­र­म्भ­ण­श्रुतिः आरम्भणशब्दार्थः । ‘आत्मैवेदं सर्वम्’ [छा.उ.७-२५-२] इत्या­दि­सा­र्वा­त्म्य­प्र­ति­पा­द­क­श्रुतिः ‘नेह नानास्ति किञ्चन’ [बृ.उ.४-४-१९] इत्या­दि­नि­षे­ध­श्रु­तिश्च आदिपदार्थः । वाचा­र­म्भ­ण­श्रुतिः विव­र्त­ल­क्ष­ण­क­थ­ना­व­सरे व्याख्याता । कार्यस्य कार­णा­त्त­त्त्वा­न्त­रत्वे जगत्कारणस्य ब्रह्मणः सर्वा­त्म­क­त्व­श्रु­ति­र­नु­प­पन्ना स्यात् । तथा ब्रह्मो­पा­दा­न­कस्य जगतः सत्यत्वे ब्रह्मणि जगन्निषेधो न स्यात् । अतः कार­णी­भू­त­ब्र­ह्मा­न­न्यत्वं प्रप­ञ्च­स्या­भ्यु­प­ग­न्त­व्य­मिति भावः । ननु सौत्रा­न­न्य­त्व­प­देन कार्य­का­र­ण­यो­रैक्यं प्रतीयते, तदनुपपन्नम्, कार्य­का­र­ण­भा­व­वि­रो­धात्, चिज्जडयोः ब्रह्म­प्र­प­ञ्च­यो­रै­क्या­यो­गाच्च इति शङ्कां निराकर्तुं सौत्रा­न­न्य­त्व­पदं व्याचष्टे भाष्यकारः अनन्यत्वं व्यतिरेकेणाभाव इति । न च कारणव्यतिरेकेण कार्यस्याभावे कथं कार्यकारणभाव इति वाच्यम् । कार­ण­स­त्त्व­व्य­ति­रे­केण कार्य­स­त्त्वा­भा­वस्य विवक्षिततया कार्य­स्व­रू­पा­प­ला­प­श­ङ्का­न­व­का­शात् । सौत्रा­न­न्य­त्व­प­द­ता­त्प­र्य­प्र­द­र्शकं भाम­ती­नि­ब­न्ध­न­वा­क्य­मु­दा­ह­रति न खल्विति । ‘अनन्यत्वम्’ इतिपदेन कार्य­का­र­ण­यो­र­भेदं न ब्रूमः । चेत­ना­चे­त­न­यो­र­भे­दा­नु­प­पत्तिः तन्निषेधहेतुः ‘खलु’शब्देन द्योत्यते ।

तर्हि कार­ण­ब्र­ह्म­वि­ज्ञा­नात् सर्वविज्ञानं श्रुतिसिद्धं न सम्भवेत्, अभे­दा­न­भ्यु­प­ग­मात्, इति शङ्कते -
किं त्विति ।

परिहरति -
भेदमिति ।
कार्य­का­र­ण­यो­स्स­त्त्व­भेदं व्यासेधाम इत्यर्थः । तथा च कार­ण­ब्र­ह्म­स्व­रू­प­मेव कार्यस्य वास्तवं स्वरूपमिति तस्मिन् विदिते तद्व्यतिरिक्तं सर्वं तत्त्वतो विदितं भवतीति नैकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­वि­रोधः । न च ब्रह्म­स्व­रू­प­ज्ञा­नेन सर्वप्रपञ्चस्य वास्तवस्वरूपे विदितेऽपि तत्त­द­सा­धा­र­ण­रू­प­ज्ञा­ना­स­म्भ­वात् प्रति­ज्ञा­वि­रो­ध­स्त­द­वस्थ एवेति वाच्यम् । ‘आत्म­नि….दृ­ष्टे….सर्वं विदितं भवति’ [बृ.उ.४-५-६] इत्या­दि­प्र­ति­ज्ञा­वा­क्येषु सर्वपदस्य सर्व­त­त्त्व­प­र­त्वेन तत्त­द­सा­धा­र­ण­रू­पेण सर्व­ज्ञा­न­स्या­वि­व­क्षि­त­त्वात् । न च तथाकल्पनायां किं विनिगमकमिति वाच्यम् । सर्व­प्र­प­ञ्च­त­त्त्व­ज्ञा­न­मा­त्रेण अद्वि­ती­य­ब्र­ह्म­ज्ञा­नस्य मुक्तिसाधनस्य लाभेन तत्त­द­सा­धा­र­ण­रू­प­ज्ञा­न­नै­ष्फ­ल्य­स्यैव विनिगमकत्वात्, कारणे ब्रह्मणि विदितेऽपि सर्व­प्र­प­ञ्च­ग­त­त­त्त­द­सा­धा­र­ण­रू­प­ज्ञा­न­स्या­स­म्भ­वेन सर्व­वि­ज्ञा­न­श्रु­ते­स्त­त्प­रत्वे प्रामा­ण्या­भा­व­प्र­स­ङ्गाच्च, भेद­द­र्श­न­स्या­न­र्थ­हे­तु­तया श्रुतिषु तत्रतत्र निन्दितत्वाच्च, प्रति­ज्ञा­श्रुतेः न नानारूपज्ञाने तात्पर्यम् । तदुक्तं पञ्चदश्याम् - अद्वै­तेऽ­भि­मु­खी­क­र्तृ­मे­वा­त्रै­कस्य बोधतः । सर्वबोधः श्रुतो नैव नानात्वस्य विवक्षया ॥’ [१३-६०] इति । अस्यार्थः - अत्र - वेदान्तेषु एकस्य - ब्रह्मणः बोधेन सर्वस्य प्रपञ्चस्य बोधः अद्वैते ब्रह्मणि - मुमुक्षुं अभिमुखीकर्तृमेव - मुमु­क्षो­र­द्वि­ती­य­ब्र­ह्म­बो­धा­र्थ­मेव श्रुतः । अद्वि­ती­य­ब्र­ह्म­बो­धश्च ‘सर्वस्य ब्रह्मैव वास्तवं स्वरूपम्’ इति ज्ञानमात्रात् सिद्ध्यतीति भावः ।

ननु ब्रह्मणि विदिते सर्वं विदितं भवति इति श्रुतौ स्वरसतः प्रतीयमानं तत्त­द­सा­धा­र­ण­रू­पेण सर्वज्ञानमेव श्रुत्यर्थः किं न स्यादिति, नेत्याह —
नैवेति ।
नाना­त्व­बो­ध­वि­व­क्षया सर्वबोधो नैव श्रुतः इति योजना । प्रयोजनाभावात् बाधितत्वात् निन्दितत्वाच्च इति भावः ।

तयोरिति ।
भाष्य­भा­म­ती­नि­ब­न्ध­न­यो­रि­त्यर्थः । न च प्रप­ञ्च­ब्र­ह्मणोः वास्त­वा­भे­द­नि­षेधे सति वास्तवो भेदः स्यात् इति वाच्यम् । भेदस्य वास्तवत्वं हि धर्मि­प्र­ति­यो­गिनोः वास्त­व­त्वा­पे­क्षम्, तत्र ब्रह्मणो वास्तवत्वेऽपि प्रपञ्चस्य आर­म्भ­ण­श­ब्दा­दिभ्यो मिथ्यात्वावगमेन तयोर्भेदस्य सत्यत्वायोगात् इति भावः ।

प्रातीतिकेति ।
यथा ‘इदं रजतं’ इति भ्रान्तिसिद्धं रज­ते­द­म­र्थ­यो­र­भि­न्नत्वं तथा ‘सन् घटः’ इत्या­दि­भ्रा­न्ति­सि­द्धा­भे­दो­प­गमे सिद्धा­न्त­वि­रो­धा­भा­वा­दिति भावः । ‘मायां तु प्रकृतिं विद्यात्’ इति श्रुत्या अव­धा­र­णा­र्थ­क’तु’श­ब्द­वत्या मायाया एव उपादानत्वावगमेन ब्रह्मण उपा­दा­न­त्वा­भा­वात् उपा­दा­न­त्व­घ­टि­त­ब्र­ह्म­ल­क्ष­ण­स्या­स­म्भ­व­श­ङ्कायां सत्यां - माया­ब्र­ह्म­णो­रु­भ­यो­रपि प्रकृ­ति­त्व­मस्ति, श्रुति­यु­क्त्यो­र­वि­शे­षात्, ‘मायां तु’ इति श्रुतौ ‘तु’शब्दो नावधारणार्थः, किं तु सद्रू­प­ब्र­ह्मा­पे­क्षया मायाया वैल­क्ष­ण्य­द्यो­त­नार्थः, तच्च वैलक्षण्यं परिणामित्वरूपं प्रकृतित्वं मायायाः - इत्याशयवतां पदा­र्थ­त­त्त्व­नि­र्ण­य­का­रा­दीनां मतेन लक्ष­णा­स­म्भ­व­शङ्का परिहृता ।

इदानीं ब्रह्मैवोपादानं न माया, अतो न लक्ष­णा­स­म्भ­व­श­ङ्का­व­काशः इति मन्यमानानां मतद्वयं आह —
संक्षे­प­शा­री­र­क­कृ­त­स्त्वि­त्या­दिना ।

तर्हि व्यर्था मायेति, नेत्याह —
कूटस्थस्येति ।
यदि मायां विनैव ब्रह्म उपादानं स्यात्, तदा ब्रह्मणः स्वतः­प­रि­णा­मि­त्व­मेव स्यात्, तथा च परिणामवादिभिः परि­णा­म­प­रि­णा­मिनोः वास्त­वा­भे­दा­भ्यु­प­ग­मात् परिणामस्य जन्मादिविकारैः ब्रह्मापि विकारवदेव स्यात् । न चेष्टापत्तिरत्र वक्तुं शक्यते । ‘न जायते’ [क.उ.२-१८] इत्या­दि­ब­हु­श्रु­तिषु ब्रह्मणो जन्मा­दि­वि­का­र­रा­हि­त्य­रू­प­कू­ट­स्थ­त्व­प्रति पादनविरोधात् । अतो मायाद्वारा ब्रह्मणः कारणत्वं वक्तव्यमिति न व्यर्था मायेत्यर्थः । यथा मृद्वस्तुन उपादानत्वेऽपि तद्ग­त­श्ल­क्ष्ण­त्वा­दि­सं­स्कारो द्वारकारणम्, न ह्यसंस्कृतस्य मृद्वस्तुनः घटा­द्यु­पा­दा­नत्वं घटते, तथा कूट­स्थ­चै­त­न्य­रूपे ब्रह्मणि समारोपिता माया तत्र जगत्प्रकृतित्वं घटयन्ती सह­का­रि­का­र­ण­मु­पे­यते, इति भावः । न च मायाया उपादानत्वाभावे ‘मायां तु प्रकृतिं विद्यात्’ इति श्रुतिविरोध इति वाच्यम् । ब्रह्म­ग­त­प्र­कृ­ति­त्व­नि­र्वा­ह­क­ता­मा­त्रेण तस्यां प्रकृ­ति­त्व­श्रु­त्यु­प­पत्तेः । मायायाः प्रकृ­ति­त्व­नि­र्वा­ह­क­त्व­मात्रं, न स्वतः प्रकृ­ति­त्व­मस्ति, इत्याशयेनैव तस्यां शक्ति­त्व­व्य­व­हारः श्रुतौ दृश्यते — ‘परास्य शक्तिर्विविधैव श्रूयते’ [श्वे.उ.६-८] इति । न हि मृदा­दि­प­दा­र्थ­ग­त­शक्तेः किञ्चित्कार्यं प्रत्यु­पा­दा­नत्वं प्रसिद्धं लोके । अत एव विनिगमकाभावात् माया­ब्र­ह्म­णो­रु­भ­यो­र­प्यु­पा­दा­न­त्व­मिति निरस्तम् । मायाया ब्रह्म­श­क्ति­त्वेन स्वतः उपा­दा­न­त्वा­स­म्भ­वात् । न च - तस्याः प्रकृ­ति­त्वा­नु­प­गमे जगतः परिणाम्युपादानं न स्यात्, ब्रह्मणः परिणामितायाः कूट­स्थ­त्व­वि­रो­धे­ना­स­कृत् प्रत्यु­क्त­त्वात् - इति वाच्यम् । वाचस्पतिमत इव प्रपञ्चस्य चिद­ध्य­स्त­मा­या­वि­ष­यी­कृ­त­ब्र­ह्म­वि­व­र्त­त्व­मा­त्रा­ङ्गी­का­रो­प­पत्तेः । न च संक्षे­प­शा­री­र­क­ग्रन्थे तत्रतत्र मायायाः परि­णा­मि­त्व­व्य­व­हा­र­वि­रोध इति वाच्यम् । तथाव्यवहारस्य मता­न्त­रा­भि­प्रा­य­त्वो­प­पत्तेः ।

ननु जड­भू­त­मा­या­प्र­कृ­ति­क­त्वा­भावे प्रपञ्चस्य जाड्यं न स्यादिति, नेत्याह —
अकारणमपीति ।
अनु­पा­दा­न­म­पी­त्यर्थः ।

जगत्यनुगतं जाड्यं न कारणगुणः, किं तु जगत एव स्वाभाविकम्, अतस्तत्सिद्धये मायाया उपादानत्वं कार्या­नु­ग­त­द्वा­र­का­र­णत्वं वा न कल्पनीयं, इत्याशयेनाह —
वाच­स्प­ति­मि­श्रा­स्त्विति ।

जीवाश्रितेति ।
नन्व­क्ष­र­ब्रा­ह्मणे आकाशशब्दिताया मायाया अक्ष­र­श­ब्दि­त­नि­त्य­चै­त­न्या­श्रि­त­त्वस्य प्रति­पा­दि­त­त्वात् कथं तस्याः जीवा­श्रि­त­त्व­मु­पे­यते, ‘मायिनं तु महेश्वरम्’ [श्वे.उ.४-१०] इति श्रुतिविरोधाच्च । अत्र ‘मायिनं’ इत्यनेन महे­श्व­र­श­ब्दि­त­ब्र­ह्मा­श्रि­त­त्व­प्र­ति­पा­द­नात् । किं च जीवस्य मायाश्रयत्वे तस्यैव जगदुपादानत्वं स्यात्, प्रपञ्चस्य माया­प­रि­णा­म­त्वात् । प्रप­ञ्च­प­रि­णा­मि­मा­या­श्र­यत्वं हि ब्रह्मणः प्रप­ञ्चो­पा­दा­न­त्वम् । जीवस्य मायाश्रयत्वे तु तस्यैव जगदुपादानत्वं स्यात्, न ब्रह्मणः । किं च ‘जीवा­श्रि­त­मा­या­वि­ष­यी­कृतं ब्रह्म’ इति मते ब्रह्मण उपा­ध्य­न­ङ्गी­का­रेण निय­न्तृ­त्व­ज­ग­त्क­र्तृ­त्वा­दे­र­भा­व­प्र­स­ङ्गश्च इति चेत् — उच्यते - जीवा­श्रि­ते­ति­प­देन जीव­त्व­वि­शि­ष्ट­चै­त­न्या­श्रि­तत्वं विवक्षितं न भवति, किं तु अक्ष­र­ब्रा­ह्म­णा­नु­रो­धेन चैत­न्या­श्रि­त­त्व­मेव । जीवत्वं तु माया­प­द­वे­द­नी­या­वि­द्यायाः चैतन्ये वृत्तौ अवच्छेदकमिति जीवा­श्रि­त­मा­ये­त्यु­च्यते । न च - जीवत्वस्यापि चैतन्ये वृत्तौ मायैवावच्छेदिका वाच्या इति पर­स्प­रा­श्र­य­प्र­सङ्ग - इति वाच्यम् । द्रव्य­त्व­गु­णा­श्र­य­त्व­यो­रिव पर­स्प­र­स्थि­ति­प्र­यो­ज­क­तया पर­स्प­रा­पे­क्ष­त्व­ल­क्ष­ण­प­र­स्प­रा­श्र­य­त्व­स्या­दो­ष­त्वात् । परस्पराश्रयो हि उत्पत्तौ ज्ञप्तौ वा दोषो भवेत् । स च प्रकृते नास्ति । अवि­द्या­जी­व­त्व­यो­र­ना­दि­त्वात् नित्य­सा­क्षि­भा­स्य­त्वाच्च । न च जीवत्वस्य अविद्यास्थितिं प्रति नियामकत्वकल्पनं व्यर्थमिति वाच्यम् । ब्रह्मणि तस्या­स्स्थि­ति­नि­वा­र­क­त्वात् । ‘निरवद्यं निरञ्जनम्’ [श्वे.उ.६-१९] इति श्रुत्या ब्रह्मणो निर्दो­ष­त्वा­व­ग­मेन तस्य अवि­द्या­रू­प­दो­षा­श्र­य­त्वा­नु­प­पत्तेः । न च वस्तुतो निर्दोषत्वपरा सा श्रुतिः इति वाच्यम् । तथासङ्कोचे मानाभावात्, ईश्व­र­रू­प­ब्र­ह्म­वत् जीवस्यापि वस्तुतो निर्दोषत्वाच्च । न च ‘मायिनं तु महेश्वरम्’ इति श्रुतिविरोधः । ‘गृही धनी देवदत्तः’ इत्यादौ देवदत्तस्य गृहा­द्या­श्र­य­त्वा­भा­वेऽपि प्रत्ययस्य स्वस्वा­मि­भा­व­ल­क्ष­ण­स­म्ब­न्धा­न्त­र­बो­ध­क­त्व­वत् महे­श्व­र­श­ब्दि­त­ब्र­ह्मणो माया­श्र­य­त्वा­भा­वेऽपि मायाब्रह्मणोः विष­य­वि­ष­यि­भा­व­ल­क्ष­ण­स­म्ब­न्धा­न्त­र­बो­ध­क­तया ‘मायिनं’ इति श्रुत्युपपत्तेः । प्रपञ्चस्य च जीवा­श्रि­त­मा­या­वि­ष­यी­कृ­त­ब्र­ह्म­वि­व­र्त­त्व­मा­त्रा­भ्यु­प­ग­मात् न जीवस्य जग­दु­पा­दा­न­त्व­प्र­सङ्गः । ब्रह्मण उपाध्यभावेऽपि सर्व­नि­य­न्तृ­त्वादि जीवा­वि­द्या­वि­ष­यी­कृ­त­ब्र­ह्म­वि­व­र्त­तया ब्रह्म­ध­र्म­त्वे­नैव कल्प्यते, न जीवा­वि­द्या­प­रि­णा­म­तया जीवधर्मत्वेन, अनुभवविरोधात्, ब्रह्मणि च सर्व­नि­य­न्तृ­त्व­स­र्व­क­र्तृ­त्व­स­र्व­ज्ञ­त्वा­दि­प्र­ति­पा­द­क­शा­स्त्रस्य कल्पकस्य सत्त्वाञ्च । तस्मात् सिद्धं जीवा­श्रि­त­मा­या­वि­ष­यी­कृतं ब्रह्म प्रपञ्चाकारेण विवर्तमानतया उपादानमिति । उक्तं च आर­म्भ­णा­धि­क­र­ण­भाष्ये — ‘मूलकारणमेव आऽन्त्यात् कार्यात् तेन तेन कार्याकारेण नटवत् सर्व­व्य­व­हा­रा­स्प­दत्वं प्रतिपद्यते’ इति ।

आऽन्त्यात् कार्यादिति ।
अन्त्य­का­र्य­प­र्य­न्त­मि­त्यर्थः । नटो हि द्रष्टृ­भि­र­वि­ज्ञा­त­नि­ज­रूप एव तत्त­द­भि­ने­या­स­त्य­रू­पतां प्रतिपद्यते, एवं जीवै­र­वि­ज्ञा­त­तत्त्वं सत् ब्रह्म अस­त्य­वि­य­दा­दि­प्र­प­ञ्चा­का­रतां तद्द्वारा व्यवहारविषयतां च प्रतिपद्यते इति भाष्यार्थः । अत्र नट­दृ­ष्टा­न्तोक्त्या वाचस्पतिमतं भाष्याभिमतं निश्चीयते । तदुक्तं कल्पतरौ — ‘अज्ञातं नटवत् ब्रह्म कारणं शङ्करोऽब्रवीत् । जीवाज्ञातं जगद्बीजं जगौ वाचस्पतिस्तथा’ इति ।

इदानीं मायाया एव ‘मायां तु प्रकृतिं विद्यात्’ इति श्रुति­स्वा­र­स्या­नु­रो­धेन मुख्य­मु­पा­दा­न­त्व­मिति स्वीकृत्यापि ब्रह्म­ल­क्ष­णा­स­म्भवं परिहरति —
सिद्धा­न्त­मु­क्ता­व­ली­कृ­त­स्त्विति ।
तत् - प्रकृतम् । एत­त्-बु­द्ध्या­दि­सा­क्षि­रू­पम् । पूर्वं-कारणं न विद्यते यस्य तदपूर्वम् । अपरं-कार्यं न विद्यते यस्य तदनपरम् । तस्य-ब्रह्मणः । करणं च - जगत्सृष्टिसाधनं चेत्यर्थः । इत्यादिश्रुतेः न ब्रह्मो­पा­दा­न­मिति पूर्वेण सम्बन्धः ।

तर्हि ब्रह्मणो जग­दु­पा­दा­न­त्व­प्र­ति­पा­द­क­श्रु­ति­सू­त्र­भा­ष्या­दि­वि­रोधः, इत्यत आह —
जगदिति ।
तुशब्दोऽवधारणे ।

तादृशमेवेति ।
जग­दु­पा­दा­न­मा­या­धि­ष्ठा­न­त्व­मे­वे­त्यर्थः ।