अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

द्वितीयपरिच्छेदः

नन्द­ह­स्त­म­व­लम्ब्य पाणिना मन्द­म­न्द­म­र­वि­न्द­लो­चनः ।
सञ्चरन् कन­क­कि­ङ्कि­णी­र­वः­स­न्ततं मम तनोतु मङ्गलम् ॥
यो मे विश्वे­श्व­र­क्षेत्रं विश्वेश्वरसमो गुरुः ।
समध्यास्ते स्वयं­ज्यो­ति­र्वा­णी­संज्ञो भजामि तम् ॥
स्वयं­प्र­का­श­स­र­स्व­ती­सं­ज्ञक इत्यर्थः ।
आचा­र्य­च­र­ण­द्व­न्द्व­स्मृ­ति­र्ले­ख­क­रू­पि­णम् । मां कृत्वा कुरुते व्याख्यां नाहमत्र प्रभुर्यतः ॥
अत्र - व्याख्याने प्रभुः - समर्थ इत्यर्थः । प्रथमपरिच्छेदे ब्रह्म­ल­क्ष­ण­वि­चा­रा­वा­सरे लक्षणस्य मतभेदेन ज्ञेय­ब्र­ह्म­नि­ष्ठ­त्व­नि­रू­प­णेन ईश्व­र­रू­प­ब्र­ह्म­नि­ष्ठ­त्व­नि­रू­प­णेन च तत्प­द­ल­क्ष्या­र्थ­वा­च्यार्थौ निरूपितौ । तथा तदनन्तरं जीव­त­त्सा­क्षि­णो­र्नि­रू­प­णेन त्वंप­द­वा­च्या­र्थ­ल­क्ष्यार्थौ निरूपितौ । तथा च अर्थात् वाक्या­र्थ­रू­पा­भे­दोऽपि निरूपितो भवति । वाक्यार्थस्य तत्त्वं­प­द­ल­क्ष्या­र्था­न­ति­रे­कात् । तथा च जीवाभिन्ने निर्विशेषे ब्रह्मणि वेदा­न्त­स­म­न्व­य­रूपः प्रथ­मा­ध्या­यार्थः तात्पर्यतः पूर्वपरिच्छेदे निरूपितो भवति । इदानीं द्विती­या­ध्या­या­र्थ­रूपं वेदा­न्त­स­म­न्व­यस्य मानान्तराविरोधं निरूपयितुं परि­च्छे­दा­न्त­र­मा­र­भते —
अथ कथमिति ।
सम­न्व­यः-ता­त्प­र्यम् ।

प्रत्यक्षेति ।
ब्रह्मापेक्षया द्वितीयस्य प्रपञ्चस्य प्रत्य­क्ष­सि­द्ध­त्वात् अद्वितीयत्वं तस्य बाधितम्, तथा च बाधितेऽर्थे कथं श्रुते­स्ता­त्प­र्यम्, अप्रा­मा­ण्य­प्र­स­ङ्गा­दिति भावः ।

प्रपञ्चस्य रज्जुसर्पादिवत् ब्रह्मणि कल्पितत्वात् वास्त­व­म­द्वि­ती­य­त्व­म­बा­धि­त­मिति समाधत्ते —
नेति ।

श्रुति­यु­क्ति­भि­रिति ।
एताः श्रुतियुक्तयो विव­र्त­ल­क्ष­ण­नि­रू­प­णा­व­स­रेऽ­स्मा­भि­र्द­र्शिता इति नात्र प्रदर्श्यन्ते ।