कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
द्वितीयपरिच्छेदः
नन्दहस्तमवलम्ब्य पाणिना मन्दमन्दमरविन्दलोचनः ।
सञ्चरन् कनककिङ्किणीरवःसन्ततं मम तनोतु मङ्गलम् ॥
यो मे विश्वेश्वरक्षेत्रं विश्वेश्वरसमो गुरुः ।
समध्यास्ते स्वयंज्योतिर्वाणीसंज्ञो भजामि तम् ॥
स्वयंप्रकाशसरस्वतीसंज्ञक इत्यर्थः ।
आचार्यचरणद्वन्द्वस्मृतिर्लेखकरूपिणम् । मां कृत्वा कुरुते व्याख्यां नाहमत्र प्रभुर्यतः ॥
अत्र - व्याख्याने प्रभुः - समर्थ इत्यर्थः । प्रथमपरिच्छेदे ब्रह्मलक्षणविचारावासरे लक्षणस्य मतभेदेन ज्ञेयब्रह्मनिष्ठत्वनिरूपणेन ईश्वररूपब्रह्मनिष्ठत्वनिरूपणेन च तत्पदलक्ष्यार्थवाच्यार्थौ निरूपितौ । तथा तदनन्तरं जीवतत्साक्षिणोर्निरूपणेन त्वंपदवाच्यार्थलक्ष्यार्थौ निरूपितौ । तथा च अर्थात् वाक्यार्थरूपाभेदोऽपि निरूपितो भवति । वाक्यार्थस्य तत्त्वंपदलक्ष्यार्थानतिरेकात् । तथा च जीवाभिन्ने निर्विशेषे ब्रह्मणि वेदान्तसमन्वयरूपः प्रथमाध्यायार्थः तात्पर्यतः पूर्वपरिच्छेदे निरूपितो भवति । इदानीं द्वितीयाध्यायार्थरूपं वेदान्तसमन्वयस्य मानान्तराविरोधं निरूपयितुं परिच्छेदान्तरमारभते —
अथ कथमिति ।
समन्वयः-तात्पर्यम् ।
प्रत्यक्षेति ।
ब्रह्मापेक्षया द्वितीयस्य प्रपञ्चस्य प्रत्यक्षसिद्धत्वात् अद्वितीयत्वं तस्य बाधितम्, तथा च बाधितेऽर्थे कथं श्रुतेस्तात्पर्यम्, अप्रामाण्यप्रसङ्गादिति भावः ।
प्रपञ्चस्य रज्जुसर्पादिवत् ब्रह्मणि कल्पितत्वात् वास्तवमद्वितीयत्वमबाधितमिति समाधत्ते —
नेति ।
श्रुतियुक्तिभिरिति ।
एताः श्रुतियुक्तयो विवर्तलक्षणनिरूपणावसरेऽस्माभिर्दर्शिता इति नात्र प्रदर्श्यन्ते ।