अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

स्वप्नाध्यासाधिष्ठानसत्तादिविचारः

उक्त­न्या­य­म­न्य­त्रा­प्य­ति­दि­शति —
एवमिति ।
एवं स्वप्ना­ध्या­स­स्यापि मूला­ज्ञा­न­का­र्य­तया अवि­द्या­ति­रि­क्त­नि­द्रा­दि­दो­ष­ज­न्य­त­यैव प्राति­भा­सि­क­त्व­मिति सम्बन्धः । न त्वव­स्था­ज्ञा­न­का­र्य­तया प्राति­भा­सि­क­त्व­मि­त्ये­व­का­रार्थः ।

अवस्थाज्ञानस्य स्वप्नो­पा­दा­न­त्वा­भावे हेतुमाह —
अव­स्था­रू­पा­ज्ञा­न­शू­न्येऽ­ध्या­सा­दिति ।

मतभेदेन स्वप्ना­ध्या­सा­धि­ष्ठा­न­भे­द­माह —
अनवच्छिन्नेति ।
अह­ङ्का­रा­न­व­च्छि­न्न­ब्र­ह्म­चै­त­न्यस्य मूला­ज्ञा­न­मा­त्रा­श्र­य­त्वा­द­व­स्था­ज्ञा­न­शू­न्य­त्वम्, अहङ्कारोपहितस्य साक्षिचैतन्यस्य सुखा­द्य­धि­ष्ठा­नस्य आव­र­णा­न­ङ्गी­का­रा­द­व­स्था­ज्ञा­न­शू­न्यत्वं इति भावः ।

अत्र अज्ञानकार्यस्य स्वप्नाध्यासस्य अव­स्था­ज्ञा­न­शू­न्य­चै­त­न्येऽ­ध्या­सोक्त्या अर्था­न्मू­ला­ज्ञा­न­का­र्य­त्व­मुक्तं, तत्र हेत्वन्तरमाह —
सुषु­प्त्या­ख्य­मिति ।
सुषु­प्ते­र­ज्ञा­ना­व­स्था­रू­प­त्व­वि­व­क्षया सुषु­प्त्या­ख्य­त्व­म­ज्ञा­न­स्यो­क्तम् । बीजम् — उपादानं, बोधः — जाग्र­त्प्र­पञ्चः, तस्य शुक्ति­र­ज­ता­दि­व्य­ति­रि­क्तस्य मूला­ज्ञा­न­का­र्यत्वं सम्प्र­ति­प­न्न­मिति भावः । आचा­र्या­णा­मु­क्ते­श्चेति सम्बन्धः । स्वपदं स्वप्ना­ध्या­स­प­रम् ।

ब्रह्म­ज्ञा­नै­केति ।
प्रबोधकाले स्वप्न­प्र­प­ञ्चस्य सूक्ष्मा­व­स्था­प­त्ति­रू­प­नाशे सत्यपि बाधरूपा निवृत्तिः ब्रह्म­ज्ञा­नै­क­सा­ध्येति बोध्यम् । अवि­द्या­ति­रि­क्त­दो­ष­ज­न्यत्वं प्राति­भा­सि­क­त्व­प्र­यो­ज­क­मिति मतेन स्वप्नाध्यासस्य निद्रा­दि­दो­ष­ज­न्यस्य प्राति­भा­सि­क­त्व­मु­प­पा­दि­तम् ।

व्यवहारकाले बाध्यमानत्वं प्राति­भा­सि­क­त्व­प्र­यो­ज­क­मिति मतेन तस्य तदुपपादयति —
अन्ये त्विति ।
भाष्यगतं प्रबोधपदं सप्तम्यन्तम् । बन्ध­स्या­वि­द्या­का­र्य­त्वा­द­वि­द्या­त्म­क­त्वम् । प्रत्यनीकत्वं निवर्तकत्वम् । पञ्चम्यनन्तरं ब्रह्म­ज्ञा­न­स्येति शेषः । यथा जाग्रत्कालीनो घटादिबोधः स्वप्न­ब­न्ध­नि­व­र्तकः तद्वदित्यर्थः ।

उत्थितस्येति ।
‘मिथ्यैव मया स्वप्ने महाजनसमागमो दृष्टः न ह्यस्ति महाजनसमागमः’ इति तस्य मिथ्या­त्वा­नु­भ­वा­दि­त्यर्थः । यदि स्वप्न­प्र­प­ञ्चस्य ब्रह्म­ज्ञा­न­बा­ध्य­त्व­प्र­युक्तं मिथ्यात्वं तदा स्वप्ना­दु­त्थि­तस्य तन्मि­थ्या­त्वा­नु­भवो न स्यात् । ब्रह्म­ज्ञा­ना­त्पूर्वं तद्बाध्ये घटादौ मिथ्या­त्वा­नु­भ­वा­द­र्श­नात् । अतो ब्रह्म­ज्ञा­ना­दि­त­रेण जाग्रद्बोधेनैव बाधः स्वप्न­प्र­प­ञ्चस्य वक्तव्य इति शुक्तिरजतादिवत् व्यव­हा­र­का­ली­न­बा­ध­व­शा­देव तस्य प्राति­भा­सि­क­त्वम्, व्यवहारकालश्च ब्रह्म­त­त्त्व­ज्ञा­ना­त्पू­र्व­काल इति भावः ।

ज्ञानमिति ।
ब्रह्म­ज्ञा­ने­त­र­ज्ञा­न­मि­त्यर्थः ।

तस्य स्वप्ना­ध्या­स­नि­व­र्त­क­त्वा­भावे हेतुं सूचयति —
स्वेति ।
स्वस्य - स्वप्नाध्यासस्य उपादानं मूलाज्ञानं तद­नि­व­र्त­क­मि­त्यर्थः ।

तदनिवर्तकत्वे हेतुं सूचयति —
अधिष्ठानेति ।
स्वप्ना­धि­ष्ठा­नस्य पूर्वोक्तस्य यद्याथात्म्यं अन­व­च्छि­न्न­ब्र­ह्म­चै­त­न्य­त्वादि तद­वि­ष­य­क­मि­त्यर्थः । अधि­ष्ठा­न­या­था­त्म्य­ज्ञा­न­स्यैव अज्ञा­न­नि­वृ­त्ति­द्वारा अध्या­स­नि­व­र्त­क­त्व­नि­य­मा­दिति भावः ।

उक्त­नि­य­मा­सिध्द्या दूषयति —
रज्जुसर्पेति ।
स्वपदं सर्पाध्यासपरम् ।

ज्ञानेनेवेति ।
‘नायं सर्पः, रज्जुरेषा’ इति ज्ञाने­ने­वे­त्यर्थः ।

तत्रैवेति ।
सर्पा­ध्या­सा­धि­ष्ठा­न­र­ज्जा­वे­वे­त्यर्थः ।

स्वेति ।
सर्प­भ्र­मा­न­न्त­रो­त्प­न्नेन ‘नायं सर्पः दण्डोऽयं’ इति भ्रमेणेत्यर्थः ।

निवृ­त्ति­द­र्श­ना­दिति ।
बाध­द­र्श­ना­दि­त्यर्थः ।

अधि­ष्ठा­न­या­था­त्म्य­ज्ञा­न­स्यै­वा­ध्या­स­नि­व­र्त­क­त्व­नि­य­मेऽपि प्रकृते नानुपपत्तिरिति मत्वा तदनुगुणं मतमाह —
अपरे त्विति ।
अस्मिन् मते व्यावहारिकजीवः स्वप्न­प्र­प­ञ्च­द्रष्टुः प्राति­भा­सि­क­जी­व­स्या­धि­ष्ठा­नम् । स्वप्न­प्र­प­ञ्चस्य च जाग्रत्प्रपञ्च एवाधिष्ठानं, न त्वन­व­च्छि­न्न­चै­त­न्या­दि­कम् । द्विवि­धा­धि­ष्ठा­ना­व­र­ण­द्वारा च निद्रा­रू­प­म­व­स्था­ज्ञानं द्रष्टृ­दृ­श्या­त्म­क­द्वि­वि­ध­स्व­प्न­प्र­प­ञ्चो­पा­दानं, न तु मूलाज्ञानम्, तस्य ब्रह्म­चै­त­न्य­मा­त्रा­वा­र­क­त्वेन व्याव­हा­रि­क­जी­वा­द्या­वा­र­क­त्वा­भा­वात् । ततश्च व्याव­हा­रि­क­जी­व­ज­ग­द्गो­च­रस्य प्रबोधस्य अधि­ष्ठा­न­या­था­त्म्य­ज्ञा­न­रू­प­त्वात् तेन स्वप्ना­ध्या­स­बाधः संभवतीति तात्पर्यार्थः । कर्मोपरमे सति जायमानः इति सम्बन्धः । आवृत्येत्यनेन उपादानमित्यनेन च निद्रायाः आव­र­ण­वि­क्षे­प­श­क्ति­म­त्त्व­रू­प­म­ज्ञा­न­ल­क्ष­ण­मु­क्तम् । एवमज्ञानत्वे तस्याः सिद्धे सति उत्प­त्ति­म­त्त्वा­त्त­द­व­स्था­रू­पत्वं सिध्यति । अस्मिन् मते सर्वे­षा­मे­वा­व­स्था­ज्ञा­ना­ना­मा­दि­म­त्त्वस्य प्रथमपरिच्छेदे उक्तत्वादिति भावः ।

सङ्ग्र­हे­णो­क्त­म­र्थ­मा­श­ङ्का­पू­र्वकं प्रपञ्चयति —
न च निद्राया इत्यादिना ।
मूला­ज्ञा­ने­ना­ना­वृ­तस्य व्याव­हा­रि­क­जी­वस्य जाग्र­त्प्र­प­ञ्च­वृ­त्ता­न्तस्य च स्वप्नकाले केनचिदावरणाभावे ‘यज्ञ­द­त्त­पु­त्रोऽहं’ इत्यादिभ्रमस्य स्वपि­ता­म­ह­जी­व­द्द­शा­नु­भ­वस्य चाभावप्रसङ्गेन निद्राया एव भेद­रू­प­त्व­सि­द्धे­रिति सम्बन्धः ।

जाग्रत्काले ब्राह्म­ण­त्वा­दि­रू­प­सत्त्वे संश­य­वि­प­र्य­य­यो­र­भावं हेतुमाह —
असन्दिग्धेति ।
अस­न्दि­ग्धा­वि­प­र्यस्तं यथा भवति तथा अभि­म­न्य­मा­न­स्येति सन्दे­ह­वि­प­र्या­स­भि­न्न­त्व­म­भि­मा­न­क्रि­या­वि­शे­ष­णम् ।

स्वपि­ता­म­हा­त्य­या­दे­र्जा­ग्र­त्प्र­प­ञ्च­वृ­त्ता­न्तस्य तं देवदत्तपुत्रं प्रति सर्व­दाऽ­ना­वृ­त­त्वे­नै­क­रू­प­त­याऽ­व­स्थाने हेतुमाह —
तदीयेति ।
देवदत्तपुत्रो हि स्वपि­ता­म­हा­दि­म­रणं प्रथममनुभूय पश्चा­त्प्र­ति­मासं प्रतिवत्सरं च श्राद्ध­त­र्प­णा­दिकं करोति, ततश्च तन्म­र­णा­दि­गो­च­रा­नु­भ­व­स्म­र­णा­भ्या­सः-चि­र­प­रि­चयः, तेन स्वपि­ता­म­हा­त्य­यादौ संश­या­दि­नि­वृ­त्ति­भा­क्त्व­ल­क्ष­ण­म­ना­वृ­तत्वं सदा एकरूपेण वर्तते इत्यर्थः । जागरणे यथा देवदत्तपुत्रस्य व्याघ्र­त्वा­दि­भ्र­मा­भावः स्वपि­ता­म­ह­जी­व­द्द­शा­नु­भ­वा­भा­वश्च, तथा स्वप्नेऽ­प्य­भा­व­प्र­स­ङ्गे­ने­त्यर्थः ।

तत्कालेति ।
निद्राकाले उत्पन्नो यो व्याव­हा­रि­क­ज­ग­ज्जी­व­यो­रा­वा­र­कोऽ­ज्ञा­ना­व­स्था­भेदः तद्रूपत्वं निद्राया एव सिद्ध्यति नान्यस्य, आव­र­ण­वि­क्षे­प­श­क्ति­म­त्त्वेन तस्या उपस्थितत्वात् अन्य­स्या­नु­प­स्थि­त­त्वा­दि­त्यर्थः ।

न चैवमिति ।
निद्राया व्याव­हा­रि­क­जी­वा­द्या­वा­र­का­ज्ञा­ना­व­स्था­वि­शे­ष­रू­प­त्व­सिद्धौ सत्यामित्यर्थः ।

प्राति­भा­सि­का­न्तः­क­रणे चित्प्र­ति­बि­म्ब­रू­पस्य जीवा­न्त­र­स्या­भ्यु­प­ग­मात् नैतच्चोद्यावकाश इत्याशयेनाह —
स्वप्नप्रपञ्चेन सहेति ।

एवं चेति ।
व्याव­हा­रि­क­जी­व­ज­ग­तो­रेव स्वाप्न­जी­व­ज­ग­द­धि­ष्ठा­नत्वे सिद्धे सतीत्यर्थः ।

कर्मोद्भूते बोध इति ।
कर्मजन्ये जागरणे इत्यर्थः ।

जीव­स्व­रू­प­ज्ञा­ना­दिति ।
‘मनुष्योहं ब्राह्मणोऽहं देव­द­त्त­पु­त्रोऽहं’ इत्या­दि­रू­पा­दि­त्यर्थः । उपलक्षणं चैतत्, स्वपि­ता­म­हा­त्य­या­दि­ज्ञा­ना­च्चे­त्यपि द्रष्टव्यम् । स्वपदं स्वाप्न­प्र­प­ञ्च­प­रम् ।

न चैव­मि­त्ये­वं­श­ब्दा­र्थ­माह —
तद्द्रष्टुरिति ।
तस्य­स्वा­प्न­प्र­प­ञ्चस्य द्रष्टुः — x‘व्याघ्रोऽहं, शूद्रोऽहं’ इत्यादिरूपेण स्वात्मा­न­म­भि­म­न्य­मा­न­स्ये­त्यर्थः ।

तत इति ।
व्याव­हा­रि­क­जी­व­स्व­रू­प­ज्ञा­ना­दि­त्यर्थः ।

न स्यादिति ।
अन्या­नु­भू­तेऽ­र्थेऽ­न्यस्य स्मरणायोगादिति भावः ।

अध्यस्ततयेति ।
तथा च व्याव­हा­रि­क­प्रा­ति­भा­सि­क­जी­व­यो­र­धि­ष्ठा­ना­रो­प्य­यो­स्ता­दा­त्म्य­स­त्त्वात् प्राति­भा­सि­क­जी­व­क­र्तृ­का­नु­भ­वा­द्व्या­व­हा­रि­क­जी­वस्य स्वाप्न­प­दा­र्था­नु­स­न्धानं सम्भवतीत्यर्थः ।

अतिप्रसङ्गेति ।
यज्ञ­द­त्ता­नु­भू­तार्थे विष्णु­मि­त्र­स्या­प्य­नु­स­न्धा­न­प्र­स­ङ्ग­रू­पा­ति­प्र­स­ङ्गा­भा­वा­दि­त्यर्थः, तयो­स्ता­दा­त्म्या­भा­वा­दिति भावः । ननु जीव­त्रै­वि­ध्य­पक्षे द्रष्टृ­दृ­श्या­त्म­क­स्व­प्ना­ध्या­सा­धि­ष्ठा­न­त्वे­नो­प­ग­तस्य व्याव­हा­रि­क­जी­वादेः मिथ्यात्वेन जडतया स्वप्न­प्र­प­ञ्चा­व­भा­स­कत्वं न सम्भवति । न च चैतन्यमेव तदवभासकमिति वाच्यम् । तथासति तस्यै­वा­धि­ष्ठा­न­तया तत्स­त्ता­स्फू­र्ति­रू­प­त्व­स­म्भवे जड­स्या­धि­ष्ठा­न­त्वा­भ्यु­प­ग­मा­यो­गात् ।