कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
स्वप्नाध्यासाधिष्ठानसत्तादिविचारः
उक्तन्यायमन्यत्राप्यतिदिशति —
एवमिति ।
एवं स्वप्नाध्यासस्यापि मूलाज्ञानकार्यतया अविद्यातिरिक्तनिद्रादिदोषजन्यतयैव प्रातिभासिकत्वमिति सम्बन्धः । न त्ववस्थाज्ञानकार्यतया प्रातिभासिकत्वमित्येवकारार्थः ।
अवस्थाज्ञानस्य स्वप्नोपादानत्वाभावे हेतुमाह —
अवस्थारूपाज्ञानशून्येऽध्यासादिति ।
मतभेदेन स्वप्नाध्यासाधिष्ठानभेदमाह —
अनवच्छिन्नेति ।
अहङ्कारानवच्छिन्नब्रह्मचैतन्यस्य मूलाज्ञानमात्राश्रयत्वादवस्थाज्ञानशून्यत्वम्, अहङ्कारोपहितस्य साक्षिचैतन्यस्य सुखाद्यधिष्ठानस्य आवरणानङ्गीकारादवस्थाज्ञानशून्यत्वं इति भावः ।
अत्र अज्ञानकार्यस्य स्वप्नाध्यासस्य अवस्थाज्ञानशून्यचैतन्येऽध्यासोक्त्या अर्थान्मूलाज्ञानकार्यत्वमुक्तं, तत्र हेत्वन्तरमाह —
सुषुप्त्याख्यमिति ।
सुषुप्तेरज्ञानावस्थारूपत्वविवक्षया सुषुप्त्याख्यत्वमज्ञानस्योक्तम् । बीजम् — उपादानं, बोधः — जाग्रत्प्रपञ्चः, तस्य शुक्तिरजतादिव्यतिरिक्तस्य मूलाज्ञानकार्यत्वं सम्प्रतिपन्नमिति भावः । आचार्याणामुक्तेश्चेति सम्बन्धः । स्वपदं स्वप्नाध्यासपरम् ।
ब्रह्मज्ञानैकेति ।
प्रबोधकाले स्वप्नप्रपञ्चस्य सूक्ष्मावस्थापत्तिरूपनाशे सत्यपि बाधरूपा निवृत्तिः ब्रह्मज्ञानैकसाध्येति बोध्यम् । अविद्यातिरिक्तदोषजन्यत्वं प्रातिभासिकत्वप्रयोजकमिति मतेन स्वप्नाध्यासस्य निद्रादिदोषजन्यस्य प्रातिभासिकत्वमुपपादितम् ।
व्यवहारकाले बाध्यमानत्वं प्रातिभासिकत्वप्रयोजकमिति मतेन तस्य तदुपपादयति —
अन्ये त्विति ।
भाष्यगतं प्रबोधपदं सप्तम्यन्तम् । बन्धस्याविद्याकार्यत्वादविद्यात्मकत्वम् । प्रत्यनीकत्वं निवर्तकत्वम् । पञ्चम्यनन्तरं ब्रह्मज्ञानस्येति शेषः । यथा जाग्रत्कालीनो घटादिबोधः स्वप्नबन्धनिवर्तकः तद्वदित्यर्थः ।
उत्थितस्येति ।
‘मिथ्यैव मया स्वप्ने महाजनसमागमो दृष्टः न ह्यस्ति महाजनसमागमः’ इति तस्य मिथ्यात्वानुभवादित्यर्थः । यदि स्वप्नप्रपञ्चस्य ब्रह्मज्ञानबाध्यत्वप्रयुक्तं मिथ्यात्वं तदा स्वप्नादुत्थितस्य तन्मिथ्यात्वानुभवो न स्यात् । ब्रह्मज्ञानात्पूर्वं तद्बाध्ये घटादौ मिथ्यात्वानुभवादर्शनात् । अतो ब्रह्मज्ञानादितरेण जाग्रद्बोधेनैव बाधः स्वप्नप्रपञ्चस्य वक्तव्य इति शुक्तिरजतादिवत् व्यवहारकालीनबाधवशादेव तस्य प्रातिभासिकत्वम्, व्यवहारकालश्च ब्रह्मतत्त्वज्ञानात्पूर्वकाल इति भावः ।
ज्ञानमिति ।
ब्रह्मज्ञानेतरज्ञानमित्यर्थः ।
तस्य स्वप्नाध्यासनिवर्तकत्वाभावे हेतुं सूचयति —
स्वेति ।
स्वस्य - स्वप्नाध्यासस्य उपादानं मूलाज्ञानं तदनिवर्तकमित्यर्थः ।
तदनिवर्तकत्वे हेतुं सूचयति —
अधिष्ठानेति ।
स्वप्नाधिष्ठानस्य पूर्वोक्तस्य यद्याथात्म्यं अनवच्छिन्नब्रह्मचैतन्यत्वादि तदविषयकमित्यर्थः । अधिष्ठानयाथात्म्यज्ञानस्यैव अज्ञाननिवृत्तिद्वारा अध्यासनिवर्तकत्वनियमादिति भावः ।
उक्तनियमासिध्द्या दूषयति —
रज्जुसर्पेति ।
स्वपदं सर्पाध्यासपरम् ।
ज्ञानेनेवेति ।
‘नायं सर्पः, रज्जुरेषा’ इति ज्ञानेनेवेत्यर्थः ।
तत्रैवेति ।
सर्पाध्यासाधिष्ठानरज्जावेवेत्यर्थः ।
स्वेति ।
सर्पभ्रमानन्तरोत्पन्नेन ‘नायं सर्पः दण्डोऽयं’ इति भ्रमेणेत्यर्थः ।
निवृत्तिदर्शनादिति ।
बाधदर्शनादित्यर्थः ।
अधिष्ठानयाथात्म्यज्ञानस्यैवाध्यासनिवर्तकत्वनियमेऽपि प्रकृते नानुपपत्तिरिति मत्वा तदनुगुणं मतमाह —
अपरे त्विति ।
अस्मिन् मते व्यावहारिकजीवः स्वप्नप्रपञ्चद्रष्टुः प्रातिभासिकजीवस्याधिष्ठानम् । स्वप्नप्रपञ्चस्य च जाग्रत्प्रपञ्च एवाधिष्ठानं, न त्वनवच्छिन्नचैतन्यादिकम् । द्विविधाधिष्ठानावरणद्वारा च निद्रारूपमवस्थाज्ञानं द्रष्टृदृश्यात्मकद्विविधस्वप्नप्रपञ्चोपादानं, न तु मूलाज्ञानम्, तस्य ब्रह्मचैतन्यमात्रावारकत्वेन व्यावहारिकजीवाद्यावारकत्वाभावात् । ततश्च व्यावहारिकजीवजगद्गोचरस्य प्रबोधस्य अधिष्ठानयाथात्म्यज्ञानरूपत्वात् तेन स्वप्नाध्यासबाधः संभवतीति तात्पर्यार्थः । कर्मोपरमे सति जायमानः इति सम्बन्धः । आवृत्येत्यनेन उपादानमित्यनेन च निद्रायाः आवरणविक्षेपशक्तिमत्त्वरूपमज्ञानलक्षणमुक्तम् । एवमज्ञानत्वे तस्याः सिद्धे सति उत्पत्तिमत्त्वात्तदवस्थारूपत्वं सिध्यति । अस्मिन् मते सर्वेषामेवावस्थाज्ञानानामादिमत्त्वस्य प्रथमपरिच्छेदे उक्तत्वादिति भावः ।
सङ्ग्रहेणोक्तमर्थमाशङ्कापूर्वकं प्रपञ्चयति —
न च निद्राया इत्यादिना ।
मूलाज्ञानेनानावृतस्य व्यावहारिकजीवस्य जाग्रत्प्रपञ्चवृत्तान्तस्य च स्वप्नकाले केनचिदावरणाभावे ‘यज्ञदत्तपुत्रोऽहं’ इत्यादिभ्रमस्य स्वपितामहजीवद्दशानुभवस्य चाभावप्रसङ्गेन निद्राया एव भेदरूपत्वसिद्धेरिति सम्बन्धः ।
जाग्रत्काले ब्राह्मणत्वादिरूपसत्त्वे संशयविपर्यययोरभावं हेतुमाह —
असन्दिग्धेति ।
असन्दिग्धाविपर्यस्तं यथा भवति तथा अभिमन्यमानस्येति सन्देहविपर्यासभिन्नत्वमभिमानक्रियाविशेषणम् ।
स्वपितामहात्ययादेर्जाग्रत्प्रपञ्चवृत्तान्तस्य तं देवदत्तपुत्रं प्रति सर्वदाऽनावृतत्वेनैकरूपतयाऽवस्थाने हेतुमाह —
तदीयेति ।
देवदत्तपुत्रो हि स्वपितामहादिमरणं प्रथममनुभूय पश्चात्प्रतिमासं प्रतिवत्सरं च श्राद्धतर्पणादिकं करोति, ततश्च तन्मरणादिगोचरानुभवस्मरणाभ्यासः-चिरपरिचयः, तेन स्वपितामहात्ययादौ संशयादिनिवृत्तिभाक्त्वलक्षणमनावृतत्वं सदा एकरूपेण वर्तते इत्यर्थः । जागरणे यथा देवदत्तपुत्रस्य व्याघ्रत्वादिभ्रमाभावः स्वपितामहजीवद्दशानुभवाभावश्च, तथा स्वप्नेऽप्यभावप्रसङ्गेनेत्यर्थः ।
तत्कालेति ।
निद्राकाले उत्पन्नो यो व्यावहारिकजगज्जीवयोरावारकोऽज्ञानावस्थाभेदः तद्रूपत्वं निद्राया एव सिद्ध्यति नान्यस्य, आवरणविक्षेपशक्तिमत्त्वेन तस्या उपस्थितत्वात् अन्यस्यानुपस्थितत्वादित्यर्थः ।
न चैवमिति ।
निद्राया व्यावहारिकजीवाद्यावारकाज्ञानावस्थाविशेषरूपत्वसिद्धौ सत्यामित्यर्थः ।
प्रातिभासिकान्तःकरणे चित्प्रतिबिम्बरूपस्य जीवान्तरस्याभ्युपगमात् नैतच्चोद्यावकाश इत्याशयेनाह —
स्वप्नप्रपञ्चेन सहेति ।
एवं चेति ।
व्यावहारिकजीवजगतोरेव स्वाप्नजीवजगदधिष्ठानत्वे सिद्धे सतीत्यर्थः ।
कर्मोद्भूते बोध इति ।
कर्मजन्ये जागरणे इत्यर्थः ।
जीवस्वरूपज्ञानादिति ।
‘मनुष्योहं ब्राह्मणोऽहं देवदत्तपुत्रोऽहं’ इत्यादिरूपादित्यर्थः । उपलक्षणं चैतत्, स्वपितामहात्ययादिज्ञानाच्चेत्यपि द्रष्टव्यम् । स्वपदं स्वाप्नप्रपञ्चपरम् ।
न चैवमित्येवंशब्दार्थमाह —
तद्द्रष्टुरिति ।
तस्यस्वाप्नप्रपञ्चस्य द्रष्टुः — x‘व्याघ्रोऽहं, शूद्रोऽहं’ इत्यादिरूपेण स्वात्मानमभिमन्यमानस्येत्यर्थः ।
तत इति ।
व्यावहारिकजीवस्वरूपज्ञानादित्यर्थः ।
न स्यादिति ।
अन्यानुभूतेऽर्थेऽन्यस्य स्मरणायोगादिति भावः ।
अध्यस्ततयेति ।
तथा च व्यावहारिकप्रातिभासिकजीवयोरधिष्ठानारोप्ययोस्तादात्म्यसत्त्वात् प्रातिभासिकजीवकर्तृकानुभवाद्व्यावहारिकजीवस्य स्वाप्नपदार्थानुसन्धानं सम्भवतीत्यर्थः ।
अतिप्रसङ्गेति ।
यज्ञदत्तानुभूतार्थे विष्णुमित्रस्याप्यनुसन्धानप्रसङ्गरूपातिप्रसङ्गाभावादित्यर्थः, तयोस्तादात्म्याभावादिति भावः । ननु जीवत्रैविध्यपक्षे द्रष्टृदृश्यात्मकस्वप्नाध्यासाधिष्ठानत्वेनोपगतस्य व्यावहारिकजीवादेः मिथ्यात्वेन जडतया स्वप्नप्रपञ्चावभासकत्वं न सम्भवति । न च चैतन्यमेव तदवभासकमिति वाच्यम् । तथासति तस्यैवाधिष्ठानतया तत्सत्तास्फूर्तिरूपत्वसम्भवे जडस्याधिष्ठानत्वाभ्युपगमायोगात् ।