अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

अवस्थाज्ञानसादित्वानादित्ववादः

ननु — अवस्थाऽज्ञानानि किमनादीनि किं वा आदिमन्ति । नाद्यः, मानाभावात् । न द्वितीयः, अज्ञानमनादीति सिद्धा­न्त­वि­रो­धात् - इति चेत्, अत्र केचिदाद्यं पक्षं साधयन्तीत्याह —
इमानि चेति ।
अवस्थाऽज्ञानानि अनादीनि, अज्ञानत्वात्, मूलाज्ञानवत् । न च दृष्टा­न्ता­सिद्धिः । देवताधिकरणादौ मूला­ज्ञा­ना­ना­दि­त्वस्य श्रुति­न्या­याभ्यां साधितत्वादिति भावः । न च अज्ञा­न­ग­ता­ना­दित्वे मूलाज्ञानत्वं प्रयोजकं न त्वज्ञा­न­त्व­मा­त्र­मिति वाच्यम् । लाघवेन तन्मात्रस्यैव प्रयोजकत्वादिति भावः ।

अव­स्थाऽ­ज्ञा­ना­न्या­दि­म­न्तीति द्विती­य­प­क्ष­मन्ये साधयन्तीत्याह —
व्याव­हा­रि­का­वि­त्या­दिना ।
न च सिद्धा­न्त­वि­रोधः, अज्ञा­ना­ना­दि­त्वा­भ्यु­प­ग­मस्य मूला­ज्ञा­न­वि­ष­य­त्वा­दिति भावः ।

विमतानि अवस्थाऽज्ञानानि आदिमन्ति, अव­स्थाऽ­ज्ञा­न­त्वात्, निद्रावत्, सुषुप्तिवच्च, इत्य­नु­मा­न­म­भि­प्रेत्य दृष्टान्तद्वये साध­न­सा­ध्य­यो­र्वै­कल्यं प्रथमं परिहरति —
व्यावहारिकाविति ।
हेतौ अवस्थापदं मूलाज्ञाने व्यभि­चा­र­वा­र­णा­र्थम् ।

आवृत्येति ।
जाग्रत्कालीनौ जगज्जीवौ यादृशौ प्रसिद्धौ न तादृशावेव स्वप्नकाले उपलभ्येते, अतः तयो­र्य­था­व­द­नु­प­ल­म्भा­दा­व­रणं वक्तव्यमिति भावः ।

विक्षिपन्तीति ।
सृजन्तीत्यर्थः ।

अज्ञा­ना­व­स्था­भे­द­रू­पेति ।
अज्ञानस्य हि आव­र­ण­वि­क्षे­प­श­क्ति­मत्त्वं लक्षणम् । तस्य स्वप्न­का­र­णी­भू­त­नि­द्रायां सत्त्वा­द­ज्ञा­नत्वं तावत् सिद्धम् । निद्राया वक्ष्यमाणरीत्या सादित्वेन साक्षा­न्मू­ला­ज्ञा­न­त्वा­यो­गात् तद­व­स्था­वि­शे­ष­रू­पत्वं सिद्धमिति प्रथमदृष्टान्ते न साधनवैकल्यमिति भावः । सुषुप्तिकाले मूला­ज्ञा­न­व­द­नु­भू­य­माना सुषु­प्त्य­व­स्थाऽपि तथा अज्ञा­ना­व­स्था­भे­द­रू­पै­वेति सम्बन्धः ।

ननु सुषुप्तिकाले मूला­ज्ञा­न­सु­षु­प्त्यो­र­नु­भ­वोऽ­सिद्धः, तदा ‘अहमज्ञः’ ‘अहं स्वपिमि’ इत्य­नु­भ­वा­द­र्श­ना­दिति, नेत्याह —
सुखमहमिति ।
परामर्शः स्मरणम् । तथा च उत्थितस्य दृश्य­मा­न­प­रा­म­र्शा­न्य­था­नु­प­पत्त्या तदा सुषु­प्ति­मू­ला­ज्ञा­न­यो­र­नु­भवः साक्षिरूपः कल्प्यते ।

अहमुल्लेखे हि आत्मनि अन्तःकरणसंसर्गः प्रयोजकः, तत्काले तस्य लीनत्वात् नाहमुल्लेखः, इत्याशयेनाह —
अन्तःकरणादौ विलीने इति ।
चक्षु­रा­दि­क­मा­दि­प­दार्थः । सुषु­प्ति­स्व­रू­प­सा­ध­नार्थः परा­म­र्श­क­ल्प्य­सु­षु­प्त्य­नु­भ­वो­प­न्यासः । सुषुप्तिकाले मूलाज्ञानाभावे सुषु­प्ते­स्त­द­व­स्था­रू­पत्वं न सिध्येत्, अतः तदनुभवोपन्यासः तदा मूला­ज्ञा­न­स­त्त्व­सा­ध­नार्थः । सुषु­प्ते­स्त­द­व­स्था­रू­पत्वं परि­शे­षा­द­व­ग­न्त­व्यम् । सुषुप्तिकाले मूला­ज्ञा­ना­ति­रि­क्ता­ना­म­न्तः­क­र­णा­दीनां विलीनत्वेन तस्या­स्त­द­व­स्था­रू­प­त्वा­स­म्भ­वा­दिति सूचनार्थं च अन्तः­क­र­णा­दि­वि­ल­यो­प­न्यासः । तथा च सुषु­प्ति­दृ­ष्टा­न्तेऽपि न साधनवैकल्यमिति भावः ।

दृष्टा­न्त­द्व­येऽपि साध्यवैकल्यं परिहरति —
तयोश्चेति ।
निद्रा­सु­षु­प्त्यो­रि­त्यर्थः ।

अन्यदपीति ।
घटा­दि­वि­ष­या­व­च्छि­न्न­चै­त­न्या­वा­र­का­ज्ञा­न­म­पी­त्यर्थः ।

अव­स्थाऽ­ज्ञा­नानां सादित्वपक्षे प्रथममुत्पन्नेन घटज्ञानेन तदुत्पत्तेः पूर्वं घटावारकत्वेन स्थिताज्ञानस्य नाशे सति पश्चा­दु­त्प­न्न­म­व­स्था­ज्ञानं पुन­स्त­मा­वृ­णो­तीति व्यवस्था सिद्ध्यति, तेषा­म­ना­दि­त्व­पक्षे तु सा न सिद्ध्येदिति शङ्कते —
नन्विति ।
प्राथ­मि­क­घ­ट­ज्ञा­नेन तदाज्ञानानां सर्वेषां नाशोऽस्ति न वा ।

द्वितीयकल्पं दूषयति —
घट इति ।
प्राथमिकज्ञानेन एकमेवाज्ञानं नश्यति नेतराणीत्यत्र विनिगमकाभावात् सर्वाज्ञाननाशो वक्तव्यः, तथा च द्विती­य­क­ल्पा­नु­प­प­त्ति­रि­त्यर्थः ।

द्वितीयकल्पे एव विनिगमकाभाववत् दोषान्तरमाह —
तदवच्छिन्नेति ।
एका­व­र­ण­ना­शेऽ­प्या­व­र­णा­न्त­राणां सत्त्वात् विष­य­प्र­का­शा­नु­प­प­त्ति­रि­त्यर्थः ।

एवं प्रथमकल्पं परिशेषयित्वा तं दूषयति —
अत इति ।
प्रथमज्ञानेन सर्वा­ज्ञा­न­ना­शा­दि­त्यर्थः ।

तदवस्थमेवेति ।
पाश्चा­त्त्य­ज्ञा­ना­ना­मा­व­र­णा­भि­भा­व­क­त्व­सि­द्धये हि यावन्ति ज्ञानानि तावन्ति तन्नि­व­र्त्या­ज्ञा­ना­नी­त्यु­प­ग­म्यते, तदभ्युपगमेऽपि प्रथमज्ञानेनैव सर्वाज्ञाननाशे स दोषस्तदवस्थ एवेत्यर्थः । यथा न्यायमते यावन्ति घटज्ञानानि तावन्तो घट­ज्ञा­न­प्रा­ग­भावाः सन्ति । तत्र प्रथमेन ज्ञानेन एक एव ज्ञानप्रागभावो निवर्तते । अन्ये यथापूर्वं सन्त्येव । तेषां सत्त्वेऽपि विष­य­प्र­का­श­श्चो­पे­यते तैः ।