कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
अवस्थाज्ञानसादित्वानादित्ववादः
ननु — अवस्थाऽज्ञानानि किमनादीनि किं वा आदिमन्ति । नाद्यः, मानाभावात् । न द्वितीयः, अज्ञानमनादीति सिद्धान्तविरोधात् - इति चेत्, अत्र केचिदाद्यं पक्षं साधयन्तीत्याह —
इमानि चेति ।
अवस्थाऽज्ञानानि अनादीनि, अज्ञानत्वात्, मूलाज्ञानवत् । न च दृष्टान्तासिद्धिः । देवताधिकरणादौ मूलाज्ञानानादित्वस्य श्रुतिन्यायाभ्यां साधितत्वादिति भावः । न च अज्ञानगतानादित्वे मूलाज्ञानत्वं प्रयोजकं न त्वज्ञानत्वमात्रमिति वाच्यम् । लाघवेन तन्मात्रस्यैव प्रयोजकत्वादिति भावः ।
अवस्थाऽज्ञानान्यादिमन्तीति द्वितीयपक्षमन्ये साधयन्तीत्याह —
व्यावहारिकावित्यादिना ।
न च सिद्धान्तविरोधः, अज्ञानानादित्वाभ्युपगमस्य मूलाज्ञानविषयत्वादिति भावः ।
विमतानि अवस्थाऽज्ञानानि आदिमन्ति, अवस्थाऽज्ञानत्वात्, निद्रावत्, सुषुप्तिवच्च, इत्यनुमानमभिप्रेत्य दृष्टान्तद्वये साधनसाध्ययोर्वैकल्यं प्रथमं परिहरति —
व्यावहारिकाविति ।
हेतौ अवस्थापदं मूलाज्ञाने व्यभिचारवारणार्थम् ।
आवृत्येति ।
जाग्रत्कालीनौ जगज्जीवौ यादृशौ प्रसिद्धौ न तादृशावेव स्वप्नकाले उपलभ्येते, अतः तयोर्यथावदनुपलम्भादावरणं वक्तव्यमिति भावः ।
विक्षिपन्तीति ।
सृजन्तीत्यर्थः ।
अज्ञानावस्थाभेदरूपेति ।
अज्ञानस्य हि आवरणविक्षेपशक्तिमत्त्वं लक्षणम् । तस्य स्वप्नकारणीभूतनिद्रायां सत्त्वादज्ञानत्वं तावत् सिद्धम् । निद्राया वक्ष्यमाणरीत्या सादित्वेन साक्षान्मूलाज्ञानत्वायोगात् तदवस्थाविशेषरूपत्वं सिद्धमिति प्रथमदृष्टान्ते न साधनवैकल्यमिति भावः । सुषुप्तिकाले मूलाज्ञानवदनुभूयमाना सुषुप्त्यवस्थाऽपि तथा अज्ञानावस्थाभेदरूपैवेति सम्बन्धः ।
ननु सुषुप्तिकाले मूलाज्ञानसुषुप्त्योरनुभवोऽसिद्धः, तदा ‘अहमज्ञः’ ‘अहं स्वपिमि’ इत्यनुभवादर्शनादिति, नेत्याह —
सुखमहमिति ।
परामर्शः स्मरणम् । तथा च उत्थितस्य दृश्यमानपरामर्शान्यथानुपपत्त्या तदा सुषुप्तिमूलाज्ञानयोरनुभवः साक्षिरूपः कल्प्यते ।
अहमुल्लेखे हि आत्मनि अन्तःकरणसंसर्गः प्रयोजकः, तत्काले तस्य लीनत्वात् नाहमुल्लेखः, इत्याशयेनाह —
अन्तःकरणादौ विलीने इति ।
चक्षुरादिकमादिपदार्थः । सुषुप्तिस्वरूपसाधनार्थः परामर्शकल्प्यसुषुप्त्यनुभवोपन्यासः । सुषुप्तिकाले मूलाज्ञानाभावे सुषुप्तेस्तदवस्थारूपत्वं न सिध्येत्, अतः तदनुभवोपन्यासः तदा मूलाज्ञानसत्त्वसाधनार्थः । सुषुप्तेस्तदवस्थारूपत्वं परिशेषादवगन्तव्यम् । सुषुप्तिकाले मूलाज्ञानातिरिक्तानामन्तःकरणादीनां विलीनत्वेन तस्यास्तदवस्थारूपत्वासम्भवादिति सूचनार्थं च अन्तःकरणादिविलयोपन्यासः । तथा च सुषुप्तिदृष्टान्तेऽपि न साधनवैकल्यमिति भावः ।
दृष्टान्तद्वयेऽपि साध्यवैकल्यं परिहरति —
तयोश्चेति ।
निद्रासुषुप्त्योरित्यर्थः ।
अन्यदपीति ।
घटादिविषयावच्छिन्नचैतन्यावारकाज्ञानमपीत्यर्थः ।
अवस्थाऽज्ञानानां सादित्वपक्षे प्रथममुत्पन्नेन घटज्ञानेन तदुत्पत्तेः पूर्वं घटावारकत्वेन स्थिताज्ञानस्य नाशे सति पश्चादुत्पन्नमवस्थाज्ञानं पुनस्तमावृणोतीति व्यवस्था सिद्ध्यति, तेषामनादित्वपक्षे तु सा न सिद्ध्येदिति शङ्कते —
नन्विति ।
प्राथमिकघटज्ञानेन तदाज्ञानानां सर्वेषां नाशोऽस्ति न वा ।
द्वितीयकल्पं दूषयति —
घट इति ।
प्राथमिकज्ञानेन एकमेवाज्ञानं नश्यति नेतराणीत्यत्र विनिगमकाभावात् सर्वाज्ञाननाशो वक्तव्यः, तथा च द्वितीयकल्पानुपपत्तिरित्यर्थः ।
द्वितीयकल्पे एव विनिगमकाभाववत् दोषान्तरमाह —
तदवच्छिन्नेति ।
एकावरणनाशेऽप्यावरणान्तराणां सत्त्वात् विषयप्रकाशानुपपत्तिरित्यर्थः ।
एवं प्रथमकल्पं परिशेषयित्वा तं दूषयति —
अत इति ।
प्रथमज्ञानेन सर्वाज्ञाननाशादित्यर्थः ।
तदवस्थमेवेति ।
पाश्चात्त्यज्ञानानामावरणाभिभावकत्वसिद्धये हि यावन्ति ज्ञानानि तावन्ति तन्निवर्त्याज्ञानानीत्युपगम्यते, तदभ्युपगमेऽपि प्रथमज्ञानेनैव सर्वाज्ञाननाशे स दोषस्तदवस्थ एवेत्यर्थः । यथा न्यायमते यावन्ति घटज्ञानानि तावन्तो घटज्ञानप्रागभावाः सन्ति । तत्र प्रथमेन ज्ञानेन एक एव ज्ञानप्रागभावो निवर्तते । अन्ये यथापूर्वं सन्त्येव । तेषां सत्त्वेऽपि विषयप्रकाशश्चोपेयते तैः ।