कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
मिथ्याभूतस्यार्थक्रियाकारित्वविचारः
प्रपञ्चस्य परमार्थसत्यत्वे पूर्वमर्थक्रियाकारित्वमप्रयोजकं इति सूचितम्, तदयुक्तम् - मिथ्याभूतस्य शुक्तिरूप्यादेः कटकाद्यर्थक्रियाकारित्वादर्शनादिति मत्वा शङ्कते —
नन्विति ।
अर्थक्रियाकारित्वं सत्यत्वव्यभिचारीति परिहरति —
स्वप्नवदिति ।
स्वाप्नजलादौ अवगाहनादिरूपार्थक्रियाकारित्वमस्ति तत्र सत्यत्वं नास्तीति व्यभिचार इत्यर्थः ।
नन्वर्थक्रियाकारित्वमात्रं न हेतुः, किं तु सत्यार्थक्रियाकारित्वम्, तच्च स्वाप्नजलादौ नास्तीति न व्यभिचारः - इति शङ्कते —
नन्विति ।
असत्येव, न तु सतीत्यर्थः । असत्यैवेति पाठे - असत्या, न तु सत्येत्यर्थः ।
तर्हि ‘प्रपञ्चस्सत्यः सत्यार्थक्रियाकारित्वात्’ इत्यत्र हेत्वसिद्धिरित्याह सिद्धान्ती —
किं त्विति ।
जाग्रज्जलादिसाध्या सा-अर्थक्रिया सत्या किमिति सम्बन्धः । तु शब्दोऽवधारणे । किंशब्दः आक्षेपार्थः । सा सत्या न भवत्येवेत्यर्थः । अतो हेत्वसम्प्रतिपत्तिपरिहाराय अर्थक्रियाकारित्वमात्रं सत्यत्वप्रयोजकं वाच्यम्, तच्च स्वाप्नजलादावस्त्येवेति व्यभिचारतादवस्थ्यमिति भावः । ननु स्वाप्नजलादौ सत्यार्थक्रियाकारित्वाभावेऽपि स्वसमानसत्ताकार्थक्रियाकारित्वमस्त्येव, तर्हि जाग्रत्प्रपञ्चस्यापि तदस्तु, नैतावता त्वदभिमतपरमार्थसत्यत्वं सिद्ध्यति —
इत्याशयेन परिहरति —
अविशिष्टमिति ।
उभयत्रापीति ।
जाग्रत्स्वप्नावस्थाद्वयेऽपीत्यर्थः । स्वपदमर्थक्रियाहेतुभूतवस्तुपरम् । ‘स्वप्नवदिति ब्रूमः’ इति समाधाने ‘स्वप्ने तावदर्थक्रिया सत्या न भवति, जागरे तु सा सत्या’ इति वैषम्यशङ्कायां प्रतिबन्द्या केषाञ्चित् समाधानं दर्शितम् ।
इदानीं स्वाप्नादिपदार्थानामपि सत्यार्थक्रियाकारित्वदर्शनात् न दृष्टान्तवैषम्यमिति परिहारान्तरमाह —
अद्वैतेति ।
प्रबोधबाध्यार्थक्रिया प्रातिभासिकी, प्रबोधाबाध्यार्थक्रिया स्वप्नकालीनापि व्यावहारिकसत्यैव - इति विभागः । तथा च स्वाप्नपदार्थानां प्रातिभासिकार्थक्रियाकारित्वमात्रं केवलं न भवति, किं तु व्यावहारिकार्थक्रियाकारित्वमप्यस्ति, स्वाप्नाङ्गनादीनां प्रबोधाबाध्यसुखजनकत्वस्य स्वाप्नभुजङ्गमादीनां प्रबोधाबाध्यभयकम्पादिजनकत्वस्य च दर्शनात् । एवं च व्यावहारिकजाग्रत्पदार्थानां व्यावहारिकार्थक्रियाकारित्वं कैमुतिकन्यायसिद्धमिति मिथ्यात्वपक्षे नार्थक्रियाकारित्वानुपपपत्तिरिति भावः ।
ननु स्वाप्नभुजङ्गमाङ्गनादिरूपविषयाणां प्रबोधबाध्यत्वदर्शनात् तत्कार्यभयसुखादीनां कथं प्रबोधाबाध्यत्वं इत्याशङ्क्याह —
स्वाप्नविषयेति ।
न हि प्रबोधानन्तरं ‘स्वप्नकाले सुखभयादिकं मम नाभूत्’ इति सुखभयोदेर्बाधोऽनुभूयत इत्यर्थः ।
प्रत्युतेति ।
वर्तमानसुखानुभवकार्यं मनःप्रसादः, वर्तमानभयदुःखानुभवकार्यं गात्रकम्पादिः । ततश्च प्रबोधानन्तरमनुवर्तमानत्वे गमकं मनःप्रसादादि । तथा च तदनन्तरमनुवर्तमानस्य भयादेः सत्यत्वात् प्रबोधात्प्रागपि तस्य सत्यत्वं निश्चींयत इत्यर्थः । स्वप्नकालीनमपि सुखभयादिकं जाग्रत्सुखादिवद्व्यावहारिकसत्यमेव, न प्रातिभासिकम्, प्रबोधानन्तरं बाधाभावात् तदनन्तरमप्यनुवर्तमानत्वाच्च - इति निष्कर्षः ।
स्वाप्नसुखभयादेस्सत्यत्वे गमकान्तरमाह —
अत एवेति ।
स्वाप्नभयादेरप्रातिभासिकत्वादेवेत्यर्थः, रागद्वेषयोस्सत्यसुखदुःखगोचरत्वनियमादिति भावः । ननु स्वप्ने सर्वस्य वासनामात्रत्वात् कथं सत्यस्य भयादेः सम्भव इत्यत आह — सम्भवति चेति ‘तदेतत्सत्वं येन स्वप्नं पश्यति’ इति श्रुत्यनुसारेण कल्पतरुकारैर्मानसवृत्तिरूपज्ञानस्य स्वीकारात् तद्वदन्तःकरणपरिणामरूपभयादेर्व्यावहारिकस्य सम्भवः, तदतिरिक्तपदार्थानामेव वासनापरिणामत्वेन प्रातिभासिकत्वाभ्युपगमादिति भावः । ननु - स्वाप्नभयादिकं न भुजङ्गमाङ्गनादिपदार्थजन्यं, किं तु तद्गोचरज्ञानजन्यम् ।
तथा च ज्ञानस्य सत्यत्वात् ‘असत्यात् सत्यस्यापि कार्यस्य जन्म स्वप्ने दृष्टं’ इत्यनुपपन्नमिति शङ्कते —
न चेति ।
तच्च सदेवेति वदता वक्तव्यं — किं तत् मनोमात्रजन्यवृत्तिरूपं, किं वा चक्षुरादिजन्यवृत्तिरूपम्, केवलसाक्षिरूपं वा । आद्येऽपि किं वृत्तिमात्रं भयादिहेतुः, उत स्वाप्नभुजङ्गमादिरूपविषयविशेषितम् । नाद्यः । यक्तिञ्चिद्गोचरवृत्तिज्ञानादपि भयादिप्रसङ्गात् । न द्वितीयः । वृत्तिमात्रस्य सत्यत्वेऽपि विषयस्यासत्यतया तद्विशिष्टस्यापि प्रातिभासिकत्वात् ।
तथा च प्रातिभासि(कज्ञानात्) [कात्] व्यावहारिकार्थक्रियोत्पत्तौ तदुदाहरणं भवत्येवेति मत्वा प्रथमविकल्पत्रयमध्ये द्वितीयं दूषयति —
तस्यापीति ।
ज्ञानस्यापीत्यर्थः ।
ननु चक्षुरादिजन्यमेव दर्शनस्पर्शनादिवृत्तिरूपं सत्यं ज्ञानं कुतो नोपेयते, तत्राह —
न हीति ।
तृतीयं शङ्कते —
न च तदिति ।
दूषयति —
दर्शनादित्यादिना ।
कामिन्या दर्शनात् तस्याः स्पर्शने तस्या एव पदा स्पर्शनात् पाणिना स्पर्शने सुखविशेषस्यानुभवसिद्धत्वेनेति सम्बन्धः । भुजङ्गमस्यामर्मस्थले - पुच्छादौ स्पर्शनात मर्मस्थले - शिरसि स्पर्शने भयविशेषस्यानुभवसिद्धत्वेनेति सम्बन्धः ।
स्वप्नेऽपीति ।
यथा जागरे सुखविशेषभयविशेषादेर्दर्शनस्पर्शनादिरूपवृत्तिविशेषविशिष्टविषयापरोक्षजन्यत्वम्, न तु विषयापरोक्षमात्रजन्यत्वम्, तन्मात्रस्यैकरूपत्वेन कार्यविशेषाप्रयोजकत्वात्, तथा स्वप्नेऽपि । तथा च तत्तद्विषयापरोक्षमात्रस्य साक्षिरूपस्य सत्यत्वेऽपि सुखभयादिजनकस्य प्रातिभासिकदर्शनस्पर्शनादिवृत्तिविशेषविशिष्टस्य तत्तद्विषयापरोक्षस्य प्रातिभासिकत्वात् प्रातिभासिकाद्व्यावहारिकसुखभयादिसम्भव इत्यर्थः ।
एवं स्वप्नावस्थायां असत्यात् सत्यार्थक्रियामुदाहृत्य जागरेऽपि तामुदाहरति —
तथेति ।
प्रकाशनक्षमो यः तत्रत्यैः - अपवरकस्थैः पुरुषान्तरैर्निरीक्ष्यमाणालोकः, तद्वत्यपीत्यर्थः । अपवरकं-स्वल्पगृहम्, तत्रत्यालोकासत्त्वशङ्काव्यावृत्तये पुरुषान्तरनिरीक्ष्यमाणत्वविशेषणम् ।
दृष्टमित्येतत् प्रपञ्चयति —
तेनेति ।
सन्तमसेनेत्यर्थः । अपिशब्दस्य तथा जागरेऽपीति सम्बन्धः ।
अन्ये त्विति ।
जगत्सत्यत्ववादिभिरपि हि अर्थक्रियाकारित्वमेव सत्यत्वमिति वक्तुं न शक्यते । अर्थक्रियानुत्पत्तिदशायां घटादेरसत्यत्वप्रसङ्गात् । किं तु सत्त्वमर्थक्रियाप्रयोजकमिति वक्तव्यम् ।
तथा च किं सत्त्वमर्थक्रियाकारणमभिप्रेतं, किं वा कारणतावच्छेदकम् ? नोभयथापीत्याह —
पानेत्यादिना ।
जलादिपदं जलत्वादेरपि सङ्ग्राहकं बोध्यम् ।
उपयोगीति ।
जलादिस्वरूपं कारणतया जलत्वादिस्वरूपं कारणतावच्छेदकतयेति विभागः ।
मात्रपदव्यवच्छेद्यमाह —
न तद्नतमिति ।
सत्यत्वस्य जलादिस्वरूपातिरिक्ततया कारणत्वाभावात् अतिप्रसक्ततया कारणतावच्छेदकत्वाभावाच्चेत्यर्थः ।
किं तेनेति ।
सत्यत्वेनेत्यर्थः । तथा च सत्यत्वाभावेऽपि प्रपञ्चस्यार्थक्रियाकारित्वसम्भवात् न मिथ्यात्वविरोध इति भावः ।
ननु - सत्त्वस्य तत्तदर्थक्रियाकारितायामतिप्रसक्तत्वेऽप्यर्थक्रियाकारित्वसामान्ये सत्त्वमनतिप्रसक्तत्वादवच्छेदकमेव, अन्यथा बाधकमस्तीत्याशङ्कते —
न चैवंसतीति ।
सत्त्वस्य कारणतासामान्यानवच्छेदकत्वे सतीत्यर्थः ।
‘एवंसति प्रसङ्ग इति न च’ इत्यत्र हेतुमाह —
मरीचिकोदकादाविति ।
मरुभूमिसंसृष्टासु मरीचिकासु समारोपितं तोयं मरीचिकोदकं, तस्य तोयाभासत्वात् तत्र तोयत्वं नास्ति ।
कथं तर्हि ‘तोयमिदम्’ ‘उदकमिदम्’ इति शब्दोल्लेखिप्रत्यय इत्याशङ्क्य तस्यान्यथासिद्धिमाह —
तद्विषयकभ्रमस्येति ।
मरीचिकोदकविषयकभ्रमस्येत्यर्थः । उदकशब्दोल्लेखी यः पूर्वानुभवःसत्योदकविषयकः तज्जन्यसंस्कारजन्यत्वान्मरीचिकोदकस्य तत्प्रयुक्तं तच्छब्दोल्लेखित्वमित्यर्थः ।
प्रयोजकेति ।
प्रसिद्धोदकस्य उचिता अर्थक्रिया पानादिरूपा, तस्यामुदकत्वजातिः प्रयोजिका, उदकादन्यत्र पानादेरदर्शनात्; तथा प्रसिद्धरजतादेरुचितार्थक्रिया कटकादिलक्षणा, तत्र च रजतत्वादिकं प्रयोजकम्, मृदादौ कटकाद्यर्थक्रियाऽदर्शनात्- इति भावः ।
तदप्रसङ्गादिति ।
प्रसिद्धोदकाद्युचितार्थक्रियाकारित्वप्रसङ्गाभावादित्यर्थः ।
मरीचिकोदकादावर्थक्रियाकारित्वप्रयोजकजातिमभ्युपगम्याप्युक्तातिप्रसङ्गं परिहरति —
तत्रापीत्यादिना ।
मरीचिकोदकादावपीत्यर्थः ।
अन्यथेति ।
तत्र जलत्वादिजात्यभावे सतीत्यर्थः ।
तत्रेति ।
मरीचिकोदकादाविष्टतावच्छेदकजलत्वादिवैशिष्ट्यभानं विना तदर्थिनस्तत्र प्रवृत्तिर्न सम्भवतीति भावः ।
किं च शुक्तिरजतादौ सत्यरजतादौ च रजतत्वादिजातेरेकस्या अभावे प्रातिभासिकाध्यासेषु पूर्वदृष्टसाजात्यव्यवहारो भाष्यादिगतो न स्यात्, तदनुरोधेनापि तत्र जातिरङ्गीकर्तव्या इत्याशयेनाह —
प्रातिभासिक इति ।
क्वचिदिति ।
दूरे मरीचिकोदकभ्रमानन्तरं स्नानाद्यर्थं समीपं गतस्य ‘नेदं जलं, मरीचिमात्रमिदं’ इति विशेषदर्शने सति जलाध्यासस्य स्वमूलाज्ञानेन सहैव नाशात् न ततोऽर्थक्रियोत्पत्तिरापादयितुं शक्येत्यर्थः ।
क्वचिदधिष्ठानेति ।
शुक्त्यादौ रजताद्यध्यासानन्तरं यत्र विशेषदर्शनमस्ति तत्र पूर्वोक्ता रीतिः, यत्र तन्नास्ति तत्र तदधिष्ठानसामान्यज्ञानरूपकारणनाशेन रजताद्यध्यासमात्रनाशसम्भवात् तत्रापि नार्थक्रियोत्पत्तिरापादयितुं शक्येत्यर्थः ।
‘स्वप्नवदिति ब्रूमः’ इत्यादिपूर्वग्रन्थे प्रातिभासिकपदार्थानामप्यर्थक्रियाकारित्वस्य दर्शितत्वात् उक्तातिप्रसङ्गे इष्टापत्तिरपीत्याह —
क्वचित्कासां चिदिति ।
इदानीं प्रातिभासिकेष्वर्थक्रियाकारित्वराहित्यमुपेत्यापि सत्यत्वं कारणतावच्छेदकं न वक्तव्यमित्याह —
मरीचिकोदकादीति ।
चशब्दोऽप्यर्थकः ।
श्रुतीति ।
मिथ्यात्वश्रुतीत्यर्थः । ‘सद्रूपाद्रजतात् कटकादिकार्यं भवति तद्विलक्षणाच्छुक्तिरजतात् तन्न भवति’ इत्यन्वयव्यतिरेकसहकृतप्रत्यक्षेण हि त्वया सत्त्वं अर्थक्रियाकारितायामवच्छेदकतया ग्राह्यम् ।
तादृशं च सत्त्वं मिथ्यात्वविरुद्धकालत्रयाबाध्यत्वरूपं न भवति, तस्य प्रत्यक्षायोग्यत्वात्, अतः अन्यदेव किंचित्तदवच्छेदकं वाच्यमित्याशयेनाह —
प्रत्यक्षादिनेति ।
अत्रादिपदमनुमानादिसङ्ग्रहार्थम् । प्रत्यक्षश्रुतिविरोधेन अनुमानादेरपि प्रपञ्चे कालत्रयाबाध्यत्वरूपसत्त्वसाधकस्यानुदयादेव तस्यानुमानादिनापि दुर्ग्रहत्वमुक्तमिति बोध्यम् ।
रजतत्वादेरिति ।
व्यवहारकालीनबाधरहितरजतत्वादिकमादिपदार्थः ।
तस्मादिति ।
सत्यत्वस्यार्थक्रियां प्रत्यप्रयोजकत्वादित्यर्थः ।