अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

मिथ्याभूतस्यार्थक्रियाकारित्वविचारः

प्रपञ्चस्य परमार्थसत्यत्वे पूर्व­म­र्थ­क्रि­या­का­रि­त्व­म­प्र­यो­जकं इति सूचितम्, तदयुक्तम् - मिथ्याभूतस्य शुक्तिरूप्यादेः कट­का­द्य­र्थ­क्रि­या­का­रि­त्वा­द­र्श­ना­दिति मत्वा शङ्कते —
नन्विति ।

अर्थ­क्रि­या­का­रित्वं सत्य­त्व­व्य­भि­चा­रीति परिहरति —
स्वप्नवदिति ।
स्वाप्नजलादौ अव­गा­ह­ना­दि­रू­पा­र्थ­क्रि­या­का­रि­त्व­मस्ति तत्र सत्यत्वं नास्तीति व्यभिचार इत्यर्थः ।

नन्व­र्थ­क्रि­या­का­रि­त्व­मात्रं न हेतुः, किं तु सत्या­र्थ­क्रि­या­का­रि­त्वम्, तच्च स्वाप्नजलादौ नास्तीति न व्यभिचारः - इति शङ्कते —
नन्विति ।
असत्येव, न तु सतीत्यर्थः । असत्यैवेति पाठे - असत्या, न तु सत्येत्यर्थः ।

तर्हि ‘प्रपञ्चस्सत्यः सत्या­र्थ­क्रि­या­का­रि­त्वात्’ इत्यत्र हेत्व­सि­द्धि­रि­त्याह सिद्धान्ती —
किं त्विति ।
जाग्र­ज्ज­ला­दि­साध्या सा-अर्थक्रिया सत्या किमिति सम्बन्धः । तु शब्दोऽवधारणे । किंशब्दः आक्षेपार्थः । सा सत्या न भवत्येवेत्यर्थः । अतो हेत्व­स­म्प्र­ति­प­त्ति­प­रि­हा­राय अर्थ­क्रि­या­का­रि­त्व­मात्रं सत्यत्वप्रयोजकं वाच्यम्, तच्च स्वाप्न­ज­ला­दा­व­स्त्ये­वेति व्यभि­चा­र­ता­द­व­स्थ्य­मिति भावः । ननु स्वाप्नजलादौ सत्या­र्थ­क्रि­या­का­रि­त्वा­भा­वेऽपि स्वस­मा­न­स­त्ता­का­र्थ­क्रि­या­का­रि­त्व­म­स्त्येव, तर्हि जाग्र­त्प्र­प­ञ्च­स्यापि तदस्तु, नैतावता त्वद­भि­म­त­प­र­मा­र्थ­स­त्यत्वं सिद्ध्यति —

इत्याशयेन परिहरति —
अविशिष्टमिति ।

उभयत्रापीति ।
जाग्र­त्स्व­प्ना­व­स्था­द्व­येऽ­पी­त्यर्थः । स्वप­द­म­र्थ­क्रि­या­हे­तु­भू­त­व­स्तु­प­रम् । ‘स्वप्नवदिति ब्रूमः’ इति समाधाने ‘स्वप्ने तावदर्थक्रिया सत्या न भवति, जागरे तु सा सत्या’ इति वैषम्यशङ्कायां प्रतिबन्द्या केषाञ्चित् समाधानं दर्शितम् ।

इदानीं स्वाप्ना­दि­प­दा­र्था­ना­मपि सत्या­र्थ­क्रि­या­का­रि­त्व­द­र्श­नात् न दृष्टा­न्त­वै­ष­म्य­मिति परिहारान्तरमाह —
अद्वैतेति ।
प्रबो­ध­बा­ध्या­र्थ­क्रिया प्रातिभासिकी, प्रबो­धा­बा­ध्या­र्थ­क्रिया स्वप्नकालीनापि व्याव­हा­रि­क­स­त्यैव - इति विभागः । तथा च स्वाप्न­प­दा­र्थानां प्राति­भा­सि­का­र्थ­क्रि­या­का­रि­त्व­मात्रं केवलं न भवति, किं तु व्याव­हा­रि­का­र्थ­क्रि­या­का­रि­त्व­म­प्यस्ति, स्वाप्ना­ङ्ग­ना­दीनां प्रबो­धा­बा­ध्य­सु­ख­ज­न­क­त्वस्य स्वाप्न­भु­ज­ङ्ग­मा­दीनां प्रबो­धा­बा­ध्य­भ­य­क­म्पा­दि­ज­न­क­त्वस्य च दर्शनात् । एवं च व्याव­हा­रि­क­जा­ग्र­त्प­दा­र्थानां व्याव­हा­रि­का­र्थ­क्रि­या­का­रित्वं कैमु­ति­क­न्या­य­सि­द्ध­मिति मिथ्यात्वपक्षे नार्थ­क्रि­या­का­रि­त्वा­नु­प­प­प­त्ति­रिति भावः ।

ननु स्वाप्न­भु­ज­ङ्ग­मा­ङ्ग­ना­दि­रू­प­वि­ष­याणां प्रबो­ध­बा­ध्य­त्व­द­र्श­नात् तत्का­र्य­भ­य­सु­खा­दीनां कथं प्रबो­धा­बा­ध्यत्वं इत्याशङ्क्याह —
स्वाप्नविषयेति ।
न हि प्रबोधानन्तरं ‘स्वप्नकाले सुखभयादिकं मम नाभूत्’ इति सुख­भ­यो­दे­र्बा­धोऽ­नु­भू­यत इत्यर्थः ।

प्रत्युतेति ।
वर्त­मा­न­सु­खा­नु­भ­व­कार्यं मनःप्रसादः, वर्त­मा­न­भ­य­दुः­खा­नु­भ­व­कार्यं गात्रकम्पादिः । ततश्च प्रबो­धा­न­न्त­र­म­नु­व­र्त­मा­नत्वे गमकं मनःप्रसादादि । तथा च तद­न­न्त­र­म­नु­व­र्त­मा­नस्य भयादेः सत्यत्वात् प्रबो­धा­त्प्रा­गपि तस्य सत्यत्वं निश्चींयत इत्यर्थः । स्वप्नकालीनमपि सुखभयादिकं जाग्र­त्सु­खा­दि­व­द्व्या­व­हा­रि­क­स­त्य­मेव, न प्रातिभासिकम्, प्रबोधानन्तरं बाधाभावात् तद­न­न्त­र­म­प्य­नु­व­र्त­मा­न­त्वाच्च - इति निष्कर्षः ।

स्वाप्न­सु­ख­भ­या­दे­स्स­त्यत्वे गमकान्तरमाह —
अत एवेति ।
स्वाप्न­भ­या­दे­र­प्रा­ति­भा­सि­क­त्वा­दे­वे­त्यर्थः, राग­द्वे­ष­यो­स्स­त्य­सु­ख­दुः­ख­गो­च­र­त्व­नि­य­मा­दिति भावः । ननु स्वप्ने सर्वस्य वास­ना­मा­त्र­त्वात् कथं सत्यस्य भयादेः सम्भव इत्यत आह — सम्भवति चेति ‘तदेतत्सत्वं येन स्वप्नं पश्यति’ इति श्रुत्यनुसारेण कल्प­त­रु­का­रै­र्मा­न­स­वृ­त्ति­रू­प­ज्ञा­नस्य स्वीकारात् तद्व­द­न्तः­क­र­ण­प­रि­णा­म­रू­प­भ­या­दे­र्व्या­व­हा­रि­कस्य सम्भवः, तद­ति­रि­क्त­प­दा­र्था­ना­मेव वास­ना­प­रि­णा­म­त्वेन प्राति­भा­सि­क­त्वा­भ्यु­प­ग­मा­दिति भावः । ननु - स्वाप्नभयादिकं न भुज­ङ्ग­मा­ङ्ग­ना­दि­प­दा­र्थ­जन्यं, किं तु तद्गो­च­र­ज्ञा­न­ज­न्यम् ।

तथा च ज्ञानस्य सत्यत्वात् ‘असत्यात् सत्यस्यापि कार्यस्य जन्म स्वप्ने दृष्टं’ इत्यनुपपन्नमिति शङ्कते —
न चेति ।
तच्च सदेवेति वदता वक्तव्यं — किं तत् मनो­मा­त्र­ज­न्य­वृ­त्ति­रूपं, किं वा चक्षु­रा­दि­ज­न्य­वृ­त्ति­रू­पम्, केवलसाक्षिरूपं वा । आद्येऽपि किं वृत्तिमात्रं भयादिहेतुः, उत स्वाप्न­भु­ज­ङ्ग­मा­दि­रू­प­वि­ष­य­वि­शे­षि­तम् । नाद्यः । यक्ति­ञ्चि­द्गो­च­र­वृ­त्ति­ज्ञा­ना­दपि भयादिप्रसङ्गात् । न द्वितीयः । वृत्तिमात्रस्य सत्यत्वेऽपि विषयस्यासत्यतया तद्वि­शि­ष्ट­स्यापि प्राति­भा­सि­क­त्वात् ।

तथा च प्राति­भा­सि(क­ज्ञा­नात्) [कात्] व्याव­हा­रि­का­र्थ­क्रि­यो­त्पत्तौ तदुदाहरणं भवत्येवेति मत्वा प्रथ­म­वि­क­ल्प­त्र­य­मध्ये द्वितीयं दूषयति —
तस्यापीति ।
ज्ञान­स्या­पी­त्यर्थः ।

ननु चक्षु­रा­दि­ज­न्य­मेव दर्श­न­स्प­र्श­ना­दि­वृ­त्ति­रूपं सत्यं ज्ञानं कुतो नोपेयते, तत्राह —
न हीति ।

तृतीयं शङ्कते —
न च तदिति ।

दूषयति —
दर्श­ना­दि­त्या­दिना ।
कामिन्या दर्शनात् तस्याः स्पर्शने तस्या एव पदा स्पर्शनात् पाणिना स्पर्शने सुख­वि­शे­ष­स्या­नु­भ­व­सि­द्ध­त्वे­नेति सम्बन्धः । भुज­ङ्ग­म­स्या­म­र्म­स्थले - पुच्छादौ स्पर्शनात मर्मस्थले - शिरसि स्पर्शने भय­वि­शे­ष­स्या­नु­भ­व­सि­द्ध­त्वे­नेति सम्बन्धः ।

स्वप्नेऽपीति ।
यथा जागरे सुख­वि­शे­ष­भ­य­वि­शे­षा­दे­र्द­र्श­न­स्प­र्श­ना­दि­रू­प­वृ­त्ति­वि­शे­ष­वि­शि­ष्ट­वि­ष­या­प­रो­क्ष­ज­न्य­त्वम्, न तु विष­या­प­रो­क्ष­मा­त्र­ज­न्य­त्वम्, तन्मा­त्र­स्यै­क­रू­प­त्वेन कार्य­वि­शे­षा­प्र­यो­ज­क­त्वात्, तथा स्वप्नेऽपि । तथा च तत्त­द्वि­ष­या­प­रो­क्ष­मा­त्रस्य साक्षिरूपस्य सत्यत्वेऽपि सुखभयादिजनकस्य प्राति­भा­सि­क­द­र्श­न­स्प­र्श­ना­दि­वृ­त्ति­वि­शे­ष­वि­शि­ष्टस्य तत्त­द्वि­ष­या­प­रो­क्षस्य प्राति­भा­सि­क­त्वात् प्राति­भा­सि­का­द्व्या­व­हा­रि­क­सु­ख­भ­या­दि­स­म्भव इत्यर्थः ।

एवं स्वप्नावस्थायां असत्यात् सत्या­र्थ­क्रि­या­मु­दा­हृत्य जागरेऽपि तामुदाहरति —
तथेति ।
प्रकाशनक्षमो यः तत्रत्यैः - अपवरकस्थैः पुरु­षा­न्त­रै­र्नि­री­क्ष्य­मा­णा­लोकः, तद्व­त्य­पी­त्यर्थः । अप­व­र­कं-स्व­ल्प­गृ­हम्, तत्र­त्या­लो­का­स­त्त्व­श­ङ्का­व्या­वृ­त्तये पुरु­षा­न्त­र­नि­री­क्ष्य­मा­ण­त्व­वि­शे­ष­णम् ।

दृष्टमित्येतत् प्रपञ्चयति —
तेनेति ।
सन्त­म­से­ने­त्यर्थः । अपिशब्दस्य तथा जागरेऽपीति सम्बन्धः ।

अन्ये त्विति ।
जग­त्स­त्य­त्व­वा­दि­भि­रपि हि अर्थ­क्रि­या­का­रि­त्व­मेव सत्यत्वमिति वक्तुं न शक्यते । अर्थ­क्रि­या­नु­त्प­त्ति­द­शायां घटा­दे­र­स­त्य­त्व­प्र­स­ङ्गात् । किं तु सत्त्व­म­र्थ­क्रि­या­प्र­यो­ज­क­मिति वक्तव्यम् ।

तथा च किं सत्त्व­म­र्थ­क्रि­या­का­र­ण­म­भि­प्रेतं, किं वा कारणतावच्छेदकम् ? नोभयथापीत्याह —
पानेत्यादिना ।
जलादिपदं जलत्वादेरपि सङ्ग्राहकं बोध्यम् ।

उपयोगीति ।
जलादिस्वरूपं कारणतया जलत्वादिस्वरूपं कार­ण­ता­व­च्छे­द­क­त­येति विभागः ।

मात्र­प­द­व्य­व­च्छे­द्य­माह —
न तद्नतमिति ।
सत्यत्वस्य जला­दि­स्व­रू­पा­ति­रि­क्त­तया कारणत्वाभावात् अतिप्रसक्ततया कार­ण­ता­व­च्छे­द­क­त्वा­भा­वा­च्चे­त्यर्थः ।

किं तेनेति ।
सत्य­त्वे­ने­त्यर्थः । तथा च सत्यत्वाभावेऽपि प्रप­ञ्च­स्या­र्थ­क्रि­या­का­रि­त्व­स­म्भ­वात् न मिथ्यात्वविरोध इति भावः ।

ननु - सत्त्वस्य तत्त­द­र्थ­क्रि­या­का­रि­ता­या­म­ति­प्र­स­क्त­त्वेऽ­प्य­र्थ­क्रि­या­का­रि­त्व­सा­मान्ये सत्त्व­म­न­ति­प्र­स­क्त­त्वा­द­व­च्छे­द­क­मेव, अन्यथा बाध­क­म­स्ती­त्या­श­ङ्कते —
न चैवंसतीति ।
सत्त्वस्य कार­ण­ता­सा­मा­न्या­न­व­च्छे­द­कत्वे सतीत्यर्थः ।

‘एवंसति प्रसङ्ग इति न च’ इत्यत्र हेतुमाह —
मरी­चि­को­द­का­दा­विति ।
मरु­भू­मि­सं­सृ­ष्टासु मरीचिकासु समारोपितं तोयं मरीचिकोदकं, तस्य तोयाभासत्वात् तत्र तोयत्वं नास्ति ।

कथं तर्हि ‘तोयमिदम्’ ‘उदकमिदम्’ इति शब्दो­ल्ले­खि­प्र­त्यय इत्याशङ्क्य तस्या­न्य­था­सि­द्धि­माह —
तद्वि­ष­य­क­भ्र­म­स्येति ।
मरी­चि­को­द­क­वि­ष­य­क­भ्र­म­स्ये­त्यर्थः । उदकशब्दोल्लेखी यः पूर्वा­नु­भ­वः­स­त्यो­द­क­वि­ष­यकः तज्ज­न्य­सं­स्का­र­ज­न्य­त्वा­न्म­री­चि­को­द­कस्य तत्प्रयुक्तं तच्छ­ब्दो­ल्ले­खि­त्व­मि­त्यर्थः ।

प्रयोजकेति ।
प्रसिद्धोदकस्य उचिता अर्थक्रिया पानादिरूपा, तस्या­मु­द­क­त्व­जातिः प्रयोजिका, उदकादन्यत्र पाना­दे­र­द­र्श­नात्; तथा प्रसि­द्ध­र­ज­ता­दे­रु­चि­ता­र्थ­क्रिया कटकादिलक्षणा, तत्र च रजतत्वादिकं प्रयोजकम्, मृदादौ कट­का­द्य­र्थ­क्रि­याऽ­द­र्श­नात्- इति भावः ।

तदप्रसङ्गादिति ।
प्रसि­द्धो­द­का­द्यु­चि­ता­र्थ­क्रि­या­का­रि­त्व­प्र­स­ङ्गा­भा­वा­दि­त्यर्थः ।

मरी­चि­को­द­का­दा­व­र्थ­क्रि­या­का­रि­त्व­प्र­यो­ज­क­जा­ति­म­भ्यु­प­ग­म्या­प्यु­क्ता­ति­प्र­सङ्गं परिहरति —
तत्रापीत्यादिना ।
मरी­चि­को­द­का­दा­व­पी­त्यर्थः ।

अन्यथेति ।
तत्र जल­त्वा­दि­जा­त्य­भावे सतीत्यर्थः ।

तत्रेति ।
मरी­चि­को­द­का­दा­वि­ष्ट­ता­व­च्छे­द­क­ज­ल­त्वा­दि­वै­शि­ष्ट्य­भानं विना तदर्थिनस्तत्र प्रवृत्तिर्न सम्भवतीति भावः ।

किं च शुक्तिरजतादौ सत्यरजतादौ च रज­त­त्वा­दि­जा­ते­रे­कस्या अभावे प्राति­भा­सि­का­ध्या­सेषु पूर्व­दृ­ष्ट­सा­जा­त्य­व्य­व­हारो भाष्यादिगतो न स्यात्, तदनुरोधेनापि तत्र जाति­र­ङ्गी­क­र्तव्या इत्याशयेनाह —
प्रातिभासिक इति ।

क्वचिदिति ।
दूरे मरी­चि­को­द­क­भ्र­मा­न­न्तरं स्नानाद्यर्थं समीपं गतस्य ‘नेदं जलं, मरीचिमात्रमिदं’ इति विशेषदर्शने सति जलाध्यासस्य स्वमूलाज्ञानेन सहैव नाशात् न ततोऽ­र्थ­क्रि­यो­त्प­त्ति­रा­पा­द­यितुं शक्येत्यर्थः ।

क्वचि­द­धि­ष्ठा­नेति ।
शुक्त्यादौ रज­ता­द्य­ध्या­सा­न­न्तरं यत्र विशेषदर्शनमस्ति तत्र पूर्वोक्ता रीतिः, यत्र तन्नास्ति तत्र तद­धि­ष्ठा­न­सा­मा­न्य­ज्ञा­न­रू­प­का­र­ण­ना­शेन रज­ता­द्य­ध्या­स­मा­त्र­ना­श­स­म्भ­वात् तत्रापि नार्थ­क्रि­यो­त्प­त्ति­रा­पा­द­यितुं शक्येत्यर्थः ।

‘स्वप्नवदिति ब्रूमः’ इत्या­दि­पू­र्व­ग्रन्थे प्राति­भा­सि­क­प­दा­र्था­ना­म­प्य­र्थ­क्रि­या­का­रि­त्वस्य दर्शितत्वात् उक्तातिप्रसङ्गे इष्टा­प­त्ति­र­पी­त्याह —
क्वचित्कासां चिदिति ।

इदानीं प्राति­भा­सि­के­ष्व­र्थ­क्रि­या­का­रि­त्व­रा­हि­त्य­मु­पे­त्यापि सत्यत्वं कारणतावच्छेदकं न वक्तव्यमित्याह —
मरीचिकोदकादीति ।
चशब्दोऽप्यर्थकः ।

श्रुतीति ।
मिथ्या­त्व­श्रु­ती­त्यर्थः । ‘सद्रू­पा­द्र­ज­तात् कटकादिकार्यं भवति तद्वि­ल­क्ष­णा­च्छु­क्ति­र­ज­तात् तन्न भवति’ इत्य­न्व­य­व्य­ति­रे­क­स­ह­कृ­त­प्र­त्य­क्षेण हि त्वया सत्त्वं अर्थ­क्रि­या­का­रि­ता­या­म­व­च्छे­द­क­तया ग्राह्यम् ।

तादृशं च सत्त्वं मिथ्या­त्व­वि­रु­द्ध­का­ल­त्र­या­बा­ध्य­त्व­रूपं न भवति, तस्य प्रत्य­क्षा­यो­ग्य­त्वात्, अतः अन्यदेव किंचि­त्त­द­व­च्छे­दकं वाच्य­मि­त्या­श­ये­नाह —
प्रत्य­क्षा­दि­नेति ।
अत्रा­दि­प­द­म­नु­मा­ना­दि­स­ङ्ग्र­हा­र्थम् । प्रत्य­क्ष­श्रु­ति­वि­रो­धेन अनुमानादेरपि प्रपञ्चे काल­त्र­या­बा­ध्य­त्व­रू­प­स­त्त्व­सा­ध­क­स्या­नु­द­या­देव तस्या­नु­मा­ना­दि­नापि दुर्ग्र­ह­त्व­मु­क्त­मिति बोध्यम् ।

रजतत्वादेरिति ।
व्यव­हा­र­का­ली­न­बा­ध­र­हि­त­र­ज­त­त्वा­दि­क­मा­दि­प­दार्थः ।

तस्मादिति ।
सत्य­त्व­स्या­र्थ­क्रियां प्रत्य­प्र­यो­ज­क­त्वा­दि­त्यर्थः ।