अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

ऐकात्म्यवादे सुखदुःखादिव्यवस्थोपपादनम्

तदभेदेति ।
आत्मा­भे­दे­त्यर्थः ।

कथं­श­ब्द­सू­चि­ता­म­नु­प­प­त्ति­माह —
ने हीति ।

तदतिरिक्तस्येति ।
विरु­द्ध­सु­ख­दुः­खा­द्या­श्र­या­ति­रि­क्तस्य कस्यचित् अह­म­नु­भ­वा­गो­च­र­स्ये­त्यर्थः । अन्तःकरणमेव बन्धाश्रयः अहमनुभवगोचरश्च, न त्वात्मा, तस्य कूटस्थत्वात् ।

तथाच आश्रयभेदादेव धर्मव्यवस्थेति समाधत्ते —
अत्र केचिदाहुरिति ।

मन एवेति ।
मनः-अन्तःकरणम् । कामसंकल्पादीनां तत्परिणामत्वात् सामानाधिकरण्यम् । विज्ञानम् - अन्तःकरणं तनुते - करोति यज्ञं - शास्त्रीयं कर्म । आदिपदेन ‘कामा येऽस्य हृदि श्रिताः’ [क.उ.६-१४] इत्या­दि­श्रु­ति­र्ग्राह्या ।

चिदात्मनः कूटस्थत्वे प्रमाणमाह —
असङ्ग इति ।

असङ्गो न हि सज्जते इति ।
सङ्गा­यो­ग्य­त्वा­दि­त्यर्थः । आदिपदेन ‘साक्षी चेता केवलो निर्गुणश्च’ [श्वे.उ.६-११] ‘अनश्नन्न न्योऽभिचाकशीति’ [मु.उ.३-१-१] इत्या­दि­श्रु­ति­स­ङ्ग्रहः ।

न चैवंसतीति ।
अन्तःकरणस्यैव बन्धाश्रयत्वे सतीत्यर्थः । ‘अहं करोमि, अहं सुखी, अहं दुःखी, अहमुपलभे’ इत्यादिरूपेण उप­ल­ब्धि­रू­प­चै­त­न्यस्य कर्तृ­त्व­सु­ख­दुः­खा­द्या­त्म­क­ब­न्ध­सा­मा­ना­धि­क­र­ण्य­म­नु­भू­यते, तद्विरोध इत्यर्थः ।

यथा इद­मं­श­ता­दा­त्म्ये­ना­ध्यस्ते रजते रजतत्वस्य इदं­त्व­सा­मा­ना­धि­क­र­ण्या­नु­भवः तद्वदिति समाधत्ते —
अन्तःकरणस्येति ।
तद्ध­र्मा­णा­मि­त्यत्र तत्पदमन्तः करणपरम् । एतदुक्तं भवति — आत्म­न­श्चै­त­न्य­स्व­रू­प­त्वेऽपि भेदकल्पनया चैत­न्य­मा­त्म­धर्मः । तथा च आत्मान्तः - कर­ण­यो­रै­क्या­ध्यासे सति तयोर्धर्माणां चैत­न्य­क­र्तृ­त्वा­दीनां सामानाधिकरण्यं सम्पद्यत इति न तदनुभवविरोध इति ।

चेतन इति ।
चैतन्याश्रय आत्मा संसारी - कर्तृ­त्वा­दि­ध­र्म­वान् न स्यादित्यर्थः ।

चेतनस्य स्वत­स्सं­सा­रा­श्र­य­त्वा­भा­वेऽपि बुद्धिनिष्ठस्य संसा­रा­श्र­य­त्वस्य साक्षि­णाऽ­नु­भू­य­मा­नस्य आत्म­न्या­रो­पो­प­पत्तेः आरो­पि­त­सं­सा­रा­श्र­य­त्व­म­स्तीति परिहरति —
कर्तृत्वादीति ।
अहङ्कारस्य चेतनेन सह ग्रन्थितुल्यो यस्ता­दा­त्म्य­रू­पोऽ­ध्यासः तद­धि­ष्ठा­न­त्व­मे­वे­त्यर्थः । तस्य - चेतनस्येत्यर्थः ।

संसार इति ।
संसा­रा­श्र­य­त्व­भ्रा­न्ति­प्र­यो­जक इत्यु­प­ग­मा­दि­त्यर्थः ।

तावतैवेति ।
उपा­धे­स्सं­सा­रा­श्र­य­त्व­मा­त्रे­णे­त्यर्थः । भीषणत्वं - भयहेतुत्वम्, तच्च सर्पधर्मः । अभिमानो भ्रान्तिः । न च अन्य­नि­ष्ठ­सं­सा­रा­श्र­य­त्व­स्या­त्म­न्या­रो­पेऽ­न्य­था­ख्या­ति­प्र­सङ्ग इति वाच्यम् । अनु­भू­य­मा­ना­रो­प­स्थले आरो­प्या­धि­ष्ठा­नयोः संस­र्ग­स्या­नि­र्व­च­नी­य­स्यो­त्प­त्त्यु­प­ग­मेन तदप्रसङ्गादिति भावः ।

एतदिति ।
बुद्धि­नि­ष्ठ­सं­सा­र­स्या­त्म­न्या­रो­पा­भि­प्रा­ये­णै­वे­त्यर्थः । बुद्धौ ध्यायन्त्यां आत्मा ध्यायतीव भाति, तस्यामेव लेलायन्त्यां - चलन्त्यां आत्मा चलतीव, न तु वस्तुतो ध्यानाद्याश्रय इति इवशब्दार्थः । ध्यानादिग्रहणं अशे­ष­बु­द्धि­ध­र्मो­प­ल­क्ष­णा­र्थम् । अहङ्कारेण कर्तृत्वाश्रयेण सह विमोहं तादा­त्म्या­ध्या­स­मा­प­न्न­स्सन् आत्मा स्वात्मानं ‘अहं कर्ता’ इति मन्यते । कर्तृत्वमननं अशे­ष­सं­सा­र­म­न­नो­प­ल­क्ष­णा­र्थम् ।

ननु बुद्धेः­स्व­त­स्सं­सा­रा­श्र­यत्वं चिदात्मनस्तु भ्रान्तिसिद्धं संसा­रा­श्र­य­त्व­मिति विभागाभ्युपगमे प्रतिशरीरं बुद्धि­भे­दा­त्त­द्ध­र्म­व्य­व­स्था­सि­द्धा­वपि प्रति­श­री­र­मा­त्म­भे­दा­भा­वा­त्त­द्ग­तस्य बन्धस्य व्यवस्था न सिद्ध्यतीति शङ्कते —
न चैकस्मिन्नेवेति ।
विचित्राणां सुख­दुः­खा­ना­मा­श्र­य­भू­तानि तत्त­द­न्तः­क­र­णानि, तेषा­मे­क­स्मि­न्ने­वा­त्म­न्य­ध्या­सा­द्धेतोः य आत्म­न्या­भि­मा­निकः सुखदुःखादिः, तस्य व्यवस्था न सिद्ध्य­ती­त्यर्थः ।

एवमपीति ।
बुद्धि­ध­र्म­व्य­व­स्था­सि­द्धा­व­पी­त्यर्थः ।

बन्धा­श्र­य­त्व­स्येव बुद्धिगतस्य पर­स्प­र­भे­दा­श्र­य­त्व­स्यापि आत्म­न्या­रो­पा­भ्यु­प­ग­मात् नाव्यवस्थेति परिहरति —
आध्यासिकेति ।

नन्वारोपितेन भेदेन कथं व्यव­स्थे­त्या­शङ्क्य, व्यव­स्था­प­नी­य­स्या­प्या­त्म­न्या­रो­पि­त­त्वात् नाव्य­व­स्था­प­कत्वं तादृ­श­भे­द­स्ये­त्याह —
यादृशमिति ।

आत्म­सा­क्षि­चै­त­न्य­यो­र­भे­देऽपि भेदं कल्पयित्वा कल्पि­त­ब­न्धा­श्र­य­स्या­त्मन एकत्वप्रयुक्तो दोषो निरस्तः. इदानीं साक्षिचैतन्यस्य सर्व­श­री­रे­ष्वे­क­त्व­प्र­युक्तं दोषमाशङ्क्य निराकरोति —
एतेनेति ।
वक्ष्य­मा­ण­हे­तु­ने­त्यर्थः ।

तदनुभव इति ।
सुखाद्यनुभव इत्यर्थः ।

सुखेति ।
देवदत्तस्य यस्सुखानुभवः स एव चेद्य­ज्ञ­द­त्त­स्यापि, तदा देवदत्तस्य सुखानुभवकाले तमेव सुखानुभवमादाय यज्ञदत्तस्यापि अहं सुखीति भोगप्रसङ्ग इत्यर्थः ।

यथा अन्तः­क­र­ण­ग­त­भे­द­स्या­त्म­न्या­रोपः, तथा साक्षि­चै­त­न्य­रूपे सुखाद्यनुभवेऽपि तद्ग­त­भे­दा­रो­पा­भ्यु­प­ग­मात् न भोगाव्यवस्थेति परिहरति —
तत्तदिति ।

भेदेनेति ।
तत्तदन्तः - करणभेदेन साक्षि­ण्या­रो­पि­तेन भेद­वि­शि­ष्ट­स्यै­वे­त्यर्थः । धान्येन धनवानित्यत्रेव तृतीया । साक्षि­ण्य­न्तः­क­र­ण­भे­दा­रोपे हेतुः तादा­त्म्या­प­त्त्येति ।

सर्व­श­री­रे­ष्वा­त्मन एकत्वे सुखादिव्यवस्था न स्यादिति पूर्व­वा­द्या­क्षेपे अन्यत् समाधानमाह —
अन्ये त्विति ।

पूर्वोक्तं बुद्धे­र्ब­न्धा­श्र­यत्वं प्रथमं दूषयति —
जडस्येति ।

अनुपपत्तेरिति ।
बन्धस्य चेत­न­ध­र्म­त्व­प्र­सि­द्धि­वि­रो­धा­दिति भावः ।

‘बुद्धेरेव कर्तृत्वं न चेतनस्य, तस्य कूटस्थत्वात्’ इति साङ्ख्य­म­त­नि­रा­क­र­ण­पू­र्वकं चेतनस्यैव कर्तृ­त्व­व्य­व­स्था­प­क­सू­त्रा­नु­सा­रा­च्चे­त्याह —
कर्तेति ।
चेतनः कर्ता भवितुमर्हति, तथासत्येव चेतनस्य कर्तृ­त्व­प्र­ति­पा­दकं ‘कर्ता विज्ञानात्मा पुरुषः’ इति शास्त्र­म­र्थ­व­द्भ­वति, अन्यथा तदनर्थकं स्यात् - इति सूत्रार्थः ।

चिदाभास इति ।
न तु साक्षा­च्चि­दा­त्मैव, तस्य कूटस्थत्वेन बन्ध­प­रि­णा­मि­त्वा­यो­गा­दिति भावः ।

चिदाभासस्य बन्धा­श्र­य­त्वेऽपि कथं व्यव­स्था­सिद्धिः, तत्राह —
तस्य चेति ।
बिम्ब­प्र­ति­बि­म्ब­यो­र­भे­देऽपि प्रत्यन्तःकरणं प्रतिबिम्बभेदो लभ्यते, उपाधिभेदेन तन्नि­रू­पि­त­प्र­ति­बि­म्बा­ना­मपि कल्पि­त­भे­दा­भ्यु­प­ग­मात् । तथापि प्रति­बि­म्ब­मि­थ्या­त्व­मत एव तस्य बन्धाश्रयत्वं स्वाभाविकं सम्भवतीति तन्मि­थ्या­त्व­म­त­मा­श्रि­तम् ।

न चैवमिति ।
बिम्ब­प्र­ति­बि­म्ब­यो­र्भे­दा­ङ्गी­कार इत्यर्थः । सत्यस्य बिम्बचैतन्यस्य ब्रह्म­भा­व­ल­क्ष­ण­मो­क्षा­श्र­यत्वे च सतीति शेषः ।

मुक्त्यन्वयिनो बिम्ब­भू­ता­व­च्छि­न्न­चै­त­न्यस्य स्वत­स्सं­सा­रा­श्र­य­त्वा­भा­वेऽपि भ्रान्ति­सि­द्धस्य तदाश्रयत्वस्य सम्भवात् न वैयधिकरण्यदोष इत्याह —
अस्येति ।

चिदा­भा­स­ग­त­ब­न्धस्य चिदा­त्म­न्य­ध्यासे चिदा­त्म­चि­दा­भा­स­यो­स्ता­दा­त्म्या­ध्यासं हेतुमाह —
अध्यस्ततयेति ।
अस्य चिदाभासस्य पर­मा­र्थ­जी­वेऽ­ध्य­स्त­त­येति सम्बन्धः ।

तस्य बन्ध इति ।
बन्धः-ब­न्धा­रो­प­हेतुः इत्यु­प­ग­मा­दि­त्यर्थः, यथा­श्रु­त­स्या­ध्या­सा­धि­ष्ठा­न­त्वस्य बन्ध­रू­प­त्वा­भा­वात् सुखादेरेव बन्धरूपत्वाच्च इति बोध्यम् ।

सर्वशरीरेषु चिदात्मन एकत्वेऽपि तस्य केवलस्य बन्धाश्रयत्वं नोपेयते, किं तु बुद्धि­वि­शि­ष्टस्य चिदात्मनः, तथा च बन्धाश्रयस्य विशिष्टस्य प्रतिशरीरं भेदात् न सुख­दुः­खा­दि­सा­ङ्क­र्य­मि­ति­मिति मतान्तरमाह —
अपरे त्विति ।

विशिष्टस्य भोक्तृत्वे मानमाह —
आत्मेति ।
आत्मशब्दो देहपरः । श्रुतौ आत्मा­न­मि­त्य­ध्या­हारः । इतिशब्दो द्विती­या­स­मा­ना­र्थकः । ततश्च देहे­न्द्रि­या­न्तः­क­र­ण­यु­क्त­मा­त्मानं भोक्ता­र­मा­हु­र्वि­द्वांस इत्यर्थः । ननु — देहस्य विशेषणतया भोक्तृकोटौ निवेशो न सम्भवति, तस्य आत्मनि भोगं प्रत्य­व­च्छे­द­क­तया उपकरणत्वात् । इन्द्रियाणामपि भोक्तृकोटौ निवेशो न सम्भवति, तेषा­मु­प­क­र­ण­मा­त्र­त्वात् स्वप्ने तेषामभावेऽपि भोगदर्शनाच्च ।

तस्मा­द्दे­हे­न्द्रि­यै­र्यु­क्त­स्या­त्मनो भोक्तृ­त्व­श्रु­ति­र­नु­प­पन्ना - इत्याशङ्क्य युक्तपदोदितं योगं यथायोग्यं दर्शयति —
सहकारित्वेनेति ।
आत्मनि तावत् काम­स­ङ्क­ल्पा­द­योऽ­नु­भू­यन्ते । ते च मनोधर्मत्वेन श्रुतिसिद्धाः ।

तथा च कामा­दि­म­न्म­न­स्ता­दात्म्यं विना आत्मनः कामा­द्या­श्र­य­त्वा­नु­प­पत्तेः तत्तादात्म्येन तद्विशिष्टस्य भोक्तृत्वं युक्त­मि­त्या­श­ये­नाह —
तादात्म्येनेति ।
ननु — बुद्धि­वि­शि­ष्टात्मा केव­ला­त्म­न­स्स­का­शा­द्भिन्नः । विशिष्टं केवलं न भवतीति प्रतीतेः, विशि­ष्ट­वृ­त्ति­के­व­ल­प्र­ति­यो­गि­क­भे­दस्य विशे­ष्य­वृ­त्ति­त्व­नि­य­मात् ।

तथा च विशि­ष्टा­त्म­ग­त­ब­न्धस्य विशे­ष्या­न्व­यि­त्वेऽपि मुक्त्य­न्व­यि­के­व­ल­चै­त­न्येऽ­न­न्व­यात् वैय­धि­क­र­ण्य­ता­द­व­स्थ्य­मिति, नेत्याह —
विशिष्टस्येति ।
विशि­ष्टा­न्त­र्ग­त­वि­शे­ष्यस्य केव­ला­द­न­ति­रे­का­दि­त्यर्थः । अयं भावः — लोके दण्ड­वि­शि­ष्ट­पु­रुषे केव­ल­पु­रु­षा­भे­दस्य प्रत्य­भि­ज्ञा­य­मा­न­त्वात् तत्प्र­त्य­भि­ज्ञाया बाधकाभावाच्च विशि­ष्टा­न्त­र्ग­त­वि­शे­ष्यस्य केवलस्य च स्वाभा­वि­क­मे­कत्वं विशि­ष्ट­त्वा­वि­शि­ष्ट­त्व­रू­प­भे­देन काल्पनिको भेदश्च कल्प्यते । तथा च विशि­ष्ट­ग­त­ब­न्धस्य विशेष्यान्वयिनः केव­ला­त्म­न्य­प्य­न्व­यः­सिद्ध इति ।

अञ्जसा बन्धमोक्षयोः सामा­ना­धि­क­र­ण्य­माह —
इतरे त्विति ।

स्फाटिकेति ।
यथा लौहित्याश्रयस्य जपाकुसुमादेः सन्निधानात् स्फटिके उपा­धि­ग­त­लौ­हि­त्या­पे­क्षया तत्प्र­ति­बि­म्ब­भू­तस्य लौहि­त्या­न्त­र­स्यो­त्पत्तिः, तथा चिदात्मनि बुद्ध्या­दि­ग­त­ब­न्धा­पे­क्षया अन्यस्य कर्तृ­त्वा­दि­ब­न्धस्य अध्या­सा­त्म­क­स्यो­प­ग­मा­दि­त्यर्थः । न च बुद्ध्यादौ साक्षि­णाऽ­नु­भू­य­मा­नस्य बन्धस्य चिदात्मनि संस­र्ग­मा­त्रा­ध्या­सो­प­ग­मेन वैय­धि­क­र­ण्य­श­ङ्का­प­रि­हा­र­स­म्भ­वात् तत्र च बुद्ध्या­दि­नि­ष्ठ­क­र्तृ­त्वा­दि­स­दृ­श­क­र्तृ­त्व­प्र­मु­ख­ब­न्धो­त्प­त्ति­क­ल्पनं न प्रामाणिकमिति वाच्यम् । ‘बुद्धेर्गुणेन ….. आराग्रमात्रो ह्यवरः’ [श्वे.उ. ५-८] इति श्रुतौ अवरशब्दितजीवस्य आरा­ग्र­मा­त्र­श­ब्दि­त­म­ल्प­प­रि­माणं बुद्धि­गु­ण­श­ब्दि­त­बु­द्धि­प­रि­मा­ण­हे­तु­क­मिति प्रतिपादनेन, तुल्यन्यायतया ‘कर्तृ­त्वा­दि­क­मपि बुद्धि­ध­र्म­स­दृ­श­मा­त्म­न्यु­त्प­द्यते’ इत्यस्यार्थस्य श्रुति­स­म्म­त­त्वेन प्रामाणिकत्वात् ।

न तस्येति ।
कर्तृ­त्वा­द्य­ध्या­सा­धि­ष्ठा­न­स्या­त्मन इत्यर्थः ।

मूलेति ।
परमतेनेदं दृष्टा­न्त­द्व­यम्, सिद्धान्ते मूला­व­च्छि­न्न­वृ­क्ष­स्या­ग्रा­व­च्छि­न्न­वृ­क्षस्य च काल्प­नि­क­भे­दा­भ्यु­प­ग­मे­नैव संयो­ग­त­द­भा­व­व्य­व­स्थो­प­ग­मात् श्रोत्रे­न्द्रि­यस्य दिगा­र­भ्य­त्वो­प­ग­मा­च्चेति बोध्यम् ।

तारेति ।
तार­श­ब्दो­प­ल­म्भ­क­त्व­म­न्द्र­श­ब्दो­प­ल­म्भ­क­त्वे­ष्ट­श­ब्दो­प­ल­म्भ­क­त्वा­नि­ष्ट­श­ब्दो­प­ल­म्भ­क­त्वा­दि­ल­क्ष­णस्य वैचित्र्यस्य दर्शनादित्यर्थः ।

यदि दृष्टा­न्त­यो­रु­पा­धि­भे­देन तदु­प­हि­त­वृ­क्षा­दि­भेदं परो ब्रूयात् तदा प्रकृतेऽपि तथाऽ­स्त्वि­त्या­श­ये­नाह —
एके त्विति ।

निष्कृष्ट इति ।
अन्तः­क­र­ण­वि­शि­ष्ट­वे­षात् निष्कृष्टे — तदुपहिते चिदा­त्म­नी­त्यर्थः ।

ननु सत्यभेद एव व्यवस्थाप्रयोजक इति, नेत्याह —
अकल्पितेति ।
घटादिभेदस्यापि सत्यत्वस्य अस्मा­क­म­स­म्म­त­त्वा­दि­त्यर्थः ।

ननु स्वाभाविकभेद एव व्यव­स्था­प्र­यो­जकः, न त्वौपाधिकभेदः - इत्याशङ्क्याह —
मणीति ।
मुखे हि मलि­न­म­णि­द­र्प­ण­कृ­तेन भेदेन श्याम­त्वा­व­दा­त­त्व­व्य­व­स्था­स­म्प्र­ति­पत्तेः, कृपा­ण­म­णि­म­य­स्त­म्भा­दि­कृ­तेन भेदेन वर्तृ­ल­त्व­दी­र्घ­भा­वा­दि­व्य­व­स्था­स­म्प्र­ति­पत्तेः — इत्यर्थः । न च — बिम्ब­प्र­ति­बि­म्ब­यो­र­भेदे स्वाभाविके खलु भेद औपाधिक इति सिद्ध्यति, तद्व­शा­द्व्य­वस्था च सिद्ध्यति, तयोरभेद एव कथं सिद्ध इति — वाच्यम् । तस्य प्रागेव साधितत्वादिति भावः ।

अवच्छेदपक्षे औपाधिकभेदस्य व्यव­स्था­प­क­त्व­स­म्प्र­ति­पत्तिं दर्शयति —
अङ्गुलीति ।