कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
ऐकात्म्यवादे सुखदुःखादिव्यवस्थोपपादनम्
तदभेदेति ।
आत्माभेदेत्यर्थः ।
कथंशब्दसूचितामनुपपत्तिमाह —
ने हीति ।
तदतिरिक्तस्येति ।
विरुद्धसुखदुःखाद्याश्रयातिरिक्तस्य कस्यचित् अहमनुभवागोचरस्येत्यर्थः । अन्तःकरणमेव बन्धाश्रयः अहमनुभवगोचरश्च, न त्वात्मा, तस्य कूटस्थत्वात् ।
तथाच आश्रयभेदादेव धर्मव्यवस्थेति समाधत्ते —
अत्र केचिदाहुरिति ।
मन एवेति ।
मनः-अन्तःकरणम् । कामसंकल्पादीनां तत्परिणामत्वात् सामानाधिकरण्यम् । विज्ञानम् - अन्तःकरणं तनुते - करोति यज्ञं - शास्त्रीयं कर्म । आदिपदेन ‘कामा येऽस्य हृदि श्रिताः’ [क.उ.६-१४] इत्यादिश्रुतिर्ग्राह्या ।
चिदात्मनः कूटस्थत्वे प्रमाणमाह —
असङ्ग इति ।
असङ्गो न हि सज्जते इति ।
सङ्गायोग्यत्वादित्यर्थः । आदिपदेन ‘साक्षी चेता केवलो निर्गुणश्च’ [श्वे.उ.६-११] ‘अनश्नन्न न्योऽभिचाकशीति’ [मु.उ.३-१-१] इत्यादिश्रुतिसङ्ग्रहः ।
न चैवंसतीति ।
अन्तःकरणस्यैव बन्धाश्रयत्वे सतीत्यर्थः । ‘अहं करोमि, अहं सुखी, अहं दुःखी, अहमुपलभे’ इत्यादिरूपेण उपलब्धिरूपचैतन्यस्य कर्तृत्वसुखदुःखाद्यात्मकबन्धसामानाधिकरण्यमनुभूयते, तद्विरोध इत्यर्थः ।
यथा इदमंशतादात्म्येनाध्यस्ते रजते रजतत्वस्य इदंत्वसामानाधिकरण्यानुभवः तद्वदिति समाधत्ते —
अन्तःकरणस्येति ।
तद्धर्माणामित्यत्र तत्पदमन्तः करणपरम् । एतदुक्तं भवति — आत्मनश्चैतन्यस्वरूपत्वेऽपि भेदकल्पनया चैतन्यमात्मधर्मः । तथा च आत्मान्तः - करणयोरैक्याध्यासे सति तयोर्धर्माणां चैतन्यकर्तृत्वादीनां सामानाधिकरण्यं सम्पद्यत इति न तदनुभवविरोध इति ।
चेतन इति ।
चैतन्याश्रय आत्मा संसारी - कर्तृत्वादिधर्मवान् न स्यादित्यर्थः ।
चेतनस्य स्वतस्संसाराश्रयत्वाभावेऽपि बुद्धिनिष्ठस्य संसाराश्रयत्वस्य साक्षिणाऽनुभूयमानस्य आत्मन्यारोपोपपत्तेः आरोपितसंसाराश्रयत्वमस्तीति परिहरति —
कर्तृत्वादीति ।
अहङ्कारस्य चेतनेन सह ग्रन्थितुल्यो यस्तादात्म्यरूपोऽध्यासः तदधिष्ठानत्वमेवेत्यर्थः । तस्य - चेतनस्येत्यर्थः ।
संसार इति ।
संसाराश्रयत्वभ्रान्तिप्रयोजक इत्युपगमादित्यर्थः ।
तावतैवेति ।
उपाधेस्संसाराश्रयत्वमात्रेणेत्यर्थः । भीषणत्वं - भयहेतुत्वम्, तच्च सर्पधर्मः । अभिमानो भ्रान्तिः । न च अन्यनिष्ठसंसाराश्रयत्वस्यात्मन्यारोपेऽन्यथाख्यातिप्रसङ्ग इति वाच्यम् । अनुभूयमानारोपस्थले आरोप्याधिष्ठानयोः संसर्गस्यानिर्वचनीयस्योत्पत्त्युपगमेन तदप्रसङ्गादिति भावः ।
एतदिति ।
बुद्धिनिष्ठसंसारस्यात्मन्यारोपाभिप्रायेणैवेत्यर्थः । बुद्धौ ध्यायन्त्यां आत्मा ध्यायतीव भाति, तस्यामेव लेलायन्त्यां - चलन्त्यां आत्मा चलतीव, न तु वस्तुतो ध्यानाद्याश्रय इति इवशब्दार्थः । ध्यानादिग्रहणं अशेषबुद्धिधर्मोपलक्षणार्थम् । अहङ्कारेण कर्तृत्वाश्रयेण सह विमोहं तादात्म्याध्यासमापन्नस्सन् आत्मा स्वात्मानं ‘अहं कर्ता’ इति मन्यते । कर्तृत्वमननं अशेषसंसारमननोपलक्षणार्थम् ।
ननु बुद्धेःस्वतस्संसाराश्रयत्वं चिदात्मनस्तु भ्रान्तिसिद्धं संसाराश्रयत्वमिति विभागाभ्युपगमे प्रतिशरीरं बुद्धिभेदात्तद्धर्मव्यवस्थासिद्धावपि प्रतिशरीरमात्मभेदाभावात्तद्गतस्य बन्धस्य व्यवस्था न सिद्ध्यतीति शङ्कते —
न चैकस्मिन्नेवेति ।
विचित्राणां सुखदुःखानामाश्रयभूतानि तत्तदन्तःकरणानि, तेषामेकस्मिन्नेवात्मन्यध्यासाद्धेतोः य आत्मन्याभिमानिकः सुखदुःखादिः, तस्य व्यवस्था न सिद्ध्यतीत्यर्थः ।
एवमपीति ।
बुद्धिधर्मव्यवस्थासिद्धावपीत्यर्थः ।
बन्धाश्रयत्वस्येव बुद्धिगतस्य परस्परभेदाश्रयत्वस्यापि आत्मन्यारोपाभ्युपगमात् नाव्यवस्थेति परिहरति —
आध्यासिकेति ।
नन्वारोपितेन भेदेन कथं व्यवस्थेत्याशङ्क्य, व्यवस्थापनीयस्याप्यात्मन्यारोपितत्वात् नाव्यवस्थापकत्वं तादृशभेदस्येत्याह —
यादृशमिति ।
आत्मसाक्षिचैतन्ययोरभेदेऽपि भेदं कल्पयित्वा कल्पितबन्धाश्रयस्यात्मन एकत्वप्रयुक्तो दोषो निरस्तः. इदानीं साक्षिचैतन्यस्य सर्वशरीरेष्वेकत्वप्रयुक्तं दोषमाशङ्क्य निराकरोति —
एतेनेति ।
वक्ष्यमाणहेतुनेत्यर्थः ।
तदनुभव इति ।
सुखाद्यनुभव इत्यर्थः ।
सुखेति ।
देवदत्तस्य यस्सुखानुभवः स एव चेद्यज्ञदत्तस्यापि, तदा देवदत्तस्य सुखानुभवकाले तमेव सुखानुभवमादाय यज्ञदत्तस्यापि अहं सुखीति भोगप्रसङ्ग इत्यर्थः ।
यथा अन्तःकरणगतभेदस्यात्मन्यारोपः, तथा साक्षिचैतन्यरूपे सुखाद्यनुभवेऽपि तद्गतभेदारोपाभ्युपगमात् न भोगाव्यवस्थेति परिहरति —
तत्तदिति ।
भेदेनेति ।
तत्तदन्तः - करणभेदेन साक्षिण्यारोपितेन भेदविशिष्टस्यैवेत्यर्थः । धान्येन धनवानित्यत्रेव तृतीया । साक्षिण्यन्तःकरणभेदारोपे हेतुः तादात्म्यापत्त्येति ।
सर्वशरीरेष्वात्मन एकत्वे सुखादिव्यवस्था न स्यादिति पूर्ववाद्याक्षेपे अन्यत् समाधानमाह —
अन्ये त्विति ।
पूर्वोक्तं बुद्धेर्बन्धाश्रयत्वं प्रथमं दूषयति —
जडस्येति ।
अनुपपत्तेरिति ।
बन्धस्य चेतनधर्मत्वप्रसिद्धिविरोधादिति भावः ।
‘बुद्धेरेव कर्तृत्वं न चेतनस्य, तस्य कूटस्थत्वात्’ इति साङ्ख्यमतनिराकरणपूर्वकं चेतनस्यैव कर्तृत्वव्यवस्थापकसूत्रानुसाराच्चेत्याह —
कर्तेति ।
चेतनः कर्ता भवितुमर्हति, तथासत्येव चेतनस्य कर्तृत्वप्रतिपादकं ‘कर्ता विज्ञानात्मा पुरुषः’ इति शास्त्रमर्थवद्भवति, अन्यथा तदनर्थकं स्यात् - इति सूत्रार्थः ।
चिदाभास इति ।
न तु साक्षाच्चिदात्मैव, तस्य कूटस्थत्वेन बन्धपरिणामित्वायोगादिति भावः ।
चिदाभासस्य बन्धाश्रयत्वेऽपि कथं व्यवस्थासिद्धिः, तत्राह —
तस्य चेति ।
बिम्बप्रतिबिम्बयोरभेदेऽपि प्रत्यन्तःकरणं प्रतिबिम्बभेदो लभ्यते, उपाधिभेदेन तन्निरूपितप्रतिबिम्बानामपि कल्पितभेदाभ्युपगमात् । तथापि प्रतिबिम्बमिथ्यात्वमत एव तस्य बन्धाश्रयत्वं स्वाभाविकं सम्भवतीति तन्मिथ्यात्वमतमाश्रितम् ।
न चैवमिति ।
बिम्बप्रतिबिम्बयोर्भेदाङ्गीकार इत्यर्थः । सत्यस्य बिम्बचैतन्यस्य ब्रह्मभावलक्षणमोक्षाश्रयत्वे च सतीति शेषः ।
मुक्त्यन्वयिनो बिम्बभूतावच्छिन्नचैतन्यस्य स्वतस्संसाराश्रयत्वाभावेऽपि भ्रान्तिसिद्धस्य तदाश्रयत्वस्य सम्भवात् न वैयधिकरण्यदोष इत्याह —
अस्येति ।
चिदाभासगतबन्धस्य चिदात्मन्यध्यासे चिदात्मचिदाभासयोस्तादात्म्याध्यासं हेतुमाह —
अध्यस्ततयेति ।
अस्य चिदाभासस्य परमार्थजीवेऽध्यस्ततयेति सम्बन्धः ।
तस्य बन्ध इति ।
बन्धः-बन्धारोपहेतुः इत्युपगमादित्यर्थः, यथाश्रुतस्याध्यासाधिष्ठानत्वस्य बन्धरूपत्वाभावात् सुखादेरेव बन्धरूपत्वाच्च इति बोध्यम् ।
सर्वशरीरेषु चिदात्मन एकत्वेऽपि तस्य केवलस्य बन्धाश्रयत्वं नोपेयते, किं तु बुद्धिविशिष्टस्य चिदात्मनः, तथा च बन्धाश्रयस्य विशिष्टस्य प्रतिशरीरं भेदात् न सुखदुःखादिसाङ्कर्यमितिमिति मतान्तरमाह —
अपरे त्विति ।
विशिष्टस्य भोक्तृत्वे मानमाह —
आत्मेति ।
आत्मशब्दो देहपरः । श्रुतौ आत्मानमित्यध्याहारः । इतिशब्दो द्वितीयासमानार्थकः । ततश्च देहेन्द्रियान्तःकरणयुक्तमात्मानं भोक्तारमाहुर्विद्वांस इत्यर्थः । ननु — देहस्य विशेषणतया भोक्तृकोटौ निवेशो न सम्भवति, तस्य आत्मनि भोगं प्रत्यवच्छेदकतया उपकरणत्वात् । इन्द्रियाणामपि भोक्तृकोटौ निवेशो न सम्भवति, तेषामुपकरणमात्रत्वात् स्वप्ने तेषामभावेऽपि भोगदर्शनाच्च ।
तस्माद्देहेन्द्रियैर्युक्तस्यात्मनो भोक्तृत्वश्रुतिरनुपपन्ना - इत्याशङ्क्य युक्तपदोदितं योगं यथायोग्यं दर्शयति —
सहकारित्वेनेति ।
आत्मनि तावत् कामसङ्कल्पादयोऽनुभूयन्ते । ते च मनोधर्मत्वेन श्रुतिसिद्धाः ।
तथा च कामादिमन्मनस्तादात्म्यं विना आत्मनः कामाद्याश्रयत्वानुपपत्तेः तत्तादात्म्येन तद्विशिष्टस्य भोक्तृत्वं युक्तमित्याशयेनाह —
तादात्म्येनेति ।
ननु — बुद्धिविशिष्टात्मा केवलात्मनस्सकाशाद्भिन्नः । विशिष्टं केवलं न भवतीति प्रतीतेः, विशिष्टवृत्तिकेवलप्रतियोगिकभेदस्य विशेष्यवृत्तित्वनियमात् ।
तथा च विशिष्टात्मगतबन्धस्य विशेष्यान्वयित्वेऽपि मुक्त्यन्वयिकेवलचैतन्येऽनन्वयात् वैयधिकरण्यतादवस्थ्यमिति, नेत्याह —
विशिष्टस्येति ।
विशिष्टान्तर्गतविशेष्यस्य केवलादनतिरेकादित्यर्थः । अयं भावः — लोके दण्डविशिष्टपुरुषे केवलपुरुषाभेदस्य प्रत्यभिज्ञायमानत्वात् तत्प्रत्यभिज्ञाया बाधकाभावाच्च विशिष्टान्तर्गतविशेष्यस्य केवलस्य च स्वाभाविकमेकत्वं विशिष्टत्वाविशिष्टत्वरूपभेदेन काल्पनिको भेदश्च कल्प्यते । तथा च विशिष्टगतबन्धस्य विशेष्यान्वयिनः केवलात्मन्यप्यन्वयःसिद्ध इति ।
अञ्जसा बन्धमोक्षयोः सामानाधिकरण्यमाह —
इतरे त्विति ।
स्फाटिकेति ।
यथा लौहित्याश्रयस्य जपाकुसुमादेः सन्निधानात् स्फटिके उपाधिगतलौहित्यापेक्षया तत्प्रतिबिम्बभूतस्य लौहित्यान्तरस्योत्पत्तिः, तथा चिदात्मनि बुद्ध्यादिगतबन्धापेक्षया अन्यस्य कर्तृत्वादिबन्धस्य अध्यासात्मकस्योपगमादित्यर्थः । न च बुद्ध्यादौ साक्षिणाऽनुभूयमानस्य बन्धस्य चिदात्मनि संसर्गमात्राध्यासोपगमेन वैयधिकरण्यशङ्कापरिहारसम्भवात् तत्र च बुद्ध्यादिनिष्ठकर्तृत्वादिसदृशकर्तृत्वप्रमुखबन्धोत्पत्तिकल्पनं न प्रामाणिकमिति वाच्यम् । ‘बुद्धेर्गुणेन ….. आराग्रमात्रो ह्यवरः’ [श्वे.उ. ५-८] इति श्रुतौ अवरशब्दितजीवस्य आराग्रमात्रशब्दितमल्पपरिमाणं बुद्धिगुणशब्दितबुद्धिपरिमाणहेतुकमिति प्रतिपादनेन, तुल्यन्यायतया ‘कर्तृत्वादिकमपि बुद्धिधर्मसदृशमात्मन्युत्पद्यते’ इत्यस्यार्थस्य श्रुतिसम्मतत्वेन प्रामाणिकत्वात् ।
न तस्येति ।
कर्तृत्वाद्यध्यासाधिष्ठानस्यात्मन इत्यर्थः ।
मूलेति ।
परमतेनेदं दृष्टान्तद्वयम्, सिद्धान्ते मूलावच्छिन्नवृक्षस्याग्रावच्छिन्नवृक्षस्य च काल्पनिकभेदाभ्युपगमेनैव संयोगतदभावव्यवस्थोपगमात् श्रोत्रेन्द्रियस्य दिगारभ्यत्वोपगमाच्चेति बोध्यम् ।
तारेति ।
तारशब्दोपलम्भकत्वमन्द्रशब्दोपलम्भकत्वेष्टशब्दोपलम्भकत्वानिष्टशब्दोपलम्भकत्वादिलक्षणस्य वैचित्र्यस्य दर्शनादित्यर्थः ।
यदि दृष्टान्तयोरुपाधिभेदेन तदुपहितवृक्षादिभेदं परो ब्रूयात् तदा प्रकृतेऽपि तथाऽस्त्वित्याशयेनाह —
एके त्विति ।
निष्कृष्ट इति ।
अन्तःकरणविशिष्टवेषात् निष्कृष्टे — तदुपहिते चिदात्मनीत्यर्थः ।
ननु सत्यभेद एव व्यवस्थाप्रयोजक इति, नेत्याह —
अकल्पितेति ।
घटादिभेदस्यापि सत्यत्वस्य अस्माकमसम्मतत्वादित्यर्थः ।
ननु स्वाभाविकभेद एव व्यवस्थाप्रयोजकः, न त्वौपाधिकभेदः - इत्याशङ्क्याह —
मणीति ।
मुखे हि मलिनमणिदर्पणकृतेन भेदेन श्यामत्वावदातत्वव्यवस्थासम्प्रतिपत्तेः, कृपाणमणिमयस्तम्भादिकृतेन भेदेन वर्तृलत्वदीर्घभावादिव्यवस्थासम्प्रतिपत्तेः — इत्यर्थः । न च — बिम्बप्रतिबिम्बयोरभेदे स्वाभाविके खलु भेद औपाधिक इति सिद्ध्यति, तद्वशाद्व्यवस्था च सिद्ध्यति, तयोरभेद एव कथं सिद्ध इति — वाच्यम् । तस्य प्रागेव साधितत्वादिति भावः ।
अवच्छेदपक्षे औपाधिकभेदस्य व्यवस्थापकत्वसम्प्रतिपत्तिं दर्शयति —
अङ्गुलीति ।