कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
शाब्दापरोक्षसमर्थनम्
ननु तथाऽपीति ।
शब्दस्य ब्रह्मसाक्षात्कारकरणत्वपक्षे श्रुतिभाष्यविरोधाभावेऽपि शब्दप्रमाणस्वभावविरोधात् न महावाक्यं ब्रह्मसाक्षात्कारे करणमित्यर्थः ।
शब्दस्वभावमनुरुध्यैव तस्यापरोक्षज्ञानकरणत्वं साधयति —
अत्र केचिदिति ।
प्रचयः-समूहः । प्रचयलब्धं यत् ब्रह्मण्यैकाग्र्यं, तद्वच्चित्तमेव दर्पणं, तदनुगृहीत इत्यर्थः ।
यथा चक्षुः स्वतः प्रतिबिम्बानुभवजननासमर्थमपि दर्पणानुगृहीतं सत् तदनुभवं जनयति तद्वदिति सूचयति —
चित्तदर्पणेति ।
शास्त्रीयेति ।
यथा आधानादिजनितसंस्काररहिताग्न्यधिकरणको होमस्तावत् अपूर्वं न जनयति, अग्न्यधिकरणकहोममात्रस्यापूर्वजननस्वभावाभावात् । शास्त्रीयसंस्कारविशिष्टाग्न्यधिकरणकहोमस्तु अपूर्वं जनयति, तद्वदित्यर्थः ।
ननु - दृष्टान्ते शास्त्रबलात्तथा स्वीक्रियते, प्रकृते तथा शास्त्रं नोपलभ्यते, इत्यत आह —
तरतीति ।
नन्वनया श्रुत्या चिदात्मन्यध्यस्तस्य शोकोपलक्षितकर्तृत्वाद्यध्यासस्य आत्मवेदनान्निवृत्तिरुच्यते, न तु शब्दस्यापरोक्षज्ञानकरणत्वं, इत्यत आह —
अपरोक्षस्येति ।
यथा दृष्टान्ते होमाधिकरणस्याग्नेराधानादिसंस्कृतत्वश्रवणान्यथानुपपत्त्या ‘शास्त्रीयाधानसंस्कारसहकृताग्न्यधिकरणको होमोऽपूर्वं जनयति’ इति कल्प्यते, तथा आत्मज्ञानस्यापरोक्षाध्यासनिवर्तकत्वश्रवणान्यथानुपपत्त्या आत्मज्ञानजनकवेदान्तानामेवापरोक्षज्ञानकरणत्वं कल्प्यते इत्यर्थः ।
अयोगादिति ।
सत्यपि श्रवणजनितपरोक्षज्ञाने कर्तृत्वाद्यध्यासनिवृत्त्यदर्शनात् परोक्षज्ञानमात्रेणाध्यासनिवृत्तौ मननादिविधिवैयर्थ्यप्रसङ्गाच्च अपरोक्षाध्यासरूपदिग्भ्रमादिषु दिग्याथात्म्यादिसाक्षात्कारं विना निवृत्त्यदर्शनाच्च इति भावः ।
ननु - कर्तृत्वाद्यध्यासनिवर्तकमधिष्ठानात्मतत्त्वसाक्षात्काररूपं ज्ञानं मनसैव सम्भवति, किं शब्दस्य तत्करणत्वकल्पनयेति, तत्राह —
औपनिषदे चेति ।
अन्तरिन्द्रियस्य मनसः प्रत्यक्षप्रमाणत्वेन ब्रह्मणस्तद्गम्यत्वे उपनिषदेकगम्यत्वप्रतिपादकश्रुतिबाधप्रसङ्ग इति भावः ।
नन्वौपनिषदत्वश्रुतिविरोधेन ब्रह्मणि मानान्तराप्रवृत्तौ शब्दस्वभावविरोधेन शब्दस्यापि ब्रह्मसाक्षात्कारजनने प्रवृत्तिर्न सम्भवति, तथा च ब्रह्मसाक्षात्कारकरणस्यैवालाभात् मास्तु तत्साक्षात्कार इति, अत आह —
शब्दादपीति ।
तथा च मोक्षशास्त्रप्रामाण्याय शब्दस्यैव साक्षात्कारकरणत्वं कल्पनीयमिति भावः ।
शास्त्रप्रामाण्यमनुपजीव्यापि शब्दस्यापरोक्षज्ञानकरणत्वं साधयति —
अन्ये त्विति ।
इदानीं - शब्दस्य परोक्षज्ञानजननस्वाभाव्यमेवासिद्धम्, अतो नित्यापरोक्षे ब्रह्मणि वेदान्तानां साक्षात्कारकरणत्वं निरपवादम् - इति मतान्तरमाह —
अपरे त्विति ।
नन्विन्द्रियजन्यज्ञानत्वादिकमेव ज्ञानस्यापरोक्षत्वं, ब्रह्मगोचरशाब्दज्ञानस्य तु तदभावान्नापरोक्ष्यं, इत्यत आह —
अन्यानिरुक्तेरिति ।
इन्द्रियजन्यज्ञानत्वादेश्च प्रथमपरिच्छेदावसाने निरस्तत्वादिति भावः । ननु - अर्थस्यापरोक्षत्वं अपरोक्षज्ञानविषयत्वम्, अन्यस्यानिर्वचनात् ।
तथाचान्योन्याश्रयः - अर्थस्यापरोक्षत्वज्ञप्तौ ज्ञानस्यापरोक्षत्वज्ञप्तिः, ज्ञानस्यापरोक्षत्वज्ञप्तौ चार्थस्यापरोक्षत्वज्ञप्तिरिति, इत्याशङ्क्य, अन्यानिर्वचनमसिद्धमित्यभिप्रेत्याह —
अर्थापरोक्षत्वं त्विति ।
तत्तदिति ।
तत्तत्प्रमातृचैतन्याभिन्नत्वं तस्य तस्य विषयस्य तं तं प्रमातारं प्रत्यपरोक्षत्वं, तत्तत्प्रमातृचैतन्याभिन्नार्थविषयकं ज्ञानं तत्तत्प्रमातुः तत्तत्प्रमातृचैतन्याभिन्ने विषये अपरोक्षज्ञानमित्यर्थः । न च अर्थापरोक्ष्यादावननुगम इति वाच्यम् । ज्ञानगतस्यानुगतापरोक्षत्वस्य जातिरूपस्योपाधिरूपस्य वा प्राक् निरस्तत्वेन तदभावादेव अर्थापरोक्ष्यस्याप्यनुगतस्यासम्भवेन तस्यादोषत्वादिति भावः ।
ननु प्रमातृचैतन्याभिन्नत्वरूपस्यार्थापरोक्ष्यस्य जडरूपापरोक्षार्थे अव्याप्तिः, चैतन्यजडयोरैक्यस्य बाधितत्वात्, इत्यत आह —
अन्तःकरणेति ।
तदभेदसत्त्वादिति ।
साक्षिशब्दितप्रमातृचैतन्याभेदसत्त्वादित्यर्थः । तथा च अर्थापरोक्ष्यनिर्वचने कल्पिताकल्पितसाधारणाभेदस्य विवक्षितत्वेन प्रमातृचैतन्यब्रह्मचैतन्ययोरिव प्रमातृचैतन्यजडयोः अकल्पिताभेदाभावेऽपि ‘जडं सत्’ इति साप्रानाधिकरण्यानुभवसिद्धकल्पिताभेदसत्त्वात् नाव्याप्तिरिति भावः ।
आन्तरजडपदार्थेषु प्रमातृचैतन्याभिन्नत्वमुपपाद्य बाह्यापरोक्षार्थेषु तदुपपादयति —
बाह्येति ।
अन्तःकरणतद्धर्माणां तदभेदसत्त्वात् घटादीनां तदभेदसत्त्वाच्च न क्वापि आन्तरार्थे बाह्यार्थे वा अव्याप्तिरिति सम्बन्धः ।
घटादीनां तत्तत्पुरुषीयचैतन्याभेदसत्त्वे हेतुमाह —
बाह्यचैतन्ये वृत्तिकृततत्तत्पुरुषीयचैतन्याभेदाभिव्यक्त्येति ।
ननु बाह्यचैतन्यस्य तत्तत्पुरुषीयचैतन्यस्य च वस्तुतः सदा अभेदसत्त्वेऽपि तदभिव्यक्तिः कुतः, इत्यत आह —
वृत्तिकृतेति ।
बाह्ये विषयावच्छिन्नचैतन्ये चक्षुरादिद्वारा निर्गताया वृत्तेः संसर्गे सति वृत्तिवृत्तिमतोरभेदात् वृत्तिमदन्तःकरणस्यापि तत्र संसर्गो लभ्यते, तथा च वृत्तिसंसृष्टबाह्यचैतन्यमेव अन्तःकरणसम्बन्धात् तत्तत्पुरुषीयचैतन्यं भवति, इत्यनेन प्रकारेण बाह्यचैतन्ये वृत्तिकृता तत्तत्पुरुषीयचैतन्याभेदाभिव्यक्तिर्भवतीत्यर्थः ।
ननु उक्तप्रकारेण बाह्यचैतन्यस्य प्रमातृचैतन्याभिन्नत्वसिद्धावपि घटादीनां प्रमातृचैतन्याभिन्नत्वमसिद्धमेव, इत्याशङ्क्याह —
बाह्यचैतन्ये कल्पितानामिति ।
बाह्यचैतन्ये तावत् घटादीनामभेदः प्रागेव सिद्धः, तत्र तेषां कल्पितत्वात् । तथा च बाह्यचैतन्यस्य वृत्तिकृततत्तत्पुरुषीयचैतन्याभेदाभिव्यक्तिदशायां घटादीनामपि तत्तत्पुरुषीयचैतन्याभिन्नत्वं सिद्ध्यतीति भावः ।
अर्थापरोक्ष्यलक्षणस्यातिव्याप्तिमाशङ्क्य निराकरोति —
न चेत्यादिना ।
धर्मेति ।
धर्मादीनामपि अधिष्ठानभूतप्रमातृचैतन्येन सह अभिन्नसत्ताकत्वरूपाभेदसत्त्वादिति भावः । अद्भूतत्वे सति प्रमातृचैतन्याभिन्नत्वं अर्थापरोक्ष्यम्, उद्भूतत्वं च फलबलकल्प्यःस्वभावविशेषः, स च धर्मादेर्नास्तीति परिहारार्थः ।
एवं शब्दस्य ब्रह्मसाक्षात्कारे करणत्वसिद्ध्यर्थं उपोद्धातं कृत्वा प्रकृतं दर्शयति —
एवं चेति ।
ज्ञानापरोक्ष्यस्य अर्थापरोक्ष्यप्रयुक्तत्वे सतीत्यर्थः ।
अभिन्नत्वादिति ।
जीवरूपप्रमातुः ब्रह्माभेदस्य श्रुतिसिद्धत्वादिति भावः ।
इदं च ब्रह्मणो जीवाभिन्नत्वं जडस्य प्रमातृचैतन्याभिन्नत्ववत् काल्पनिकं न भवति, किं तु वास्तवैक्यरूपं इत्याशयेनाह —
स्वत एवेति ।
ब्रह्मणो नित्यापरोक्षप्रमातृचैतन्याभेदे श्रुतिमाह —
यत्साक्षादिति ।
ब्रह्म जडवत् स्वव्यतिरिक्तप्रमातृचैतन्यमपेक्ष्य अपरोक्षं न भवति, किं तु साक्षात्प्रमातृचैतन्यस्वरूपत्वादेवापरोक्षं इत्यर्थः ।
ज्ञानापरोक्ष्यं अर्थापरोक्ष्यं च प्रकारान्तरेण निरूपयति —
अद्वैतविद्याचार्यास्त्विति ।
पूर्वोक्तं ज्ञानापरोक्ष्यलक्षणं अव्याप्त्या दूषयति —
नापरोक्षेति ।
स्वरूपसुखस्य आपरोक्ष्यरूपे स्वरूपज्ञाने अव्यापनादित्यर्थः ।
ननु आत्मस्वरूपसुखानुभवस्य साक्षिचैतन्यरूपस्य स्वप्रकाशत्वाभ्युपगमात् स्वप्रकाशत्वस्य च स्वविषयकत्वरूपत्वात् स्वरूपसुखविषयकत्वं तदपरोक्षरूपे स्वरूपज्ञाने निरपवादं, इत्यत आह —
स्वविषयत्वलक्षणेति ।
एकस्मिन् चैतन्ये विषयविषयिभावलक्षणसम्बन्धो न सम्भवति, सम्बन्धस्य द्विनिष्ठत्वात्, स्वविषयत्वं विनाऽपि स्वसत्ताप्रयुक्तसंशयाद्यगोचरत्वादिलक्षणस्य स्वप्रकाशत्वस्य आकरेषु निरूपितत्वादिति भावः ।
किं तर्हि ज्ञानापरोक्ष्यं इति पृच्छति —
किं त्विति ।
ज्ञानापरोक्ष्यनिर्वचनं प्रति दृष्टान्तव्याजेन प्रथमं अर्थापरोक्ष्यं निर्वक्ति —
यथेति ।
अर्थस्य स्वव्यवहारानुकूलचैतन्याभिन्नत्वं अपरोक्षत्वम् । अस्ति च अन्तःकरणतद्धर्माणां स्वव्यवहारानुकूलेन साक्षिचैतन्येन अभिन्नत्वं, तत्र तेषामध्यस्तत्वात् । तथा घटादीनामपि स्वव्यवहारानुकूलेन घटादिगोचरवृत्त्युपहितेन घटाद्यधिष्ठानचैतन्येन अभिन्नत्वमस्ति । तथा च ब्रह्मणोऽपि स्वव्यवहारानुकूलेन स्वगोचरवृत्त्युपहितेन साक्षिचैतन्येन अभिन्नत्वमस्तीति न क्वाप्यव्याप्तिः । घटाद्यर्थस्य चैतन्ये कल्पितस्य चैतन्याभिन्नत्वं सदा वर्तते अपरोक्षत्वं तु सदा नास्तीति स्वव्यवहारानुकूलेत्युक्तम् । घटादिगोचरवृत्तिदशायामेव घटाद्यधिष्ठानचैतन्यं घटादिव्यवहारानुकूलं भवति न सर्वदेति नातिप्रसङ्गः । ननु — तत्तद्व्यवहारानुकूलचैतन्यस्य तत्तदर्थाभिन्नत्वं अपरोक्षत्वमस्तु नाम ।
तथाऽपि ज्ञानापरोक्ष्यं नोक्तरूपमेव, वृत्तिरूपज्ञानस्य चैतन्यापेक्षया भिन्नत्वात्, इत्यत आह —
तथाचेति ।
चैतन्यस्यैव तत्तदर्थव्यवहारानुकूलत्वे विवक्षिते सतीत्यर्थः । तथा च ‘ज्ञानापरोक्ष्यम्’ इत्यत्र ज्ञानपदं चैतन्यपरमेव न वृत्तिज्ञानपरमिति नानुक्तिदोष इति भावः ।
‘तत्तदर्थव्यवहारानुकूलत्वे सति तत्तदर्थाभिन्नत्वरूपं ज्ञानापरोक्षत्वं चैतन्यधर्म एव’ इत्यत्र युक्तिमाह —
अत एवेति ।
चैतन्यधर्मत्वाभ्युपगमादेवेत्यर्थः । तस्य वृत्तिधर्मत्वे तु सुखदुःखादिगोचरापरोक्षवृत्त्यनङ्गीकारात् सुखदुःखादिभासकसाक्षिचैतन्ये वृत्तिधर्मस्यापरोक्ष्यस्य असम्भवाच्च सुखदुःखादेरपरोक्षत्वानुभवविरोधः स्यादिति भावः । लक्षणे सत्यन्तं वह्निगोचरानुमितिवृत्त्युपहिते जीवचैतन्ये वह्निव्यवहारानुकूले गतमिति तत्रातिव्याप्तिवारणाय विशेष्यम् । अनुमितिवृत्तेः विषयदेशे गमनाभावेन तद्वृत्त्यवच्छिन्नचैतन्यस्य न वह्न्यभिन्नत्वमिति नातिव्याप्तिः । घटादिगोचरवृत्त्यभावदशायां घटाद्यवच्छिन्नचैतन्ये घटाद्यपरोक्षत्वरहिते घटाद्यर्थाभिन्नत्वमस्तीति तद्वारणाय सत्यन्तम् । तदा तस्य चैतन्यस्य आवृतत्वेन घटादिव्यवहारानुकूलत्वाभावात् नातिव्याप्तिरिति मन्तव्यम् ।
न चेति ।
ज्ञानापरोक्ष्यस्य चैतन्यधर्मत्वे घटादिगोचरवृत्तौ ‘घटं साक्षात्करोमि’ इत्यादिप्रकारेणापरोक्षत्वानुभवविरोध इत्यर्थः ।
उपपत्तेरिति ।
वृत्तिचैतन्ययोस्तादात्म्येन वृत्तिसाक्षात्कारत्वानुभवस्य चैतन्यगतापरोक्ष्यविषयकत्वोपपत्तेरित्यर्थः । ननु — हृदयनाडीधर्मादिगोचरशाब्दवृत्तिः अन्तःकरणे शरीरव्यापिनि जायमाना दैवयोगात् हृदयनाड्याद्यवच्छिन्नान्तःकरणप्रदेशे यदि जायेत, तदा हृदयादिरूपविषयावच्छिन्नचैतन्यस्य हृदयादिगोचरशाब्दवृत्त्यवच्छिन्नस्य च अभेदाभिव्यक्तिरपरिहार्या । घटादिस्थले वृत्तेर्विषयसंसर्गे सति वृत्तिविषयावच्छिन्नचैतन्ययोरभेदाभिव्यक्तिस्वीकारात् ।
तथा च हृदयादिगोचरशाब्दानुमित्यादिवृत्त्यवच्छिन्नचैतन्यरूपे परोक्षज्ञाने हृदयाद्यर्थाभिन्ने हृदयादिव्यवहारानुकूले ज्ञानापरोक्ष्यलक्षणमतिव्याप्तम्, तथा हृदयादिरूपे परोक्षार्थे स्वव्यवहारानुकूलशाब्दादिवृत्त्यवच्छिन्नचैतन्याभिन्ने अर्थापरोक्ष्यलक्षणमतिव्याप्तं इति शङ्कते —
ननूक्तमिति ।
ययोश्चैतन्ययोरभेदाभिव्यक्तिरिष्यते, तयोरुभयोरप्यानावृतत्वमपेक्षितम्, अन्यतरचैतन्यस्यावरणदशायां तयोरभेदस्य प्रत्यक्षत्वलक्षणाभिव्यक्त्ययोगात् । तथा च हृदयादिगोचरशाब्दवृत्तिस्थले नातिव्याप्तिः ।
तत्र विषयचैतन्यस्यावृतत्वात् - इति परिहरति —
न परोक्षवृत्तेरिति ।
आपरोक्ष्याप्रसक्तेरिति ।
परोक्षहृदयादिविषयस्य हृदयादिगोचरशाब्दवृत्त्यवच्छिन्नचैतन्यरूपपरोक्षज्ञानस्य च इति शेषः । तथा च हृदयादिगोचरशाब्दवृत्त्यवच्छिन्नचैतन्यरूपपरोक्षज्ञानस्य हृदयादिव्यवहारानुकूलत्वे सत्यपि हृदयादिविषयेण सह अभिव्यक्ताभेदाभावात् अभिव्यक्ततत्तदर्थाभिन्नत्वे सति तत्तदर्थव्यवहारानुकूलज्ञानत्वलक्षणं ज्ञानापरोक्ष्यं नास्ति, तथा हृदयाद्यर्थस्यापि स्वव्यवहारानुकूलशाब्दवृत्त्यवच्छिन्नसाक्षिचैतन्याभेदसत्त्वेऽपि तदभेदाभिव्यक्त्यभावेन स्वव्यवहारानुकूलचैतन्याभेदाभिव्यक्तिशालित्वरूपमर्थापरोक्ष्यं नास्ति इत्यर्थः । न च ‘अहं सुखी दुःखी’ इत्याकारके सुखादिसाक्षिणि सुखदुःखादिरूपविषयाभेदो विद्यमानोऽपि नाभिव्यज्यते, सुखादिसाक्षिणो जीवस्य सुखादेश्च आधाराधेयभावप्रतीतेः । तथा च सुखदुःखादिप्रत्यक्षे अभिव्यक्तविषयाभेदाभावात् अव्याप्तिरिति-वाच्यम् । घटादिप्रत्यक्षरूपे घटादिस्फुरणे ‘घटः स्फुरति’ ‘पटः स्फुरति’ इत्याद्याकारकानुभवमादाय घटाद्यर्थाभेदाभिव्यक्तिमत्त्वस्येव ‘सुखं स्फुरति’ ‘दुःखं स्फुरति’ इत्याद्याकारकानुभवमादायैव सुखदुःखादिप्रत्यक्षे सुखाद्यर्थाभेदाभिव्यक्तिमत्त्वसत्त्वात् । न च - घटःस्फुरति - इत्यनुभवे घटस्य स्फुरणाश्रयत्वमेव भाति, न तु स्फुरणाभेदः - इति वाच्यम् । ‘घटः-स्फुरति’ इति प्रयोगे ‘देवदत्तो गच्छति’ इत्यत्र ‘गमनकर्त्रभिन्नो देवदत्तः’ इति वाक्यार्थवत् ‘स्फुरणाश्रयाभिन्नो घटः’ इति वाक्यार्थस्य वक्तव्यतया ‘घटःस्फुरति’ इतिप्रयोगमूलभूते ‘घटःस्फुरति’ इत्यनुभवेऽपि स्फुरणाश्रयभूतचिदात्माभिन्नतया घटस्य भानावश्यभावात् । न च घटस्य स्फुरणाश्रयाभेदाभिव्यक्तावपि स्फुरणाभेदाभिव्यक्तिः अद्यापि नोपपादितैवेति वाच्यम् । ‘घटस्यस्वरूपम्’ इति प्रत्यक्षं हि घटमेव घटस्य स्वरूपतया यथा विषयीकरोति, तथा ‘घटःस्फुरति’ इति प्रत्यक्षमपि घटादिवृत्तिदशायां घटाद्यधिष्ठानभूतमनावृतचिदात्मानमेव स्वप्रकाशचिदात्माश्रितस्फुरणस्वरूपेण विषयीकरोति, इत्युपगमेन घटेस्फुरणाश्रयाभेदभानस्यैव स्फुरणाभेदभानरूपत्वात् । एतदुक्तं भवति — ‘घटस्य स्वरूपम्’ इति शब्दप्रयोग एव घटतत्स्वरूपयोर्भेदो भासते, न तु तन्मूलभूते ‘घटस्य स्वरूपम्’ इति प्रत्यक्षे । अन्यथा तत्प्रत्यक्षस्य भ्रमत्वप्रसङ्गात्, घटतत्स्वरूपयोर्भेदाभावात् । न च तस्य भ्रमत्वमभ्युपगन्तुं शक्यते, बाधकाभावात् । एवं ‘स्फुरति’ इतिशब्दप्रयोग एव स्वप्रकाशात्मनः स्फुरणतदाश्रयभावेन भेदभानं, न तु ‘स्फुरति’ इतिप्रत्यक्षे, तत्र स्फुरणद्वित्वानुपलम्भात् इति । न च ब्रह्मगोचरशाब्दवृत्तेः विषयसंसृष्टाया विषयगताज्ञाननिवर्तनक्षमत्वदर्शनेन हृदयादिगोचरशाब्दवृत्तेरपि विषयसंसर्गाविशेषे कथं तस्याः स्वविषयचैतन्यगताज्ञाननिवर्तनक्षमत्वं नेति वाच्यम् । हृदयादिगोचरशाब्दवृत्तेः सत्यपि विषयसंसर्गे तस्यां वृत्तौ अज्ञाननिवर्तकत्वप्रयोजकाभावेन अज्ञानानिवर्तकत्वस्य प्रथमपरिच्छेदावसाने दर्शितत्वादिति भावः ।
अर्थस्य स्वव्यवहारानुकूलचैतन्याभेदाभिव्यक्तिमत्त्वमेव आपरोक्ष्यं, न तु तादृशाभेदवत्त्वमात्रम् — इत्यत्र लिङ्गमाह —
अत एवेति ।
अभेदाभिव्यक्तेरेवापरोक्षत्वप्रयोजकत्वस्वीकारादेवेत्यर्थः ।
संसारेति ।
तत्त्वसाक्षात्कारात् पूर्वकाले इत्यर्थः । ‘जीवस्य ब्रह्माभेदे सत्यपि’ इत्यनेन ब्रह्मणः स्वव्यवहारानुकूलजीवचैतन्याभिन्नत्वे सत्यपि इत्यर्थो विवक्षितः । तथा च संसारदशायां स्वव्यवहारानुकूलजीवचैतन्याभिन्नस्यापि ब्रह्मणो जीवं प्रत्यपरोक्षत्वाभावः तयोरभेदाभिव्यक्त्यभावादेवेति वक्तव्यतया अभेदाभिव्यक्तेरापरोक्ष्यप्रयोजकत्वं युक्तमिति भावः ।
न चैवमिति ।
अज्ञानकृतभेदस्याभेदाभिव्यक्तिप्रतिबन्धकत्वे इत्यर्थः ।
असम्भवादिति ।
‘जीवं साक्षात्करोमि’ ‘जीवो ममापरोक्ष’ इति जीवगोचरव्यवहारानुकूलं ज्ञानं ब्रह्मणो मायावृत्त्युपहितं ब्रह्मचैतन्यमेव । तथा च ब्रह्मकर्तृकव्यवहारविषयस्य जीवस्य ब्रह्मकर्तृकव्यवहारानुकूलतादृशब्रह्मचैतन्याभिन्नत्वसत्त्वेऽपि अभिव्यक्ताभेदशालित्वाभावात् जीवस्य ब्रह्म प्रत्यपरोक्षत्वं न सम्भवति । न च - ब्रह्मणो जीवगोचरापरोक्षज्ञानासम्भवेऽपि न सर्वज्ञत्वभङ्गः, जीवगोचरपरोक्षज्ञानमात्रेणापि तत्सम्भवात् इति वाच्यम्, ईश्वरस्य परोक्षज्ञानानङ्गीकारादिति भावः । अज्ञानं हि जीवधर्मिकब्रह्मप्रतियोगिकभेदप्रयोजकम्, जीवस्य ‘नाहं ब्रह्म’ इति ब्रह्मभेदानुभवसत्त्वात् । न तु ब्रह्मधर्मिकजीवप्रतियोगिकभेदप्रयोजकम्, ब्रह्मणो ‘नाहं जीवः’ इत्यनुभवे मानाभावात् ।
तथा च ब्रह्म प्रति जीवस्य ब्रह्माभेदाभिव्यक्तिप्रतिबन्धकस्य अज्ञानकृतभेदस्य अभावात् नोक्तदोष इति परिहरति —
अज्ञानस्येति ।
अनावारकतयेति ।
ईश्वरस्य ‘अहमज्ञ’ इत्यनुभवे मानाभावात् अज्ञानं ईश्वरं प्रति जीवावारकं न भवति । न च ईश्वरस्यापि लीलाविग्रहपूर्वकव्यवहारकाले तदीयेनैव वचनेन तस्याज्ञत्वानुभवोऽस्तीति गम्यत इति वाच्यम् । तदीयस्य तदीयाज्ञत्वगमकवचनस्य अन्यथासिद्धेः चतुर्थपरिच्छेदे वक्ष्यमाणत्वादिति भावः ।
तमिति ।
ईश्वरं प्रति जीवप्रतियोगिकभेदाप्रयोजकत्वादित्यर्थः ।
तं प्रति जीवानावारकस्यापि जीवभेदापादकत्वं किं न स्यात्, इत्यत आह —
यं प्रतीति ।
यं जीवं प्रति यदज्ञानं विषयचैतन्यावारकं तं प्रत्येव तस्याज्ञानस्य स्वाश्रयभूतविषयचैतन्यप्रतियोगिकभेदापादकत्वाभ्युपगमात् इत्यर्थः ।
उक्तव्यवस्थायां नियामकमाह —
अत एवेति ।
‘यं प्रति यदज्ञानं’ इत्यादिव्यवस्थाभ्युपगमादेव चैत्रस्य घटापरोक्ष्यानुभवानुपपत्तिरपि नेति सम्बन्धः । घटावच्छिन्नचैतन्ये चैत्रं प्रति घटचैतन्यावारकमज्ञानं यथा वर्तते, तथा मैत्रं प्रत्यपि घटचैतन्यावारकमज्ञानं तत्रास्ति । तथा च चैत्रीयघटज्ञानेन चैत्रस्य घटाज्ञाने चैत्रं प्रति स्वाश्रयभूतविषयचैतन्यप्रतियोगिकभेदापादके निवृत्ते सति चैत्रीयघटज्ञानेनानिवृत्तं घटचैतन्यगतं मैत्रं प्रति घटावारकाज्ञानं मैत्रं प्रत्येव स्वाश्रयभूतघटचैतन्यप्रतियोगिकभेदापादकं, न तु मैत्राज्ञानं चैत्रं प्रति घटचैतन्यानावारकमपि चैत्रं प्रति स्वाश्रयभूतघटचैतन्यप्रतियोगिकभेदापादकम् । तथासति चैत्रीयघटज्ञानेन चैत्राज्ञाने निवृत्ते सति तत्कृतभेदनिवृत्तावपि चैत्रस्य घटचैतन्यस्य च मैत्राज्ञानकृतभेदसत्त्वेन अभेदाभिव्यक्त्यभावात् चैत्रस्य घटापरोक्ष्यानुभवानुपपत्तिरेव स्यात् । अतो मैत्राज्ञानं मैत्रं प्रतीव चैत्रं प्रति स्वाश्रयभेदापादकं न भवति चैत्रं प्रति स्वाश्रयचैतन्यानावारकत्वात् इति वक्तव्यम्, तथा च उक्तव्यवस्था सिद्धेत्यर्थः । ननु — ‘अपरोक्षज्ञानमज्ञाननिवर्तकम्’ इति रीत्या ज्ञानस्याज्ञाननिवर्तकत्वे अपरोक्षत्वं प्रयोजकमिति वक्तुं न शक्यते, ज्ञानगतापरोक्षत्वस्यैवाज्ञाननिवृत्त्यधीनत्वात् । न च मास्तु ज्ञानापरोक्ष्यस्याज्ञाननिवृत्तिप्रयोजकत्वं इति वाच्यम् ।
तथासति ज्ञानमात्रस्याज्ञाननिवर्तकत्वापत्त्या परोक्षज्ञानस्याप्यज्ञाननिवर्तकत्वप्रसङ्गात् इत्याशयेन शङ्कते —
नन्वेवमिति ।
एवंशब्दार्थमेवाह —
वृत्तीति ।
वृत्त्यवच्छिन्नचैतन्यरूपे ज्ञाने घटादिरूपविषये च वृत्त्यवच्छिन्नचैतन्यविषयावच्छिन्नचैतन्ययोरभेदाभिव्यक्तिघटितस्येत्यर्थः ।
अज्ञाननिवृत्तिप्रयोज्यत्व इति ।
प्रमातारं प्रति विषयचैतन्यावरणद्वारा विषयचैतन्यप्रतियोगिकभेदापादकस्य अज्ञानस्य निवृत्तिं विना अर्थस्य ज्ञानस्य वा आपरोक्ष्यासम्भवस्योक्तत्वात् आपरोक्ष्यस्य अज्ञाननिवृत्तिप्रयोज्यत्वमित्यर्थः ।
ज्ञानस्याज्ञाननिवर्तकतायां आपरोक्ष्यस्य प्रयोजकत्वाभावेऽपि न हानिः, प्रयोजकान्तरस्य प्रथमपरिच्छेदान्ते दर्शितत्वात् - इत्याशयेन परिहरति —
नेति ।
तथात्वादिति ।
सन्निकर्षरूपकारणमहिम्ना विषयसंसृष्टतयैवोत्पद्यमानत्वात् इत्यर्थः । अनुमित्यादिवृत्तीनामतथात्वेनातिप्रसङ्गाभावाच्च इत्यपि द्रष्टव्यम् ।
ननु अनुमेयवह्न्यादिगोचरानुमितिवृत्तेरिव ब्रह्मगोचरशाब्दवृत्तेरपि स्वविषयभूतेन ब्रह्मचैतन्येन संसर्गाभावात् मूलाज्ञानानिवर्तकत्वं न स्यात्, तथा च तत्त्वज्ञानानन्तरमपि ब्रह्मापरोक्ष्यं न स्यात्, इत्यत आह —
एवं चेति ।
एवमेवेत्यर्थः । ऐन्द्रियकवृत्तिवदेवेति यावत् ।
ब्रह्मगोचरवृत्तेः स्वविषयसंसर्गनियमे कारणमाह —
सर्वोपादानभूतेति ।
जायमानस्य सर्वस्य ब्रह्मसंसर्गनियमे सति ब्रह्मगोचरवृत्तेः स्वविषयसंसर्गनियमे किं वक्तव्यं इत्याशयेन सर्वोपादानेत्युक्तम् । कार्यस्योपादानसंसर्गनियमात् । तथा च ब्रह्मगोचरवृत्तेर्नानुमेयवह्न्यादिगोचरानुमितिवृत्तितुल्यता इति भावः ।
आपरोक्ष्यं चेति ।
ननु ज्ञानापरोक्ष्यस्याज्ञाननिवृत्तावप्रयोजकत्वमते वेदान्तजन्यज्ञानस्यापरोक्षत्वप्रसाधनं अस्मिन् शाब्दापरोक्षवादे व्यर्थमिति चेत्, न — ‘अज्ञाननिवर्तकज्ञानमपरोक्षरूपं’ इति नियमस्य चक्षुरादिजन्यज्ञानेषु दृष्टस्य ब्रह्माज्ञाननिवर्तके ब्रह्मगोचरशाब्दज्ञाने व्यभिचारवारणार्थतया तत्साधनस्यार्थवत्त्वोपपत्तेः, मूलाज्ञाननिवर्तके ब्रह्मगोचरशाब्दज्ञाने आपरोक्ष्यस्य ‘तद्धैतत्पश्यन्’ इत्यादिश्रुत्या ‘ब्रह्म साक्षात्करोमि’ इति विद्वदनुभवेन च सिद्धस्य तत्र तत्प्रसाधनं विना अनुपपत्तेश्च इति भावः ।
घटादौ घटादिगोचरवृत्तिकाल एवापरोक्ष्यं, तद्वृत्त्युपरमे तु पुनरज्ञानान्तरकृतभेदप्राप्त्या स्वव्यवहारानुकूलचैतन्याभेदाभिव्यक्त्यभावात् नापरोक्ष्यं, ब्रह्मणि तु मूलाज्ञाननिवृत्तौ पुनरावरणकृतभेदाप्रसक्त्या ब्रह्मज्ञानानन्तरं सदैवापरोक्ष्यं - इति विशेषं सूचयति —
तरामिति ।
नन्वेवमध्ययनगृहीतेति ।
‘नियमेन यत् ज्ञानं विषयसंसृष्टतयोदेति तज्ज्ञानं अज्ञानं निवर्तयत्येव’ इति नियमोपगमे सतीति एवंशब्दार्थः । आपातज्ञानस्यापि स्वविषयब्रह्मसंसर्गितयैवोत्पन्नत्वात् इति भावः ।
सत्तानिश्चयरूपत्वमपि निवर्तकज्ञानविशेषणं, अतो नोक्तातिप्रसङ्गः - इति शङ्कते —
न च तदिति ।
विचारप्राचीनं अध्ययनगृहीतवेदान्तजन्यज्ञानं तच्छब्दार्थः ।
विशेषणमभ्युपगम्याप्यतिप्रसङ्गमाह —
तथापीति ।
अप्रतिबद्धत्वमपि निवर्तकज्ञानविशेषणं, अतो नोक्तातिप्रसङ्गोऽपीति समाधत्ते —
न सत्यपीति ।
ननु - मननादेः विक्षेपशब्दितासम्भावनाविपरीतभावनानिवृत्त्यर्थत्वे, यस्य विद्याधिकारिणो जन्मान्तरीयमननादिसहितश्रवणानुष्ठानेन समस्तो विक्षेपदोषो निरस्तः तस्य उपदेशमात्रेणापि सत्तानिश्चयरूपमप्रतिबद्धं च ब्रह्मज्ञानं जायते ।
तथा च तस्य इह जन्मनि श्रवणमननाद्यनुष्ठानं विनाऽपि मूलाज्ञाननिवृत्तिर्ब्रह्मापरोक्ष्यं च स्यात्, इत्यत आह —
भवान्तरीयेति ।
तथा च इष्टापत्तिरिति भावः ।
अथैवमपीति ।
विक्षेपदोषनिवृत्त्यर्थं मननाद्यपेक्षायामपीत्यर्थः । कृतनिदिध्यासनस्याधिकारिणो घटादिज्ञानेनापि मूलाज्ञाननिवृत्तिः किं न स्यात्, घटादिवृत्तेरपि मूलाज्ञानविषयचैतन्यविषयकत्वाविशेषात् — इत्याक्षेपाभिप्रायः ।
मूलाज्ञानघटज्ञानयोः समानविषयकत्वमसिद्धमिति सिद्धान्तिनश्शङ्कां अनूद्य निराकरोति —
न च तस्येति ।
घटादिज्ञानस्येत्यर्थः ।
तत इति ।
घटादिज्ञानादित्यर्थः ।
‘घटस्सन्’ इत्याद्याकाराया वृत्तेः ब्रह्मचैतन्यविषयकत्वाभ्युपगमोऽसिद्ध इति सिद्धान्ती शङ्कते —
न च तत्रेति ।
तत्रेत्यादितच्छब्दत्रयं घटादिपरम् ।
तस्येति ।
ब्रह्मण इत्यर्थः ।
घटाद्यवच्छिन्नचैतन्यस्य घटादिवृत्तिविषयत्वं पूर्ववादी साधयति —
तदभाव इत्यादिना ।
चैतन्यस्य घटादिवृत्तिविषयत्वाभावे सतीत्यर्थः ।
ननु - यदि घटमात्रविषयकज्ञानेन घटाद्यवच्छिन्नचैतन्यविषयकाज्ञाननिवृत्तिर्न सम्भवति तयोस्समानविषयकत्वाभावात्, तर्हि घटज्ञानेन सह अज्ञानस्य समानविषयकत्वसम्पत्तये अज्ञानमपि घटादिजडमात्रविषयकमेवास्तु, नेत्याह पूर्ववादी —
जड इति ।
जडस्य जडत्वादेव प्रमाणानवतारदशायामप्रकाशोपपत्त्या जडस्याप्रकाशार्थमावरणकल्पनायोगादित्यर्थः । कृत्यं - फलम् । तथा च वेदान्तजन्यज्ञानवत् घटादिज्ञानस्यापि ब्रह्मचैतन्यविषयकत्वावश्यंभावेन मूलाज्ञानसमानविषयकत्वात् तेनापि तन्निवृत्तिप्रसङ्ग इति स्थितम् ।
तत्र सिद्धान्ती शङ्कते —
न चेति ।
तर्हि वेदान्तजन्यज्ञानमपि ब्रह्माज्ञाननिवर्तकं न स्यादिति पूर्ववादी दूषयति —
वेदान्तजन्येति ।
अखण्डत्वं अनवच्छिन्नत्वम् ।
वेदान्तजन्यज्ञानस्य अखण्डत्वादिधर्मवैशिष्ट्यावगाहित्वोपगमे बाधकमाह —
वेदान्तानामिति ।
मूलाज्ञाननिवर्तकज्ञानस्य वेदान्तजन्यत्वमपि विशेषणं विवक्षितं, अतो घटादिज्ञाने नातिप्रसङ्गः — इत्याशयवतीमाशङ्कां अनूद्य दूषयति पूर्ववादी —
न च वेदान्तेत्यादिना ।
वेदान्तजन्यज्ञाने कॢप्तस्य मूलाज्ञाननिवर्तकत्वप्रयोजकरूपस्य मूलाज्ञानसमानविषयकत्वसत्तानिश्चयरूपत्वाप्रतिबद्धत्वलक्षणस्य निदिध्यासनपरिपाककाले चक्षुरादिजन्यघटादिज्ञानेऽपि सत्त्वे सति ‘वेदान्तजन्यज्ञानादेव मूलाज्ञाननिवृत्तिः, न तु घटादिज्ञानात्’ इति नियन्तुमयुक्तत्वात्, वेदान्तजन्यत्वस्यापि सत्तानिश्चयरूपत्वादेरिव प्रयोजकविशेषणत्वे गौरवात् मानाभावाच्च इति भावः ।
तर्हि वेदान्तजन्यज्ञाने कॢप्तं यत् प्रयोजकं, तदेव घटादिज्ञाने नास्तीति शङ्कते —
न च घटाद्याकारेति ।
अवच्छिन्नत्वं कल्पितत्वे हेतुः, अनवच्छिन्नत्वं सत्यत्वे हेतुः । घटादिवृत्तीनां कल्पितचैतन्यविषयकत्वेन सत्यब्रह्मविषयकत्वाभावादित्यर्थः ।
‘घटाद्यवच्छिन्नचैतन्यं कल्पितम्’ इत्यत्र चैतन्यांशस्य अकल्पितत्वं कल्पितत्वं वा विवक्षितम् ? नाद्य इत्याह —
तत्रेति ।
अवच्छिन्नचैतन्ये इत्यर्थः । अवच्छेद्यचैतन्यांशस्य घटादिवृत्तिविषयस्य अकल्पितं यत् मूलाज्ञानविषयब्रह्मचैतन्यं तद्रूपत्वादित्यर्थः । तथा च घटाद्यवच्छिन्नचैतन्यगोचरवृत्तेरपि निवर्त्यत्वाभिमतमूलाज्ञानसमानविषयकत्वरूपं वेदान्तजन्यज्ञाने कॢप्तं प्रयोजकमस्तीति भावः ।
द्वितीयकल्पेऽपि घटादिवृत्तौ कॢप्तप्रयोजकमस्तीति दर्शयन् तं कल्पं दूषयति —
तस्य कल्पितत्वे इति ।
अवच्छेद्यचैतन्यांशस्येत्यर्थः ।
वक्तव्यतयेति ।
अवच्छेद्यचैतन्यांशस्य कल्पितत्वपक्षे तस्य जडत्वापत्त्या जडस्य तस्य अज्ञानविषयत्वासम्भवात् अवस्थाज्ञानं प्रति मूलाज्ञानविषयब्रह्मचैतन्यमेव विषय इति वक्तव्यं, निर्विषयाज्ञानासम्भवात् । तथा च ब्रह्मचैतन्यविषयकावस्थाज्ञाननिवर्तकत्वाय घटादिवृत्तीनामपि मूलाज्ञानविषयब्रह्मचैतन्यविषयकत्वमपरिहार्यम्, घटादिवृत्तीनां सत्यब्रह्मविषयकत्वाभावे अवस्थाज्ञानेन सह समानविषयकत्वाभावात् तासामवस्थाज्ञाननिवर्तकत्वं न स्यादित्यर्थः ।
तन्निवर्तकेति ।
अवस्थाज्ञानं तच्छब्दार्थः ।
तद्विषयत्वेति ।
मूलाज्ञानविषयब्रह्मचैतन्यं तच्छब्दार्थः ।
तत्पक्षेऽपीति ।
‘अवच्छेद्यांशस्य कल्पितत्वम्’ इति द्वितीयकल्पेऽपीत्यर्थः ।
तत इति ।
घटादिज्ञानादित्यर्थः ।
अपरिहारादिति ।
घटादिज्ञानस्यापि वेदान्तजन्यज्ञानस्येव मूलाज्ञानसमानविषयकत्वादिति भावः ।