अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

शाब्दापरोक्षसमर्थनम्

ननु तथाऽपीति ।
शब्दस्य ब्रह्म­सा­क्षा­त्का­र­क­र­ण­त्व­पक्षे श्रुति­भा­ष्य­वि­रो­धा­भा­वेऽपि शब्द­प्र­मा­ण­स्व­भा­व­वि­रो­धात् न महावाक्यं ब्रह्म­सा­क्षा­त्कारे करणमित्यर्थः ।

शब्द­स्व­भा­व­म­नु­रु­ध्यैव तस्या­प­रो­क्ष­ज्ञा­न­क­र­णत्वं साधयति —
अत्र केचिदिति ।
प्रचयः-समूहः । प्रचयलब्धं यत् ब्रह्म­ण्यै­काग्र्यं, तद्वच्चित्तमेव दर्पणं, तदनुगृहीत इत्यर्थः ।

यथा चक्षुः स्वतः प्रति­बि­म्बा­नु­भ­व­ज­न­ना­स­म­र्थ­मपि दर्पणानुगृहीतं सत् तदनुभवं जनयति तद्वदिति सूचयति —
चित्तदर्पणेति ।

शास्त्रीयेति ।
यथा आधा­ना­दि­ज­नि­त­सं­स्का­र­र­हि­ता­ग्न्य­धि­क­र­णको होमस्तावत् अपूर्वं न जनयति, अग्न्य­धि­क­र­ण­क­हो­म­मा­त्र­स्या­पू­र्व­ज­न­न­स्व­भा­वा­भा­वात् । शास्त्री­य­सं­स्का­र­वि­शि­ष्टा­ग्न्य­धि­क­र­ण­क­हो­मस्तु अपूर्वं जनयति, तद्वदित्यर्थः ।

ननु - दृष्टान्ते शास्त्रबलात्तथा स्वीक्रियते, प्रकृते तथा शास्त्रं नोपलभ्यते, इत्यत आह —
तरतीति ।

नन्वनया श्रुत्या चिदा­त्म­न्य­ध्य­स्तस्य शोको­प­ल­क्षि­त­क­र्तृ­त्वा­द्य­ध्या­सस्य आत्म­वे­द­ना­न्नि­वृ­त्ति­रु­च्यते, न तु शब्द­स्या­प­रो­क्ष­ज्ञा­न­क­र­णत्वं, इत्यत आह —
अपरोक्षस्येति ।
यथा दृष्टान्ते होमा­धि­क­र­ण­स्या­ग्ने­रा­धा­ना­दि­सं­स्कृ­त­त्व­श्र­व­णा­न्य­था­नु­प­पत्त्या ‘शास्त्री­या­धा­न­सं­स्का­र­स­ह­कृ­ता­ग्न्य­धि­क­र­णको होमोऽपूर्वं जनयति’ इति कल्प्यते, तथा आत्म­ज्ञा­न­स्या­प­रो­क्षा­ध्या­स­नि­व­र्त­क­त्व­श्र­व­णा­न्य­था­नु­प­पत्त्या आत्म­ज्ञा­न­ज­न­क­वे­दा­न्ता­ना­मे­वा­प­रो­क्ष­ज्ञा­न­क­र­णत्वं कल्प्यते इत्यर्थः ।

अयोगादिति ।
सत्यपि श्रव­ण­ज­नि­त­प­रो­क्ष­ज्ञाने कर्तृ­त्वा­द्य­ध्या­स­नि­वृ­त्त्य­द­र्श­नात् परो­क्ष­ज्ञा­न­मा­त्रे­णा­ध्या­स­नि­वृत्तौ मन­ना­दि­वि­धि­वै­य­र्थ्य­प्र­स­ङ्गाच्च अप­रो­क्षा­ध्या­स­रू­प­दि­ग्भ्र­मा­दिषु दिग्या­था­त्म्या­दि­सा­क्षा­त्कारं विना निवृ­त्त्य­द­र्श­नाच्च इति भावः ।

ननु - कर्तृ­त्वा­द्य­ध्या­स­नि­व­र्त­क­म­धि­ष्ठा­ना­त्म­त­त्त्व­सा­क्षा­त्का­र­रूपं ज्ञानं मनसैव सम्भवति, किं शब्दस्य तत्क­र­ण­त्व­क­ल्प­न­येति, तत्राह —
औपनिषदे चेति ।
अन्त­रि­न्द्रि­यस्य मनसः प्रत्य­क्ष­प्र­मा­ण­त्वेन ब्रह्म­ण­स्त­द्ग­म्यत्वे उप­नि­ष­दे­क­ग­म्य­त्व­प्र­ति­पा­द­क­श्रु­ति­बा­ध­प्र­सङ्ग इति भावः ।

नन्वौ­प­नि­ष­द­त्व­श्रु­ति­वि­रो­धेन ब्रह्मणि माना­न्त­रा­प्र­वृत्तौ शब्द­स्व­भा­व­वि­रो­धेन शब्दस्यापि ब्रह्म­सा­क्षा­त्का­र­ज­नने प्रवृत्तिर्न सम्भवति, तथा च ब्रह्म­सा­क्षा­त्का­र­क­र­ण­स्यै­वा­ला­भात् मास्तु तत्साक्षात्कार इति, अत आह —
शब्दादपीति ।
तथा च मोक्ष­शा­स्त्र­प्रा­मा­ण्याय शब्दस्यैव साक्षा­त्का­र­क­र­णत्वं कल्पनीयमिति भावः ।

शास्त्र­प्रा­मा­ण्य­म­नु­प­जी­व्यापि शब्द­स्या­प­रो­क्ष­ज्ञा­न­क­र­णत्वं साधयति —
अन्ये त्विति ।

इदानीं - शब्दस्य परो­क्ष­ज्ञा­न­ज­न­न­स्वा­भा­व्य­मे­वा­सि­द्धम्, अतो नित्यापरोक्षे ब्रह्मणि वेदान्तानां साक्षा­त्का­र­क­र­णत्वं निरपवादम् - इति मतान्तरमाह —
अपरे त्विति ।

नन्वि­न्द्रि­य­ज­न्य­ज्ञा­न­त्वा­दि­क­मेव ज्ञान­स्या­प­रो­क्षत्वं, ब्रह्म­गो­च­र­शा­ब्द­ज्ञा­नस्य तु तद­भा­वा­न्ना­प­रोक्ष्यं, इत्यत आह —
अन्या­नि­रु­क्ते­रिति ।
इन्द्रि­य­ज­न्य­ज्ञा­न­त्वा­देश्च प्रथ­म­प­रि­च्छे­दा­व­साने निरस्तत्वादिति भावः । ननु - अर्थ­स्या­प­रो­क्षत्वं अप­रो­क्ष­ज्ञा­न­वि­ष­य­त्वम्, अन्य­स्या­नि­र्व­च­नात् ।

तथा­चा­न्यो­न्या­श्रयः - अर्थ­स्या­प­रो­क्ष­त्व­ज्ञप्तौ ज्ञान­स्या­प­रो­क्ष­त्व­ज्ञप्तिः, ज्ञान­स्या­प­रो­क्ष­त्व­ज्ञप्तौ चार्थ­स्या­प­रो­क्ष­त्व­ज्ञ­प्ति­रिति, इत्याशङ्क्य, अन्या­नि­र्व­च­न­म­सि­द्ध­मि­त्य­भि­प्रे­त्याह —
अर्थापरोक्षत्वं त्विति ।

तत्तदिति ।
तत्त­त्प्र­मा­तृ­चै­त­न्या­भि­न्नत्वं तस्य तस्य विषयस्य तं तं प्रमातारं प्रत्य­प­रो­क्षत्वं, तत्त­त्प्र­मा­तृ­चै­त­न्या­भि­न्ना­र्थ­वि­ष­यकं ज्ञानं तत्तत्प्रमातुः तत्त­त्प्र­मा­तृ­चै­त­न्या­भिन्ने विषये अप­रो­क्ष­ज्ञा­न­मि­त्यर्थः । न च अर्था­प­रो­क्ष्या­दा­व­न­नु­गम इति वाच्यम् । ज्ञान­ग­त­स्या­नु­ग­ता­प­रो­क्ष­त्वस्य जाति­रू­प­स्यो­पा­धि­रू­पस्य वा प्राक् निरस्तत्वेन तदभावादेव अर्था­प­रो­क्ष्य­स्या­प्य­नु­ग­त­स्या­स­म्भ­वेन तस्या­दो­ष­त्वा­दिति भावः ।

ननु प्रमा­तृ­चै­त­न्या­भि­न्न­त्व­रू­प­स्या­र्था­प­रो­क्ष्यस्य जड­रू­पा­प­रो­क्षार्थे अव्याप्तिः, चैत­न्य­ज­ड­यो­रै­क्यस्य बाधितत्वात्, इत्यत आह —
अन्तःकरणेति ।

तद­भे­द­स­त्त्वा­दिति ।
साक्षि­श­ब्दि­त­प्र­मा­तृ­चै­त­न्या­भे­द­स­त्त्वा­दि­त्यर्थः । तथा च अर्था­प­रो­क्ष्य­नि­र्व­चने कल्पि­ता­क­ल्पि­त­सा­धा­र­णा­भे­दस्य विवक्षितत्वेन प्रमा­तृ­चै­त­न्य­ब्र­ह्म­चै­त­न्य­यो­रिव प्रमा­तृ­चै­त­न्य­ज­डयोः अक­ल्पि­ता­भे­दा­भा­वेऽपि ‘जडं सत्’ इति साप्रा­ना­धि­क­र­ण्या­नु­भ­व­सि­द्ध­क­ल्पि­ता­भे­द­स­त्त्वात् नाव्याप्तिरिति भावः ।

आन्त­र­ज­ड­प­दा­र्थेषु प्रमा­तृ­चै­त­न्या­भि­न्न­त्व­मु­प­पाद्य बाह्या­प­रो­क्षा­र्थेषु तदुपपादयति —
बाह्येति ।
अन्तः­क­र­ण­त­द्ध­र्माणां तदभेदसत्त्वात् घटादीनां तदभेदसत्त्वाच्च न क्वापि आन्तरार्थे बाह्यार्थे वा अव्याप्तिरिति सम्बन्धः ।

घटादीनां तत्त­त्पु­रु­षी­य­चै­त­न्या­भे­द­सत्त्वे हेतुमाह —
बाह्यचैतन्ये वृत्ति­कृ­त­त­त्त­त्पु­रु­षी­य­चै­त­न्या­भे­दा­भि­व्य­क्त्येति ।

ननु बाह्यचैतन्यस्य तत्त­त्पु­रु­षी­य­चै­त­न्यस्य च वस्तुतः सदा अभेदसत्त्वेऽपि तदभिव्यक्तिः कुतः, इत्यत आह —
वृत्तिकृतेति ।
बाह्ये विष­या­व­च्छि­न्न­चै­तन्ये चक्षुरादिद्वारा निर्गताया वृत्तेः संसर्गे सति वृत्ति­वृ­त्ति­म­तो­र­भे­दात् वृत्ति­म­द­न्तः­क­र­ण­स्यापि तत्र संसर्गो लभ्यते, तथा च वृत्ति­सं­सृ­ष्ट­बा­ह्य­चै­त­न्य­मेव अन्तः­क­र­ण­स­म्ब­न्धात् तत्त­त्पु­रु­षी­य­चै­तन्यं भवति, इत्यनेन प्रकारेण बाह्यचैतन्ये वृत्तिकृता तत्त­त्पु­रु­षी­य­चै­त­न्या­भे­दा­भि­व्य­क्ति­र्भ­व­ती­त्यर्थः ।

ननु उक्तप्रकारेण बाह्यचैतन्यस्य प्रमा­तृ­चै­त­न्या­भि­न्न­त्व­सि­द्धा­वपि घटादीनां प्रमा­तृ­चै­त­न्या­भि­न्न­त्व­म­सि­द्ध­मेव, इत्याशङ्क्याह —
बाह्यचैतन्ये कल्पितानामिति ।
बाह्यचैतन्ये तावत् घटादीनामभेदः प्रागेव सिद्धः, तत्र तेषां कल्पितत्वात् । तथा च बाह्यचैतन्यस्य वृत्ति­कृ­त­त­त्त­त्पु­रु­षी­य­चै­त­न्या­भे­दा­भि­व्य­क्ति­द­शायां घटादीनामपि तत्त­त्पु­रु­षी­य­चै­त­न्या­भि­न्नत्वं सिद्ध्यतीति भावः ।

अर्था­प­रो­क्ष्य­ल­क्ष­ण­स्या­ति­व्या­प्ति­मा­शङ्क्य निराकरोति —
न चेत्यादिना ।

धर्मेति ।
धर्मादीनामपि अधि­ष्ठा­न­भू­त­प्र­मा­तृ­चै­त­न्येन सह अभि­न्न­स­त्ता­क­त्व­रू­पा­भे­द­स­त्त्वा­दिति भावः । अद्भूतत्वे सति प्रमा­तृ­चै­त­न्या­भि­न्नत्वं अर्था­प­रो­क्ष्यम्, उद्भूतत्वं च फल­ब­ल­क­ल्प्यः­स्व­भा­व­वि­शेषः, स च धर्मा­दे­र्ना­स्तीति परिहारार्थः ।

एवं शब्दस्य ब्रह्म­सा­क्षा­त्कारे कर­ण­त्व­सि­द्ध्यर्थं उपोद्धातं कृत्वा प्रकृतं दर्शयति —
एवं चेति ।
ज्ञाना­प­रो­क्ष्यस्य अर्था­प­रो­क्ष्य­प्र­यु­क्तत्वे सतीत्यर्थः ।

अभिन्नत्वादिति ।
जीवरूपप्रमातुः ब्रह्माभेदस्य श्रुति­सि­द्ध­त्वा­दिति भावः ।

इदं च ब्रह्मणो जीवाभिन्नत्वं जडस्य प्रमा­तृ­चै­त­न्या­भि­न्न­त्व­वत् काल्पनिकं न भवति, किं तु वास्तवैक्यरूपं इत्याशयेनाह —
स्वत एवेति ।

ब्रह्मणो नित्या­प­रो­क्ष­प्र­मा­तृ­चै­त­न्या­भेदे श्रुतिमाह —
यत्साक्षादिति ।
ब्रह्म जडवत् स्वव्य­ति­रि­क्त­प्र­मा­तृ­चै­त­न्य­म­पेक्ष्य अपरोक्षं न भवति, किं तु साक्षा­त्प्र­मा­तृ­चै­त­न्य­स्व­रू­प­त्वा­दे­वा­प­रोक्षं इत्यर्थः ।

ज्ञानापरोक्ष्यं अर्थापरोक्ष्यं च प्रकारान्तरेण निरूपयति —
अद्वै­त­वि­द्या­चा­र्या­स्त्विति ।

पूर्वोक्तं ज्ञाना­प­रो­क्ष्य­ल­क्षणं अव्याप्त्या दूषयति —
नापरोक्षेति ।
स्वरूपसुखस्य आपरोक्ष्यरूपे स्वरूपज्ञाने अव्या­प­ना­दि­त्यर्थः ।

ननु आत्म­स्व­रू­प­सु­खा­नु­भ­वस्य साक्षि­चै­त­न्य­रू­पस्य स्वप्र­का­श­त्वा­भ्यु­प­ग­मात् स्वप्रकाशत्वस्य च स्ववि­ष­य­क­त्व­रू­प­त्वात् स्वरू­प­सु­ख­वि­ष­य­कत्वं तदपरोक्षरूपे स्वरूपज्ञाने निरपवादं, इत्यत आह —
स्ववि­ष­य­त्व­ल­क्ष­णेति ।
एकस्मिन् चैतन्ये विष­य­वि­ष­यि­भा­व­ल­क्ष­ण­स­म्बन्धो न सम्भवति, सम्बन्धस्य द्विनि­ष्ठ­त्वात्, स्वविषयत्वं विनाऽपि स्वस­त्ता­प्र­यु­क्त­सं­श­या­द्य­गो­च­र­त्वा­दि­ल­क्ष­णस्य स्वप्रकाशत्वस्य आकरेषु निरूपितत्वादिति भावः ।

किं तर्हि ज्ञानापरोक्ष्यं इति पृच्छति —
किं त्विति ।

ज्ञाना­प­रो­क्ष्य­नि­र्व­चनं प्रति दृष्टा­न्त­व्या­जेन प्रथमं अर्थापरोक्ष्यं निर्वक्ति —
यथेति ।
अर्थस्य स्वव्य­व­हा­रा­नु­कू­ल­चै­त­न्या­भि­न्नत्वं अपरोक्षत्वम् । अस्ति च अन्तः­क­र­ण­त­द्ध­र्माणां स्वव्य­व­हा­रा­नु­कू­लेन साक्षिचैतन्येन अभिन्नत्वं, तत्र तेषा­म­ध्य­स्त­त्वात् । तथा घटादीनामपि स्वव्य­व­हा­रा­नु­कू­लेन घटा­दि­गो­च­र­वृ­त्त्यु­प­हि­तेन घटा­द्य­धि­ष्ठा­न­चै­त­न्येन अभिन्नत्वमस्ति । तथा च ब्रह्मणोऽपि स्वव्य­व­हा­रा­नु­कू­लेन स्वगो­च­र­वृ­त्त्यु­प­हि­तेन साक्षिचैतन्येन अभि­न्न­त्व­म­स्तीति न क्वाप्य­व्याप्तिः । घटाद्यर्थस्य चैतन्ये कल्पितस्य चैत­न्या­भि­न्नत्वं सदा वर्तते अपरोक्षत्वं तु सदा नास्तीति स्वव्य­व­हा­रा­नु­कू­ले­त्यु­क्तम् । घटा­दि­गो­च­र­वृ­त्ति­द­शा­या­मेव घटा­द्य­धि­ष्ठा­न­चै­तन्यं घटा­दि­व्य­व­हा­रा­नु­कूलं भवति न सर्वदेति नातिप्रसङ्गः । ननु — तत्त­द्व्य­व­हा­रा­नु­कू­ल­चै­त­न्यस्य तत्त­द­र्था­भि­न्नत्वं अपरोक्षत्वमस्तु नाम ।

तथाऽपि ज्ञानापरोक्ष्यं नोक्तरूपमेव, वृत्ति­रू­प­ज्ञा­नस्य चैतन्यापेक्षया भिन्नत्वात्, इत्यत आह —
तथाचेति ।
चैतन्यस्यैव तत्त­द­र्थ­व्य­व­हा­रा­नु­कू­लत्वे विवक्षिते सतीत्यर्थः । तथा च ‘ज्ञाना­प­रो­क्ष्यम्’ इत्यत्र ज्ञानपदं चैतन्यपरमेव न वृत्ति­ज्ञा­न­प­र­मिति नानुक्तिदोष इति भावः ।

‘तत्त­द­र्थ­व्य­व­हा­रा­नु­कू­लत्वे सति तत्त­द­र्था­भि­न्न­त्व­रूपं ज्ञाना­प­रो­क्षत्वं चैतन्यधर्म एव’ इत्यत्र युक्तिमाह —
अत एवेति ।
चैत­न्य­ध­र्म­त्वा­भ्यु­प­ग­मा­दे­वे­त्यर्थः । तस्य वृत्तिधर्मत्वे तु सुख­दुः­खा­दि­गो­च­रा­प­रो­क्ष­वृ­त्त्य­न­ङ्गी­का­रात् सुख­दुः­खा­दि­भा­स­क­सा­क्षि­चै­तन्ये वृत्ति­ध­र्म­स्या­प­रो­क्ष्यस्य असम्भवाच्च सुख­दुः­खा­दे­र­प­रो­क्ष­त्वा­नु­भ­व­वि­रोधः स्यादिति भावः । लक्षणे सत्यन्तं वह्नि­गो­च­रा­नु­मि­ति­वृ­त्त्यु­प­हिते जीवचैतन्ये वह्नि­व्य­व­हा­रा­नु­कूले गतमिति तत्रा­ति­व्या­प्ति­वा­र­णाय विशेष्यम् । अनुमितिवृत्तेः विषयदेशे गमनाभावेन तद्वृ­त्त्य­व­च्छि­न्न­चै­त­न्यस्य न वह्न्य­भि­न्न­त्व­मिति नातिव्याप्तिः । घटा­दि­गो­च­र­वृ­त्त्य­भा­व­द­शायां घटा­द्य­व­च्छि­न्न­चै­तन्ये घटा­द्य­प­रो­क्ष­त्व­र­हिते घटा­द्य­र्था­भि­न्न­त्व­म­स्तीति तद्वारणाय सत्यन्तम् । तदा तस्य चैतन्यस्य आवृतत्वेन घटा­दि­व्य­व­हा­रा­नु­कू­ल­त्वा­भा­वात् नाति­व्या­प्ति­रिति मन्तव्यम् ।

न चेति ।
ज्ञाना­प­रो­क्ष्यस्य चैतन्यधर्मत्वे घटादिगोचरवृत्तौ ‘घटं साक्षात्करोमि’ इत्या­दि­प्र­का­रे­णा­प­रो­क्ष­त्वा­नु­भ­व­वि­रोध इत्यर्थः ।

उपपत्तेरिति ।
वृत्ति­चै­त­न्य­यो­स्ता­दा­त्म्येन वृत्ति­सा­क्षा­त्का­र­त्वा­नु­भ­वस्य चैत­न्य­ग­ता­प­रो­क्ष्य­वि­ष­य­क­त्वो­प­प­त्ते­रि­त्यर्थः । ननु — हृद­य­ना­डी­ध­र्मा­दि­गो­च­र­शा­ब्द­वृत्तिः अन्तःकरणे शरीरव्यापिनि जायमाना दैवयोगात् हृद­य­ना­ड्या­द्य­व­च्छि­न्ना­न्तः­क­र­ण­प्र­देशे यदि जायेत, तदा हृद­या­दि­रू­प­वि­ष­या­व­च्छि­न्न­चै­त­न्यस्य हृद­या­दि­गो­च­र­शा­ब्द­वृ­त्त्य­व­च्छि­न्नस्य च अभे­दा­भि­व्य­क्ति­र­प­रि­हार्या । घटादिस्थले वृत्ते­र्वि­ष­य­सं­सर्गे सति वृत्ति­वि­ष­या­व­च्छि­न्न­चै­त­न्य­यो­र­भे­दा­भि­व्य­क्ति­स्वी­का­रात् ।

तथा च हृद­या­दि­गो­च­र­शा­ब्दा­नु­मि­त्या­दि­वृ­त्त्य­व­च्छि­न्न­चै­त­न्य­रूपे परोक्षज्ञाने हृद­या­द्य­र्था­भिन्ने हृद­या­दि­व्य­व­हा­रा­नु­कूले ज्ञाना­प­रो­क्ष्य­ल­क्ष­ण­म­ति­व्या­प्तम्, तथा हृदयादिरूपे परोक्षार्थे स्वव्य­व­हा­रा­नु­कू­ल­शा­ब्दा­दि­वृ­त्त्य­व­च्छि­न्न­चै­त­न्या­भिन्ने अर्था­प­रो­क्ष्य­ल­क्ष­ण­म­ति­व्याप्तं इति शङ्कते —
ननूक्तमिति ।
ययो­श्चै­त­न्य­यो­र­भे­दा­भि­व्य­क्ति­रि­ष्यते, तयो­रु­भ­यो­र­प्या­ना­वृ­त­त्व­म­पे­क्षि­तम्, अन्य­त­र­चै­त­न्य­स्या­व­र­ण­द­शायां तयोरभेदस्य प्रत्य­क्ष­त्व­ल­क्ष­णा­भि­व्य­क्त्य­यो­गात् । तथा च हृद­या­दि­गो­च­र­शा­ब्द­वृ­त्ति­स्थले नातिव्याप्तिः ।

तत्र विष­य­चै­त­न्य­स्या­वृ­त­त्वात् - इति परिहरति —
न परो­क्ष­वृ­त्ते­रिति ।

आप­रो­क्ष्या­प्र­स­क्ते­रिति ।
परो­क्ष­हृ­द­या­दि­वि­ष­यस्य हृद­या­दि­गो­च­र­शा­ब्द­वृ­त्त्य­व­च्छि­न्न­चै­त­न्य­रू­प­प­रो­क्ष­ज्ञा­नस्य च इति शेषः । तथा च हृद­या­दि­गो­च­र­शा­ब्द­वृ­त्त्य­व­च्छि­न्न­चै­त­न्य­रू­प­प­रो­क्ष­ज्ञा­नस्य हृद­या­दि­व्य­व­हा­रा­नु­कू­लत्वे सत्यपि हृदयादिविषयेण सह अभि­व्य­क्ता­भे­दा­भा­वात् अभि­व्य­क्त­त­त्त­द­र्था­भि­न्नत्वे सति तत्त­द­र्थ­व्य­व­हा­रा­नु­कू­ल­ज्ञा­न­त्व­ल­क्षणं ज्ञानापरोक्ष्यं नास्ति, तथा हृद­या­द्य­र्थ­स्यापि स्वव्य­व­हा­रा­नु­कू­ल­शा­ब्द­वृ­त्त्य­व­च्छि­न्न­सा­क्षि­चै­त­न्या­भे­द­स­त्त्वेऽपि तद­भे­दा­भि­व्य­क्त्य­भा­वेन स्वव्य­व­हा­रा­नु­कू­ल­चै­त­न्या­भे­दा­भि­व्य­क्ति­शा­लि­त्व­रू­प­म­र्था­प­रोक्ष्यं नास्ति इत्यर्थः । न च ‘अहं सुखी दुःखी’ इत्याकारके सुखादिसाक्षिणि सुख­दुः­खा­दि­रू­प­वि­ष­या­भेदो विद्यमानोऽपि नाभिव्यज्यते, सुखादिसाक्षिणो जीवस्य सुखादेश्च आधा­रा­धे­य­भा­व­प्र­तीतेः । तथा च सुख­दुः­खा­दि­प्र­त्यक्षे अभि­व्य­क्त­वि­ष­या­भे­दा­भा­वात् अव्या­प्ति­रि­ति-वा­च्यम् । घटा­दि­प्र­त्य­क्ष­रूपे घटादिस्फुरणे ‘घटः स्फुरति’ ‘पटः स्फुरति’ इत्या­द्या­का­र­का­नु­भ­व­मा­दाय घटा­द्य­र्था­भे­दा­भि­व्य­क्ति­म­त्त्व­स्येव ‘सुखं स्फुरति’ ‘दुःखं स्फुरति’ इत्या­द्या­का­र­का­नु­भ­व­मा­दा­यैव सुख­दुः­खा­दि­प्र­त्यक्षे सुखा­द्य­र्था­भे­दा­भि­व्य­क्ति­म­त्त्व­स­त्त्वात् । न च - घटःस्फुरति - इत्यनुभवे घटस्य स्फुर­णा­श्र­य­त्व­मेव भाति, न तु स्फुरणाभेदः - इति वाच्यम् । ‘घटः-स्फुरति’ इति प्रयोगे ‘देवदत्तो गच्छति’ इत्यत्र ‘गम­न­क­र्त्र­भिन्नो देवदत्तः’ इति वाक्यार्थवत् ‘स्फुर­णा­श्र­या­भिन्नो घटः’ इति वाक्यार्थस्य वक्तव्यतया ‘घटःस्फुरति’ इति­प्र­यो­ग­मू­ल­भूते ‘घटःस्फुरति’ इत्यनुभवेऽपि स्फुर­णा­श्र­य­भू­त­चि­दा­त्मा­भि­न्न­तया घटस्य भानावश्यभावात् । न च घटस्य स्फुर­णा­श्र­या­भे­दा­भि­व्य­क्ता­वपि स्फुर­णा­भे­दा­भि­व्यक्तिः अद्यापि नोपपादितैवेति वाच्यम् । ‘घटस्यस्वरूपम्’ इति प्रत्यक्षं हि घटमेव घटस्य स्वरूपतया यथा विषयीकरोति, तथा ‘घटःस्फुरति’ इति प्रत्यक्षमपि घटा­दि­वृ­त्ति­द­शायां घटा­द्य­धि­ष्ठा­न­भू­त­म­ना­वृ­त­चि­दा­त्मा­न­मेव स्वप्र­का­श­चि­दा­त्मा­श्रि­त­स्फु­र­ण­स्व­रू­पेण विषयीकरोति, इत्युपगमेन घटे­स्फु­र­णा­श्र­या­भे­द­भा­न­स्यैव स्फुर­णा­भे­द­भा­न­रू­प­त्वात् । एतदुक्तं भवति — ‘घटस्य स्वरूपम्’ इति शब्दप्रयोग एव घट­त­त्स्व­रू­प­यो­र्भेदो भासते, न तु तन्मूलभूते ‘घटस्य स्वरूपम्’ इति प्रत्यक्षे । अन्यथा तत्प्रत्यक्षस्य भ्रम­त्व­प्र­स­ङ्गात्, घट­त­त्स्व­रू­प­यो­र्भे­दा­भा­वात् । न च तस्य भ्रम­त्व­म­भ्यु­प­गन्तुं शक्यते, बाधकाभावात् । एवं ‘स्फुरति’ इतिशब्दप्रयोग एव स्वप्रकाशात्मनः स्फुर­ण­त­दा­श्र­य­भा­वेन भेदभानं, न तु ‘स्फुरति’ इतिप्रत्यक्षे, तत्र स्फुर­ण­द्वि­त्वा­नु­प­ल­म्भात् इति । न च ब्रह्म­गो­च­र­शा­ब्द­वृत्तेः विषयसंसृष्टाया विष­य­ग­ता­ज्ञा­न­नि­व­र्त­न­क्ष­म­त्व­द­र्श­नेन हृद­या­दि­गो­च­र­शा­ब्द­वृ­त्ते­रपि विष­य­सं­स­र्गा­वि­शेषे कथं तस्याः स्ववि­ष­य­चै­त­न्य­ग­ता­ज्ञा­न­नि­व­र्त­न­क्ष­मत्वं नेति वाच्यम् । हृद­या­दि­गो­च­र­शा­ब्द­वृत्तेः सत्यपि विषयसंसर्गे तस्यां वृत्तौ अज्ञा­न­नि­व­र्त­क­त्व­प्र­यो­ज­का­भा­वेन अज्ञा­ना­नि­व­र्त­क­त्वस्य प्रथ­म­प­रि­च्छे­दा­व­साने दर्शितत्वादिति भावः ।

अर्थस्य स्वव्य­व­हा­रा­नु­कू­ल­चै­त­न्या­भे­दा­भि­व्य­क्ति­म­त्त्व­मेव आपरोक्ष्यं, न तु तादृ­शा­भे­द­व­त्त्व­मा­त्रम् — इत्यत्र लिङ्गमाह —
अत एवेति ।
अभे­दा­भि­व्य­क्ते­रे­वा­प­रो­क्ष­त्व­प्र­यो­ज­क­त्व­स्वी­का­रा­दे­वे­त्यर्थः ।

संसारेति ।
तत्त्व­सा­क्षा­त्का­रात् पूर्वकाले इत्यर्थः । ‘जीवस्य ब्रह्माभेदे सत्यपि’ इत्यनेन ब्रह्मणः स्वव्य­व­हा­रा­नु­कू­ल­जी­व­चै­त­न्या­भि­न्नत्वे सत्यपि इत्यर्थो विवक्षितः । तथा च संसारदशायां स्वव्य­व­हा­रा­नु­कू­ल­जी­व­चै­त­न्या­भि­न्न­स्यापि ब्रह्मणो जीवं प्रत्य­प­रो­क्ष­त्वा­भावः तयो­र­भे­दा­भि­व्य­क्त्य­भा­वा­दे­वेति वक्तव्यतया अभे­दा­भि­व्य­क्ते­रा­प­रो­क्ष्य­प्र­यो­ज­कत्वं युक्तमिति भावः ।

न चैवमिति ।
अज्ञा­न­कृ­त­भे­द­स्या­भे­दा­भि­व्य­क्ति­प्र­ति­ब­न्ध­कत्वे इत्यर्थः ।

असम्भवादिति ।
‘जीवं साक्षात्करोमि’ ‘जीवो ममापरोक्ष’ इति जीव­गो­च­र­व्य­व­हा­रा­नु­कूलं ज्ञानं ब्रह्मणो माया­वृ­त्त्यु­प­हितं ब्रह्मचैतन्यमेव । तथा च ब्रह्म­क­र्तृ­क­व्य­व­हा­र­वि­ष­यस्य जीवस्य ब्रह्म­क­र्तृ­क­व्य­व­हा­रा­नु­कू­ल­ता­दृ­श­ब्र­ह्म­चै­त­न्या­भि­न्न­त्व­स­त्त्वेऽपि अभि­व्य­क्ता­भे­द­शा­लि­त्वा­भा­वात् जीवस्य ब्रह्म प्रत्य­प­रो­क्षत्वं न सम्भवति । न च - ब्रह्मणो जीव­गो­च­रा­प­रो­क्ष­ज्ञा­ना­स­म्भ­वेऽपि न सर्व­ज्ञ­त्व­भङ्गः, जीव­गो­च­र­प­रो­क्ष­ज्ञा­न­मा­त्रे­णापि तत्सम्भवात् इति वाच्यम्, ईश्वरस्य परो­क्ष­ज्ञा­ना­न­ङ्गी­का­रा­दिति भावः । अज्ञानं हि जीव­ध­र्मि­क­ब्र­ह्म­प्र­ति­यो­गि­क­भे­द­प्र­यो­ज­कम्, जीवस्य ‘नाहं ब्रह्म’ इति ब्रह्म­भे­दा­नु­भ­व­स­त्त्वात् । न तु ब्रह्म­ध­र्मि­क­जी­व­प्र­ति­यो­गि­क­भे­द­प्र­यो­ज­कम्, ब्रह्मणो ‘नाहं जीवः’ इत्यनुभवे मानाभावात् ।

तथा च ब्रह्म प्रति जीवस्य ब्रह्मा­भे­दा­भि­व्य­क्ति­प्र­ति­ब­न्ध­कस्य अज्ञानकृतभेदस्य अभावात् नोक्तदोष इति परिहरति —
अज्ञानस्येति ।

अनावारकतयेति ।
ईश्वरस्य ‘अहमज्ञ’ इत्यनुभवे मानाभावात् अज्ञानं ईश्वरं प्रति जीवावारकं न भवति । न च ईश्वरस्यापि लीला­वि­ग्र­ह­पू­र्व­क­व्य­व­हा­र­काले तदीयेनैव वचनेन तस्या­ज्ञ­त्वा­नु­भ­वोऽ­स्तीति गम्यत इति वाच्यम् । तदीयस्य तदी­या­ज्ञ­त्व­ग­म­क­व­च­नस्य अन्यथासिद्धेः चतुर्थपरिच्छेदे वक्ष्य­मा­ण­त्वा­दिति भावः ।

तमिति ।
ईश्वरं प्रति जीव­प्र­ति­यो­गि­क­भे­दा­प्र­यो­ज­क­त्वा­दि­त्यर्थः ।

तं प्रति जीवा­ना­वा­र­क­स्यापि जीवभेदापादकत्वं किं न स्यात्, इत्यत आह —
यं प्रतीति ।
यं जीवं प्रति यदज्ञानं विष­य­चै­त­न्या­वा­रकं तं प्रत्येव तस्याज्ञानस्य स्वाश्र­य­भू­त­वि­ष­य­चै­त­न्य­प्र­ति­यो­गि­क­भे­दा­पा­द­क­त्वा­भ्यु­प­ग­मात् इत्यर्थः ।

उक्तव्यवस्थायां नियामकमाह —
अत एवेति ।
‘यं प्रति यदज्ञानं’ इत्या­दि­व्य­व­स्था­भ्यु­प­ग­मा­देव चैत्रस्य घटा­प­रो­क्ष्या­नु­भ­वा­नु­प­प­त्ति­रपि नेति सम्बन्धः । घटा­व­च्छि­न्न­चै­तन्ये चैत्रं प्रति घट­चै­त­न्या­वा­र­क­म­ज्ञानं यथा वर्तते, तथा मैत्रं प्रत्यपि घट­चै­त­न्या­वा­र­क­म­ज्ञानं तत्रास्ति । तथा च चैत्री­य­घ­ट­ज्ञा­नेन चैत्रस्य घटाज्ञाने चैत्रं प्रति स्वाश्र­य­भू­त­वि­ष­य­चै­त­न्य­प्र­ति­यो­गि­क­भे­दा­पा­दके निवृत्ते सति चैत्री­य­घ­ट­ज्ञा­ने­ना­नि­वृत्तं घटचैतन्यगतं मैत्रं प्रति घटावारकाज्ञानं मैत्रं प्रत्येव स्वाश्र­य­भू­त­घ­ट­चै­त­न्य­प्र­ति­यो­गि­क­भे­दा­पा­दकं, न तु मैत्राज्ञानं चैत्रं प्रति घट­चै­त­न्या­ना­वा­र­क­मपि चैत्रं प्रति स्वाश्र­य­भू­त­घ­ट­चै­त­न्य­प्र­ति­यो­गि­क­भे­दा­पा­द­कम् । तथासति चैत्री­य­घ­ट­ज्ञा­नेन चैत्राज्ञाने निवृत्ते सति तत्कृ­त­भे­द­नि­वृ­त्ता­वपि चैत्रस्य घटचैतन्यस्य च मैत्रा­ज्ञा­न­कृ­त­भे­द­स­त्त्वेन अभे­दा­भि­व्य­क्त्य­भा­वात् चैत्रस्य घटा­प­रो­क्ष्या­नु­भ­वा­नु­प­प­त्ति­रेव स्यात् । अतो मैत्राज्ञानं मैत्रं प्रतीव चैत्रं प्रति स्वाश्र­य­भे­दा­पा­दकं न भवति चैत्रं प्रति स्वाश्र­य­चै­त­न्या­ना­वा­र­क­त्वात् इति वक्तव्यम्, तथा च उक्तव्यवस्था सिद्धेत्यर्थः । ननु — ‘अप­रो­क्ष­ज्ञा­न­म­ज्ञा­न­नि­व­र्त­कम्’ इति रीत्या ज्ञान­स्या­ज्ञा­न­नि­व­र्त­कत्वे अपरोक्षत्वं प्रयोजकमिति वक्तुं न शक्यते, ज्ञान­ग­ता­प­रो­क्ष­त्व­स्यै­वा­ज्ञा­न­नि­वृ­त्त्य­धी­न­त्वात् । न च मास्तु ज्ञाना­प­रो­क्ष्य­स्या­ज्ञा­न­नि­वृ­त्ति­प्र­यो­ज­कत्वं इति वाच्यम् ।

तथासति ज्ञान­मा­त्र­स्या­ज्ञा­न­नि­व­र्त­क­त्वा­पत्त्या परो­क्ष­ज्ञा­न­स्या­प्य­ज्ञा­न­नि­व­र्त­क­त्व­प्र­स­ङ्गात् इत्याशयेन शङ्कते —
नन्वेवमिति ।

एवं­श­ब्दा­र्थ­मे­वाह —
वृत्तीति ।
वृत्त्य­व­च्छि­न्न­चै­त­न्य­रूपे ज्ञाने घटादिरूपविषये च वृत्त्य­व­च्छि­न्न­चै­त­न्य­वि­ष­या­व­च्छि­न्न­चै­त­न्य­यो­र­भे­दा­भि­व्य­क्ति­घ­टि­त­स्ये­त्यर्थः ।

अज्ञा­न­नि­वृ­त्ति­प्र­यो­ज्यत्व इति ।
प्रमातारं प्रति विष­य­चै­त­न्या­व­र­ण­द्वारा विष­य­चै­त­न्य­प्र­ति­यो­गि­क­भे­दा­पा­द­कस्य अज्ञानस्य निवृत्तिं विना अर्थस्य ज्ञानस्य वा आप­रो­क्ष्या­स­म्भ­व­स्यो­क्त­त्वात् आपरोक्ष्यस्य अज्ञा­न­नि­वृ­त्ति­प्र­यो­ज्य­त्व­मि­त्यर्थः ।

ज्ञान­स्या­ज्ञा­न­नि­व­र्त­क­तायां आपरोक्ष्यस्य प्रयो­ज­क­त्वा­भा­वेऽपि न हानिः, प्रयोजकान्तरस्य प्रथ­म­प­रि­च्छे­दान्ते दर्शितत्वात् - इत्याशयेन परिहरति —
नेति ।

तथात्वादिति ।
सन्नि­क­र्ष­रू­प­का­र­ण­म­हिम्ना विष­य­सं­सृ­ष्ट­त­यै­वो­त्प­द्य­मा­न­त्वात् इत्यर्थः । अनु­मि­त्या­दि­वृ­त्ती­ना­म­त­था­त्वे­ना­ति­प्र­स­ङ्गा­भा­वाच्च इत्यपि द्रष्टव्यम् ।

ननु अनु­मे­य­व­ह्न्या­दि­गो­च­रा­नु­मि­ति­वृ­त्ते­रिव ब्रह्म­गो­च­र­शा­ब्द­वृ­त्ते­रपि स्वविषयभूतेन ब्रह्मचैतन्येन संसर्गाभावात् मूला­ज्ञा­ना­नि­व­र्त­कत्वं न स्यात्, तथा च तत्त्व­ज्ञा­ना­न­न्त­र­मपि ब्रह्मा­प­रोक्ष्यं न स्यात्, इत्यत आह —
एवं चेति ।
एवमेवेत्यर्थः । ऐन्द्रि­य­क­वृ­त्ति­व­दे­वेति यावत् ।

ब्रह्म­गो­च­र­वृत्तेः स्ववि­ष­य­सं­स­र्ग­नि­यमे कारणमाह —
सर्वो­पा­दा­न­भू­तेति ।
जायमानस्य सर्वस्य ब्रह्म­सं­स­र्ग­नि­यमे सति ब्रह्म­गो­च­र­वृत्तेः स्ववि­ष­य­सं­स­र्ग­नि­यमे किं वक्तव्यं इत्याशयेन सर्वो­पा­दा­ने­त्यु­क्तम् । कार्य­स्यो­पा­दा­न­सं­स­र्ग­नि­य­मात् । तथा च ब्रह्म­गो­च­र­वृ­त्ते­र्ना­नु­मे­य­व­ह्न्या­दि­गो­च­रा­नु­मि­ति­वृ­त्ति­तु­ल्यता इति भावः ।

आपरोक्ष्यं चेति ।
ननु ज्ञाना­प­रो­क्ष्य­स्या­ज्ञा­न­नि­वृ­त्ता­व­प्र­यो­ज­क­त्व­मते वेदा­न्त­ज­न्य­ज्ञा­न­स्या­प­रो­क्ष­त्व­प्र­सा­धनं अस्मिन् शाब्दा­प­रो­क्ष­वादे व्यर्थमिति चेत्, न — ‘अज्ञा­न­नि­व­र्त­क­ज्ञा­न­म­प­रो­क्ष­रूपं’ इति नियमस्य चक्षु­रा­दि­ज­न्य­ज्ञा­नेषु दृष्टस्य ब्रह्मा­ज्ञा­न­नि­व­र्तके ब्रह्म­गो­च­र­शा­ब्द­ज्ञाने व्यभि­चा­र­वा­र­णा­र्थ­तया तत्सा­ध­न­स्या­र्थ­व­त्त्वो­प­पत्तेः, मूला­ज्ञा­न­नि­व­र्तके ब्रह्म­गो­च­र­शा­ब्द­ज्ञाने आपरोक्ष्यस्य ‘तद्धै­त­त्प­श्यन्’ इत्यादिश्रुत्या ‘ब्रह्म साक्षात्करोमि’ इति विद्वदनुभवेन च सिद्धस्य तत्र तत्प्रसाधनं विना अनुपपत्तेश्च इति भावः ।

घटादौ घटा­दि­गो­च­र­वृ­त्ति­काल एवापरोक्ष्यं, तद्वृत्त्युपरमे तु पुन­र­ज्ञा­ना­न्त­र­कृ­त­भे­द­प्राप्त्या स्वव्य­व­हा­रा­नु­कू­ल­चै­त­न्या­भे­दा­भि­व्य­क्त्य­भा­वात् नापरोक्ष्यं, ब्रह्मणि तु मूला­ज्ञा­न­नि­वृत्तौ पुन­रा­व­र­ण­कृ­त­भे­दा­प्र­सक्त्या ब्रह्म­ज्ञा­ना­न­न्तरं सदैवापरोक्ष्यं - इति विशेषं सूचयति —
तरामिति ।

नन्वे­व­म­ध्य­य­न­गृ­ही­तेति ।
‘नियमेन यत् ज्ञानं विष­य­सं­सृ­ष्ट­त­यो­देति तज्ज्ञानं अज्ञानं निवर्तयत्येव’ इति नियमोपगमे सतीति एवंशब्दार्थः । आपातज्ञानस्यापि स्ववि­ष­य­ब्र­ह्म­सं­स­र्गि­त­यै­वो­त्प­न्न­त्वात् इति भावः ।

सत्ता­नि­श्च­य­रू­प­त्व­मपि निव­र्त­क­ज्ञा­न­वि­शे­षणं, अतो नोक्ता­ति­प्र­सङ्गः - इति शङ्कते —
न च तदिति ।
विचारप्राचीनं अध्य­य­न­गृ­ही­त­वे­दा­न्त­ज­न्य­ज्ञानं तच्छब्दार्थः ।

विशे­ष­ण­म­भ्यु­प­ग­म्या­प्य­ति­प्र­स­ङ्ग­माह —
तथापीति ।

अप्र­ति­ब­द्ध­त्व­मपि निव­र्त­क­ज्ञा­न­वि­शे­षणं, अतो नोक्ता­ति­प्र­स­ङ्गोऽ­पीति समाधत्ते —
न सत्यपीति ।
ननु - मननादेः विक्षे­प­श­ब्दि­ता­स­म्भा­व­ना­वि­प­री­त­भा­व­ना­नि­वृ­त्त्य­र्थत्वे, यस्य विद्याधिकारिणो जन्मा­न्त­री­य­म­न­ना­दि­स­हि­त­श्र­व­णा­नु­ष्ठा­नेन समस्तो विक्षेपदोषो निरस्तः तस्य उपदेशमात्रेणापि सत्ता­नि­श्च­य­रू­प­म­प्र­ति­बद्धं च ब्रह्मज्ञानं जायते ।

तथा च तस्य इह जन्मनि श्रव­ण­म­न­ना­द्य­नु­ष्ठानं विनाऽपि मूला­ज्ञा­न­नि­वृ­त्ति­र्ब्र­ह्मा­प­रोक्ष्यं च स्यात्, इत्यत आह —
भवान्तरीयेति ।
तथा च इष्टापत्तिरिति भावः ।

अथैवमपीति ।
विक्षे­प­दो­ष­नि­वृ­त्त्यर्थं मन­ना­द्य­पे­क्षा­या­म­पी­त्यर्थः । कृत­नि­दि­ध्या­स­न­स्या­धि­का­रिणो घटादिज्ञानेनापि मूला­ज्ञा­न­नि­वृत्तिः किं न स्यात्, घटादिवृत्तेरपि मूला­ज्ञा­न­वि­ष­य­चै­त­न्य­वि­ष­य­क­त्वा­वि­शे­षात् — इत्या­क्षे­पा­भि­प्रायः ।

मूला­ज्ञा­न­घ­ट­ज्ञा­नयोः समा­न­वि­ष­य­क­त्व­म­सि­द्ध­मिति सिद्धा­न्ति­न­श्शङ्कां अनूद्य निराकरोति —
न च तस्येति ।
घटा­दि­ज्ञा­न­स्ये­त्यर्थः ।

तत इति ।
घटा­दि­ज्ञा­ना­दि­त्यर्थः ।

‘घटस्सन्’ इत्याद्याकाराया वृत्तेः ब्रह्म­चै­त­न्य­वि­ष­य­क­त्वा­भ्यु­प­ग­मोऽ­सिद्ध इति सिद्धान्ती शङ्कते —
न च तत्रेति ।
तत्रे­त्या­दि­त­च्छ­ब्द­त्रयं घटादिपरम् ।

तस्येति ।
ब्रह्मण इत्यर्थः ।

घटा­द्य­व­च्छि­न्न­चै­त­न्यस्य घटा­दि­वृ­त्ति­वि­ष­यत्वं पूर्ववादी साधयति —
तदभाव इत्यादिना ।
चैतन्यस्य घटा­दि­वृ­त्ति­वि­ष­य­त्वा­भावे सतीत्यर्थः ।

ननु - यदि घट­मा­त्र­वि­ष­य­क­ज्ञा­नेन घटा­द्य­व­च्छि­न्न­चै­त­न्य­वि­ष­य­का­ज्ञा­न­नि­वृ­त्तिर्न सम्भवति तयो­स्स­मा­न­वि­ष­य­क­त्वा­भा­वात्, तर्हि घटज्ञानेन सह अज्ञानस्य समा­न­वि­ष­य­क­त्व­स­म्प­त्तये अज्ञानमपि घटा­दि­ज­ड­मा­त्र­वि­ष­य­क­मे­वास्तु, नेत्याह पूर्ववादी —
जड इति ।
जडस्य जडत्वादेव प्रमा­णा­न­व­ता­र­द­शा­या­म­प्र­का­शो­प­पत्त्या जड­स्या­प्र­का­शा­र्थ­मा­व­र­ण­क­ल्प­ना­यो­गा­दि­त्यर्थः । कृत्यं - फलम् । तथा च वेदा­न्त­ज­न्य­ज्ञा­न­वत् घटा­दि­ज्ञा­न­स्यापि ब्रह्म­चै­त­न्य­वि­ष­य­क­त्वा­व­श्यं­भा­वेन मूला­ज्ञा­न­स­मा­न­वि­ष­य­क­त्वात् तेनापि तन्नि­वृ­त्ति­प्र­सङ्ग इति स्थितम् ।

तत्र सिद्धान्ती शङ्कते —
न चेति ।

तर्हि वेदा­न्त­ज­न्य­ज्ञा­न­मपि ब्रह्मा­ज्ञा­न­नि­व­र्तकं न स्यादिति पूर्ववादी दूषयति —
वेदान्तजन्येति ।
अखण्डत्वं अनवच्छिन्नत्वम् ।

वेदा­न्त­ज­न्य­ज्ञा­नस्य अख­ण्ड­त्वा­दि­ध­र्म­वै­शि­ष्ट्या­व­गा­हि­त्वो­प­गमे बाधकमाह —
वेदान्तानामिति ।

मूला­ज्ञा­न­नि­व­र्त­क­ज्ञा­नस्य वेदा­न्त­ज­न्य­त्व­मपि विशेषणं विवक्षितं, अतो घटादिज्ञाने नातिप्रसङ्गः — इत्या­श­य­व­ती­मा­शङ्कां अनूद्य दूषयति पूर्ववादी —
न च वेदा­न्ते­त्या­दिना ।
वेदा­न्त­ज­न्य­ज्ञाने कॢप्तस्य मूला­ज्ञा­न­नि­व­र्त­क­त्व­प्र­यो­ज­क­रू­पस्य मूला­ज्ञा­न­स­मा­न­वि­ष­य­क­त्व­स­त्ता­नि­श्च­य­रू­प­त्वा­प्र­ति­ब­द्ध­त्व­ल­क्ष­णस्य निदि­ध्या­स­न­प­रि­पा­क­काले चक्षु­रा­दि­ज­न्य­घ­टा­दि­ज्ञा­नेऽपि सत्त्वे सति ‘वेदा­न्त­ज­न्य­ज्ञा­ना­देव मूला­ज्ञा­न­नि­वृत्तिः, न तु घटादिज्ञानात्’ इति निय­न्तु­म­यु­क्त­त्वात्, वेदा­न्त­ज­न्य­त्व­स्यापि सत्ता­नि­श्च­य­रू­प­त्वा­दे­रिव प्रयो­ज­क­वि­शे­ष­णत्वे गौरवात् मानाभावाच्च इति भावः ।

तर्हि वेदा­न्त­ज­न्य­ज्ञाने कॢप्तं यत् प्रयोजकं, तदेव घटादिज्ञाने नास्तीति शङ्कते —
न च घटाद्याकारेति ।
अवच्छिन्नत्वं कल्पितत्वे हेतुः, अनवच्छिन्नत्वं सत्यत्वे हेतुः । घटादिवृत्तीनां कल्पि­त­चै­त­न्य­वि­ष­य­क­त्वेन सत्य­ब्र­ह्म­वि­ष­य­क­त्वा­भा­वा­दि­त्यर्थः ।

‘घटा­द्य­व­च्छि­न्न­चै­तन्यं कल्पितम्’ इत्यत्र चैतन्यांशस्य अकल्पितत्वं कल्पितत्वं वा विवक्षितम् ? नाद्य इत्याह —
तत्रेति ।
अव­च्छि­न्न­चै­तन्ये इत्यर्थः । अव­च्छे­द्य­चै­त­न्यां­शस्य घटा­दि­वृ­त्ति­वि­ष­यस्य अकल्पितं यत् मूला­ज्ञा­न­वि­ष­य­ब्र­ह्म­चै­तन्यं तद्रू­प­त्वा­दि­त्यर्थः । तथा च घटा­द्य­व­च्छि­न्न­चै­त­न्य­गो­च­र­वृ­त्ते­रपि निव­र्त्य­त्वा­भि­म­त­मू­ला­ज्ञा­न­स­मा­न­वि­ष­य­क­त्व­रूपं वेदा­न्त­ज­न्य­ज्ञाने कॢप्तं प्रयोजकमस्तीति भावः ।

द्वितीयकल्पेऽपि घटादिवृत्तौ कॢप्त­प्र­यो­ज­क­म­स्तीति दर्शयन् तं कल्पं दूषयति —
तस्य कल्पितत्वे इति ।
अव­च्छे­द्य­चै­त­न्यां­श­स्ये­त्यर्थः ।

वक्तव्यतयेति ।
अव­च्छे­द्य­चै­त­न्यां­शस्य कल्पितत्वपक्षे तस्य जडत्वापत्त्या जडस्य तस्य अज्ञा­न­वि­ष­य­त्वा­स­म्भ­वात् अवस्थाज्ञानं प्रति मूला­ज्ञा­न­वि­ष­य­ब्र­ह्म­चै­त­न्य­मेव विषय इति वक्तव्यं, निर्वि­ष­या­ज्ञा­ना­स­म्भ­वात् । तथा च ब्रह्म­चै­त­न्य­वि­ष­य­का­व­स्था­ज्ञा­न­नि­व­र्त­क­त्वाय घटा­दि­वृ­त्ती­ना­मपि मूला­ज्ञा­न­वि­ष­य­ब्र­ह्म­चै­त­न्य­वि­ष­य­क­त्व­म­प­रि­हा­र्यम्, घटादिवृत्तीनां सत्य­ब्र­ह्म­वि­ष­य­क­त्वा­भावे अवस्थाज्ञानेन सह समा­न­वि­ष­य­क­त्वा­भा­वात् तासा­म­व­स्था­ज्ञा­न­नि­व­र्त­कत्वं न स्यादित्यर्थः ।

तन्निवर्तकेति ।
अवस्थाज्ञानं तच्छब्दार्थः ।

तद्विषयत्वेति ।
मूला­ज्ञा­न­वि­ष­य­ब्र­ह्म­चै­तन्यं तच्छब्दार्थः ।

तत्पक्षेऽपीति ।
‘अव­च्छे­द्यां­शस्य कल्पितत्वम्’ इति द्विती­य­क­ल्पेऽ­पी­त्यर्थः ।

तत इति ।
घटा­दि­ज्ञा­ना­दि­त्यर्थः ।

अपरिहारादिति ।
घटा­दि­ज्ञा­न­स्यापि वेदा­न्त­ज­न्य­ज्ञा­न­स्येव मूला­ज्ञा­न­स­मा­न­वि­ष­य­क­त्वा­दिति भावः ।