अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

श्रवणविधिविचारः

स्वग्रन्थे प्रथमं श्रवणविधिः विचार्यते इत्याह —
तत्र तावदिति ।

श्रव­ण­वि­धा­व­धि­का­रिणं निर्दिशति —
अधीतेति ।
वेदा­न्तै­र्ज­नि­ता­पा­त­प्र­ति­प­त्ति­वि­षये ब्रह्मा­भि­न्ना­त्मनि सम्यक् - दार्ढ्येन उदिता - उत्पन्ना जिज्ञासा निर्ण­य­रू­प­ज्ञा­नेच्छा यस्य इत्यर्थः । अधीतवेदस्यापि शिक्षा­क­ल्प­व्या­क­र­णा­दीनां वेदाङ्गानां अध्ययनाभावे सति व्युत्प­त्ते­र­भा­वात् जिज्ञा­सा­हे­तु­भू­ता­पा­त­प्र­ति­प­त्ति­रपि न सम्भवेत् इत्यभिप्रेत्य अधी­त­सा­ङ्ग­स्वा­ध्या­यस्य इत्युक्तम् । न च - निर्दो­ष­वे­दा­न्त­ज­न्यायाः ब्रह्मा­त्म­प्र­ति­पत्तेः कथं आपातत्वं इति - वाच्यम् । ‘नाहं ब्रह्म’ इति­प्र­त्य­क्ष­वि­रो­धा­दि­श­ङ्कया प्रमारूपायामपि ब्रह्मा­त्म­प्र­ति­पत्तौ अप्रा­मा­ण्य­श­ङ्का­स्प­द­त्व­रू­पस्य आपातत्वस्य सम्भ्वात् इति भावः । वेदान्तश्रवणे श्रोतव्य इति विधिः प्रतीयमानः इति सम्बन्धः ।

तज्ज्ञानायेति ।
अप्रा­मा­ण्य­श­ङ्का­ना­स्प­द­ब्र­ह्मा­त्म­ज्ञा­नाय इत्यर्थः । ‘खलु’शब्देन अपू­र्व­वि­धि­त्वा­दि­प्र­का­र­त्र­यस्य पूर्वतन्त्रे प्रसिद्धिः सूच्यते ।

कालत्रयेऽपीति ।
कथमपि - दृष्टार्थत्वेन अदृष्टार्थत्वेन वा केनापि प्रकारेण कालत्रयेऽपि - कदापि विधिं विना प्राप्तिरहितस्य प्रोक्षणादेः प्राप्तिफलको विधिः आद्यः - अपूर्वविधिः इत्यर्थः । ‘व्रीहीन्’ इति द्विती­या­श्रुत्या व्रीहीणां संस्का­र्य­त्वा­व­ग­मात् प्रोक्षणस्य संस्कारकर्मत्वं उक्तमिति मन्तव्यम् ।

विनियोगमिति ।
विधायकशब्दं इत्यर्थः ।

पुरोडाशेति ।
दर्शपूर्णमासयोः आग्ने­या­दि­या­गानां उत्पत्तौ पुरोडाशद्रव्यं विहितम् । व्रीहयस्तु उत्पन्ने यागे यागानुवादेन विहिताः । तथा च व्रीही­णा­मु­त्प­न्न­शि­ष्टा­ना­मु­त्प­त्ति­शि­ष्ट­पु­रो­डा­शा­व­रूद्धे यागे साक्षा­त्सा­ध­न­त्वा­यो­गात् पुरो­डा­श­प्र­कृ­ति­द्र­व्य­त्वेन यागसाधनत्वं पर्यवस्यति । पुरो­डा­श­प्र­कृ­तित्वं च व्रीहीणां तण्डु­ल­नि­ष्प­त्ति­द्वा­र­कम् । तण्डु­ल­नि­ष्प­त्तिश्च स्वका­र­ण­मा­क्षि­पति । तण्डुलनिष्पत्तौ च कारणं अन्व­य­व्य­ति­रे­काभ्यां अवहननं निश्चितमिति विधिं विना विधि­त्सि­ता­व­ह­न­न­प्रा­प्ति­र­स्ती­त्यर्थः ।

ननु अवहननस्य लोकतः प्राप्तौ तस्य लोकत एव नित्य­प्रा­प्ति­रपि स्यात् इत्यत आह —
किंत्वित्यादिना ।

आक्षेपादिति ।
तण्डु­ल­नि­ष्प­त्त्या­क्षे­पात् इत्यर्थः । किंतु अव­ह­न­ना­प्रा­प्तां­श­स­द्भा­वा­त्त­दं­श­प­रि­पू­र­ण­फ­लक इति सम्बन्धः ।

द्वयोरिति ।
द्वयोः शेषिणोः एकस्य शेषस्य नित्यप्राप्तौ शेष्यन्तरस्य निवृत्तिफलकः एकस्मिन् शेषिणि द्वयोः शेषयोः नित्यप्राप्तौ शेषान्तरस्य निवृत्तिफलको वा विधिस्तृतीय इति योजना ।

न तदिति ।
प्राप्तत्वात् न तत्प्रा­प्त्यर्थः, नित्य­प्रा­प्त­त्वात् न तद­प्रा­प्तां­श­प­रि­पू­र­णार्थो वा इत्यर्थः ।

अतिदेशादेवेति ।
प्रथमपरिच्छेदः ‘प्रकृ­ति­व­द्वि­कृतिः कर्तव्या’ इत्ये­वं­रू­पा­दि­त्यर्थः ।

न तत्र विधिरिति ।
‘आज्यभागौ यजति’ इति विधिः आज्यभागयोः प्राप्त्यर्थो न भवति । विधिं विना प्राप्तत्वात् । तयोः अप्रा­प्तां­श­प­रि­पू­र­णार्थो वा न भवति । नित्य­प्रा­प्त­त्वात् । किं तु तन्निवृत्त्यर्थ इति योजना ।

ननु, ‘आज्यभागौ यजति’ इति विधेः इत­रा­ङ्ग­क­ला­प­प­रि­स­ङ्ख्या­य­कत्वं न सिद्धान्तः इत्यत आह —
गृह­मे­धी­या­धि­क­र­णेति ।

नियमविधावपीति ।
परिसङ्ख्याविधौ इव निय­म­वि­धा­व­पी­त्यर्थः ।

तद­व­रु­द्ध­त्वा­दिति ।
अव­ह­न­ने­नै­वा­व­रु­द्ध­त्वात् - तण्डु­ल­नि­ष्प­त्त्या­क्षे­पस्य शान्तत्वात् इत्यर्थः ।

फलत इति ।
नियमविधेः पक्ष­प्रा­प्ता­व­ह­न­ना­दि­क्रि­या­दि­वि­धा­य­क­त्वात् परि­स­ङ्ख्या­वि­धेश्च नित्य­प्रा­प्त­क्रि­या­दि­वि­धा­य­क­त्वात् निय­म­प­रि­स­ङ्ख्या­विध्योः स्वरूपतो विवेकलाभेऽपि फलतो भेदो न युक्त इत्यर्थः ।

नियमस्य निय­म­वि­धि­फ­ल­त्वो­प­गमे हेतुद्वयमाह —
प्राथ­म्या­दि­त्या­दिना ।

प्रत्या­स­न्न­त्वा­दिति ।
विधिं प्रति प्रत्या­स­न्न­त्वात् इत्यर्थः । विधे­य­क्रि­या­ग­तत्वं प्रत्यासन्नत्वे हेतुः ।

इत­र­नि­वृ­त्त्य­पे­क्षया प्रथ­मो­प­स्थि­त­त्व­रूपे प्राथम्ये हेतुमाह -
विधित इत्यादिना अश­क्य­त­ये­त्य­न्तेन ।

इत­र­नि­वृ­त्ते­र्नि­य­म­वि­धि­फ­ल­त्वा­नु­प­गमे हेतुद्वयमाह —
तद­नु­नि­ष्पा­दिन्या इत्यादिना ।
अप्रा­प्तां­श­प­रि­पू­र­णो­प­स्थि­त्य­न­न्त­र­मु­प­स्थि­ताया इत्यर्थः । अनेन विल­म्बि­तो­प­स्थि­ति­कत्वं एको हेतुः उक्त इति मन्तव्यम् ।

द्वितीयहेतौ विप्रकृष्टत्वे हेतुमाह —
अविधेयेति ।
निवृ­त्ति­र्ना­मा­न­नु­ष्ठे­यता, अनङ्गता वा । सा च अवि­धे­य­न­ख­वि­द­ल­ना­दि­गता इत्यर्थः ।

इदानीं प्रकृतं श्रव­ण­वि­धि­वि­चा­र­मा­र­भते —
एवमिति ।

अप्रा­प्त­त्वा­दिति ।
ब्रह्म­सा­क्षा­त्कारं प्रति वेदान्तश्रवणस्य साधनतया मानान्तरात् अनधिगतत्वेन अप्रा­प्ता­र्थ­क­त्वात् इत्यर्थः । ननु माना­न्त­रा­द­न­धि­ग­त­त्व­म­सि­द्धम् । अन्व­य­व्य­ति­रे­काभ्यां तदवगतिसम्भवात् ।

तथा हिवेदान्तश्रवणे सति ब्रह्म­सा­क्षा­त्कारो दृश्यते, असति च तस्मिन् न दृश्यत इति, तत्राह —
न हीति ।

तदनुत्पत्तेरिति ।
साक्षा­त्का­रा­नु­त्पत्तेः इत्यर्थः ।

वामदेवस्येति ।
तथा च श्रुतिः ‘गर्भ एवैतच्छयानो वामदेव एवमुवाच’ [ऐ. उ. १—५] इति । एवं - पूर्वो­क्त­प्र­का­रेण एतद् - ब्रह्म­ज्ञा­न­ज­न्मना स्वकीयां शक्तिं उवाच इत्यर्थः । ननु - गान्ध­र्व­शा­स्त्र­श्र­वणे षङ्जा­दि­स्व­र­सा­क्षा­त्कारः तदभावे तदभाव इति दृष्टम् । तत्र श्रोत­व्या­र्थ­वि­शे­ष­स्व­र­सा­क्षा­त्कारं प्रति गान्ध­र्व­शा­स्त्र­वि­चा­रा­त्म­कस्य श्रवणविशेषस्य कारणत्वग्रहकाले लाघवात् श्रोत­व्या­र्थ­सा­क्षा­त्का­र­त्वा­व­च्छिन्नं प्रति श्रवणमात्रस्य कारणत्वं गृह्यते ।

तथा च ब्रह्म­सा­क्षा­त्का­र­वे­दा­न्त­श्र­व­णयोः विशिष्य कार्य­का­र­ण­भा­व­ग्र­ह­णा­भा­वेऽपि ब्रह्म­सा­क्षा­त्का­र­स्यापि श्रोत­व्या­र्थ­सा­क्षा­त्का­र­त्वात् वेदा­न्त­श्र­व­ण­स्यापि श्रवणत्वात् उक्त­सा­मा­न्य­रू­पेण वेदान्तश्रवणस्य ब्रह्म­सा­क्षा­त्का­र­हे­तुत्वं प्राप्तमेव इति नापूर्वविधिः इति —नेत्याह —
न वा श्रवणमात्रमिति ।

धर्मश्रवणस्थले अदृष्टरूपस्य अलौ­कि­क­श्रे­य­स्सा­ध­न­ता­वि­शि­ष्ट­या­गा­दि­रू­पस्य वा धर्मस्य साक्षा­त्का­रा­यो­ग्य­तया साक्षा­त्का­रा­द­र्श­नेन उक्त­सा­मा­न्य­का­र्य­का­र­ण­भा­वस्य व्यभिचारात् न लाघवावतार इति तत्र गान्ध­र्व­शा­स्त्र­श्र­व­णस्य अन्वयादिना स्वर­सा­क्षा­त्का­र­हे­तु­त्व­ग्र­हेऽपि वेदान्तश्रवणस्य न ब्रह्म­सा­क्षा­त्का­र­हे­तु­त्व­प्राप्तिः इत्याह —
गान्धर्वादीति ।
निर्विद्य बाल्येन स्थातुमिच्छेत् । विचा­र­प्र­यो­ज­का­पा­त­रूपा बुद्धिः अवि­द्या­नि­वृ­त्त्या­दि­का­र्या­क्ष­म­त्वात् पण्डा, साऽस्य सञ्जाता इति पण्डितः, तस्य कृत्यं पाण्डि­त्यं-श्र­वणं इत्यर्थः । बाल्यं नाम बालस्य - शिशोः कृत्यं दम्भ­द­र्पा­दि­रा­हि­त्यम्, न तु बाले­प्र­सि­द्ध­य­थे­ष्ट­चे­ष्टा­रू­पम् । तस्य बहि­र्मु­ख­त्वा­पा­द­क­त्वेन विद्या­वि­रो­धि­त्वात् । दम्भा­दि­रा­हि­त्य­रू­प­भा­व­शु­द्धि­वा­च­केन बाल्यपदेन भावशुद्धिसाध्यं मननं लक्ष्यते । श्रव­णा­न­न्त­र­भा­वि­त्वात् तस्य । बाल्यं च पाण्डित्यं च निर्विद्य - निश्चयेन लब्ध्वा - तदुभयं सम्यगनुष्ठाय इति यावत् । अथ - अनन्तरं मुनिः स्यात् मननशीलो भवेत् इति विधिः । ध्यानं अत्र मननम् । ध्याननिष्ठे व्यासादौ मुनि­श­ब्द­प्र­यो­ग­द­र्श­नात्, ध्यानं विना विचा­र­मा­त्र­वि­श्रान्ते तदप्रयोगाञ्च । तथा च अपूर्वत्वात् यथा श्रवणे विधिः, एवं मौनस्य विद्यासहकारिणः - विद्योत्पत्तौ साधनस्य विधि­रे­वा­श्र­यि­तव्यः अपूर्वत्वादेव इति भाष्यार्थः । सूत्रार्थस्तु — तद्वतः - श्रव­ण­म­न­न­ज­नि­त­त­त्त्व­नि­र्ण­य­रू­प­वि­द्या­वतः तत्त्व­सा­क्षा­त्का­रा­र्थिनः सन्न्यासिनः पाण्डि­त्य­बा­ल्या­पे­क्षया तृतीयं मौनं ‘अथ मुनिः’ इति वाक्येन विधीयते । ननु - पाण्डि­त्य­बा­ल्याभ्यां निर्णीततत्त्वः तत्त्व­सा­क्षा­त्का­रार्थी ध्याने स्वयमेव प्रवर्तते, रत्न­त­त्त्व­सा­क्षा­त्का­रा­र्थीव रत्न­त­त्त्व­गो­च­र­प्र­त्य­य­स­न्ततौ । न च - तत्त्व­सा­क्षा­त्का­रा­र्थिनः तत्सा­ध­न­श्र­व­णा­दा­वपि स्वयमेव प्रवृ­ति­स्स्या­दिति तत्रापि विधि­वै­य­र्थ्य­शङ्का तुल्या इति - वाच्यम् । विधिं विना वेदान्तश्रवणे प्रवृ­त्त्य­स­म्भ­वस्य साधितत्वात् ।

तथा च मौनविधिः व्यर्थः —इत्यत्राह —
पक्षेणेति ।
मौनस्य सहकार्यन्तरस्य विधिः अङ्गीकर्तव्यः । पक्षे­णा­प्रा­प्ति­स­त्त्वात् । साक्षा­त्का­रार्थं ध्याने स्वयमेव प्रवृत्तस्यापि विष­य­द­र्श­न­प्रा­ब­ल्यात् ध्यानस्य कदा­चि­द­प्रा­प्ति­स्स­म्भ­वति । तथा च मौनविधेः अपू­र्व­वि­धि­त्वा­भा­वेऽपि नियमविधित्वं सिद्ध्यत्येव । सति च नियमविधौ तदतिक्रमे निय­मा­दृ­ष्टा­ला­भेन साक्षा­त्का­रा­नु­द­य­भीत्या स्वभा­व­प्रा­प्त­मपि विषयदर्शनं यत्नेन निवार्य ध्यान एव प्रवर्तते इति ‘पक्षेण’ इति सूत्र­भा­गा­भि­प्रायः ।

ननु - ब्रह्म­वि­द्या­प्र­धाने प्रकरणे कथं ध्यानादिविधिः वाक्य­भे­द­प्र­स­ङ्गात् इति, नेत्याह—
विध्यादिवदिति ।
[प्रधाने] अङ्गविधिवत् इत्यर्थः । यथा प्रधानविधिपरे प्रकरणे अवा­न्त­र­वा­क्य­भे­देन प्रया­जा­द्य­ङ्ग­विधिः, तथा ब्रह्म­वि­द्या­ङ्ग­ध्या­ना­दि­विधिः इत्यर्थः । उक्तरीत्या मौन­वि­धे­र्नि­य­म­वि­धित्वे स्थिते भाष्य­ग­ता­पू­र्व­त्व­व­चनं मौनविध्यंशे पाक्षि­का­प्रा­प्त्य­भि­प्रायं द्रष्टव्यम् । यथासूत्रं पक्षे प्राप्त्यभावात् इत्येव वक्तव्ये भाष्ये अपूर्वत्वात् इति वचनं श्रवणविधिः अपूर्वविधिरेव इति ज्ञापनार्थं, अप्राप्तिमात्रे च दृष्टा­न्त­दा­र्ष्टा­न्ति­क­भावो विवक्षितः, इति प्रका­टा­र्थ­का­रा­दी­ना­मा­शयः ।

अपू­र्व­वि­धि­त्व­पक्षं दूषयति—
वेदान्तश्रवणस्येति ।
विचा­र­वि­शि­ष्ट­वे­दान्त [ज्ञान] रूपस्य श्रवणस्य ब्रह्म­सा­क्षा­त्का­र­हे­तुत्वं विधिं विनापि प्राप्तं इत्यर्थः ।

ननु वाक्यस्य कथं साक्षा­त्का­र­हे­तु­त्वम्, इन्द्रि­य­ज­न्य­ज्ञा­न­स्यैव साक्षा­त्का­र­त्वात्, अत आह —
अप­रो­क्ष­व­स्त्विति ।
अप­रो­क्ष­व­स्तु­वि­ष­य­कत्वं ज्ञान­स्या­प­रो­क्ष­त्वम्, न तु इन्द्रि­य­ज­न्य­त्वम् । वस्त्वा­प­रोक्ष्यं च वस्तु­व्य­व­हा­रा­नु­कू­ल­चै­त­न्या­भि­न्नत्वं इति शाब्दा­प­रो­क्ष­वादे वक्ष्यते । तथा च नित्या­प­रो­क्ष­त्वे­न­श्रु­ति­सि­द्ध­ब्र­ह्म­रू­प­व­स्तु­वि­ष­य­क­त्वात् वेदा­न्त­ज­न्य­ज्ञा­नस्य साक्षा­त्का­र­त्व­सिद्धिः इत्यर्थः ।

ननु अस्मिन् शास्त्रे शाब्दा­प­रो­क्ष­वा­दस्य का सङ्गतिः? अत आह —
तदर्थमेव हीति ।
वेदान्तानां ब्रह्मा­प­रो­क्ष­प्र­मि­ति­ज­न­क­त्व­सि­द्ध्य­र्थ­मेव तद्वादसङ्गतिः नान्यार्थं इत्येतत् प्रसिद्धं इत्यर्थः । ननु अप­रो­क्ष­व­स्तु­वि­ष­यकं प्रमाणं स्वविषये साक्षा­त्का­र­हेतुः इति शाब्दा­प­रो­क्ष­वादे प्रसाधनेन वेदान्तानामपि स्वविषये नित्यापरोक्षे ब्रह्मणि अप­रो­क्ष­ज्ञा­न­सा­मा­न्य­हे­तु­त्व­मेव प्राप्तम्, न तु सत्ता­नि­श्च­य­रू­प­त­त्सा­क्षा­त्का­र­हे­तु­त्वम् । तच्च विचा­र­वि­शि­ष्ट­वे­दा­न्त[ज्ञा­न]रू­प­श्र­व­ण­स्यैव युक्तम् । अन्यथा विचारात् प्रागपि सत्ता­नि­श्च­य­प्र­स­ङ्गात् । न च वाक्य­ज­न्य­सा­क्षा­त्का­र­मा­त्रा­दे­वा­वि­द्या­नि­वृ­त्ति­ल­क्ष­ण­फ­ल­स­म्भ­वात् सत्ता­नि­श्च­य­रू­पत्वं साक्षात्कारस्य नान्वेषणीयं इति वाच्यम् । तत्र तत्र ब्रह्मो­प­दे­श­प्र­दे­शेषु याव­त्सं­श­य­नि­वृत्ति पुनःपुनः प्रश्नप्रतिवचन [रूप] लिङ्गेन ‘वेदा­न्त­वि­ज्ञा­न­सु­नि­श्चि­तार्थाः’ [मु.उ. ३-२-६] इत्यादिश्रुत्या श्रुत­ब्र­ह्म­णोऽपि यथापूर्वं संसा­रा­नु­वृ­त्त्य­नु­मि­ता­वि­द्या­नि­वृ­त्त्य­भा­व­रू­प­लि­ङ्गेन श्रव­ण­म­न­न­ध्या­न­श­म­द­म­भ­क्ति­वै­रा­ग्या­दीनां ज्ञान­प­रि­पा­क­हे­तूनां विधि­द­र्श­न[रू­प]लि­ङ्गेन च सत्ता­नि­श्च­य­रू­प­ब्र­ह्म­सा­क्षा­त्का­र­स्यैव अवि­द्या­नि­वृ­त्त्य­र्थ­मि­ष्य­मा­ण­त्वात् ।

तथा च वेदान्तश्रवणस्य उक्त­रू­प­सा­क्षा­त्का­र­हे­तुत्वं अप्राप्तमेव इति शङ्कते —
न च तावतेति ।
वेदान्तानामिति शेषः । अप­रो­क्ष­व­स्तु­वि­ष­यकं प्रमाणं स्वविषये साक्षा­त्का­र­हेतुः इति प्रसा­ध­न­मा­त्रे­णे­त्यर्थः ।

अप­रो­क्ष­व­स्तु­वि­ष­यकं प्रमाणं अप­रो­क्ष­ज्ञा­न­हेतुः इति स्थिते विचारो विचा­र्य­नि­र्ण­य­हेतुः इति च स्थिते कार्य­का­र­ण­भा­व­द्व­य­मे­ल­नेन प्रकृते विचा­र­वि­शि­ष्ट­वे­दा­न्त­ज्ञा­न­रूपं श्रवणं सत्ता­नि­श्च­य­रू­प­ब्र­ह्म­सा­क्षा­त्का­र­हेतुः इति सिद्ध्यति इत्याह —
विचारमात्रस्येति ।

सहकारीति ।
चित्ते­का­ग्न्या­दि­रू­प­स­ह­का­रि­वै­क­ल्येन इत्यर्थः ।

उक्त­का­र्य­का­र­ण­भा­व­द्व­य­रू­प­प्र­मा­ण­ब­लेन श्रवणस्य ब्रह्म­सा­क्षा­त्का­र­हे­तुत्वे सिद्धे वामदेवस्य जन्मान्तरीयं श्रवणादिकं कल्प्यते, यथा जातमात्रे जन्तौ दृश्यमानभोगस्य कारणतया प्राग्भवीयं कर्म कल्प्यते तद्वत्, अतो न व्यति­रे­क­व्य­भि­चार इत्याह —
जातिस्मरस्येति ।
पूर्वजातिं स्मरतो वामदेवस्य इत्यर्थः ।

अन्यथेति ।
उक्तरीत्या द्विवि­ध­व्य­भि­चा­र­प­रि­हा­रा­नु­प­गमे इत्यर्थः । व्यभि­चा­र­नि­श्च­येन हेतु­त्वा­भा­व­रू­प­बा­ध­नि­श्च­यात् श्रव­ण­वि­धे­र­बो­ध­क­ता­पात्त्या तवा­प्य­पू­र्व­वि­धिर्न स्यात् इत्यर्थः । ब्रह्म­सा­क्षा­त्कारे श्रवणमिव तपोविशेषादिकं उत्कृ­ष्ट­ज­न्म­प्रा­प्ति­रूपं वा कार­णा­न्त­र­म­स्तीति शङ्काकाले वामदेवस्य कारणान्तरात् ज्ञानमुत्पन्नं इति शङ्कासम्भवेन श्रवणस्य वामदेवे व्यति­रे­क­व्य­भि­चा­र­ज्ञानं श्रवणस्य साक्षा­त्का­र­हे­तु­त्व­ग्र­ह­प्र­ति­ब­न्धकं न भवति ।

न च - एकस्य पदार्थस्य ज्ञाने पर­स्प­र­नि­र­पे­क्ष­का­र­ण­द्व­या­स­म्भ­वेन ब्रह्म­सा­क्षा­त्कारे कार­णा­न्त­र­स­त्त्व­श­ङ्कैव न जायत इति - वाच्यम्, लोके तथादृष्टत्वात् इत्याह—
घटेति ।

वेदान्तश्रवणस्य ब्रह्म­सा­क्षा­त्का­र­हे­तुत्वे विधिं विनैव प्राप्ते फलितमाह —
तथा चेति ।

श्रवणादिविधेः नियमविधित्वे सत्येव आवृत्त्यधिकरणं सङ्गच्छते इत्याह —
अत एवेति ।
अपू­र्व­वि­धि­त्वा­भा­वा­देव इत्यर्थः । अत एव आवृत्त्युपदेश इति सम्बन्धः । ‘दर्श­न­प­र्य­व­सा­नानि’ इत्यारभ्य ‘तण्डु­ल­नि­ष्प­त्ति­प­र्य­व­सा­नानि’ इत्यन्तस्य भाष्यस्य इयं योजना —दृष्टार्थानि श्रव­णा­दी­न्या­व­र्त्य­मा­नानि सन्ति दर्श­न­प­र्य­व­सा­नानि भवन्ति, यथा अव­घा­ता­दी­न्या­व­र्त्य­मा­नानि तण्डु­ल­नि­ष्प­त्ति­प­र्य­व­सा­नानि भवन्ति - इति । ‘दृष्टार्थानि’ इत्यत्र दृष्टं फलं आत्मदर्शनमेव । अयं भावः - ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ [बृ. उ. २-४-५] इत्यादिना आत्म­द­र्श­नो­द्दे­शेन श्रवणादीनि विधीयन्ते । तत्र किमेतानि सकृदनुष्ठेयानि, किं वा याव­दा­त्म­द­र्श­न­मा­व­र्त्यानि इति संशये - सकृ­दे­वा­नु­ष्ठे­यानि, तावता विधे­श्चा­रि­ता­र्थ्यात्; यथा अग्निचयने ‘सर्वौषधस्य पूर­यि­त्वाऽ­व­हन्ति’ इति वाक्यविहितं सर्वौ­ष­धी­ना­म­व­ह­ननं उप­धे­यो­लू­ख­ल­सं­स्का­र­रूपं सकृ­दे­वा­नु­ष्ठी­यते तद्वत्; तथा च सकृ­द­नु­ष्ठि­त­श्र­व­णा­दि­ज­न्य­म­दृष्टं जन्मान्तरे ब्रह्म­द­र्श­न­हेतुः इत्य­पू­र्व­वि­धित्वं श्रव­णा­दि­वि­धी­ना­मिति प्राप्ते - सिद्धान्तः — श्रव­णा­द्या­वृत्तिः कर्तव्या । कुतः ? असकृदुपदेशात् । तथा हि —भृगुवल्ल्यां भृगुं प्रति पिता असकृत् ‘तपसा ब्रह्म विजिज्ञासस्व’ [तै. उ. ३-२] इत्युपदिशति । तपः - आलोचनं ब्रह्मविचारः । तथा छान्दो­ग्य­ष­ष्ठा­ध्याये श्वेतकेतुं पुत्रं प्रति पिता विचा­र­पू­र्व­क­म­स­कृत् ‘तत्त्वमसि’ इत्युपदिशति । किं च श्रव­णा­दि­भि­रा­त्म­द­र्श­न­फले जननीये श्रव­णा­द्या­वृ­त्ति­रू­प­दृ­ष्ट­द्वा­र­स­म्भवे अदृ­ष्ट­द्वा­र­क­ल्प­ना­यो­गात् तत्त्वं­प­दा­र्थयोः श्रव­णा­द्या­वृत्तिं विना दुर्बोधत्वाच्च तण्डु­ल­नि­ष्प­त्ति­फ­ल­का­व­घा­त­व­दा­वृ­त्ति­रेव, न त्वग्नि­च­य­ना­न्त­र्ग­ता­व­घा­त­व­द­ना­वृत्तिः, तद­न्त­र्ग­ता­व­घा­त­स्या­दृ­ष्टा­र्थ­त्वेन वैषम्यात् - इति व्युत्पादितं आवृत्त्यधिकरणे । तत् अपू­र्व­वि­धि­वा­दिनां न सङ्गच्छते इति भावः । तन्त्रलक्षणं एकादशाध्यायः ।

अत इति ।
प्राप्त­त्वा­दि­त्यर्थः । अस्य हेतोः एवकारार्थे अपू­र्व­वि­धि­त्वा­भावे अन्वयः ।

नियमविधित्वे हेतुमाह —
तदभावे हीति ।
तदभावे मनस एव सावधानं तत्र प्रणिधाने कदाचित् पुरुषः प्रवर्तेत इति सम्बन्धः ।

मनसा गृह्य­मा­णा­त्म­ग­त­वि­शे­ष­ग्र­ह­णाय मनोव्यापार एव यत्नेन प्रवृतौ दृष्टान्तमाह —
यथेति ।

किञ्चिदिति ।
रत्नादीत्यर्थः ।

तत्रेति ।
रत्ना­दा­वि­त्यर्थः ।

तस्यैवेति ।
न तु व्यापारान्तर इत्येवकारार्थः । पुनरपि चक्षुषो व्यापारे प्रवर्तत इति सम्बन्धः । प्रणिधानं यथा भवति तथा प्रवर्तत इति प्रवृ­त्ति­क्रि­या­वि­शे­षणं प्रणिधानम् । तच्च रत्ना­दि­व­स्त्व­भि­मु­ख­तया चक्षुषः स्थापनम्, अन­न्त­र­मु­न्मी­ल­न­व्या­पा­रा­नु­कू­ल­यत्नः प्रवृत्तिः, इति प्रणि­धा­न­प्र­वृ­त्त्यो­र्भेदः ।
वेदान्तैरिति ।
‘नेह नानास्ति किञ्चन’ [बृ. उ. ४-४-१९] ‘प्रज्ञानं ब्रह्म’ [ऐ. उ. ५-३] ‘अहं ब्रह्मास्मि’ [बृ. उ. १-४-१०] इत्यादिभिः इत्यर्थः । इह —ब्रह्माणि नाना-ज्ञा­तृ­ज्ञा­न­ज्ञे­य­रू­पेण भिन्नं विशेषजातं किञ्चिदपि नास्ति । प्रकृष्टं ज्ञानं - प्रज्ञानं - नित्य­स्व­प्र­का­श­जी­व­चै­तन्यं ब्रह्म । अहं - बुद्ध्या­दि­सा­क्षि­भू­त­श्चि­दात्मा ब्रह्म अस्मि - भवामि इति श्रुतीनामर्थः । अध्ययनपदं साङ्गाध्ययनपरम् । आकर्ण्य - परोक्षतया ज्ञात्वा श्रुतौ श्रद्दधानः ।

तदवगमायेति ।
निर्वि­शे­ष­स्व­रू­प­त्वा­धि­ग­मा­ये­त्यर्थः । तत्रेति ‘अहं’ इति­गृ­ह्य­मा­णा­त्म­नी­त्यर्थः । सावधानं- ऐकाग्र्यं यथा भवति तथा ।

ननु अहमिति गुह्यमाणे जीवे विशे­षा­क­र्ण­ना­न­न्तरं वेदान्तश्रवण इव कदाचित् मनोव्यापारे वेदा­न्त­वि­चा­र­नि­र­पे­क्षेऽपि प्रवृ­त्ति­स्स्यात् इत्ययुक्तम्, श्रुत्या ब्रह्मणि मनो­वि­ष­य­त्व­नि­षे­धात् साङ्गा­ध्य­य­न­व­त­स्त­न्नि­षे­धा­व­ग­ति­स­म्भ­वात् इति, नेत्याह —
अप्राप्येति ।
श्रुतिः अनवहितमनोविषया इति सम्बन्धः । वाचः - सत्य­ज्ञा­ना­दि­शब्दाः अप्राप्य - शक्त्या ब्रह्मा­प्र­ति­पाद्य मनसा सह निव­र्त­न्ते­ल­क्ष­णा­मा­श्र­यन्ते इत्यर्थः । ‘मनसा सह’ इत्यनेन मनसोऽपि ब्रह्माणि प्राप्ति­र्नि­षि­ध्यते इति भावः । ब्रह्माणि मनो­वि­ष­य­त्व­नि­षे­ध­व­त्त­द्वि­ष­य­त्व­मपि श्रुत्या उच्यते, तथा च श्रुत्योः विरोधे सति मन­श्श­ब्दि­त­बु­द्धि­ग­म्य­त्व­प्र­ति­पा­द­क­श्रुतौ बुद्धे­र­ग्र्य­त्व­वि­शे­ष­ण­ब­ला­द्वि­ष­य­त्व­नि­षे­ध­श्रु­ते­र­न­व­हि­त­म­नो­वि­ष­य­त्व­नि­षे­धा­र्थ­क­त्व­प्र­तीतेः । (तथा च) साङ्गाध्ययनवत उक्त­व्य­व­स्था­प्र­ती­ति­स­म्भ­वात् मनस एव व्यापारे प्रवृत्तिः दुर्वारेत्याह -

मनसैवेति ।
अनवहितत्वं एका­ग्र­ता­शू­न्य­त्वम् ।

शङ्कासम्भवादिति ।
अग्र्य­त्व­वि­शे­ष­ण­सा­म­र्थ्येन यथो­क्त­व्य­व­स्था­नि­श्च­य­स­म्भ­वात् इति वक्तव्ये शङ्का­स­म्भ­वा­दि­त्यु­क्ते­र­य­मा­शयः - निर्गु­ण­ब्र­ह्म­सा­क्षा­त्कारे मनसः करणत्वं नास्ति, औप­नि­ष­द­त्व­श्रु­ति­वि­रो­धात् । सोपा­धि­का­त्म­सा­क्षा­त्का­रेऽपि न तस्य करणत्वम्, तत्सा­क्षा­त्का­रस्य नित्य­सा­क्षि­रू­प­त्वात् । ‘मन­सै­वा­नु­द्र­ष्ट­व्यम्’ [बृ. उ. ४-४-१९] इत्यादौ तृतीया वाक्यो­त्थ­वृ­त्ति­सा­क्षा­त्कारं प्रति साध­न­त्वा­भि­प्राया - इत्यादिकं सर्वं शाब्दा­प­रो­क्ष­वादे वक्ष्यते । तथा च वस्तुतो मनसः करणत्वाभावात् मनस एव व्यापारे पुरुषः कदाचित् प्रव­र्ते­ते­त्यु­त्प्रे­क्षितं निय­म­वि­धि­व्या­व­र्त्य­म­स­ङ्ग­त­मे­वेति ।

अत एव व्याव­र्त्या­न्त­र­माह —
अथवेति ।
अधी­त­सा­ङ्ग­स्वा­ध्या­यस्य हि ‘तरति शोकमात्मवित्’ [छा. उ. ७—१-३] इत्यादिश्रुत्या ‘आत्मज्ञानं मुक्तिसाधनम्’ इति ज्ञानं भवति । न च साङ्गा­व्य­य­न­व­तोऽपि लोके विचा­र­म­न्त­रे­णा­त्म­त­त्त्व­ज्ञा­न­ज­न्मास्ति । आत्म­प्र­ति­पा­द­क­वे­दा­न्तेषु नाना­वि­ध­यो­ज­ना­स­म्भा­व­नया तात्प­र्य­सं­श­या­दे­र­नु­भ­व­सि­द्ध­त्वात् । ततश्च मुक्ति­सा­ध­न­ज्ञा­नार्थी तज्ज्ञा­न­प्र­ति­ब­न्ध­क­ता­त्प­र्य­भ्र­म­सं­श­या­दि­नि­रा­साय वेदान्तविचारे प्रवर्तमानो यथा ब्रह्म­मी­मां­सा­शास्त्रे प्रवर्तते, तथैव न्याय­सा­ङ्ख्या­दि­शा­स्त्र­वि­चा­रेऽपि कदाचित् प्रवर्तेत । तत्रापि तदभिमतयोजनया वेदा­न्त­वि­चा­र­स­त्त्वात् । न च साङ्ख्या­दि­त­र्क­शा­स्त्र­ग­ता­त्म­वि­चा­र­स्या­द्वि­ती­या­त्म­वि­चा­र­रू­प­त्वा­भा­वेन तादृशात्मनि वेदान्तानां तात्प­र्य­भ्र­म­सं­श­या­द्य­नि­व­र्त­क­त्वात् विशिष्य स्वयमेव तस्य तात्प­र्य­भ्र­मा­दि­हे­तु­त्वाच्च न तत्रा­त्म­ज्ञा­ना­र्थिनां प्रवृत्तिः सम्भवतीति वाच्यम् । जीव­भि­न्न­प­र­मा­त्म­ज्ञानं मुक्तिसाधनमिति भ्रमेण तत्रापि प्रवृ­त्ति­स­म्भ­वात् । न च - साङ्गाध्ययनवतो भिन्नात्मज्ञानं मुक्ति­सा­ध­न­मि­ति­भ्रमो न सम्भवति ‘अहं ब्रह्मास्मि’ [बृ. उ. १-४-१०], ‘ब्रह्मा­वि­दा­प्नोति परम्’ [तै. उ. २-१-१] इत्या­दि­वे­दा­न्तेषु जीवा­भि­न्न­प­र­मा­त्म­ज्ञा­न­स्यैव मुक्ति­सा­ध­न­त्व­प्र­ती­ते­रिति - वाच्यम् । ‘जुष्टं यदा पश्य­त्य­न्य­मीं­श­मस्य महिमानमिति वीतशोकः’ इति­श्रु­ति­ग­ता­न्य­श­ब्देन भ्रमसम्भवात् । यदा ईशं - सन्निधिमात्रेण बुद्ध्या­दि­प्र­व­र्त­कम् अन्यं - वस्तुगत्या बुद्ध्यादिभ्यो भिन्नम् । भ्रान्त्या बुद्ध्या­द्य­भि­न्न­त्वेन चिदात्मनो गृहीतत्वात् भिन्नत्वोपदेशः सफलः । न तु जीव­भि­न्न­मि­त्यर्थः । जीवब्रह्मभेदस्य प्रत्य­क्ष­सि­द्ध­तया उप­दे­शा­न­पे­क्ष­त्वात् । जुष्टं-ऋ­षि­सङ्घैः सेवितम् । ‘ऋषि­स­ङ्घ­जु­ष्टम्’ [श्वे.उ.६-२१] इति श्रुत्यन्तरात् । पश्यति —ईशोऽहमिति साक्षात्करोति । तदा अस्य - ईशस्य महिमानं - मह­त्त्वो­प­ल­क्षितं स्वरूपं इति - एति - प्राप्नोति वीतशोकश्च भवति इति श्रुते­र्वा­स्त­वार्थः ।

ननु श्रोतव्यवाक्ये आत्मविचारमात्रं प्रतीयते न तु अद्वै­ता­त्म­वि­चारः; ततश्च कथमनेन विधिना भिन्ना­त्म­वि­चा­र­व्या­वृ­त्ति­लाभः इत्यत आह —
इहेति ।
अत्र ‘आदिपदेन’ ‘आत्मनि …….. दृष्टे………... सर्वं विदितम्’ [बृ.उ. ४-५-६] इति प्रतिज्ञावाक्यं गृह्यते । आत्मनः सर्वाधिष्ठानतया सर्वात्मकत्वे हि सति आत्मनि विदिते तद्व्यतिरिक्तं सर्वं तत्त्वतो विदितं भवति, सर्वमात्मैवेति सामानाधिकरण्यं च सिद्ध्यति । नान्यथा । तथा च श्रोत­व्य­वा­क्य­स्थ­मा­त्म­पदं अद्वि­ती­या­त्म­प­र­मे­वेति तद्विचारविधिना भिन्ना­त्म­वि­चा­र­व्या­वृ­र्त्ति­ल­भ्यते इति भावः । ननु - तण्डुलनिष्पत्तौ अवहननस्येव नखविदलनादेरपि वस्तु­त­स्सा­ध­न­त्वात् तन्निवृत्तिफलको निय­म­वि­धि­र्युक्तः । इह तु अद्वि­ती­य­ब्र­ह्म­सा­क्षा­त्कारे भिन्ना­त्म­वि­चा­रस्य न वस्तु­त­स्सा­ध­न­त्व­मस्ति, अत­स्त­न्नि­वृ­त्ति­फ­लको नियमविधिर्न युज्यते । न च - मा भूत् भिन्ना­त्म­वि­चा­रस्य व्याव­र्त्य­त्वम्, नैतावता निय­म­वि­ध्य­नु­प­पत्तिः प्रकृतेऽस्ति, गुरु­नि­र­पे­क्ष­वि­चा­र­भा­षा­प्र­ब­न्धे­ति­हा­स­पु­रा­णा­दी­ना­मु­दा­ह­रि­ष्य­मा­णानां सत्ता­नि­श्च­य­रू­प­ब्र­ह्म­सा­क्षा­त्का­र­हे­तु­त्व­स­त्त्वेन व्याव­र्त्य­त्व­स­म्भ­वात् इति - वाच्यम् । तेषा­म­प्य­न­न्त­र­मेव वक्ष्यमाणरीत्या अवि­द्या­नि­व­र्त­क­स­त्ता­नि­श्च­य­रू­प­सा­क्षा­त्का­र­प्र­ति­ब­न्ध­क­क­ल्म­ष­नि­वृ­त्ति­द्वारा गुर्व­धी­न­वे­दा­न्त­वि­चा­र­वत् साक्षा­त्का­रा­हे­तु­त्वेन वस्तु­त­स्सा­ध­न­त्वा­भा­वात् । तथा च न निय­म­वि­धि­स्स­म्भ­वति इत्याशङ्क्याह न हीति ।

कुलधर्म इति ।
कुल­क्र­मा­ग­त­ध­र्मस्य यथा आवश्यकता तथा वस्तु­स­त्सा­ध­ना­न्त­र­प्रा­प्ते­रा­व­श्य­कत्वं न हीत्यर्थः ।

येनेति ।
आव­श्य­क­त्वे­ने­त्यर्थः ।

निय­मा­र्थ­व­त्त्वा­येति ।
विधि­त्सि­त­गु­र्व­धी­न­वे­दा­न्त­श्र­व­णे­नेव गुरु­नि­र­पे­क्ष­वि­चा­रा­दि­नाऽपि सत्ता­नि­श्च­य­रू­प­सा­क्षा­त्का­र­स्व­रू­पो­त्प­त्ति­स­म्भवे सति गुर्व­धी­न­वे­दा­न्त­श्र­व­ण­नि­य­मस्य दृष्ट­प्र­यो­ज­ना­भा­वा­न्नि­य­मा­दृ­ष्ट­मु­पे­यम्, तस्य च कल्म­ष­नि­वृ­त्ति­द्वारा विद्यासाधनत्वं च कल्प­नी­य­मे­वे­त्यर्थः । अदृष्टजन्यत्वं कल्म­ष­नि­वृ­त्ते­र्वि­शे­ष­णम् । स्वपदं साक्षात्कारपरम् ।

शङ्क्येतेति ।
येन शङ्क्येत इति सम्बन्धः।

यत्र विधि­त्सि­त­सा­ध­न­स्या­प्राप्तिः पाक्षिकी निवारयितुं न शक्यते तत्र नियमविधिः इत्यत्र हेतुमाह —
तावतैवेति ।
अप्रा­प्तां­श­ला­भ­मा­त्रेण इत्यर्थः ।

विधि­त्सि­त­सा­ध­नस्य पाक्षि­क्या­म­प्राप्तौ हेतुमाह —
साधनान्तरतयेति ।
सत्ता­नि­श्च­य­रू­प­ब्र­ह्म­सा­क्षा­त्का­रस्य दृष्टफलतया तत्स्वरूपे वेदा­न्त­वि­चा­र­व­द्भा­षा­प्र­ब­न्धा­दे­रपि अन्व­य­व्य­ति­रे­का­भ्या­मेव साध­न­त्व­बु­द्धि­स्स­म्भा­व्यते । पूर्वोक्तरीत्या वस्तुतः साधनत्वाभावात् सम्भा­व्य­मा­न­स्ये­त्यु­क्तम् ।

व्याव­र्त्या­न्त­र­माह —
अथवेति ।
मात्रपदेन गुरुः व्यवच्छिद्यते ।

तर्ह्यु­क्त­ब्र­ह्मा­प­रो­क्ष­ज्ञा­ने­नै­वा­वि­द्या­नि­वृ­त्ति­ल­क्ष­ण­फ­ल­सिद्धेः किं गुर्व­धी­न­श्र­व­ण­वि­धिना इति शङ्कते —
किंत्विति ।

श्रव­ण­नि­य­म­वि­ध्य­र्थ­व­त्त्वाय नियमादृष्टस्य ब्रह्मा­प­रो­क्ष­ज्ञा­नेन स्वफ­ल­सि­द्ध्य­र्थ­म­पे­क्ष­णी­य­त्व­क­ल्प­नात् नोक्ता­प­रो­क्ष­ज्ञा­ना­द­वि­द्या­नि­वृ­त्ति­सि­द्धि­रिति परिहरति —
गुरुमुखेति ।

निरासेनेति ।
निरा­स­द्वा­रे­त्यर्थः । इतीत्यनन्तरं कल्पनीयत्वेनेति शेषः ।

तदभावेनेति ।
कल्म­ष­नि­रा­सा­भा­वेन - कल्मषेणेत्यर्थः ।

कल्पमिति ।
तुल्यमित्यर्थः । न च - निय­मा­र्थ­व­त्त्वा­ये­त्या­दि­पू­र्व­ग्रन्थे नियमादृष्टस्य कल्म­ष­नि­वृ­त्ति­द्वारा ज्ञानोत्पत्तौ हेतुत्वमुक्तम्, अत्र च उत्पन्नेन ज्ञानेन अविद्यानिवृत्तौ जननीयायां तत्र प्रति­ब­न्ध­क­क­ल्म­ष­नि­रा­स­द्वारा श्रव­ण­नि­य­मा­दृ­ष्टस्य साधनत्वोक्तौ पूर्वापरविरोध इति - वाच्यम् । मतभेदेन विरोधाभावात् ।

नन्वेवमपि उत्पन्ना ब्रह्मविद्या स्वका­र्या­वि­द्या­नि­वृ­त्तये निय­मा­दृ­ष्ट­साध्यां कल्म­ष­नि­वृ­त्ति­म­पे­क्षत इत्ययुक्तम्, प्रमात्वात् शुक्त्या­दि­प्र­मा­वत्, इति मत्वा शङ्कते —
न च ज्ञानोदय इति ।

अनि­वृ­त्त्य­नु­प­प­त्ति­रिति ।
अज्ञा­न­नि­वृ­त्ति­रेव स्यादित्यर्थः ।

शुक्ति­प्र­मा­स्थले अन्या­पे­क्षा­भा­वेऽपि प्रति­बि­म्ब­भ्र­म­स्थले विशेषदर्शनस्य प्रति­ब­न्ध­का­भा­वा­पे­क्षा­द­र्श­नेन ब्रह्मविद्याया अपि तदपेक्षोपपत्तेः इति परिहरति —
प्रति­ब­न्ध­का­भा­व­स्येति ।
यद्यपि प्रति­ब­न्ध­का­भा­वस्य सिद्धान्ते न कुत्रापि हेतुत्वं, तथापि अप्रतिबद्धा सामग्री कार्यहेतुः इत्यु­प­ग­मा­द­स्त्ये­वा­व­च्छे­द­क­तया प्रति­ब­न्ध­का­भा­वा­पेक्षा इति भावः ।

तद­नि­वृ­त्त्यु­प­प­त्ते­रिति ।
गुरु­र­हि­त­वि­चा­र­सा­ध्य­वि­द्यया अवि­द्या­नि­वृ­त्त्य­भा­वो­प­पत्तेः इत्यर्थः ।

श्रवणनियमविधिं सदृ­ष्टा­न्त­मु­प­पा­द­यति —
एवं चेति ।
गुरु­र­हि­त­वि­चा­रस्य व्यावर्त्यस्य लाभे सति इत्यर्थः ।

लिखितेति ।
अभ्यु­द­य­नि­श्रे­य­स­का­मस्य वेदा­र्था­नु­ष्ठानं विना नाभ्यु­द­या­दि­सिद्धिः । तदनुष्ठानं च वेदार्थज्ञानं विना न सम्भवति । तदर्थज्ञानं च स्वाध्या­य­प­द­वा­च्य­वे­दा­वाप्तिं विना न सम्भवति । वेदावाप्तिं प्रति च गुरु­मु­खो­च्चा­र­णा­नू­च्चा­र­ण­ल­क्ष­ण­म­ध्य­यनं लिखितपाठादि च साधनत्वेन लोके प्रसिद्धम् ।

तथा चाध्य­य­न­वि­धि­वा­क्येन वेदाध्ययनं नियम्यते —
अध्य­य­ने­नै­वा­क्ष­रा­वाप्तिं सम्पादयेत् इति ।
तेन च लिखि­त­पा­ठा­दि­व्या­वृ­त्ति­र्ल­भ्यते यथा तथा प्रकृतेऽपि इत्यर्थः । ननु - ब्रह्म­वि­ज्ञा­नार्थं गुर्वभिगमनं श्रूयते । न च तस्य श्रुतिजन्ये ब्रह्मज्ञाने साक्षा­त्सा­ध­न­त्व­मस्ति । अतस्तेन ज्ञाने जननीये द्वारापेक्षायां गुर्वधीनविचार एव योग्यतया द्वारत्वेन कल्प्यते, न त्वदृष्टम् । दृष्ट­द्वा­र­स­म्भवे अदृ­ष्ट­क­ल्प­ना­यो­गात् ।

गुर्वभिगमनस्य गुर्व­धी­न­वि­चा­र­द्वारा ज्ञानसाधनत्वे अभिगमनविधिना सिद्धे तेनैव गुरु­र­हि­त­वि­चा­र­व्या­वृ­त्ति­सि­द्धे­र्नि­ष्फलः श्रोतव्यवाक्ये श्रवणनियमविधिः इति शङ्कते —
न चेति ।
‘ब्राह्मणो निर्वे­द­मा­या­न्ना­स्त्य­कृतः कृतेन’ इति पूर्ववाक्ये निर्दिष्टो ब्राह्मणः स इति परामृश्यते । निर्वेदं - वैराग्यं प्राप्नुयादिति यावत् । केन प्रकारेणेत्यत आह श्रुतिः —अकृतः - नित्यो मोक्षः कृतेन - कर्मणा नास्तीति । अतो मोक्षं ब्रह्म­ज्ञा­न­साध्यं ज्ञात्वा तज्ज्ञानार्थं गुरुमभिगच्छेत् इत्यर्थः ।

श्रोतव्यवाक्येन गुर्वधीनविचारे नियमिते सति तदङ्गतया गुर्वभिगमनं विधीयते, श्रवणविध्यभावे तु उप­ग­म­न­वि­धे­रा­त्म­ला­भा­भा­वात् न श्रव­ण­वि­धि­वै­फ­ल्या­पा­द­कता इति परिहरति —
गुरूपसदनस्येति ।

अङ्गविधिना प्रधा­न­वि­धि­वै­फ­ल्या­पा­द­नेऽ­ति­प्र­स­ङ्ग­माह —
अन्यथेति ।

विधिनैवेति ।
गुरूपगमनस्य अक्षरावाप्तिं प्रति अध्य­य­न­रू­प­दृ­ष्ट­द्वा­र­स­म्भवे तत्त्या­गा­यो­गा­दिति भावः ।

व्याव­र्त्या­न्त­र­माह —
अथवेति ।

निय­म­वि­धि­र­स्त्विति ।
अद्वैतं जिज्ञासमानेन वेदान्ता एव विचारणीयाः न भाषाप्रबन्धाः इति विचा­र­वि­ष­य­नि­य­म­वि­धि­र­स्त्वि­त्यर्थः ।

ननु —म्लेच्छ­श­ब्दि­तस्य भाषा­प्र­ब­न्ध­रू­पा­व्य­क्त­श­ब्द­स्यो­च्चा­रणं पुरुषेण न कर्तव्यम्, अन्यथा पुरुषः प्रत्यवायी भवेत्, इति निषेधबलादेव श्रवणाधिकारिणो भाषा­प्र­ब­न्ध­व्या­वृ­त्ति­सिद्धेः किं विधिनेति शङ्कते—
न च नेति ।
यदि भाषानिषेधस्य ज्ञानाङ्गत्वं स्यात् तदा तन्नि­षे­ध­मु­ल्लङ्घ्य तत्र प्रवृत्तौ ज्ञाना­नु­त्प­त्ति­भ­येन तत्र न प्रवर्तेत ।

न त्वेतदस्ति ।
पुरु­षा­र्थ­त्वा­त्त­न्नि­षे­धस्य ।

तथा च तन्नि­षे­ध­मु­ल्ल­ङ्घ्यापि कदाचित् भाषा­प्र­ब­न्ध­श्र­वणे प्रवृत्तिः सम्भवति इति परिहरति —
शास्त्र­व्यु­त्प­त्तीति ।

उल्लङ्घने हेतुमाह —
अशक्यमितीति ।
अशक्यत्वे हेतुः व्युत्प­त्ति­मा­न्द्यम् । ननु यस्याधिकारिणो व्युत्प­त्ति­मा­न्द्या­द्वे­दा­न्त­श्र­व­ण­म­शक्यं तं प्रति वेदान्तविचारे नियमविधिः कथम्, अशक्यार्थे विध्यनुपपत्तेः, इति चेत् - न, भाष्या­दि­रू­प­वे­दा­न्त­वि­चा­रा­स­म्भ­वेऽपि वेदा­न्त­प्र­क­र­ण­वि­चा­रस्य मन्दा­धि­का­रि­णोऽपि सम्भवात् । तदुक्तं पञ्चदश्याम् - ‘मन्दप्रज्ञं तु जिज्ञासुं आत्मानन्देन बोधयेत् । बोधयामास मैत्रेयीं याज्ञवल्क्यो निजां प्रियाम् ॥’ [पं. द. १२—४, ५] इति । [आत्मानन्देन -] आत्मा­न­न्द­ना­म­क­प्र­क­र­णे­ने­त्यर्थः ।

पुरु­षा­र्थ­नि­षे­व­मु­ल्ल­ङ्घ्यापि महा­फ­ल­सि­द्ध्यर्थं निषिद्धे प्रवृत्तिः तन्निवर्तनेन विधेरर्थवत्ता च मीमांसकैरपि स्वीकृतेत्याह —
अभ्यु­प­ग­म्य­ते­हीति ।
अङ्गीकृतं निषेधोल्लङ्घनं येन स तथोक्तः ।

कुतश्चिदित्यनेन सूचितं हेतुमाह —
अविकलामिति ।

अर्थवत्त्वमिति ।
व्युत्पादितमिति पूर्वेणान्वयः ।

व्याव­र्त्या­न्त­र­माह —
यद्वेति ।

मन्त्रैरेवेति ।
अर्ग्नि­मू­र्धे­त्या­दयो मन्त्राः श्रुत्यादिभिः क्रतौ विनियुक्ताः । ते किमु­च्चा­र­ण­मा­त्रे­णा­दृष्टं कुर्वन्तः क्रतावुपकारं कुर्वन्ति उत दृष्टे­नै­वा­र्थ­स्म­र­णेन इति सन्देहे कल्प­सू­त्रा­दि­नापि अनु­ष्ठे­या­द्य­र्थ­स्मृ­ति­स­म्भ­वा­द­दृ­ष्टार्था मन्त्रा इति प्राप्ते राद्धान्तः - मन्त्रा­णा­म­र्थ­प्र­का­श­न­द्वारा क्रतूपकारकत्वम् । दृष्ट­द्वा­र­स­म्भ­वेऽ­दृ­ष्ट­क­ल्प­ना­नु­प­पत्तेः । तथा च फल­व­द­नु­ष्ठा­ना­पे­क्षि­त­क्रि­या­त­त्सा­ध­न­स्म­र­ण­द्वारा मन्त्राणां कर्माङ्गत्वम् । न च क्रिया­त­त्सा­ध­न­स्म­र­णस्य मन्त्रैरिव कल्प­सू­त्रा­दि­भि­रपि सम्भवात् न तस्य द्वारत्वमिति वाच्यम् । ‘मन्त्रैरेव मन्त्रार्थः स्मर्तव्यः’ इति निय­म­वि­धि­स­म्भ­वात् । नियमस्तु अदृष्टार्थो भविष्यति । तदुक्तम् —‘यत्र दृष्टं न लभ्येत स्यात्त­त्रा­दृ­ष्ट­क­ल्पना’ इति । तथा च यथा मन्त्र­नि­य­म­वि­धिना मन्त्र­मू­ल­क­क­ल्प­सू­त्रा­दि­व्या­वृत्तिः क्रियते तथा अधी­त­सा­ङ्ग­स्वा­ध्या­येन ब्रह्म जिज्ञासुना वेदान्ता एव विचार्या इति वेदान्तनियमे कृते तन्मू­ल­के­ति­हा­सा­दीनां व्यावृ­त्ति­र्ल­भ्यत इति दृष्टा­न्त­दा­र्ष्टा­न्ति­क­ग्र­न्थ­यो­रर्थः । याज्ञिकैः प्रणीतं अनु­ष्ठा­न­स­म­वे­त­प­दा­र्थ­स­ङ्ग्रा­हकं वाक्यं ग्रहणकवाक्यम् । इतिहासो महाभारतम् । पौरुषेयप्रबन्धः प्रबो­ध­च­न्द्रो­द­यादिः । उदाहृतानि व्यावर्त्यानि उपलक्षणम् । अन्येषामपि व्यावर्त्यानां सम्भवात् । तथा हि ‘तत् कारणं सांख्य­यो­गा­भि­प­न्नम्’ [श्वे. उ. ६ - १३] इति श्रुतौ ब्रह्म­प्र­ति­प­त्ति­द्वारा तत्प्राप्तिं प्रत्युपायद्वयं निर्दिष्टम् - श्रव­ण­म­न­न­ध्या­ना­त्मकः सांख्यशब्दार्थ एकः । तृतीयपरिच्छेदे वक्ष्यमाणो योगपदोदित उपा­स­ना­मा­र्ग­स्त्व­परः । तत् - प्रकृतं कारणं - जग­त्का­र­ण­त्वो­प­ल­क्षितं ब्रह्म सांख्ययोगाभ्यां ज्ञानद्वारा अभिपन्नम् - आभिमुख्येन प्रत्यक्त्वेन प्राप्तं इति श्रुत्यर्थः । तथा सगु­ण­ब्र­ह्मो­पा­सनं उपासकस्य ब्रह्मलोकं गतस्य तत्त्व­सा­क्षा­त्का­र­द्वारा ब्रह्म­प्रा­प्ति­हे­तु­रिति ब्रह्म­मी­मां­सायां प्रसिद्धम् । तथा तपोविशेषादिकं साक्षा­त्त­त्त्व­ज्ञा­न­सा­ध­न­त्वेन पुरा­णा­दि­प्र­सि­द्ध­मु­दा­ह­र्त­व्यम् । तथा च गुरुवेदान्तेषु श्रद्धावतः कुशलस्य श्रवणाधिकारिणः तत्त्व­ज्ञा­ना­र्थ­मु­क्तेषु योगमार्गसगुण ब्रह्मो­पा­स­न­त­पो­वि­शे­षा­दि­ष्वपि वेदान्तश्रवण इव कदाचित् प्रवृ­त्ति­स्स्या­दिति तन्निवृत्तिफलको नियमविधिः सम्भवति ।

निय­म­वि­धि­प­क्ष­मु­प­सं­ह­रति —
सर्वथेति ।

ननु निय­म­वि­धि­त्व­पक्षे ‘सह­का­र्य­न्त­र­विधिः’ इत्य­धि­क­र­ण­भा­ष्य­वि­रोध इत्यत आह —
सहकार्यन्तरेति ।
अपू­र्व­वि­धि­त्वस्य निराकृतत्वादिति भावः ।

तत्रैवेति ।
तदधिकरणभाष्य एवेत्यर्थः । श्रोतव्यवाक्येन निर्वि­चि­कि­त्स­प­रो­क्ष­शा­ब्द­ज्ञा­नो­द्दे­शे­नैव श्रवणं विधीयते, न तु शाब्द­सा­क्षा­त्का­रो­द्दे­शेन । शब्दस्य स्वतः परो­क्ष­ज्ञा­न­ज­न­न­स्वा­भा­व्यात् विचा­र­स­ह­कृ­त­स्यापि शब्दस्य क्वापि साक्षा­त्का­र­हे­तु­त्वा­द­र्श­नाच्च । परो­क्ष­ज्ञा­न­फ­ल­कोऽ­प्ययं नापूवविधिः । विधिं विनापि शब्दे शाब्द­ज्ञा­न­हे­तु­त्वस्य विचारे विचा­र्य­नि­र्ण­य­हे­तु­त्वस्य च प्राप्तौ तदुभयबलेन विचा­र­वि­शि­ष्ट­वे­दा­न्त­रू­प­श्र­व­णस्य निर्वि­चि­कि­त्स­शा­ब्द­ज्ञा­न­हे­तु­त्व­प्राप्तेः साधितत्वात् ।

किं तु पूर्वोक्तान्येव व्याव­र्त्या­न्या­दाय नियमविधिरेवेति मतमाह —
कृतश्रवणस्य प्रथममिति ।
ननु मनननिदिध्यासने किं निर्वि­चि­कि­त्स­शा­ब्द­प­रो­क्ष­ज्ञा­नो­द्दे­शे­नैव विधीयेते, किं वा शाब्दापरोक्षं प्रति ।

नाद्यः, मन­ना­द्य­नु­ष्ठा­नात् प्राक् श्रवणमात्रादेव तत्सिद्धेः, न द्वितीयः, शब्दस्य परोक्षज्ञानजनन एव सामर्थ्यस्य त्वदभिमतत्वात् इत्याशङ्कां द्विती­य­प­क्ष­प­रि­ग्र­हेण परिहरति —
पश्चादिति ।
शाब्द­नि­र्वि­चि­कि­त्स­प­रो­क्ष­ज्ञा­ना­न­न्त­र­मि­त्यर्थः । कृते मनननिदिध्यासने येन स तथोक्तः ।

तत एवेति ।
शब्दा­दे­वे­त्यर्थः । सह­का­रि­वै­चि­त्र्यात् कार्य­वै­चि­ञ्य­द­र्श­ना­दिति भावः ।

तदेवोदाहरणेन दर्शयति —
तत्तांशेति ।

तत्समर्थेति ।
तत्तां­श­गो­च­र­ज्ञा­न­ज­न­न­स­म­र्थे­त्यर्थः ।

शब्दस्येति ।
शब्द­स्या­प­रो­क्ष­ज्ञा­न­ज­न­कत्वं युक्त­मि­त्यु­त्त­रत्र सम्बन्धः ।

ननु तत्तासंस्कारस्य इन्द्रि­य­स­ह­का­रि­त्वेन कॢप्तावपि भावनाप्रचयस्य ज्ञान­क­र­ण­स­ह­का­रि­त्वेन साक्षा­त्का­र­ज­न­न­सा­मर्थ्यं न क्वापि कॢप्तं इत्याशङ्क्याह —
विधुरेति ।
तत्समर्थेत्यत्र साक्षात्कारजननं तच्छब्दार्थः ।

नन्वेवमपि शब्दसहकारित्वेन मन­न­ध्या­ना­त्म­क­भा­व­ना­प्र­च­यस्य मानान्तरेण शाब्द­सा­क्षा­त्कारं प्रति हेतु­त्वा­प्राप्तेः मन­ना­दि­वि­धे­र­पू­र्व­वि­धि­त्व­प्र­सङ्ग इति, नेत्याह —
ततश्चेति ।
परो­क्ष­ज्ञा­न­ज­न­क­त्व­स्या­प­रो­क्ष­ज्ञा­न­ज­न­क­त्वस्य च प्राप्तत्वादिति सम्बन्धः । परो­क्ष­ज्ञा­न­हे­तु­त्वस्य प्राप्त्यभिधानं श्रव­ण­वि­धे­र्नि­य­म­वि­धि­त्वा­र्थ­मिति द्रष्टव्यम् ।

विधुरेति ।
भावनासहकृतस्य विधु­रा­न्तः­क­र­णस्य कामि­नी­सा­क्षा­त्का­र­हे­तु­त्व­द­र्श­न­स्थले बहि­र­स्व­त­न्त्र­म­प्य­न्तः­क­रणं बाह्य­व­स्तु­भा­व­ना­स­ह­कृतं सत् तत्सा­क्षा­त्का­र­हे­तु­रिति विशिष्य कार्यकारणभावे गृहीतव्ये लाघवात् बाधकाभावाच्च भाव­ना­प्र­च­य­स­ह­कृतं ज्ञान­क­र­ण­त्वा­व­च्छि­न्न­म­प­रो­क्ष­ज्ञानं प्रति हेतुरिति कार्यकारणभावो गृह्यत इति भावः । अत्र - शब्दस्य परो­क्ष­ज्ञा­न­ज­न­न­स्वा­भा­व्य­मे­वा­सि­द्धम्, ज्ञान­ग­त­प­रो­क्ष­त्वादेः कर­ण­वि­शे­ष­प्र­यु­क्त­त्वस्य नीरा­क­रि­ष्य­मा­ण­त्वात् ।

अतः शाब्दापरोक्षं प्रति मननादेरिव श्रवणस्यापि विधि­र्ना­नु­प­पन्नः इत्यस्वरसं सूचयति —
तदेकदेशिन इति ।
विवरणैकदेशिन इत्यर्थः ।

मतान्तरमाह —
वेदान्तश्रवणेन न ब्रह्म­सा­क्षा­त्कार इति ।
शब्दस्य परो­क्ष­ज्ञा­न­ज­न­न­स्वा­भा­व्येन कॢप्त­सा­म­र्थ्या­न­ति­ल­ङ्घ­नात् इति हेतुरत्रापि मते द्रष्टव्यः ।

किं तर्हि ब्रह्म­सा­क्षा­त्कारे करणमिति पृच्छति —
किं त्विति ।

मन एव करणमिति मत्वा तत्र मानमाह —
मनसैवेति ।
क्वचित् किंत्वि­त्य­न­न्तरं मनसैवेति पाठोऽपि पृथगस्ति । तदा नानुपपत्तिः ।

तत्रैव भाष्यसम्मतिमाह —
शास्त्रेति ।
शास्त्रं ‘तत्त्वमसि’ [छा.उ.६-८-७] इत्यादिवाक्यम् । आचार्योपदेशः आचा­र्य­क­र्तृ­क­वा­क्या­र्थ­वि­व­र­ण­रूपः । आदिपदं दम­ति­ति­क्षा­दि­स­ङ्ग्र­हा­र्थम् । तथा चात्र ब्रह्म­सा­क्षा­त्का­रस्य मान­स­त्व­प्र­ति­पा­द­नेन तत्क­र­ण­म­न­स्स­ह­का­रि­त­यैव मन­न­नि­दि­ध्या­स­न­यो­र्विधिः, न तु पूर्वमत इव शाब्द­सा­क्षा­त्का­र­क­र­ण­श­ब्द­स­ह­का­रि­तया इति पूर्वमतादस्य मतस्य विशेषस्सूचितो भवति ।

श्रवणे तु पूर्व­म­ता­द­वि­शे­ष­माह —
श्रवणं त्विति ।

तादर्थ्येनैवेति ।
निर्वि­चि­कि­त्स­शा­ब्द­प­रो­क्ष­ज्ञा­ना­र्थ­त्वे­नै­वे­त्यर्थः ।

मतान्तरमाह —
अपरोक्षज्ञानेति ।

ननु तर्क­रू­प­वि­चा­रा­त्म­कस्य श्रवणस्य स्वत­स्सा­क्षा­त्का­र­फ­ल­क­त्वा­यो­गा­त्त­द­नु­ग्राह्यं प्रमाणं वक्तव्यम्, तच्च किं इत्यपेक्षायामाह —
तादर्थ्यं वेति ।
साक्षा­त्का­रा­र्थत्वं चेत्यर्थः ।

तस्येति ।
वेदा­न्त­श्र­व­ण­स्ये­त्यर्थः ।

करणभूतेति ।
ब्रह्म­सा­क्षा­त्का­र­क­र­ण­भू­ते­त्यर्थः । न तु ब्रह्म­सा­क्षा­त्का­र­क­र­ण­श­ब्द­स­ह­का­रि­त­ये­त्ये­व­का­रार्थः ।

न साक्षादिति ।
वेदान्तश्रवणस्य स्वातन्त्र्येण साक्षा­त्का­र­ज­न­कत्वं नास्ति । तस्य तर्करूपतया स्वतः प्रमा­ण­त्वा­भा­वा­दिति भावः ।

मन­स्स­ह­का­रि­त­य­वे­त्ये­व­का­रार्थे हेतुमाह —
शाब्देति ।

तस्येति ।
वेदा­न्त­श्र­व­ण­स्ये­त्यर्थः ।

तेन रूपेणेति ।
साक्षा­त्का­र­क­र­ण­म­न­स्स­ह­का­रि­त्वेन रूपेणेत्यर्थः ।

साक्षा­त्का­र­क­र­ण­म­न­स्स­ह­का­रि­त्वेन प्राप्त्य­भा­वेऽपि तत्क­र­णे­न्द्रि­य­स­ह­का­रि­त्वेन प्राप्ति­र­स्ती­त्याह —
श्रावणेष्विति ।
श्रोत्र­ज­न्य­प्र­त्य­क्ष­वि­ष­ये­ष्वि­त्यर्थः ।

षङ्जादिष्विति ।
षङ्जादयो ध्वनिविशेषाः । तेषु गान्ध­र्व­शा­स्त्र­श्र­व­ण­र­हि­तस्य पर­स्प­र­म­वि­वे­क­स्स­मा­रो­पितो वर्तते । परस्परमविवेको नाम परस्परं तादात्म्यरूपः पर­स्प­र­ध­र्म­व­त्ता­रू­पश्च इति बोध्यम् । गान्ध­र्व­शा­स्त्र­वि­चा­र­व­तश्च तद्वि­चा­र­स­ह­कृ­त­श्रो­त्रे­न्द्रि­ये­णैव षङ्जादयः परस्परं विवि­क्त­त­याऽ­नु­भू­यन्ते । एवं मन­साऽ­न्त­रि­न्द्रि­येण अनुभूयमानेषु चिदा­त्म­म­नः­प्रा­ण­श­री­रा­दिषु परस्परं तादा­त्म्या­दि­रू­पा­वि­वेकः प्राणि­ना­म­नु­भ­व­सिद्धः ।

अत्रापि यद्यारोपनिवर्तक शास्त्रमस्ति तदा तत्स­ह­कृ­त­म­न्त­रि­न्द्रि­य­मेव बुद्ध्या­दि­वि­वि­क्त­मा­त्मानं ब्रह्मस्वरूपतया वेदान्तैः प्रतीयमानं साक्षात्कारयेत् इति विचारवान् पुरुषः षङ्जा­दि­सा­क्षा­त्का­र­स्थले कार्यकारणभावं कल्पयतीत्याह —
प्रकाशमान इति ।
तच्छ्रवणं शास्त्रश्रवणम् ।

तत्सा­क्षा­त्का­रेति ।
प्रका­श­मा­न­व­स्तु­सा­क्षा­त्का­रे­त्यर्थः । उपयुज्यते - विवि­क्त­त­या­व­स्तु­सा­क्षा­त्का­र­हे­तु­र्भ­व­ती­त्यर्थः ।

इत्यस्येति ।
इति - उक्तप्रकारेण अस्य - साक्षा­त्का­र­क­र­ण­भू­ते­न्द्रि­य­स­ह­का­रि­त्वस्य [कॢप्तत्वात्] - वेदान्तश्रवणे विधिं विनैव प्राप्तत्वात् नापू­र्व­वि­धि­त्व­प्र­सङ्ग इत्यर्थः । उक्तेषु पक्षेषु शाब्दा­द्य­प­रो­क्षो­द्दे­शेन वा शाब्द­प­रो­क्षो­द्दे­शेन वा श्रवणविधिरिति स्थितम् ।

इदानीं प्रति­ब­न्ध­नि­रा­सो­द्दे­शे­नैव तद्विधिरिति मतान्तरमाह —
वेदा­न्त­वा­क्या­ना­मिति ।
प्रमे­या­स­म्भा­व­ना­नि­वृ­त्त्य­नु­कू­ल­न्या­य­वि­चा­रा­त्म­क­म­न­न­व्या­वृ­त्तये तात्प­र्य­नि­र्ण­या­नु­कू­ले­त्यु­क्तम् । तन्नि­र्ण­या­नु­कू­ल­न्या­याश्च उप­क्र­मो­प­सं­हा­रै­क­रू­प्या­दयः इति बोध्यम् । चेतो­वृ­त्ति­वि­शे­ष­प­देन यत्न­सा­ध्य­क्रि­या­रूपा वृत्तिः विवक्षिता, न तु तदसाध्या ज्ञानरूपा वृत्तिः विवक्षिता । ज्ञानस्य विध्ययोग्यताया वक्ष्यमाणत्वात् । ब्रह्मणीति विषयसप्तमी ।

तस्येति ।
ज्ञान­स्ये­त्यर्थः । शब्दादि - इत्यादिपदं प्रत्य­क्षा­दि­स­ङ्ग्र­हा­र्थम् ।

‘ज्ञानोद्देशेन श्रवणं विधीयते’ इति मताभिमतं श्रव­ण­श­ब्दा­र्थ­म­नूद्य निराकरोति —
न चोक्तरूपेति ।
ब्रह्म­जि­ज्ञा­सा­सू­त्रस्य ‘साध­न­च­तु­ष्ट­य­स­म्प­न्नेन ब्रह्मज्ञानाय वेदान्तविचारः कर्तव्यः’ इत्यर्थः । सौत्र­जि­ज्ञा­सा­प­दस्य विचा­र­ल­क्ष­क­त्वात् । तस्य च सूत्रस्य श्रोतव्यवाक्यं मूलम् । ततश्च श्रोतव्यवाक्ये यदि श्रवणं ज्ञानरूपं तदा श्रोतव्य इत्यस्य श्रव­ण­रू­प­ज्ञा­न­क­र्त­व्यता अर्थः स्यात् ।

तथा च जिज्ञा­सा­सू­त्र­श्रो­त­व्य­वा­क्ययोः मूलमूलिभावो न स्यात् एका­र्थ­त्वा­भा­वात् - इत्याह —
श्रवणविधेरिति ।
ऊहः - न्यायाभासेभ्यो निष्कृष्य न्याया­ना­मु­पा­दा­नम् । न्याया­भा­स­नि­रा­क­रणं अपोहः । ननु ‘सदेव सोम्य’ [छा.उ.६-२-१] इत्यादि ‘तत्सत्यं स आत्मा तत्त्वमसि’ [छा.उ.६-८-७] इत्येतदन्तं वाक्यजातं अद्वि­ती­य­व­स्तु­प­रम्, तत्प्र­ति­पा­द­को­प­क्र­मो­प­सं­हा­र­व­त्त्वात्, इत्येवमात्मकस्य विचारस्य अनुमितिरूपं तात्प­र्य­नि­र्धा­रणं साक्षात्फलम्, तद्द्वारा तात्प­र्य­भ्र­मा­दि­रू­प­प्र­ति­ब­न्ध­क­नि­वृत्तिः विचारस्य फलम्, तन्निवृत्तौ च वाक्य­म­प्र­ति­बद्धं सद­द्वि­ती­य­ब्र­ह्म­बोधं जनयति, एवं श्रुत्य­न्त­रे­ष्वपि इति वस्तुगतिः ।

तथा च श्रवणस्य साक्षात् ब्रह्म­ज्ञा­न­फ­ल­क­त्वा­भा­वेऽपि परम्परया तत्फलकत्वं स्यादिति शङ्कते —
न च विचारस्यैवेति ।
अप्यर्थ एवकारः । तथा च यथा ज्ञानं शब्दप्रमाणस्य फलं तथा तद्विचारस्यापि फलमस्तु, शब्दप्रमाणफले ज्ञाने विचारस्यापि तात्प­र्य­नि­र्ण­य­द्वारा तद­धी­न­प्र­ति­ब­न्ध­नि­रा­स­द्वारा वा हेतुत्वसम्भवात् इत्यर्थः । तज्जन्यत्वं विगमविशेषणम् । भ्रमादिरेव पुरुषापराधः ।

तात्प­र्य­ज्ञा­नस्य द्वारत्वाभावे हेतुमाह —
तात्प­र्य­ज्ञा­न­स्येति ।
प्रति­ब­न्ध­नि­रा­सो­प­ज­न­ने­ना­न्य­था­सि­द्ध­त्वा­दिति भावः ।

[प्रति­ब­न्ध­का­भा­वस्य] (तात्प­र्य­ज्ञा­नस्य) शाब्दबोधं प्रति हेतुत्वाभावे विचारस्य तात्प­र्य­नि­र्ण­य­सा­ध्य­प्र­ति­ब­न्ध­क­नि­वृ­त्ति­द्वारा शाब्द­बो­ध­हे­तुत्वं दूरापास्तमिति मत्वा प्रति­ब­न्ध­का­भा­व­स्या­हे­तुत्वे हेतुमाह —
कार्ये क्वचिदपीति ।
सत्यामपि सामग्र्यां प्रतिबन्धकवशात् कार्यं न जातमिति लोक­व्य­व­हा­र­वि­रो­धात् प्रति­ब­न्ध­का­भा­वस्य साम­ग्र्या­म­न्त­र्भावो नाङ्गीक्रियते । किं त्वप्रतिबद्धा सामग्री कार्यहेतुः इति स्वीकृत्य साम­ग्र्या­म­व­च्छे­द­क­तया दण्ड­त्वा­दि­व­द­न्य­था­सि­द्धि­रेव स्वीक्रियत इति भावः ।

तात्प­र्या­नु­मि­ति­हे­तु­वि­चा­रा­त्म­का­नु­मा­नस्य शाब्द­प्र­मि­ति­हे­तुत्वे दूषणमाह —
ब्रह्म­ज्ञा­न­स्येति ।

अतिरिक्तेति ।
शब्द­प्र­मा­णा­ति­रि­क्ते­त्यर्थः ।

पर­त­स्त्वा­प­त्ते­रिति ।
प्रामा­ण्या­श्र­य­ज्ञा­नस्य अति­रि­क्त­का­र­ण­ज­न्य­त्व­रूपं प्रामा­ण्य­स्यो­त्पत्तौ परतस्त्वं स्यादित्यर्थः । तत­श्चा­प­सि­द्धान्त इति भावः ।

यदि श्रवणस्य न ब्रह्मज्ञानं फलं, तर्हि किमुद्देशेन तद्विधिः ? अत आह —
तस्मादिति ।
ब्रह्म­ज्ञा­न­फ­ल­क­त्वा­स­म्भ­वा­दि­त्यर्थः ।

ननु तर्हि कथं ‘द्रष्टव्यः’ इति श्रवणफलकीर्तनम् ? तत्राह —
द्रष्टव्य इति त्विति ।

स्तुतिमात्रमिति ।
आत्मन इति शेषः । स्तुतिश्च तच्छ्रवणादौ प्रवृत्त्यर्था इति भावः ।

परि­स­ङ्ख्या­वि­धि­प­क्ष­माह —
ब्रह्म­ज्ञा­ना­र्थ­मिति ।
ननु वाच­स्प­ति­म­ते­व­क्ष्य­मा­ण­रीत्या वेदान्तश्रवणस्य नित्यप्राप्तिं सिद्धां कृत्वा परि­स­ङ्ख्या­वि­धि­प­क्ष­प्र­वृत्तिः वाच्या ।

तथा च सति ज्ञानमुद्दिश्य श्रव­णा­द्य­नु­ति­ष्ठतः कथं व्यापारान्तरं प्रसज्येत, यत­स्त­न्नि­वृ­त्ति­फ­लकः परि­स­ङ्ख्या­वि­धि­स्स­म्भ­वेत्, इत्याशङ्क्य ब्रह्म­ज्ञा­न­सा­ध­न­त्वेन व्यापा­रा­न्त­रा­प्र­स­क्ता­वपि भेद­वा­स­ना­व­शा­द्व्या­पा­रा­न्तरं सम्भवतीति सदृष्टान्तमाह —
चिकित्सेति ।
चिकित्सा - औषधं, तज्ज्ञानस्य वैद्य­क­ग्र­न्थै­क­सा­ध्य­त्वेन तज्ज्ञानाय चर­क­सु­श्रु­ता­दि­सं­ज्ञ­क­ग्र­न्थ­श्र­वणे प्रवृत्तस्य तादर्थ्येन व्यापा­रा­न्त­रा­प्र­स­क्ता­वपि यथा विषयवासनावशादेव तत्प्रसक्तिः, तद्वदित्यर्थः ।

ननु सुश्रु­ता­दि­ग्र­न्थ­श्र­वणे प्रवृत्तस्य व्यापा­रा­न्त­र­स­त्त्वेऽपि यथा चिकित्साज्ञानं निष्प्र­त्यू­ह­मु­त्प­द्यते तथा प्रत्यहं वेदा­न्त­श्र­व­ण­म­नु­ति­ष्ठतो मध्येमध्ये लौकि­क­वै­दि­क­व्या­पा­र­स­त्त्वेऽपि ब्रह्म­ज्ञा­नो­द­य­स­म्भ­वात् निष्फलः परिसङ्ख्याविधिः इत्याशङ्क्य, श्रव­ण­वि­ध्य­र्थ­व­त्त्वाय निर­न्त­र­म­नु­ष्ठि­त­श्र­व­ण­स्यैव ज्ञानसाधनत्वं न कादाचित्कस्येति विधेः अनैष्फल्यं इति परि­हा­र­म­भि­प्रेत्य, यथोक्तार्थे श्रुति­स्मृ­ति­वा­क्या­न्यु­दा­ह­रति —
ब्रह्मसंस्थ इति ।
न विद्यते अन्यो व्यापारो यस्य पुरुषस्य स तथा, तस्य भावस्तत्त्वं, तस्येत्यर्थः । ब्रह्म­वि­ष­य­क­श्र­व­णा­दि­व्या­पा­रात् शम­द­मा­द्यु­प­बृं­हि­तात् अन्य­व्या­पा­र­शू­न्य­त्व­स्येति यावत् । तथा च सन्न्यासाधिकरण भाष्यम् [ब्र.सू.३-४-२०] - ‘शम­द­मा­द्यु­प­बृं­हितं ब्रह्मनिष्ठत्वं तस्य स्वधर्मः । तदतिक्रमे च तस्य प्रत्यवायः’ इति । अवधारणं निश्चयः ।

ब्रह्म­सं­स्थ­प­दे­ना­य­मर्थः कथं लभ्यत इत्यत आह —
सम्पूर्वस्येति ।
न च ब्रह्मणि समाप्तिर्नाम विदेहकैवल्यरूपो लय एवास्त्विति वाच्यम् । तथा सति पुनः ‘अमृतत्वमेति’ इति भाग­वै­य­र्थ्या­पत्तेः । अतोऽ­मृ­त­त्व­प्राप्तिं प्रति ब्रह्मसंस्थता उपायत्वेन विधीयत इति वक्तव्यम् । अतो ब्रह्मणि समा­प्ते­र­न­न्य­व्या­पा­रत्वे पर्यवसानं भाष्ये कृतम् । तथा च अन­न्य­व्या­पा­र­त्वस्य मुक्त्यु­पा­य­त्व­बो­ध­क­वा­क्येन अर्थात् मुमुक्षोः व्यापा­रा­न्त­र­नि­वृत्तिः क्रियत इति भावः ।

साक्षा­न्नि­वृ­त्ति­बो­ध­क­वा­क्य­मु­दा­ह­रति —
तमेवैकमिति ।
यस्मिन्नाधारे द्यावा­पृ­थि­व्यादि समस्तं जगदध्यस्तं, तमे­वा­धा­र­मे­क­रू­प­मा­त्मानं जानथ हे मुमुक्षवः । ज्ञानसाधनत्वेन च अना­त्म­प्र­ति­पा­द­क­श­ब्दो­च्चा­र­णा­दि­त्यागः कर्तव्य इत्याह श्रुतिः — ‘अन्या वाचो विमुञ्चथ’ इति ।

नियमविधिवादी शङ्कते —
न च ब्रह्म­ज्ञा­ना­नु­प­यो­गिन इति ।

प्रतिबन्धा समाधत्ते —
सहकार्यन्तरेति ।

न प्राप्नोति ।
मौनमिति शेषः ।

उदा­हृ­त­सू­त्र­भा­ष्ययोः निय­म­वि­धि­वा­दि­स­म्मतं तात्पर्यं परि­स­ङ्ख्या­वि­धि­वादी दर्शयति —
कृतश्रवणस्येति ।
मन्वा­न­स्ये­त्य­न­न्तरं व्यापा­रा­न्त­रेऽपि प्रवर्तमानस्य इति शेषः । सूत्रे भाष्ये च अत­त्सा­ध­न­प­क्ष­प्रा­प्ति­मा­त्रेण निय­म­वि­धे­र­भ्यु­प­ग­त­तया इति सम्बन्धः ।[वार्ति­क­का­र­व­चने] (वार्तिके) अत्रेत्यस्य श्रोतव्यवाक्ये इत्यर्थः । अत्र नियमो विध्यर्थो भवेत् इत्येकः सम्बन्धः । यदि नित्य­प्रा­प्त­त्वात् नियमविधिर्न सम्भवति तदा परिसङ्ख्या वा विध्यर्थो भवेत् इति सम्बन्धः । परिसङ्ख्याया विध्यर्थत्वे हेतुः यत इत्यादिः । परात्मोपासने अन्य­व्या­पा­र­र­हिते वयं मुमुक्षवो यतः प्रवृत्ताः इत्यर्थः ।

श्रवणादीनां विधेयत्वपक्षं मतभेदेन दर्शयित्वा तेषां विध्यभावपक्षमाह —
आत्मा श्रोतव्य इत्यादिना ।

निबध्यमानमिति ।
यथा आत्म­वि­ष­य­क­त्वे­नो­च्य­मानं मननं निदिध्यासनं च ज्ञानरूपं तथा श्रवणमपि ज्ञान­रू­प­मे­वे­त्यर्थः ।

नेति ।
विचारस्य अनु­ष्ठे­य­क्रि­या­रू­पस्य साक्षा­दा­त्म­वि­ष­य­क­त्वा­नु­प­प­त्ते­रिति भावः । ननु मननादिवदिति दृष्टा­न्तोऽ­नु­प­पन्नः । मन­न­नि­दि­ध्या­स­नयोः ज्ञानत्वाभावात् । मननं हि युक्त्याऽऽ­लो­च­न­रूपो व्यापारः । ‘ध्यै चिन्तायाम्’ इत्य­नु­शा­स­ना­नु­रो­धेन निदिध्यासनं ध्यानक्रिया, न ज्ञानम् । अतः कथं मननादिवदिति मन­न­नि­दि­ध्या­स­नयोः ज्ञानत्वं सिद्धतया निर्दिश्यते - इति चेत्, उच्यते - आत्मा ब्रह्मस्वभावः चिद्रूपत्वात् ब्रह्मवत्, बुद्ध्यादिः कल्पितः दृश्यत्वात् शुक्ति­र­ज­ता­दि­वत्, इत्या­द्य­नु­मि­ते­रेव मननत्वोपगमात् । तदुक्तं चतुर्थे मैत्रे­यी­ब्रा­ह्म­ण­वा­र्तिके — ‘आग­मा­र्थ­वि­नि­श्चित्यै मन्तव्य इति भण्यते’ (बृ.वा.२-४-२१४), ‘वेद­श­ब्दा­नु­रो­ध्यत्र तर्कोऽपि विनियुज्यते’ (बृ.वा.२-४-२१६), ‘पदा­र्थ­वि­ष­य­स्तर्कः तथै­वा­नु­मि­ति­र्भ­वेत्’ (बृ.वा. २-४-२२६) इति । श्रुता­र्थ­दा­र्ढ्याय तर्करूपं मननं विधीयते । सोऽपि तर्कः श्रुत्यविरुद्ध एव मननत्वेन विधीयते । तच्च मननं तत्त्वं­प­दा­र्थ­वि­ष­य­क­मेव, न तु वाक्या­र्थ­वि­ष­य­कम् । तस्य वाक्यै­क­मे­य­त्वात् । तथाशब्दः समुच्चयार्थः । यथा मननात्मकतर्कस्य वेदाविरोधित्वं तथा अनुमितिरूपत्वं चेत्यर्थः । अत एव न्यायतन्त्रेऽपि मन­न­स्या­नु­मि­ति­रू­प­त्व­मि­ष्यते । निदिध्यासनमपि वार्तिककारमते ज्ञानमेव । तथाहि बृहदारण्यके चतु­र्था­ध्या­य­ष­ष्ठा­ध्या­य­ग­तयोः मैत्रे­यी­ब्रा­ह्म­ण­यो­रा­म्ना­यते — ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि­ध्या­सि­तव्यः’ इति । अनन्तरं चतुर्थे ‘मैत्रे­य्या­त्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेन’ इति । षष्ठे तु ‘मैत्रे­य्या­त्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते’ इति । तत्रो­भ­य­त्रा­क्षे­प­वा­र्ति­कम् - ‘अनुवादे यथोक्तानां प्रकान्ते दर्शनादिषु । विज्ञानेनेत्यथ कथं निदि­ध्या­स­न­मु­च्यते’ (बृ.वा.२—४-२३२) इति । अथ ‘आत्मा द्रष्टव्यः’ इत्यादिना उक्तानामनुवादे प्रकान्ते सति दर्शनादिषु मध्ये श्रुतं निदिध्यासनं विज्ञा­ने­ने­ति­प­देन कथं उच्यते - अनूद्यते । दर्शनादीनां समा­न­प­दै­रे­वा­नु­वा­द­द­र्श­नेन निदि­ध्या­स­न­स्यापि तद्व­न्नि­दि­ध्या­स­ने­ने­त्य­नु­वादः स्यात् न तु विज्ञानपदेन, इत्यर्थः । तस्य समाधानवार्तिकम् - ‘ध्याना­श­ङ्का­नि­वृ­त्त्यर्थं विज्ञानेनेति भण्यते । निदि­ध्या­स­न­श­ब्देन ध्यानमाशङ्क्यते यतः’ (बृ.वा.२—४-२३३) इति । निदि­ध्या­स­न­श­ब्दस्य ध्यानवाचित्वात् श्रवणमननानन्तरं अनुभवाङ्गत्वेन ध्यानं ‘निदि­ध्या­सि­तव्यः’ इत्यनेन विधीयते इति यतः पूर्व­वा­दि­भि­रा­श­ङ्क्यते, अतः तदा­श­ङ्का­नि­वृ­त्त्यर्थं अनुवादावसरे स्थित्वा पूर्ववाक्ये निदिध्यासनं विज्ञानरूपं विवक्षितं न तु ध्यानम्, अतो नात्र ध्यान­वि­धि­श­ङ्का­व­काशः, इत्याशयवती श्रुतिः विज्ञानपदेन निदि­ध्या­स­न­म­नु­व­द­तीति वार्तिकार्थः । ध्यान­स्या­नु­भ­वा­ङ्गत्वे को दोषः, यतस्तदाशङ्का निरस्यते श्रुत्या, इत्यत आह तदनन्तरं वार्तिकार्धम् — ‘विज्ञा­नो­त्प­त्ति­हे­तुत्वं ध्यानादेः प्रागवादिषम्’ (बृ.वा. २-४-२३४) इति । ध्यानस्य तन्नियोगस्य वा विज्ञा­नो­त्प­त्ति­हे­तुत्वं प्रति यद्दूषणं वक्तव्यं तत् प्रागेव सम्ब­न्ध­ग्र­न्थादौ उक्त­वा­न­स्मी­त्यर्थः । तत्र ह्युक्तम् - तत्त्वं­प­दा­र्थ­गो­च­र­श्र­व­ण­म­न­ना­भ्या­म­स­कृ­द­भ्य­स्ताभ्यां तत्त्वं­प­द­ल­क्ष्या­र्थ­नि­र्णये सति वाक्या­र्थ­ज्ञा­न­स्यै­वा­व­स­र­प्रा­प्त­त्वेन ध्यान­वि­धे­र­न­व­काशः । न च ताभ्यां प्रमा­ण­प्र­मे­या­स­म्भा­व­ना­नि­वृ­त्ता­वपि विपरीतप्रत्ययेन प्रतिबन्धात् न वाक्या­र्थ­बो­धो­त्प­त्ति­रिति वाच्यम् । श्रव­ण­म­न­न­यो­रे­वा­स­कृ­द­भ्या­स­म­हिम्ना विप­री­त­प्र­त्य­य­स्यापि निवृ­त्ति­स­म्भ­वात्, वाक्या­र्थ­बो­ध­नि­व­र्त्यस्य विप­री­त­प्र­त्य­यस्य तद­प्र­ति­ब­न्ध­क­त्वाच्च । लोके विपर्ययस्य स्ववि­रो­धि­द­र्श­नो­त्प­त्ति­प्र­ति­ब­न्ध­क­त्वा­द­र्श­नात् —इति । ननु यदि निदिध्यासनं न ध्यानं किं तर्हि तत् इत्यत आह वार्तिकम् —‘अप­रा­य­त्त­बो­धोऽत्र निदि­ध्या­स­न­मु­च्यते’ (बृ.वा.२-४-२१७) इति । ध्यानस्यैव पुरु­ष­प्र­य­त्ना­न­पे­क्षत्वं अपरायत्तत्वम् । ‘याव­द्य­थो­क्त­वि­ज्ञा­न­मा­वि­र्भ­वति भास्वरम् । श्रवणादिक्रिया तावत् कर्तव्येह प्रयत्नतः’ (बृ.वा.२-४-२१८) ॥ मननं आदिपदार्थः । ‘श्रुत्वा मत्वाऽथ तं साक्षादात्मानं प्रतिपद्यते’ (बृ.वा.२-४-२२०) । अथ - श्रव­ण­म­न­न­प­रि­पा­क­ज­नि­त­त­त्त्वं­प­द­ल­क्ष्या­र्थ­नि­र्ण­या­न­न्त­र­मेव वाक्येन ब्रह्मात्मानं साक्षात् - अपरोक्षतया प्रतिपद्यते - अनुभवति इत्यर्थः । वाक्या­र्थ­ज्ञा­न­वतः कृतकृत्यतामाह - ‘अन­न्या­य­त्त­वि­ज्ञाने श्रवणादेरुपायतः । जाते नापेक्षते किञ्चित् प्रतीचोऽनुभवात् परम्’ (बृ.वा.२—४-२२१) इति । वृत्तिज्ञाने जाते सति तेन प्रतीचो ब्रह्म­त्व­स्फु­र­णात् अनन्तरं न किञ्चिदपेक्षते इत्यर्थः । एवं वार्तिककारमते निदिध्यासनस्य ज्ञान­त्वा­भ्यु­प­ग­मात् न मननादिवदिति दृष्टा­न्ता­सिद्धिः । न च वार्तिककारमते ‘निदि­ध्या­सि­तव्यः’ इत्यस्य ‘द्रष्टव्यः इत्यनेन पौनरुक्त्यं स्यादिति वाच्यम् । दर्शनोद्देशेन श्रव­ण­म­न­न­वि­धा­ना­न­न्तरं पुनः फलकीर्तनस्य तदु­प­सं­हा­र­प­र­त्वो­प­पत्तेः । अथवा ‘द्रष्टव्यः’ इति विचा­र­प्र­यो­ज­का­पा­त­द­र्श­ना­नु­वादः, ‘निदि­ध्या­सि­तव्यः’ इति तु विचा­र­फ­ल­भू­त­सा­क्षा­त्का­रा­नु­वादः, इति पौन­रु­क्त्य­प­रि­हा­र­स­म्भ­वात् ।

श्रवणादौ विध्यभावे भाष्यसम्मतिमाह —
अत एवेति ।
श्रव­ण­म­न­न­नि­दि­ध्या­स­नानां दर्शनवत् ज्ञानरूपत्वेन, क्रिया­रू­प­त्वेऽपि वक्ष्यमाणविधया नित्य­प्रा­प्त­त्वेन च, विध्य­यो­ग्य­त्वा­देव इत्यर्थः ।

किमर्थानीति ।
व्यर्थानि स्युः इति यावत् । ‘आदि’पदं ‘श्रोतव्यः’ इत्यादेः सङ्ग्रहार्थम् ।

विधिच्छायानीति ।

‘अध्येतव्यः’ इति प्रसि­द्ध­वि­धि­तु­ल्या­नी­त्यर्थः । अत्र तव्यप्रत्ययैः दर्श­न­श्र­व­णा­दि­गता प्रशंसा लक्ष्यते । तथा च —यो हि मुमुक्षुः आत्म­द­र्श­न­श्र­व­णा­दी­न्येव मुक्तिसाधनानीति ज्ञात्वाऽपि सन्न्या­स­ब्र­ह्म­च­र्या­दि­स­हि­त­श्र­व­णा­द्य­नु­ष्ठा­न­क्ले­श­म­नु­स­ञ्चिन्त्य न तत्र सर्वोत्साहेन प्रवर्तते, किंतु यथा­प्रा­प्ता­न्येव वर्णा­श्र­मा­नु­रू­पाणि कर्मा­ण्यु­पा­स­नानि चानुतिष्ठन् तत्रापि निर्वृतिं न लभते तैरा­त्य­न्ति­क­पु­रु­षा­र्था­ला­भा­नु­स­न्धा­नेन, तं प्रत्या­त्म­द­र्श­न­श्र­व­णा­दि­प्र­शं­सार्थं प्रवर्तते ‘आत्मा वा’ इत्यादिवाक्यं तस्य सर्वोत्साहेन श्रवणादावेव प्रवृत्तिर्भवतु इत्याशयेन, अतो न विधिप्रत्ययानां वैयर्थ्यं इति भाष्यकारः परिहरति -
स्वाभाविकेति ।
आदिपदेन ‘यो हि बहिर्मुखः प्रवर्तते पुरुषः इष्टं मे भूयादनिष्टं माभूदिति, न च तत्रात्यन्तिकं पुरुषार्थं लभते, तमा­त्य­न्ति­क­पु­रु­षा­र्थ­वा­ञ्छिनं स्वाभाविकात् कार्य­क­र­ण­स­ङ्घा­त­प्र­वृ­त्ति­गो­च­रा­द्वि­मु­खी­कृत्य प्रत्य­गा­त्म­स्त्रो­त­स्तया प्रवर्तयन्ति ‘आत्मा वा अरे द्रष्टव्यः’ इत्यादीनि [ब्र.सू.भा.१-१-४] इत्यन्तं भाष्यं सङ्गृह्यते । स्वाभाविकत्वं विषयविशेषणम् ।

सङ्ग्रहभाष्यं विवृणोति —
यो हीति ।

प्रवर्तत इति ।
नाना­वि­ध­क­र्मो­पा­स­ना­न्य­नु­ति­ष्ठ­ती­त्यर्थः । ‘इष्टं मे भूयादनिष्टं मा भूत्’ इत्यनेन दुःख­सा­मा­न्या­स्पृ­ष्ट­सु­ख­का­मना ब्रह्मा­न­न्द­रू­पा­त्य­न्ति­क­पु­रु­षा­र्थ­गो­चरा इह विवक्षिता ।

अत एवाह —
न च तत्रात्यन्तिकं पुरुषार्थं लभते - इति ।
बाह्यसाधनं तच्छब्दार्थः ।

स्वाभाविकादिति ।
स्वभावः - अविद्या, तत्का­र्य­भू­ता­दि­त्यर्थः । सङ्घातस्य प्रवृत्तिः - कर्मो­पा­स­न­यो­र­नु­ष्ठा­नम्, तद्गोचरात् - द्रव्य­दे­व­ता­म­न्त्रा­दि­रू­पात् इत्यर्थः । प्रत्य­गा­त्म­वि­षये स्त्रोतः - चित्तप्रावण्यं यस्य स प्रत्य­गा­त्म­स्त्रोताः, तस्य भावस्तत्ता, तयेत्यर्थः । तं बाह्य­सा­ध­ना­द्वि­मु­खी­कृत्य श्रवणादिष्वेव प्रव­र्त­य­न्ती­त्यर्थः । एवं श्रवणादेः ज्ञानरूपत्वात् न तत्र कोऽपि विधिः इत्युक्तम् ।

इदानीं श्रवणादेः क्रिया­रू­प­त्व­मु­पे­त्यापि न तत्र कोऽपि विधिरित्याह —
यदि चेति ।
तस्य क्रियारूपत्वं च वार्ति­क­का­रै­रे­वो­क्तम् —‘श्रव­णा­दि­क्रिया तावत् कर्तव्येह प्रयत्नतः’ इति । आदिपदेन मननस्य सङ्ग्रहः, न ध्यानस्य । वार्तिककारमते श्रवणमननानन्तरं ध्याना­नु­ष्ठा­ना­भा­व­स्यो­क्त­त्वात् । न च ध्यान­स्या­न­नु­ष्ठे­यत्वे ‘ओमित्येवं ध्यायथ आत्मानम्’ [मु.उ.२-२-६], ‘विद्यामेतां योगविधिं च कृत्स्नम्’ [क.उ.६-१८] इत्या­दि­ब­हु­वा­क्य­वि­रोध इति वाच्यम् । तेषां ‘साङ्ख्य­यो­गा­भि­प­न्नम्’ इति­श्रु­ति­ग­त­यो­ग­प­दो­दि­त­मा­र्गा­न्त­र­प्र­ति­पा­द­क­तायाः तृतीयपरिच्छेदे ध्यान­दी­पो­क्त­प्र­का­रेण वक्ष्यमाणत्वात् । न च ‘तत् कारणम्’ इति श्रुति­ग­त­सा­ङ्ख्य­प­दो­दि­त­वि­चा­र­मा­र्गेऽपि ध्यानान्तर्भावः ‘पूर्वमुक्त इति वाच्यम् । निदिध्यासनपदस्य ध्याना­र्थ­क­त्व­म­ता­भि­प्रा­येण तद­न्त­र्भा­व­स्यो­क्त­त्वात् । ध्यानस्य साङ्ख्यमार्गात् बहिर्भाव एव भाष्यकाराणामपि सम्मतः । तथा च ‘एतेन योगः प्रत्युक्तः’ [ब्र.सू.२-२-३] इत्य­धि­क­र­ण­भा­ष्यम् - ‘तत् कारणं साङ्ख्य­यो­गा­भि­प­न्नम्’ इत्यत्र वैदिकमेव ज्ञानं ध्यानं च साङ्ख्य­यो­ग­श­ब्दा­भ्या­म­भि­ल­प्येते - इति । ध्यानपदं ज्ञानाभ्यासपरम् । वैदिकं वेदोक्तम् । एतेन - वेदविरोधादिना योगशास्त्रं निराकृतम् इति सूत्रार्थः । साङ्ख्यमार्गे ध्याना­भा­व­म­भि­प्रे­त्यैव सर्व­ज्ञा­त्म­मु­नि­भि­रपि निदिध्यासनपदस्य ज्ञाना­र्थ­क­त्व­मु­क्तम् - ‘श्रव­ण­म­न­न­बु­द्ध्यो­र्जा­त­यो­र्यत् फलं तन्नि­पु­ण­म­ति­भि­रु­च्चै­रु­च्यते दर्शनाय । अनुभवनविहीना यैवमेवेति बुद्धिः श्रुतमननसमाप्तौ तन्निदिध्यासनं हि’ [३—३४५] इति । अस्य श्लोक­स्या­श्र­म­श्री­च­र­णानां व्याख्यानमिदम् —निदिध्यासने पक्षान्तरमाह - श्रवणेति । श्रव­ण­म­न­न­बुद्ध्योः जातयोर्यत् फलं, तत् दर्शनाय निपु­ण­म­ति­भि­रु­च्चै­रु­च्यते इति सम्बन्धः ।

एतदेव विशदयति —
अनुभवनविहीनेति ।
श्रुतं श्रवणम् । दीर्घ­का­ला­द­र­नै­र­न्त­र्या­नु­ष्ठा­नेन श्रवणमननपरिपाके सतीत्यर्थः । अनु­भ­व­न­वि­ही­ना-सा­क्षा­त्का­र­र­हिता अवि­द्या­नि­व­र्त­क­वृ­त्ति­सा­क्षा­त्का­र­भि­न्नेति यावत् । या एवमेवेति बुद्धिः - ‘अहं-चिदात्मा ब्रह्मस्वभाव एव, ब्रह्म च चिदे­क­र­स­प्र­त्य­गा­त्म­स्व­भा­व­मेव’ इति तत्त्वं­प­द­ल­क्ष्य­नि­र्ण­या­त्मिका बुद्धिः, तदेव निदिध्यासनं नाम, न ध्यानम् । अस्मिन् पक्षे श्रव­ण­म­न­न­यो­रे­वा­नु­ष्ठे­य­त्वम् । निदिध्यासनं तु नानुष्ठेयम् । दीर्घ­का­ल­म­नु­ष्ठि­त­श्र­व­ण­म­न­न­फ­ल­रूपा बुद्धिर्यदा भवति तदैव साक्षा­त्का­रो­त्पत्तेः । पूर्वपक्षे तु निदिध्यासनमपि पृथगनुष्ठेयमिति भेद इति । साङ्ख्यमार्गे ध्याना­भा­व­म­भि­प्रे­त्यैव यावज्ज्ञानोदयं विचारस्यैव कर्तव्यत्वं ध्यानदीपे विद्या­र­ण्य­गु­रु­भि­र­प्यु­क्तम् - ‘विचा­र्या­प्या­प­रो­क्ष्येण ब्रह्मात्मानं न वेत्ति चेत् । आप­रो­क्ष्या­व­सा­न­त्वात् भूयो भूयो विचारयेत्’ ॥ ‘विचारयन्नामरणं नैवात्मानं लभेत चेत् । जन्मान्तरे लभेतैव प्रतिबन्धक्षये सति’ [प.द.९-३२,३३] ॥ इति ॥ एव­मा­न­न्द­प­ञ्च­केऽपि आत्मानन्दावसाने साङ्ख्यमार्गस्य ध्यानरहितस्यापि ध्यानेन सर्वांशेऽपि तुल्यफलत्वं बहुधा प्रपञ्चितं इति संक्षेपः ।

एव­का­र­व्य­व­च्छे­द्य­माह —
नेति ।
वाकारो नञनुकर्षणार्थः । विचारस्य प्रति­ब­न्ध­नि­रा­स­द्वारा ब्रह्मा­व­ग­मो­प­यो­ग­स­म्भ­वेऽपि न साक्षात् तत्फलकत्वम्, ज्ञानस्य प्रमाणफलत्वात्, इत्यु­क्त­त्वा­दिति भावः । ननु उक्त­प्र­ति­ब­न्ध­नि­रा­स­द्वारा विचा­र­स्या­वि­द्या­नि­व­र्त­क­सा­क्षा­त्का­रो­प­यो­गि­त्व­प्रा­प्ता­वपि तादृ­श­सा­क्षा­त्का­र­प्र­ति­ब­न्ध­क­पा­प­नि­वृ­त्ति­द्वारा साक्षा­त्का­र­सा­ध­न­त्वस्य माना­न्त­रा­द­प्रा­प्त­त्वात् ‘श्रोतव्यः’ इत्यत्र श्रवणस्य पाप­नि­वृ­त्ति­द्वारा विद्या­सा­ध­न­त्व­मु­प­दि­श्यते । न च विद्या­प्र­ति­ब­न्ध­क­पा­प­नि­वृ­त्ते­र्य­ज्ञा­दि­नैव सिद्ध­त्वा­द्वि­धि­वै­य­र्थ्य­मिति वाच्यम् । प्रति­ब­न्ध­क­पा­पा­ना­मा­न­न्त्येन केषां­चि­द्य­ज्ञा­द्य­नु­ष्ठा­नेन केषांचित् श्रवणानुष्ठानेन निवृत्तिरिति विभा­ग­क­ल्प­नो­प­पत्तेः । तथा च प्राप्तं पुन­र­पू­र्व­वि­धि­त्वम् । एवं च ‘सह­का­र्य­न्त­र­विधिः’ इत्यधिकरणभाष्ये पाण्डि­त्य­श­ब्दि­त­श्र­वणे अपू­र्व­त्वो­क्तिश्च सङ्गच्छते इति शङ्कां वार­य­ति­प्र­ति­ब­न्ध­का­न्त­र­नि­रास इति । तात्प­र्य­भ्र­म­सं­श­य­रू­प­प्र­ति­ब­न्ध­का­पे­क्षया अन्यत् पापरूपं प्रतिबन्धकं प्रति­ब­न्ध­का­न्तरं, तन्निरासो न श्रवणफलम्, अतो न तद्द्वारा ज्ञानाय श्रवणं विधेयमित्यर्थः । अयं भावः - ‘श्रोतव्यः’ इत्य­स्या­पू­र्व­वि­धि­त्व­म­यु­क्तम् । तस्या­वृ­त्त्य­धि­क­रणे [ब्र.सू. ४—१-१२] निरस्तत्वात्, विव­र­णा­द्यु­क्त­रीत्या वेदा­न्त­श्र­व­ण­स्या­न्व­य­व्य­ति­रे­क­प्र­मा­ण­सिद्धं तात्प­र्य­भ्र­मा­दि­ल­क्ष­ण­प्र­ति­ब­न्ध­क­नि­वृ­त्ति­रू­प­दृ­ष्ट­फ­ल­क­त्व­मु­प­जीव्य, श्रवणेनैव ज्ञानं प्रति­ब­न्ध­क­नि­वृत्तिं च सम्पादयेत् इति निय­म­वि­धि­त्व­स­म्भवे ‘स्वाभा­वि­क­प्र­वृ­त्ति­वि­ष­य­वि­मु­खी­क­र­णा­र्था­नीति ब्रूमः’ इत्या­दि­भा­ष्या­नु­सा­रेण ब्रह्म­प्र­ति­प­त्ति­सा­ध­न­श्र­व­णा­दि­स्तु­ति­द्वारा तत्र प्रवृ­त्ति­वि­शे­ष­क­र­त्व­मा­त्रेण ब्रह्म­प्र­क­र­ण­नि­वे­श­स­म्भवे वा अपू­र्व­वि­धि­त्वा­यो­गात्, भाष्य­का­री­या­पू­र्व­त्वोक्तेः पाक्षि­का­प्रा­प्त्य­भि­प्रा­य­क­त्व­स­म्भ­वा­च्चेति ।

तत्फलकत्वं चेति ।
भ्रमा­दि­रू­प­प्र­ति­ब­न्ध­क­नि­रा­स­फ­ल­कत्वं चेत्यर्थः ।

ननु प्राप्तत्वेऽपि निय­म­वि­धि­त्वा­दि­स­म्भ­वात् कथं विधित्रयाभाव इत्यत आह —
साधनान्तरं चेति ।

ननु गुर्वधीनविचारेण सह गुरु­र­हि­त­वि­चा­रस्य विकल्पेन प्राप्ति­र­स्ती­त्यत आह —
विचा­र­वि­ध्य­भा­वेऽ­पीति ।

अत एवेति ।
उपगमनविधित एवेत्यर्थः । व्यावृ­त्ति­रि­त्य­न­न्तरं ‘लभ्यत इति श्रोतव्यवाक्ये गुर्व­धी­न­वि­चा­र­नि­य­म­वि­धि­र­न­र्थकः’ इति शेषः । न चोपगमनविधेः विचा­र­वि­ध्य­ङ्ग­तया तदभावे उप­ग­म­न­वि­धे­रा­त्म­लाभ एव नास्ती­त्यु­क्त­मिति वाच्यम् । गुरूपसदनस्य ब्रह्मज्ञानं प्रति द्वारापेक्षायां लोकसिद्धस्यैव गुर्व­धी­न­वि­चा­रस्य द्वारत्वेन स्वीकारोपपत्तौ श्रोत­व्य­वि­ध्य­पे­क्षा­भा­वेन तच्छे­ष­त्वा­सिद्धेः विचा­र­व­दु­प­ग­म­न­स्यापि विद्या­ङ्ग­त्वो­प­प­त्तेश्च इति भावः ।

पूर्वो­क्ता­ति­प्र­सङ्गं परिहरति —
अध्ययनविध्यभावे त्विति ।
अध्ययनविध्यभावे तु लिखि­त­पा­ठा­दि­व्या­वृ­त्त्य­सिद्धेः सफ­लोऽ­ध्य­य­न­नि­य­म­विधिः इति सम्बन्धः ।

तदर्थमिति ।
अक्ष­रा­वा­प्त्य­र्थ­मि­त्यर्थः । अध्य­य­ना­ङ्गो­प­ग­म­नस्य विद्या­र्थो­प­ग­म­ना­पे­क्षया विशे­षा­र्थ­क­स्तु­शब्दः ।

तमेवाह —
उपगमनमित्यादिना ।
अध्य­य­न­स्या­क्ष­रा­वा­प्ति­फ­ल­कत्वं विवरणादौ साधितमिति भावः ।

व्याव­र्त्या­न्तरं दूषयति —
न च तात्पर्येति ।

ननु वस्तु­त­स्त­न्नि­रा­स­क­त्वा­भा­वेऽपि भिन्नात्मज्ञानं मुक्तिसाधनमिति भ्रमद्वारा तद्भ्रमात् तत्र प्रवृत्तिः सम्भ­व­ती­त्यु­क्त­मिति, नेत्याह —
तन्नि­रा­स­क­त्व­भ्र­मे­णेति ।
इह जन्मनि जन्मान्तरे वा यज्ञा­द्य­नु­ष्ठा­न­ज­नि­त­दृ­ढ­वि­वि­दि­षा­वतः साध­न­च­तु­ष्ट­य­स­म्प­न्नस्य श्रव­ण­वि­धा­व­धि­कारः इत्यविवादम् । यज्ञा­दि­ज­नि­ता­दृष्टं च निष्प्र­प­ञ्चा­द्वि­ती­य­ब्र­ह्म­सा­क्षा­त्का­रस्य साङ्गा­ध्य­य­न­ल­ब्धै­र्वे­दान्तैः मुक्ति­सा­ध­न­त्व­नि­श्चयं सम्पाद्य तादृ­श­ब्र­ह्म­सा­क्षा­त्कारे दृढेच्छां च विवि­दि­षा­श­ब्दितां उत्पाद्य तद्द्वारा अद्वि­ती­या­त्म­सा­क्षा­त्का­र­सा­ध­न­भू­ता­द्वि­ती­या­त्म­श्र­व­णा­दा­वेव मुमुक्षुं प्रवर्तयति, न तु जीव­भि­न्ना­त्म­ज्ञा­नस्य मुक्ति­सा­ध­न­त्व­भ्र­मा­पा­द­न­द्वारा भिन्ना­त्म­ज्ञा­न­सा­ध­न­वि­चा­रा­दा­वि­च्छा­प्र­वृ­त्त्या­दि­क­म­प्यु­त्पा­द­यति । तदि­च्छा­दे­र्भि­न्ना­त्म­वि­चा­र­द्वारा यज्ञा­दि­फ­ल­भू­त­नि­ष्प्र­प­ञ्च­ब्र­ह्म­सा­क्षा­त्का­र­हे­तु­त्वा­भा­वात् । तथा च स्मृतिः —‘ईश्व­रा­नु­ग्र­हा­देव पुंसा­म­द्वै­त­वा­सना’ [ख.ख.१-२५] इति । यज्ञा­दि­स­म्पा­दि­ता­दी­श्व­रा­नु­ग्र­हा­देव पुंसा­म­द्वै­त­ब्र­ह्म­ज्ञा­ने­च्छा­रूपा तद्वासना भवतीति तदर्थः ।

तथा च यथोक्तभ्रमवतः अद्वै­त­ब्र­ह्म­त­त्त्व­सा­क्षा­त्का­रा­दा­वि­च्छा­श्र­द्धा­दि­शू­न्यस्य श्रव­ण­वि­धा­व­न­धि­का­रात् न तं प्रति निय­म­वि­धि­र­र्थ­वान् इत्याह —
ईश्वरानुग्रहेति ।

पराभिमतेति ।
‘आत्मा श्रोतव्यः’ इति श्रुतौ आत्मशब्दस्तावत् जीवपर एव, न परमात्मपरः । ‘आत्मनस्तु कामाय सर्वं प्रियं भवति’ (बृ.उ.२-४-५) इति पूर्ववाक्ये जीवस्य प्रकृतत्वात् । न च ‘इदं सर्वं यदयमात्मा’ इति वाक्यशेषे सर्वात्मकस्य परमात्मनः प्रतिपादनात् श्रोत­व्य­वा­क्य­स्थ­मा­त्म­प­द­म­द्वि­ती­या­त्म­प­र­मिति वाच्यम् । तत्रापि तत्प्र­ति­पा­द­ना­सिद्धेः । न हि प्रप­ञ्च­प­र­मा­त्म­नो­र­भेदः सम्भवति । चेत­ना­चे­त­न­यो­रै­क्यस्य विरुद्धत्वात् श्रुते­र­भे­द­ध्या­न­वि­धि­प­र­त्वो­प­प­त्तेश्च - इत्यादियोजना पराभिमता द्रष्टव्या ।

अन्यत्रेति ।
भिन्नात्मविचारे इत्यर्थः ।

परिसङ्ख्याविधिं दूषयति —
न चेति ।

श्रवणविधिना किं गृहस्थादेः व्यापा­रा­न्त­र­नि­वृ­त्ति­रु­प­दि­श्यते, किं वा सन्न्यासविधिना सिद्धस्य सन्न्यासिनः ? इति विकल्पं मनसि निधाय क्रमेण दूषयति —
असन्न्यासिन इति ।

अशक्यत्वादिति ।
विध्य­न्त­र­वि­रो­धा­प­त्ति­र­श­क्यत्वे हेतुः । तन्निवृत्तेः सिद्धतया उपदेशस्य व्यर्थत्वात् इति सम्बन्धः । ‘ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मेति’ इति श्रुत्यन्तरस्य ब्रह्म­सं­स्थ­ता­ध­र्म­क­स­न्न्या­सा­श्र­म­वि­धा­य­कत्वं ‘परामर्शं जैमिनिः’ (ब्र.स्.३-४-१८) इत्यधिकरणभाष्ये स्फुटमिति भावः ।

विचारविषयत्वेन वेदा­न्त­नि­य­म­विधिः इति पक्षं दूषयति —
न च विचारेति ।

सन्निधानादेवेति ।
अधी­त­सा­ङ्ग­स्वा­ध्या­यस्य वेदा­न्तै­रा­पा­त­प्र­ति­प­न्न­ब्र­ह्मा­त्म­जि­ज्ञासोः जिज्ञा­सा­नि­व­र्त­क­नि­र्ण­याय कर्तव्यत्वेन विचारे प्राप्ते सति विचा­र­वि­ष­य­म­न्वे­ष­मा­णस्य वेदान्तानां बुद्धिस्थत्वात् ‘वेदान्ता एव मया विचारणीयाः’ इति बुद्धि­रु­त्प­द्यते । तथा च विधिं विनैव वेदान्तनियमस्य लब्धत्वेन विधिना तन्नियमनं व्यर्थमित्यर्थः ।

विधिं विनैव वेदान्तनियमलाभे हेत्वन्तरमाह —
स्वाध्याय इति ।

अर्थावबोधेति ।
मीमां­स­क­म­त­मा­श्रि­त्यो­क्तम् । अक्ष­रा­वा­प्ति­फ­ल­कोऽ­ध्य­य­न­वि­धि­रिति सिद्धान्तेऽपि - येषां वाक्या­ना­म­ध्य­य­ना­वा­प्तानां अर्थज्ञानद्वारा पुरुषार्थोपयोगः सम्भवति तेषां वाक्या­ना­म­र्थ­ज्ञा­न­म­ध्य­य­न­लब्धैः वाक्यै­रे­वो­त्पा­दितं फलवत् न तद­ति­रि­क्त­भा­षा­प्र­ब­न्धा­दि­ज­नि­तम् - इति रीत्या अध्य­य­न­वि­धि­फ­ला­क्ष­रा­वाप्तेः पुरु­षा­र्थ­प­र्य­व­सा­न­क­ल्प­नात् न भाषा­प्र­ब­न्धा­दि­प्र­सक्तिः इत्यर्थः । इति­हा­स­पु­रा­ण­मा­दि­प­दार्थः ।

श्रव­णा­दी­ना­म­वि­धे­यत्वे सूत्र­भा­ष्य­वि­रोधं शङ्कते —
न चेति ।

अभ्युपगत इति ।
सूत्र­भा­ष्य­का­रा­भ्या­मिति शेषः । विरोधं परिहर्तुं प्रथमं श्रवणादीनां विधि­यो­ग्य­क्रि­या­रू­प­त्वेऽपि नित्य­प्रा­प्त­त्वात् न विधे­य­त्व­मि­त्या­ह­वि­चार इति । तत्प्र­त्य­ये­त्यत्र तत्पदं वस्तुपरम् । अवगमस्य वैशद्यं प्रति­ब­न्ध­रा­हि­त्यम् ।

सूत्रभाष्ययोः श्रव­णा­दि­वि­धि­त्व­व्य­व­हारो गौणः मुख्यासम्भवस्य दर्शितत्वात् इति विरोधं परिहरति —
विधि­च्छा­या­र्थ­वा­द­स्येवेति ।
‘विष्णुरुपांशु यष्टव्यः’ इत्यादेरिव इत्यर्थः । तथाहि —‘उपां­शु­या­ज­म­न्तरा यजति’ इत्याम्नाय पुनराम्नायते - ‘विष्णुरुपांशु यष्टव्यः, प्रजापतिरुपांशु यष्टव्यः, अग्नी­षो­मा­वु­पांशु यष्टव्यौ’ इति । अत्र अन्तरावाक्यं आग्ने­या­ग्नी­षो­मी­य­पु­रो­डा­श­यो­र­न्त­रा­ल­का­ल­वि­शि­ष्ट­या­ग­वि­धा­य­कम्, विष्ण्वा­दि­वा­क्य­त्रयं तु मन्त्र­व­र्ण­प्रा­प्त­वै­क­ल्पि­क­दे­व­ता­नु­वा­देन अन्त­रा­वा­क्य­वि­हि­त­या­ग­स्ता­व­क­म­र्थ­वा­द­मात्रं इति व्यवस्थापितं पूर्वतन्त्रे । तत् अत्र दृष्टान्तत्वेन उदाहृतमिति द्रष्टव्यम् । यत्तु - ‘तत् कारणं साङ्ख्य­यो­गा­भि­प­न्नम्’ इति श्रुतौ योगपदोपात्तस्य व्यावर्त्यस्य सम्भवात् विचा­र­स­म­र्था­धि­का­रिणं प्रति तद्व्या­वृ­त्ति­फ­लको निय­म­वि­धि­स्स­म्भ­व­तीति - तन्न । विचा­र­स­म­र्थ­स्या­धि­का­रिणः कालान्तरे स्वोद्भा­वि­ता­नु­प­प­त्ति­व­शेन अन्यो­द्भा­वि­ता­नु­प­प­त्ति­व­शेन वा पुन­स्त­त्त्व­सं­शये सति अवधारणात्मकं वेदा­न्ता­र्थ­ज्ञानं न सम्भवतीति योग्यतावशेन तं प्रति विधिं विना विचारस्यैव नित्यतया प्राप्तत्वात् । यत्तु सगु­ण­ब्र­ह्मो­पा­सनं व्याव­र्त्य­मु­क्तम् - तन्न । श्रव­ण­वि­ध्य­धि­का­रिणः सर्वतो निस्स्पृहस्य ब्रह्म­लो­क­प्रा­प्ति­द्वारा मुक्ति­सा­ध­न­स­गु­णो­पा­सने पक्षेऽपि प्रवृ­त्ते­र­स­म्भ­वेन तस्य व्याव­र्त्य­त्वा­स­म्भ­वात्, सगुणोपासनस्यापि श्रवणादिद्वारैव विद्यासाधनत्वेन नख­वि­द­ल­ना­दे­र­व­धा­त­तु­ल्य­क­क्ष्य­त्व­वत् सगुणोपासनस्य श्रवणादिना सह विकल्पेन प्राप्त्य­भा­वाच्च, न तद्व्या­वृ­त्ति­फ­लको नियमविधिः सम्भवति । न च सगुणोपासनया श्रवणादिकं विनैव सगु­ण­सा­क्षा­त्का­र­वत् निर्गु­ण­सा­क्षा­त्का­रो­दयः सम्भवतीति वाच्यम् । प्रमा­ण­प्र­मे­या­स­म्भा­व­ना­दि­प्र­ति­ब­न्ध­नि­वृ­त्ति­द्वारा श्रव­णा­दे­स्स­त्ता­नि­श्च­य­रू­प­ब्र­ह्म­ज्ञा­नो­पा­य­त्व­ग्रा­ह­क­त­या­पू­र्वो­क्त­प्र­मा­णा­नु­रो­धेन श्रवणादेः नित्य­व­द­नु­वा­द­लि­ङ्गेन च सगुणोपासनया क्रमेण पर­म­मु­क्ति­प्र­ति­पा­द­क­शा­स्त्र­स्यापि श्रव­णा­दि­द्वा­र­क­ज्ञा­नो­त्प­त्त्य­वि­रो­धि­त्व­क­ल्प­नात्, श्रवणादिकं विना सगु­णो­पा­स­न­म­हि­म्नैव तत्त्व­ज्ञा­नो­द­यो­प­गमे देव­ता­धि­क­र­ण­वि­रो­धाच्च । तदधिकरणे हि - देवादीनां शरीराद्यभावात् सगु­ण­ब्र­ह्मो­पा­स­नेषु निर्गु­ण­ब्र­ह्म­वि­द्या­सा­ध­न­श्र­व­णा­दिषु च नास्ति सामर्थ्यम्, अतो न तेष्वधिकारः, इति पूर्व­प­क्ष­यित्वा, मन्त्रा­र्थ­वा­दे­ति­हा­स­पु­रा­ण­प्रा­मा­ण्यात् तेषामपि शरी­रा­दि­स­द्भा­वात् अस्त्यधिकारः - इति सिद्धान्तितम् । तत्रेदं पूर्व­प­क्ष­प्र­यो­ज­न­मु­क्तम् — देवादीनां श्रव­णा­द्य­धि­का­रा­भावे क्रम­मु­क्ति­फ­ल­क­ब्र­ह्मो­पा­स­नया प्राप्त­दे­व­भा­व­स्यापि श्रव­णा­द्य­स­म्भ­वेन विद्यो­द­या­स­म्भ­वात् पुन­रा­वृ­त्त्या­पत्तौ क्रम­मु­क्ति­का­मस्य सगुणोपासनेषु प्रवृत्त्यभावः इति । सिद्धान्ते तु देवादीनां श्रव­णा­द्य­धि­का­र­स­त्त्वा­दु­क्त­प्र­वृ­त्ति­सिद्धिः इति प्रयोजनं दर्शितम् । इदं च प्रयोजनं देव­ता­धि­क­र­णा­व­सा­न­भाष्ये सङ्ग्रहेण दर्शितम् । तथा च भाष्यं - ‘ततश्च अर्थि­त्वा­दि­स­म्भ­वा­दु­प­पन्नो देवादीनामपि ब्रह्म­वि­द्या­या­म­धि­कारः । क्रम­मु­क्ति­द­र्श­ना­न्यपि एव­मे­वो­प­प­द्यन्ते’ इति । ‘एवमेव’ इत्यस्य देवादीनां श्रवणाद्यधिकारे सत्येव इत्यर्थः । तेषां श्रवणाद्यधिकारे यानि श्रौतलिङ्गानि पूर्व­मु­प­न्य­स्तानि ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् तथर्षीणाम्’ [बृ.उ.१-४-१०] ‘एकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्म­च­र्य­मु­वास’ [छा.उ.८-११-३] इत्येवमादीनि, तानि यथा उपपद्यन्ते तथा इति अपिशब्दस्यार्थः । ननु सगु­ण­ब्र­ह्मो­पा­स­का­ना­मपि सर्वेषां श्रवणादिनैव ज्ञानोदयः इति नियमो नास्ति, सगुणोपासकस्यापि हिरण्यगर्भस्य बृह­दा­र­ण्य­क­भाष्ये पुरु­ष­वि­ध­ब्रा­ह्म­ण­व्या­ख्या­ना­व­सरे श्रवणादीनां प्रणिपातादीनां चाभावेऽपि ज्ञान­ज­न्म­प्र­ति­पा­द­नात् इति चेत् - न । हिर­ण्य­ग­र्भ­स्यापि वामदेववत् जन्मा­न्त­री­य­श्र­व­णा­दि­नैव ज्ञान­ज­न्म­सं­भ­वात् । तत्रैव भाष्ये ‘श्रव­ण­म­न­न­नि­दि­ध्या­स­नानां साक्षा­ज्ज्ञे­य­वि­ष­य­त्वात्’ इति वाक्ये साक्षात्पदेन श्रवणादेः ज्ञेय­ब्र­ह्म­व्य­ञ्ज­कस्य प्रणि­पा­ता­द्य­पे­क्षया आवश्यकत्वसूचनेन जन्मा­न्त­री­य­श्र­व­णा­दि­क­ल्प­नस्य तद्भा­ष्य­वा­क्या­भि­प्रे­तत्वे अवगम्यमाने सति तत्पूर्वभाष्ये श्रवणादिकं विना कार्य­क­र­ण­शु­द्ध्या­दि­मा­त्रेण ज्ञान­ज­न्म­प्र­ति­पा­द­नस्य अभ्यु­प­ग­म­वा­द­त्वो­प­पत्तेः, हिरण्यगर्भस्य वामदेवादेरिव जन्मान्तरीये ज्ञानसाधने कल्पनीये सति कॢप्त­श्र­व­णा­दि­क­ल्प­न­स्यैव न्याय्यत्वाञ्च । न च - ज्ञानो­त्प­त्ति­स्थले सर्वत्र श्रवणादिनियमो नास्ति, योगमार्गे प्रवृत्तस्य श्रव­णा­द्य­भा­वेऽपि तत्त्व­सा­क्षा­त्का­रो­द­य­स्वी­का­रात् इति - वाच्यम् ‘ओमित्यात्मानं युञ्जीत’ [म.ना.उ. १७-१५] ‘ओमित्येवं ध्यायथ आत्मानम् [मु.उ. १-२-६] इत्या­दि­ध्या­न­वि­धि­ब­लेन ‘तत् कारणं साङ्ख्य­यो­गा­भि­प­न्नम्’ ‘विद्यामेतां योगविधिं च कृत्स्नम्’ [क.उ.६-१८] इत्या­दि­श्रौ­त­लि­ङ्ग­स­ह­कृ­तेन विचारासमर्थस्य योगमार्गे अधिकारः इति तृतीयपरिच्छेदे वक्ष्यमाणतया विचारसमर्थस्य विचारं विना ज्ञानो­त्प­त्त्य­न­भ्यु­प­ग­मात् । एवं यद्यत् साधनं अदृष्टद्वारा तत्त्व­ज्ञा­न­सा­ध­न­त्वेन शास्त्रसिद्धं, तत् सर्वं सगुणोपासनवत् दृष्ट­सा­म­ग्री­भू­त­सा­ङ्ख्य­मा­र्गेण तदशक्तौ योगमार्गेण वा तत्त्व­ज्ञा­न­सा­धनं इति कल्प्यते । न त्वदृ­ष्ट­मा­त्रात् ज्ञानलाभः कल्पयितुं युक्तः । अन्यथा जीव­ना­दृ­ष्ट­मा­त्रा­देव स्तन्य­पा­ना­दि­प्र­वृ­त्ति­क­ल्प­ना­पत्त्या तत्रापि इष्ट­सा­ध­न­ता­स्म­रणं जन्मा­न्त­री­य­सं­स्का­र­हे­तुकं सर्व­स­म्प्र­ति­पन्नं न कल्पनीयं स्यात् । कॢप्तदृष्टकारणं विना कार्यो­त्प­त्त्य­यो­गस्य उभयत्र तुल्यत्वात् । अत एव पञ्चदश्यां तत्त्वज्ञानं प्रति मार्गद्वयनियम उक्तः साङ्ख्ययोगौ प्रकृत्य ‘इति मार्गौ विचार्याथ जगाद परमेश्वरः’ [प.द.१२—८३] इति । सङ्ग्रहकर्ताऽपि तृतीयपरिच्छेदे साङ्ख्य­यो­ग­श­ब्दि­त­मा­र्ग­द्व­य­मेव विद्या­वा­प्त्यु­पा­य­त्वेन वक्ष्यति - ‘एवं श्रव­ण­म­न­ना­दि­सा­ध­ना­नु­ष्ठा­न­प्र­व­णस्य विद्यावाप्तिः इत्यस्मिन्नर्थे सर्व­स­म्प्र­ति­पन्ने स्थिते भारतीतीर्थाः ध्यानदीपे विद्यावाप्तौ उपा­या­न्त­र­म­प्याहुः’ इतिग्रन्थेन । तदयं निष्कर्षः - विद्याधिकारिणो विचारसमर्थस्य प्रतिषेधाभावे वेदा­न्त­श्र­व­ण­म­नु­ष्ठे­यम् । सति तु प्रतिषेधे इति­हा­स­पु­रा­ण­भा­षा­प्र­ब­न्धा­दि­श्र­व­ण­म­नु­ष्ठे­यम् । विद्याधिकारिणो विचारासमर्थस्य तु त्रैवर्णिकस्य योग­श­ब्दि­त­नि­र्गु­णो­पा­स­न­म­नु­ष्ठे­यम् । मार्ग­द्व­या­स­म्भवे च तत्सं­भ­व­यो­ग्य­ज­न्म­प्राप्त्या तद­न्य­त­रा­नु­ष्ठा­न­द्वारा ज्ञानलाभः — इति । तथा च श्रवणाधिकारिणः श्रवणस्य नित्य­प्रा­प्त­त्वात् तत्तु­ल्य­क­क्ष्य­तया साधनान्तरस्य कस्यचित् विकल्प्य समुञ्चित्य वा प्राप्त्यभावात् न तत्र विध्यवकाशः इति सिद्धम् । एवं ब्रह्म­सा­क्षा­त्कारं प्रति श्रवणादेः नित्य­प्रा­प्त­त्वात् विधिं विनैव श्रव­णा­द्य­नु­ष्ठानं सिद्ध्यति इति प्रतिपादितम् ।

इदानीं श्रव­णा­नु­ष्ठा­प­क­वि­ध्य­पे­क्षा­या­मपि यथा कर्मकाण्डश्रवणं ‘कर्म­वा­क्य­वि­चारः कर्तव्यः’ इति पृथ­ग्वि­ध्य­भा­वेऽपि अध्य­य­न­वि­धि­ब­ला­देव सिद्ध्यति एवं वेदान्तश्रवणमपि तद्बलादेव सिद्ध्यतीति न श्रोतव्यवाक्ये पृथ­ग्वि­चा­र­वि­ध्य­पे­क्षाऽस्ति इत्याशयेन उपसंहरति —
एवञ्चेति ।
लोकत एव श्रवणादेः प्राप्तत्वे सति श्रव­ण­वि­ध्य­पे­क्षा­भा­वात् इत्यक्षरार्थः । श्रोत­व्य­वा­क्या­र्थ­वि­चा­रेण प्रथमसूत्रार्थः सङ्गृहीतः ।