कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
श्रवणविधिविचारः
स्वग्रन्थे प्रथमं श्रवणविधिः विचार्यते इत्याह —
तत्र तावदिति ।
श्रवणविधावधिकारिणं निर्दिशति —
अधीतेति ।
वेदान्तैर्जनितापातप्रतिपत्तिविषये ब्रह्माभिन्नात्मनि सम्यक् - दार्ढ्येन उदिता - उत्पन्ना जिज्ञासा निर्णयरूपज्ञानेच्छा यस्य इत्यर्थः । अधीतवेदस्यापि शिक्षाकल्पव्याकरणादीनां वेदाङ्गानां अध्ययनाभावे सति व्युत्पत्तेरभावात् जिज्ञासाहेतुभूतापातप्रतिपत्तिरपि न सम्भवेत् इत्यभिप्रेत्य अधीतसाङ्गस्वाध्यायस्य इत्युक्तम् । न च - निर्दोषवेदान्तजन्यायाः ब्रह्मात्मप्रतिपत्तेः कथं आपातत्वं इति - वाच्यम् । ‘नाहं ब्रह्म’ इतिप्रत्यक्षविरोधादिशङ्कया प्रमारूपायामपि ब्रह्मात्मप्रतिपत्तौ अप्रामाण्यशङ्कास्पदत्वरूपस्य आपातत्वस्य सम्भ्वात् इति भावः । वेदान्तश्रवणे श्रोतव्य इति विधिः प्रतीयमानः इति सम्बन्धः ।
तज्ज्ञानायेति ।
अप्रामाण्यशङ्कानास्पदब्रह्मात्मज्ञानाय इत्यर्थः । ‘खलु’शब्देन अपूर्वविधित्वादिप्रकारत्रयस्य पूर्वतन्त्रे प्रसिद्धिः सूच्यते ।
कालत्रयेऽपीति ।
कथमपि - दृष्टार्थत्वेन अदृष्टार्थत्वेन वा केनापि प्रकारेण कालत्रयेऽपि - कदापि विधिं विना प्राप्तिरहितस्य प्रोक्षणादेः प्राप्तिफलको विधिः आद्यः - अपूर्वविधिः इत्यर्थः । ‘व्रीहीन्’ इति द्वितीयाश्रुत्या व्रीहीणां संस्कार्यत्वावगमात् प्रोक्षणस्य संस्कारकर्मत्वं उक्तमिति मन्तव्यम् ।
विनियोगमिति ।
विधायकशब्दं इत्यर्थः ।
पुरोडाशेति ।
दर्शपूर्णमासयोः आग्नेयादियागानां उत्पत्तौ पुरोडाशद्रव्यं विहितम् । व्रीहयस्तु उत्पन्ने यागे यागानुवादेन विहिताः । तथा च व्रीहीणामुत्पन्नशिष्टानामुत्पत्तिशिष्टपुरोडाशावरूद्धे यागे साक्षात्साधनत्वायोगात् पुरोडाशप्रकृतिद्रव्यत्वेन यागसाधनत्वं पर्यवस्यति । पुरोडाशप्रकृतित्वं च व्रीहीणां तण्डुलनिष्पत्तिद्वारकम् । तण्डुलनिष्पत्तिश्च स्वकारणमाक्षिपति । तण्डुलनिष्पत्तौ च कारणं अन्वयव्यतिरेकाभ्यां अवहननं निश्चितमिति विधिं विना विधित्सितावहननप्राप्तिरस्तीत्यर्थः ।
ननु अवहननस्य लोकतः प्राप्तौ तस्य लोकत एव नित्यप्राप्तिरपि स्यात् इत्यत आह —
किंत्वित्यादिना ।
आक्षेपादिति ।
तण्डुलनिष्पत्त्याक्षेपात् इत्यर्थः । किंतु अवहननाप्राप्तांशसद्भावात्तदंशपरिपूरणफलक इति सम्बन्धः ।
द्वयोरिति ।
द्वयोः शेषिणोः एकस्य शेषस्य नित्यप्राप्तौ शेष्यन्तरस्य निवृत्तिफलकः एकस्मिन् शेषिणि द्वयोः शेषयोः नित्यप्राप्तौ शेषान्तरस्य निवृत्तिफलको वा विधिस्तृतीय इति योजना ।
न तदिति ।
प्राप्तत्वात् न तत्प्राप्त्यर्थः, नित्यप्राप्तत्वात् न तदप्राप्तांशपरिपूरणार्थो वा इत्यर्थः ।
अतिदेशादेवेति ।
प्रथमपरिच्छेदः ‘प्रकृतिवद्विकृतिः कर्तव्या’ इत्येवंरूपादित्यर्थः ।
न तत्र विधिरिति ।
‘आज्यभागौ यजति’ इति विधिः आज्यभागयोः प्राप्त्यर्थो न भवति । विधिं विना प्राप्तत्वात् । तयोः अप्राप्तांशपरिपूरणार्थो वा न भवति । नित्यप्राप्तत्वात् । किं तु तन्निवृत्त्यर्थ इति योजना ।
ननु, ‘आज्यभागौ यजति’ इति विधेः इतराङ्गकलापपरिसङ्ख्यायकत्वं न सिद्धान्तः इत्यत आह —
गृहमेधीयाधिकरणेति ।
नियमविधावपीति ।
परिसङ्ख्याविधौ इव नियमविधावपीत्यर्थः ।
तदवरुद्धत्वादिति ।
अवहननेनैवावरुद्धत्वात् - तण्डुलनिष्पत्त्याक्षेपस्य शान्तत्वात् इत्यर्थः ।
फलत इति ।
नियमविधेः पक्षप्राप्तावहननादिक्रियादिविधायकत्वात् परिसङ्ख्याविधेश्च नित्यप्राप्तक्रियादिविधायकत्वात् नियमपरिसङ्ख्याविध्योः स्वरूपतो विवेकलाभेऽपि फलतो भेदो न युक्त इत्यर्थः ।
नियमस्य नियमविधिफलत्वोपगमे हेतुद्वयमाह —
प्राथम्यादित्यादिना ।
प्रत्यासन्नत्वादिति ।
विधिं प्रति प्रत्यासन्नत्वात् इत्यर्थः । विधेयक्रियागतत्वं प्रत्यासन्नत्वे हेतुः ।
इतरनिवृत्त्यपेक्षया प्रथमोपस्थितत्वरूपे प्राथम्ये हेतुमाह -
विधित इत्यादिना अशक्यतयेत्यन्तेन ।
इतरनिवृत्तेर्नियमविधिफलत्वानुपगमे हेतुद्वयमाह —
तदनुनिष्पादिन्या इत्यादिना ।
अप्राप्तांशपरिपूरणोपस्थित्यनन्तरमुपस्थिताया इत्यर्थः । अनेन विलम्बितोपस्थितिकत्वं एको हेतुः उक्त इति मन्तव्यम् ।
द्वितीयहेतौ विप्रकृष्टत्वे हेतुमाह —
अविधेयेति ।
निवृत्तिर्नामाननुष्ठेयता, अनङ्गता वा । सा च अविधेयनखविदलनादिगता इत्यर्थः ।
इदानीं प्रकृतं श्रवणविधिविचारमारभते —
एवमिति ।
अप्राप्तत्वादिति ।
ब्रह्मसाक्षात्कारं प्रति वेदान्तश्रवणस्य साधनतया मानान्तरात् अनधिगतत्वेन अप्राप्तार्थकत्वात् इत्यर्थः । ननु मानान्तरादनधिगतत्वमसिद्धम् । अन्वयव्यतिरेकाभ्यां तदवगतिसम्भवात् ।
तथा हिवेदान्तश्रवणे सति ब्रह्मसाक्षात्कारो दृश्यते, असति च तस्मिन् न दृश्यत इति, तत्राह —
न हीति ।
तदनुत्पत्तेरिति ।
साक्षात्कारानुत्पत्तेः इत्यर्थः ।
वामदेवस्येति ।
तथा च श्रुतिः ‘गर्भ एवैतच्छयानो वामदेव एवमुवाच’ [ऐ. उ. १—५] इति । एवं - पूर्वोक्तप्रकारेण एतद् - ब्रह्मज्ञानजन्मना स्वकीयां शक्तिं उवाच इत्यर्थः । ननु - गान्धर्वशास्त्रश्रवणे षङ्जादिस्वरसाक्षात्कारः तदभावे तदभाव इति दृष्टम् । तत्र श्रोतव्यार्थविशेषस्वरसाक्षात्कारं प्रति गान्धर्वशास्त्रविचारात्मकस्य श्रवणविशेषस्य कारणत्वग्रहकाले लाघवात् श्रोतव्यार्थसाक्षात्कारत्वावच्छिन्नं प्रति श्रवणमात्रस्य कारणत्वं गृह्यते ।
तथा च ब्रह्मसाक्षात्कारवेदान्तश्रवणयोः विशिष्य कार्यकारणभावग्रहणाभावेऽपि ब्रह्मसाक्षात्कारस्यापि श्रोतव्यार्थसाक्षात्कारत्वात् वेदान्तश्रवणस्यापि श्रवणत्वात् उक्तसामान्यरूपेण वेदान्तश्रवणस्य ब्रह्मसाक्षात्कारहेतुत्वं प्राप्तमेव इति नापूर्वविधिः इति —नेत्याह —
न वा श्रवणमात्रमिति ।
धर्मश्रवणस्थले अदृष्टरूपस्य अलौकिकश्रेयस्साधनताविशिष्टयागादिरूपस्य वा धर्मस्य साक्षात्कारायोग्यतया साक्षात्कारादर्शनेन उक्तसामान्यकार्यकारणभावस्य व्यभिचारात् न लाघवावतार इति तत्र गान्धर्वशास्त्रश्रवणस्य अन्वयादिना स्वरसाक्षात्कारहेतुत्वग्रहेऽपि वेदान्तश्रवणस्य न ब्रह्मसाक्षात्कारहेतुत्वप्राप्तिः इत्याह —
गान्धर्वादीति ।
निर्विद्य बाल्येन स्थातुमिच्छेत् । विचारप्रयोजकापातरूपा बुद्धिः अविद्यानिवृत्त्यादिकार्याक्षमत्वात् पण्डा, साऽस्य सञ्जाता इति पण्डितः, तस्य कृत्यं पाण्डित्यं-श्रवणं इत्यर्थः । बाल्यं नाम बालस्य - शिशोः कृत्यं दम्भदर्पादिराहित्यम्, न तु बालेप्रसिद्धयथेष्टचेष्टारूपम् । तस्य बहिर्मुखत्वापादकत्वेन विद्याविरोधित्वात् । दम्भादिराहित्यरूपभावशुद्धिवाचकेन बाल्यपदेन भावशुद्धिसाध्यं मननं लक्ष्यते । श्रवणानन्तरभावित्वात् तस्य । बाल्यं च पाण्डित्यं च निर्विद्य - निश्चयेन लब्ध्वा - तदुभयं सम्यगनुष्ठाय इति यावत् । अथ - अनन्तरं मुनिः स्यात् मननशीलो भवेत् इति विधिः । ध्यानं अत्र मननम् । ध्याननिष्ठे व्यासादौ मुनिशब्दप्रयोगदर्शनात्, ध्यानं विना विचारमात्रविश्रान्ते तदप्रयोगाञ्च । तथा च अपूर्वत्वात् यथा श्रवणे विधिः, एवं मौनस्य विद्यासहकारिणः - विद्योत्पत्तौ साधनस्य विधिरेवाश्रयितव्यः अपूर्वत्वादेव इति भाष्यार्थः । सूत्रार्थस्तु — तद्वतः - श्रवणमननजनिततत्त्वनिर्णयरूपविद्यावतः तत्त्वसाक्षात्कारार्थिनः सन्न्यासिनः पाण्डित्यबाल्यापेक्षया तृतीयं मौनं ‘अथ मुनिः’ इति वाक्येन विधीयते । ननु - पाण्डित्यबाल्याभ्यां निर्णीततत्त्वः तत्त्वसाक्षात्कारार्थी ध्याने स्वयमेव प्रवर्तते, रत्नतत्त्वसाक्षात्कारार्थीव रत्नतत्त्वगोचरप्रत्ययसन्ततौ । न च - तत्त्वसाक्षात्कारार्थिनः तत्साधनश्रवणादावपि स्वयमेव प्रवृतिस्स्यादिति तत्रापि विधिवैयर्थ्यशङ्का तुल्या इति - वाच्यम् । विधिं विना वेदान्तश्रवणे प्रवृत्त्यसम्भवस्य साधितत्वात् ।
तथा च मौनविधिः व्यर्थः —इत्यत्राह —
पक्षेणेति ।
मौनस्य सहकार्यन्तरस्य विधिः अङ्गीकर्तव्यः । पक्षेणाप्राप्तिसत्त्वात् । साक्षात्कारार्थं ध्याने स्वयमेव प्रवृत्तस्यापि विषयदर्शनप्राबल्यात् ध्यानस्य कदाचिदप्राप्तिस्सम्भवति । तथा च मौनविधेः अपूर्वविधित्वाभावेऽपि नियमविधित्वं सिद्ध्यत्येव । सति च नियमविधौ तदतिक्रमे नियमादृष्टालाभेन साक्षात्कारानुदयभीत्या स्वभावप्राप्तमपि विषयदर्शनं यत्नेन निवार्य ध्यान एव प्रवर्तते इति ‘पक्षेण’ इति सूत्रभागाभिप्रायः ।
ननु - ब्रह्मविद्याप्रधाने प्रकरणे कथं ध्यानादिविधिः वाक्यभेदप्रसङ्गात् इति, नेत्याह—
विध्यादिवदिति ।
[प्रधाने] अङ्गविधिवत् इत्यर्थः । यथा प्रधानविधिपरे प्रकरणे अवान्तरवाक्यभेदेन प्रयाजाद्यङ्गविधिः, तथा ब्रह्मविद्याङ्गध्यानादिविधिः इत्यर्थः । उक्तरीत्या मौनविधेर्नियमविधित्वे स्थिते भाष्यगतापूर्वत्ववचनं मौनविध्यंशे पाक्षिकाप्राप्त्यभिप्रायं द्रष्टव्यम् । यथासूत्रं पक्षे प्राप्त्यभावात् इत्येव वक्तव्ये भाष्ये अपूर्वत्वात् इति वचनं श्रवणविधिः अपूर्वविधिरेव इति ज्ञापनार्थं, अप्राप्तिमात्रे च दृष्टान्तदार्ष्टान्तिकभावो विवक्षितः, इति प्रकाटार्थकारादीनामाशयः ।
अपूर्वविधित्वपक्षं दूषयति—
वेदान्तश्रवणस्येति ।
विचारविशिष्टवेदान्त [ज्ञान] रूपस्य श्रवणस्य ब्रह्मसाक्षात्कारहेतुत्वं विधिं विनापि प्राप्तं इत्यर्थः ।
ननु वाक्यस्य कथं साक्षात्कारहेतुत्वम्, इन्द्रियजन्यज्ञानस्यैव साक्षात्कारत्वात्, अत आह —
अपरोक्षवस्त्विति ।
अपरोक्षवस्तुविषयकत्वं ज्ञानस्यापरोक्षत्वम्, न तु इन्द्रियजन्यत्वम् । वस्त्वापरोक्ष्यं च वस्तुव्यवहारानुकूलचैतन्याभिन्नत्वं इति शाब्दापरोक्षवादे वक्ष्यते । तथा च नित्यापरोक्षत्वेनश्रुतिसिद्धब्रह्मरूपवस्तुविषयकत्वात् वेदान्तजन्यज्ञानस्य साक्षात्कारत्वसिद्धिः इत्यर्थः ।
ननु अस्मिन् शास्त्रे शाब्दापरोक्षवादस्य का सङ्गतिः? अत आह —
तदर्थमेव हीति ।
वेदान्तानां ब्रह्मापरोक्षप्रमितिजनकत्वसिद्ध्यर्थमेव तद्वादसङ्गतिः नान्यार्थं इत्येतत् प्रसिद्धं इत्यर्थः । ननु अपरोक्षवस्तुविषयकं प्रमाणं स्वविषये साक्षात्कारहेतुः इति शाब्दापरोक्षवादे प्रसाधनेन वेदान्तानामपि स्वविषये नित्यापरोक्षे ब्रह्मणि अपरोक्षज्ञानसामान्यहेतुत्वमेव प्राप्तम्, न तु सत्तानिश्चयरूपतत्साक्षात्कारहेतुत्वम् । तच्च विचारविशिष्टवेदान्त[ज्ञान]रूपश्रवणस्यैव युक्तम् । अन्यथा विचारात् प्रागपि सत्तानिश्चयप्रसङ्गात् । न च वाक्यजन्यसाक्षात्कारमात्रादेवाविद्यानिवृत्तिलक्षणफलसम्भवात् सत्तानिश्चयरूपत्वं साक्षात्कारस्य नान्वेषणीयं इति वाच्यम् । तत्र तत्र ब्रह्मोपदेशप्रदेशेषु यावत्संशयनिवृत्ति पुनःपुनः प्रश्नप्रतिवचन [रूप] लिङ्गेन ‘वेदान्तविज्ञानसुनिश्चितार्थाः’ [मु.उ. ३-२-६] इत्यादिश्रुत्या श्रुतब्रह्मणोऽपि यथापूर्वं संसारानुवृत्त्यनुमिताविद्यानिवृत्त्यभावरूपलिङ्गेन श्रवणमननध्यानशमदमभक्तिवैराग्यादीनां ज्ञानपरिपाकहेतूनां विधिदर्शन[रूप]लिङ्गेन च सत्तानिश्चयरूपब्रह्मसाक्षात्कारस्यैव अविद्यानिवृत्त्यर्थमिष्यमाणत्वात् ।
तथा च वेदान्तश्रवणस्य उक्तरूपसाक्षात्कारहेतुत्वं अप्राप्तमेव इति शङ्कते —
न च तावतेति ।
वेदान्तानामिति शेषः । अपरोक्षवस्तुविषयकं प्रमाणं स्वविषये साक्षात्कारहेतुः इति प्रसाधनमात्रेणेत्यर्थः ।
अपरोक्षवस्तुविषयकं प्रमाणं अपरोक्षज्ञानहेतुः इति स्थिते विचारो विचार्यनिर्णयहेतुः इति च स्थिते कार्यकारणभावद्वयमेलनेन प्रकृते विचारविशिष्टवेदान्तज्ञानरूपं श्रवणं सत्तानिश्चयरूपब्रह्मसाक्षात्कारहेतुः इति सिद्ध्यति इत्याह —
विचारमात्रस्येति ।
सहकारीति ।
चित्तेकाग्न्यादिरूपसहकारिवैकल्येन इत्यर्थः ।
उक्तकार्यकारणभावद्वयरूपप्रमाणबलेन श्रवणस्य ब्रह्मसाक्षात्कारहेतुत्वे सिद्धे वामदेवस्य जन्मान्तरीयं श्रवणादिकं कल्प्यते, यथा जातमात्रे जन्तौ दृश्यमानभोगस्य कारणतया प्राग्भवीयं कर्म कल्प्यते तद्वत्, अतो न व्यतिरेकव्यभिचार इत्याह —
जातिस्मरस्येति ।
पूर्वजातिं स्मरतो वामदेवस्य इत्यर्थः ।
अन्यथेति ।
उक्तरीत्या द्विविधव्यभिचारपरिहारानुपगमे इत्यर्थः । व्यभिचारनिश्चयेन हेतुत्वाभावरूपबाधनिश्चयात् श्रवणविधेरबोधकतापात्त्या तवाप्यपूर्वविधिर्न स्यात् इत्यर्थः । ब्रह्मसाक्षात्कारे श्रवणमिव तपोविशेषादिकं उत्कृष्टजन्मप्राप्तिरूपं वा कारणान्तरमस्तीति शङ्काकाले वामदेवस्य कारणान्तरात् ज्ञानमुत्पन्नं इति शङ्कासम्भवेन श्रवणस्य वामदेवे व्यतिरेकव्यभिचारज्ञानं श्रवणस्य साक्षात्कारहेतुत्वग्रहप्रतिबन्धकं न भवति ।
न च - एकस्य पदार्थस्य ज्ञाने परस्परनिरपेक्षकारणद्वयासम्भवेन ब्रह्मसाक्षात्कारे कारणान्तरसत्त्वशङ्कैव न जायत इति - वाच्यम्, लोके तथादृष्टत्वात् इत्याह—
घटेति ।
वेदान्तश्रवणस्य ब्रह्मसाक्षात्कारहेतुत्वे विधिं विनैव प्राप्ते फलितमाह —
तथा चेति ।
श्रवणादिविधेः नियमविधित्वे सत्येव आवृत्त्यधिकरणं सङ्गच्छते इत्याह —
अत एवेति ।
अपूर्वविधित्वाभावादेव इत्यर्थः । अत एव आवृत्त्युपदेश इति सम्बन्धः । ‘दर्शनपर्यवसानानि’ इत्यारभ्य ‘तण्डुलनिष्पत्तिपर्यवसानानि’ इत्यन्तस्य भाष्यस्य इयं योजना —दृष्टार्थानि श्रवणादीन्यावर्त्यमानानि सन्ति दर्शनपर्यवसानानि भवन्ति, यथा अवघातादीन्यावर्त्यमानानि तण्डुलनिष्पत्तिपर्यवसानानि भवन्ति - इति । ‘दृष्टार्थानि’ इत्यत्र दृष्टं फलं आत्मदर्शनमेव । अयं भावः - ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ [बृ. उ. २-४-५] इत्यादिना आत्मदर्शनोद्देशेन श्रवणादीनि विधीयन्ते । तत्र किमेतानि सकृदनुष्ठेयानि, किं वा यावदात्मदर्शनमावर्त्यानि इति संशये - सकृदेवानुष्ठेयानि, तावता विधेश्चारितार्थ्यात्; यथा अग्निचयने ‘सर्वौषधस्य पूरयित्वाऽवहन्ति’ इति वाक्यविहितं सर्वौषधीनामवहननं उपधेयोलूखलसंस्काररूपं सकृदेवानुष्ठीयते तद्वत्; तथा च सकृदनुष्ठितश्रवणादिजन्यमदृष्टं जन्मान्तरे ब्रह्मदर्शनहेतुः इत्यपूर्वविधित्वं श्रवणादिविधीनामिति प्राप्ते - सिद्धान्तः — श्रवणाद्यावृत्तिः कर्तव्या । कुतः ? असकृदुपदेशात् । तथा हि —भृगुवल्ल्यां भृगुं प्रति पिता असकृत् ‘तपसा ब्रह्म विजिज्ञासस्व’ [तै. उ. ३-२] इत्युपदिशति । तपः - आलोचनं ब्रह्मविचारः । तथा छान्दोग्यषष्ठाध्याये श्वेतकेतुं पुत्रं प्रति पिता विचारपूर्वकमसकृत् ‘तत्त्वमसि’ इत्युपदिशति । किं च श्रवणादिभिरात्मदर्शनफले जननीये श्रवणाद्यावृत्तिरूपदृष्टद्वारसम्भवे अदृष्टद्वारकल्पनायोगात् तत्त्वंपदार्थयोः श्रवणाद्यावृत्तिं विना दुर्बोधत्वाच्च तण्डुलनिष्पत्तिफलकावघातवदावृत्तिरेव, न त्वग्निचयनान्तर्गतावघातवदनावृत्तिः, तदन्तर्गतावघातस्यादृष्टार्थत्वेन वैषम्यात् - इति व्युत्पादितं आवृत्त्यधिकरणे । तत् अपूर्वविधिवादिनां न सङ्गच्छते इति भावः । तन्त्रलक्षणं एकादशाध्यायः ।
अत इति ।
प्राप्तत्वादित्यर्थः । अस्य हेतोः एवकारार्थे अपूर्वविधित्वाभावे अन्वयः ।
नियमविधित्वे हेतुमाह —
तदभावे हीति ।
तदभावे मनस एव सावधानं तत्र प्रणिधाने कदाचित् पुरुषः प्रवर्तेत इति सम्बन्धः ।
मनसा गृह्यमाणात्मगतविशेषग्रहणाय मनोव्यापार एव यत्नेन प्रवृतौ दृष्टान्तमाह —
यथेति ।
किञ्चिदिति ।
रत्नादीत्यर्थः ।
तत्रेति ।
रत्नादावित्यर्थः ।
तस्यैवेति ।
न तु व्यापारान्तर इत्येवकारार्थः । पुनरपि चक्षुषो व्यापारे प्रवर्तत इति सम्बन्धः । प्रणिधानं यथा भवति तथा प्रवर्तत इति प्रवृत्तिक्रियाविशेषणं प्रणिधानम् । तच्च रत्नादिवस्त्वभिमुखतया चक्षुषः स्थापनम्, अनन्तरमुन्मीलनव्यापारानुकूलयत्नः प्रवृत्तिः, इति प्रणिधानप्रवृत्त्योर्भेदः ।
वेदान्तैरिति ।
‘नेह नानास्ति किञ्चन’ [बृ. उ. ४-४-१९] ‘प्रज्ञानं ब्रह्म’ [ऐ. उ. ५-३] ‘अहं ब्रह्मास्मि’ [बृ. उ. १-४-१०] इत्यादिभिः इत्यर्थः । इह —ब्रह्माणि नाना-ज्ञातृज्ञानज्ञेयरूपेण भिन्नं विशेषजातं किञ्चिदपि नास्ति । प्रकृष्टं ज्ञानं - प्रज्ञानं - नित्यस्वप्रकाशजीवचैतन्यं ब्रह्म । अहं - बुद्ध्यादिसाक्षिभूतश्चिदात्मा ब्रह्म अस्मि - भवामि इति श्रुतीनामर्थः । अध्ययनपदं साङ्गाध्ययनपरम् । आकर्ण्य - परोक्षतया ज्ञात्वा श्रुतौ श्रद्दधानः ।
तदवगमायेति ।
निर्विशेषस्वरूपत्वाधिगमायेत्यर्थः । तत्रेति ‘अहं’ इतिगृह्यमाणात्मनीत्यर्थः । सावधानं- ऐकाग्र्यं यथा भवति तथा ।
ननु अहमिति गुह्यमाणे जीवे विशेषाकर्णनानन्तरं वेदान्तश्रवण इव कदाचित् मनोव्यापारे वेदान्तविचारनिरपेक्षेऽपि प्रवृत्तिस्स्यात् इत्ययुक्तम्, श्रुत्या ब्रह्मणि मनोविषयत्वनिषेधात् साङ्गाध्ययनवतस्तन्निषेधावगतिसम्भवात् इति, नेत्याह —
अप्राप्येति ।
श्रुतिः अनवहितमनोविषया इति सम्बन्धः । वाचः - सत्यज्ञानादिशब्दाः अप्राप्य - शक्त्या ब्रह्माप्रतिपाद्य मनसा सह निवर्तन्तेलक्षणामाश्रयन्ते इत्यर्थः । ‘मनसा सह’ इत्यनेन मनसोऽपि ब्रह्माणि प्राप्तिर्निषिध्यते इति भावः । ब्रह्माणि मनोविषयत्वनिषेधवत्तद्विषयत्वमपि श्रुत्या उच्यते, तथा च श्रुत्योः विरोधे सति मनश्शब्दितबुद्धिगम्यत्वप्रतिपादकश्रुतौ बुद्धेरग्र्यत्वविशेषणबलाद्विषयत्वनिषेधश्रुतेरनवहितमनोविषयत्वनिषेधार्थकत्वप्रतीतेः । (तथा च) साङ्गाध्ययनवत उक्तव्यवस्थाप्रतीतिसम्भवात् मनस एव व्यापारे प्रवृत्तिः दुर्वारेत्याह -
मनसैवेति ।
अनवहितत्वं एकाग्रताशून्यत्वम् ।
शङ्कासम्भवादिति ।
अग्र्यत्वविशेषणसामर्थ्येन यथोक्तव्यवस्थानिश्चयसम्भवात् इति वक्तव्ये शङ्कासम्भवादित्युक्तेरयमाशयः - निर्गुणब्रह्मसाक्षात्कारे मनसः करणत्वं नास्ति, औपनिषदत्वश्रुतिविरोधात् । सोपाधिकात्मसाक्षात्कारेऽपि न तस्य करणत्वम्, तत्साक्षात्कारस्य नित्यसाक्षिरूपत्वात् । ‘मनसैवानुद्रष्टव्यम्’ [बृ. उ. ४-४-१९] इत्यादौ तृतीया वाक्योत्थवृत्तिसाक्षात्कारं प्रति साधनत्वाभिप्राया - इत्यादिकं सर्वं शाब्दापरोक्षवादे वक्ष्यते । तथा च वस्तुतो मनसः करणत्वाभावात् मनस एव व्यापारे पुरुषः कदाचित् प्रवर्तेतेत्युत्प्रेक्षितं नियमविधिव्यावर्त्यमसङ्गतमेवेति ।
अत एव व्यावर्त्यान्तरमाह —
अथवेति ।
अधीतसाङ्गस्वाध्यायस्य हि ‘तरति शोकमात्मवित्’ [छा. उ. ७—१-३] इत्यादिश्रुत्या ‘आत्मज्ञानं मुक्तिसाधनम्’ इति ज्ञानं भवति । न च साङ्गाव्ययनवतोऽपि लोके विचारमन्तरेणात्मतत्त्वज्ञानजन्मास्ति । आत्मप्रतिपादकवेदान्तेषु नानाविधयोजनासम्भावनया तात्पर्यसंशयादेरनुभवसिद्धत्वात् । ततश्च मुक्तिसाधनज्ञानार्थी तज्ज्ञानप्रतिबन्धकतात्पर्यभ्रमसंशयादिनिरासाय वेदान्तविचारे प्रवर्तमानो यथा ब्रह्ममीमांसाशास्त्रे प्रवर्तते, तथैव न्यायसाङ्ख्यादिशास्त्रविचारेऽपि कदाचित् प्रवर्तेत । तत्रापि तदभिमतयोजनया वेदान्तविचारसत्त्वात् । न च साङ्ख्यादितर्कशास्त्रगतात्मविचारस्याद्वितीयात्मविचाररूपत्वाभावेन तादृशात्मनि वेदान्तानां तात्पर्यभ्रमसंशयाद्यनिवर्तकत्वात् विशिष्य स्वयमेव तस्य तात्पर्यभ्रमादिहेतुत्वाच्च न तत्रात्मज्ञानार्थिनां प्रवृत्तिः सम्भवतीति वाच्यम् । जीवभिन्नपरमात्मज्ञानं मुक्तिसाधनमिति भ्रमेण तत्रापि प्रवृत्तिसम्भवात् । न च - साङ्गाध्ययनवतो भिन्नात्मज्ञानं मुक्तिसाधनमितिभ्रमो न सम्भवति ‘अहं ब्रह्मास्मि’ [बृ. उ. १-४-१०], ‘ब्रह्माविदाप्नोति परम्’ [तै. उ. २-१-१] इत्यादिवेदान्तेषु जीवाभिन्नपरमात्मज्ञानस्यैव मुक्तिसाधनत्वप्रतीतेरिति - वाच्यम् । ‘जुष्टं यदा पश्यत्यन्यमींशमस्य महिमानमिति वीतशोकः’ इतिश्रुतिगतान्यशब्देन भ्रमसम्भवात् । यदा ईशं - सन्निधिमात्रेण बुद्ध्यादिप्रवर्तकम् अन्यं - वस्तुगत्या बुद्ध्यादिभ्यो भिन्नम् । भ्रान्त्या बुद्ध्याद्यभिन्नत्वेन चिदात्मनो गृहीतत्वात् भिन्नत्वोपदेशः सफलः । न तु जीवभिन्नमित्यर्थः । जीवब्रह्मभेदस्य प्रत्यक्षसिद्धतया उपदेशानपेक्षत्वात् । जुष्टं-ऋषिसङ्घैः सेवितम् । ‘ऋषिसङ्घजुष्टम्’ [श्वे.उ.६-२१] इति श्रुत्यन्तरात् । पश्यति —ईशोऽहमिति साक्षात्करोति । तदा अस्य - ईशस्य महिमानं - महत्त्वोपलक्षितं स्वरूपं इति - एति - प्राप्नोति वीतशोकश्च भवति इति श्रुतेर्वास्तवार्थः ।
ननु श्रोतव्यवाक्ये आत्मविचारमात्रं प्रतीयते न तु अद्वैतात्मविचारः; ततश्च कथमनेन विधिना भिन्नात्मविचारव्यावृत्तिलाभः इत्यत आह —
इहेति ।
अत्र ‘आदिपदेन’ ‘आत्मनि …….. दृष्टे………... सर्वं विदितम्’ [बृ.उ. ४-५-६] इति प्रतिज्ञावाक्यं गृह्यते । आत्मनः सर्वाधिष्ठानतया सर्वात्मकत्वे हि सति आत्मनि विदिते तद्व्यतिरिक्तं सर्वं तत्त्वतो विदितं भवति, सर्वमात्मैवेति सामानाधिकरण्यं च सिद्ध्यति । नान्यथा । तथा च श्रोतव्यवाक्यस्थमात्मपदं अद्वितीयात्मपरमेवेति तद्विचारविधिना भिन्नात्मविचारव्यावृर्त्तिलभ्यते इति भावः । ननु - तण्डुलनिष्पत्तौ अवहननस्येव नखविदलनादेरपि वस्तुतस्साधनत्वात् तन्निवृत्तिफलको नियमविधिर्युक्तः । इह तु अद्वितीयब्रह्मसाक्षात्कारे भिन्नात्मविचारस्य न वस्तुतस्साधनत्वमस्ति, अतस्तन्निवृत्तिफलको नियमविधिर्न युज्यते । न च - मा भूत् भिन्नात्मविचारस्य व्यावर्त्यत्वम्, नैतावता नियमविध्यनुपपत्तिः प्रकृतेऽस्ति, गुरुनिरपेक्षविचारभाषाप्रबन्धेतिहासपुराणादीनामुदाहरिष्यमाणानां सत्तानिश्चयरूपब्रह्मसाक्षात्कारहेतुत्वसत्त्वेन व्यावर्त्यत्वसम्भवात् इति - वाच्यम् । तेषामप्यनन्तरमेव वक्ष्यमाणरीत्या अविद्यानिवर्तकसत्तानिश्चयरूपसाक्षात्कारप्रतिबन्धककल्मषनिवृत्तिद्वारा गुर्वधीनवेदान्तविचारवत् साक्षात्काराहेतुत्वेन वस्तुतस्साधनत्वाभावात् । तथा च न नियमविधिस्सम्भवति इत्याशङ्क्याह न हीति ।
कुलधर्म इति ।
कुलक्रमागतधर्मस्य यथा आवश्यकता तथा वस्तुसत्साधनान्तरप्राप्तेरावश्यकत्वं न हीत्यर्थः ।
येनेति ।
आवश्यकत्वेनेत्यर्थः ।
नियमार्थवत्त्वायेति ।
विधित्सितगुर्वधीनवेदान्तश्रवणेनेव गुरुनिरपेक्षविचारादिनाऽपि सत्तानिश्चयरूपसाक्षात्कारस्वरूपोत्पत्तिसम्भवे सति गुर्वधीनवेदान्तश्रवणनियमस्य दृष्टप्रयोजनाभावान्नियमादृष्टमुपेयम्, तस्य च कल्मषनिवृत्तिद्वारा विद्यासाधनत्वं च कल्पनीयमेवेत्यर्थः । अदृष्टजन्यत्वं कल्मषनिवृत्तेर्विशेषणम् । स्वपदं साक्षात्कारपरम् ।
शङ्क्येतेति ।
येन शङ्क्येत इति सम्बन्धः।
यत्र विधित्सितसाधनस्याप्राप्तिः पाक्षिकी निवारयितुं न शक्यते तत्र नियमविधिः इत्यत्र हेतुमाह —
तावतैवेति ।
अप्राप्तांशलाभमात्रेण इत्यर्थः ।
विधित्सितसाधनस्य पाक्षिक्यामप्राप्तौ हेतुमाह —
साधनान्तरतयेति ।
सत्तानिश्चयरूपब्रह्मसाक्षात्कारस्य दृष्टफलतया तत्स्वरूपे वेदान्तविचारवद्भाषाप्रबन्धादेरपि अन्वयव्यतिरेकाभ्यामेव साधनत्वबुद्धिस्सम्भाव्यते । पूर्वोक्तरीत्या वस्तुतः साधनत्वाभावात् सम्भाव्यमानस्येत्युक्तम् ।
व्यावर्त्यान्तरमाह —
अथवेति ।
मात्रपदेन गुरुः व्यवच्छिद्यते ।
तर्ह्युक्तब्रह्मापरोक्षज्ञानेनैवाविद्यानिवृत्तिलक्षणफलसिद्धेः किं गुर्वधीनश्रवणविधिना इति शङ्कते —
किंत्विति ।
श्रवणनियमविध्यर्थवत्त्वाय नियमादृष्टस्य ब्रह्मापरोक्षज्ञानेन स्वफलसिद्ध्यर्थमपेक्षणीयत्वकल्पनात् नोक्तापरोक्षज्ञानादविद्यानिवृत्तिसिद्धिरिति परिहरति —
गुरुमुखेति ।
निरासेनेति ।
निरासद्वारेत्यर्थः । इतीत्यनन्तरं कल्पनीयत्वेनेति शेषः ।
तदभावेनेति ।
कल्मषनिरासाभावेन - कल्मषेणेत्यर्थः ।
कल्पमिति ।
तुल्यमित्यर्थः । न च - नियमार्थवत्त्वायेत्यादिपूर्वग्रन्थे नियमादृष्टस्य कल्मषनिवृत्तिद्वारा ज्ञानोत्पत्तौ हेतुत्वमुक्तम्, अत्र च उत्पन्नेन ज्ञानेन अविद्यानिवृत्तौ जननीयायां तत्र प्रतिबन्धककल्मषनिरासद्वारा श्रवणनियमादृष्टस्य साधनत्वोक्तौ पूर्वापरविरोध इति - वाच्यम् । मतभेदेन विरोधाभावात् ।
नन्वेवमपि उत्पन्ना ब्रह्मविद्या स्वकार्याविद्यानिवृत्तये नियमादृष्टसाध्यां कल्मषनिवृत्तिमपेक्षत इत्ययुक्तम्, प्रमात्वात् शुक्त्यादिप्रमावत्, इति मत्वा शङ्कते —
न च ज्ञानोदय इति ।
अनिवृत्त्यनुपपत्तिरिति ।
अज्ञाननिवृत्तिरेव स्यादित्यर्थः ।
शुक्तिप्रमास्थले अन्यापेक्षाभावेऽपि प्रतिबिम्बभ्रमस्थले विशेषदर्शनस्य प्रतिबन्धकाभावापेक्षादर्शनेन ब्रह्मविद्याया अपि तदपेक्षोपपत्तेः इति परिहरति —
प्रतिबन्धकाभावस्येति ।
यद्यपि प्रतिबन्धकाभावस्य सिद्धान्ते न कुत्रापि हेतुत्वं, तथापि अप्रतिबद्धा सामग्री कार्यहेतुः इत्युपगमादस्त्येवावच्छेदकतया प्रतिबन्धकाभावापेक्षा इति भावः ।
तदनिवृत्त्युपपत्तेरिति ।
गुरुरहितविचारसाध्यविद्यया अविद्यानिवृत्त्यभावोपपत्तेः इत्यर्थः ।
श्रवणनियमविधिं सदृष्टान्तमुपपादयति —
एवं चेति ।
गुरुरहितविचारस्य व्यावर्त्यस्य लाभे सति इत्यर्थः ।
लिखितेति ।
अभ्युदयनिश्रेयसकामस्य वेदार्थानुष्ठानं विना नाभ्युदयादिसिद्धिः । तदनुष्ठानं च वेदार्थज्ञानं विना न सम्भवति । तदर्थज्ञानं च स्वाध्यायपदवाच्यवेदावाप्तिं विना न सम्भवति । वेदावाप्तिं प्रति च गुरुमुखोच्चारणानूच्चारणलक्षणमध्ययनं लिखितपाठादि च साधनत्वेन लोके प्रसिद्धम् ।
तथा चाध्ययनविधिवाक्येन वेदाध्ययनं नियम्यते —
अध्ययनेनैवाक्षरावाप्तिं सम्पादयेत् इति ।
तेन च लिखितपाठादिव्यावृत्तिर्लभ्यते यथा तथा प्रकृतेऽपि इत्यर्थः । ननु - ब्रह्मविज्ञानार्थं गुर्वभिगमनं श्रूयते । न च तस्य श्रुतिजन्ये ब्रह्मज्ञाने साक्षात्साधनत्वमस्ति । अतस्तेन ज्ञाने जननीये द्वारापेक्षायां गुर्वधीनविचार एव योग्यतया द्वारत्वेन कल्प्यते, न त्वदृष्टम् । दृष्टद्वारसम्भवे अदृष्टकल्पनायोगात् ।
गुर्वभिगमनस्य गुर्वधीनविचारद्वारा ज्ञानसाधनत्वे अभिगमनविधिना सिद्धे तेनैव गुरुरहितविचारव्यावृत्तिसिद्धेर्निष्फलः श्रोतव्यवाक्ये श्रवणनियमविधिः इति शङ्कते —
न चेति ।
‘ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन’ इति पूर्ववाक्ये निर्दिष्टो ब्राह्मणः स इति परामृश्यते । निर्वेदं - वैराग्यं प्राप्नुयादिति यावत् । केन प्रकारेणेत्यत आह श्रुतिः —अकृतः - नित्यो मोक्षः कृतेन - कर्मणा नास्तीति । अतो मोक्षं ब्रह्मज्ञानसाध्यं ज्ञात्वा तज्ज्ञानार्थं गुरुमभिगच्छेत् इत्यर्थः ।
श्रोतव्यवाक्येन गुर्वधीनविचारे नियमिते सति तदङ्गतया गुर्वभिगमनं विधीयते, श्रवणविध्यभावे तु उपगमनविधेरात्मलाभाभावात् न श्रवणविधिवैफल्यापादकता इति परिहरति —
गुरूपसदनस्येति ।
अङ्गविधिना प्रधानविधिवैफल्यापादनेऽतिप्रसङ्गमाह —
अन्यथेति ।
विधिनैवेति ।
गुरूपगमनस्य अक्षरावाप्तिं प्रति अध्ययनरूपदृष्टद्वारसम्भवे तत्त्यागायोगादिति भावः ।
व्यावर्त्यान्तरमाह —
अथवेति ।
नियमविधिरस्त्विति ।
अद्वैतं जिज्ञासमानेन वेदान्ता एव विचारणीयाः न भाषाप्रबन्धाः इति विचारविषयनियमविधिरस्त्वित्यर्थः ।
ननु —म्लेच्छशब्दितस्य भाषाप्रबन्धरूपाव्यक्तशब्दस्योच्चारणं पुरुषेण न कर्तव्यम्, अन्यथा पुरुषः प्रत्यवायी भवेत्, इति निषेधबलादेव श्रवणाधिकारिणो भाषाप्रबन्धव्यावृत्तिसिद्धेः किं विधिनेति शङ्कते—
न च नेति ।
यदि भाषानिषेधस्य ज्ञानाङ्गत्वं स्यात् तदा तन्निषेधमुल्लङ्घ्य तत्र प्रवृत्तौ ज्ञानानुत्पत्तिभयेन तत्र न प्रवर्तेत ।
न त्वेतदस्ति ।
पुरुषार्थत्वात्तन्निषेधस्य ।
तथा च तन्निषेधमुल्लङ्घ्यापि कदाचित् भाषाप्रबन्धश्रवणे प्रवृत्तिः सम्भवति इति परिहरति —
शास्त्रव्युत्पत्तीति ।
उल्लङ्घने हेतुमाह —
अशक्यमितीति ।
अशक्यत्वे हेतुः व्युत्पत्तिमान्द्यम् । ननु यस्याधिकारिणो व्युत्पत्तिमान्द्याद्वेदान्तश्रवणमशक्यं तं प्रति वेदान्तविचारे नियमविधिः कथम्, अशक्यार्थे विध्यनुपपत्तेः, इति चेत् - न, भाष्यादिरूपवेदान्तविचारासम्भवेऽपि वेदान्तप्रकरणविचारस्य मन्दाधिकारिणोऽपि सम्भवात् । तदुक्तं पञ्चदश्याम् - ‘मन्दप्रज्ञं तु जिज्ञासुं आत्मानन्देन बोधयेत् । बोधयामास मैत्रेयीं याज्ञवल्क्यो निजां प्रियाम् ॥’ [पं. द. १२—४, ५] इति । [आत्मानन्देन -] आत्मानन्दनामकप्रकरणेनेत्यर्थः ।
पुरुषार्थनिषेवमुल्लङ्घ्यापि महाफलसिद्ध्यर्थं निषिद्धे प्रवृत्तिः तन्निवर्तनेन विधेरर्थवत्ता च मीमांसकैरपि स्वीकृतेत्याह —
अभ्युपगम्यतेहीति ।
अङ्गीकृतं निषेधोल्लङ्घनं येन स तथोक्तः ।
कुतश्चिदित्यनेन सूचितं हेतुमाह —
अविकलामिति ।
अर्थवत्त्वमिति ।
व्युत्पादितमिति पूर्वेणान्वयः ।
व्यावर्त्यान्तरमाह —
यद्वेति ।
मन्त्रैरेवेति ।
अर्ग्निमूर्धेत्यादयो मन्त्राः श्रुत्यादिभिः क्रतौ विनियुक्ताः । ते किमुच्चारणमात्रेणादृष्टं कुर्वन्तः क्रतावुपकारं कुर्वन्ति उत दृष्टेनैवार्थस्मरणेन इति सन्देहे कल्पसूत्रादिनापि अनुष्ठेयाद्यर्थस्मृतिसम्भवाददृष्टार्था मन्त्रा इति प्राप्ते राद्धान्तः - मन्त्राणामर्थप्रकाशनद्वारा क्रतूपकारकत्वम् । दृष्टद्वारसम्भवेऽदृष्टकल्पनानुपपत्तेः । तथा च फलवदनुष्ठानापेक्षितक्रियातत्साधनस्मरणद्वारा मन्त्राणां कर्माङ्गत्वम् । न च क्रियातत्साधनस्मरणस्य मन्त्रैरिव कल्पसूत्रादिभिरपि सम्भवात् न तस्य द्वारत्वमिति वाच्यम् । ‘मन्त्रैरेव मन्त्रार्थः स्मर्तव्यः’ इति नियमविधिसम्भवात् । नियमस्तु अदृष्टार्थो भविष्यति । तदुक्तम् —‘यत्र दृष्टं न लभ्येत स्यात्तत्रादृष्टकल्पना’ इति । तथा च यथा मन्त्रनियमविधिना मन्त्रमूलककल्पसूत्रादिव्यावृत्तिः क्रियते तथा अधीतसाङ्गस्वाध्यायेन ब्रह्म जिज्ञासुना वेदान्ता एव विचार्या इति वेदान्तनियमे कृते तन्मूलकेतिहासादीनां व्यावृत्तिर्लभ्यत इति दृष्टान्तदार्ष्टान्तिकग्रन्थयोरर्थः । याज्ञिकैः प्रणीतं अनुष्ठानसमवेतपदार्थसङ्ग्राहकं वाक्यं ग्रहणकवाक्यम् । इतिहासो महाभारतम् । पौरुषेयप्रबन्धः प्रबोधचन्द्रोदयादिः । उदाहृतानि व्यावर्त्यानि उपलक्षणम् । अन्येषामपि व्यावर्त्यानां सम्भवात् । तथा हि ‘तत् कारणं सांख्ययोगाभिपन्नम्’ [श्वे. उ. ६ - १३] इति श्रुतौ ब्रह्मप्रतिपत्तिद्वारा तत्प्राप्तिं प्रत्युपायद्वयं निर्दिष्टम् - श्रवणमननध्यानात्मकः सांख्यशब्दार्थ एकः । तृतीयपरिच्छेदे वक्ष्यमाणो योगपदोदित उपासनामार्गस्त्वपरः । तत् - प्रकृतं कारणं - जगत्कारणत्वोपलक्षितं ब्रह्म सांख्ययोगाभ्यां ज्ञानद्वारा अभिपन्नम् - आभिमुख्येन प्रत्यक्त्वेन प्राप्तं इति श्रुत्यर्थः । तथा सगुणब्रह्मोपासनं उपासकस्य ब्रह्मलोकं गतस्य तत्त्वसाक्षात्कारद्वारा ब्रह्मप्राप्तिहेतुरिति ब्रह्ममीमांसायां प्रसिद्धम् । तथा तपोविशेषादिकं साक्षात्तत्त्वज्ञानसाधनत्वेन पुराणादिप्रसिद्धमुदाहर्तव्यम् । तथा च गुरुवेदान्तेषु श्रद्धावतः कुशलस्य श्रवणाधिकारिणः तत्त्वज्ञानार्थमुक्तेषु योगमार्गसगुण ब्रह्मोपासनतपोविशेषादिष्वपि वेदान्तश्रवण इव कदाचित् प्रवृत्तिस्स्यादिति तन्निवृत्तिफलको नियमविधिः सम्भवति ।
नियमविधिपक्षमुपसंहरति —
सर्वथेति ।
ननु नियमविधित्वपक्षे ‘सहकार्यन्तरविधिः’ इत्यधिकरणभाष्यविरोध इत्यत आह —
सहकार्यन्तरेति ।
अपूर्वविधित्वस्य निराकृतत्वादिति भावः ।
तत्रैवेति ।
तदधिकरणभाष्य एवेत्यर्थः । श्रोतव्यवाक्येन निर्विचिकित्सपरोक्षशाब्दज्ञानोद्देशेनैव श्रवणं विधीयते, न तु शाब्दसाक्षात्कारोद्देशेन । शब्दस्य स्वतः परोक्षज्ञानजननस्वाभाव्यात् विचारसहकृतस्यापि शब्दस्य क्वापि साक्षात्कारहेतुत्वादर्शनाच्च । परोक्षज्ञानफलकोऽप्ययं नापूवविधिः । विधिं विनापि शब्दे शाब्दज्ञानहेतुत्वस्य विचारे विचार्यनिर्णयहेतुत्वस्य च प्राप्तौ तदुभयबलेन विचारविशिष्टवेदान्तरूपश्रवणस्य निर्विचिकित्सशाब्दज्ञानहेतुत्वप्राप्तेः साधितत्वात् ।
किं तु पूर्वोक्तान्येव व्यावर्त्यान्यादाय नियमविधिरेवेति मतमाह —
कृतश्रवणस्य प्रथममिति ।
ननु मनननिदिध्यासने किं निर्विचिकित्सशाब्दपरोक्षज्ञानोद्देशेनैव विधीयेते, किं वा शाब्दापरोक्षं प्रति ।
नाद्यः, मननाद्यनुष्ठानात् प्राक् श्रवणमात्रादेव तत्सिद्धेः, न द्वितीयः, शब्दस्य परोक्षज्ञानजनन एव सामर्थ्यस्य त्वदभिमतत्वात् इत्याशङ्कां द्वितीयपक्षपरिग्रहेण परिहरति —
पश्चादिति ।
शाब्दनिर्विचिकित्सपरोक्षज्ञानानन्तरमित्यर्थः । कृते मनननिदिध्यासने येन स तथोक्तः ।
तत एवेति ।
शब्दादेवेत्यर्थः । सहकारिवैचित्र्यात् कार्यवैचिञ्यदर्शनादिति भावः ।
तदेवोदाहरणेन दर्शयति —
तत्तांशेति ।
तत्समर्थेति ।
तत्तांशगोचरज्ञानजननसमर्थेत्यर्थः ।
शब्दस्येति ।
शब्दस्यापरोक्षज्ञानजनकत्वं युक्तमित्युत्तरत्र सम्बन्धः ।
ननु तत्तासंस्कारस्य इन्द्रियसहकारित्वेन कॢप्तावपि भावनाप्रचयस्य ज्ञानकरणसहकारित्वेन साक्षात्कारजननसामर्थ्यं न क्वापि कॢप्तं इत्याशङ्क्याह —
विधुरेति ।
तत्समर्थेत्यत्र साक्षात्कारजननं तच्छब्दार्थः ।
नन्वेवमपि शब्दसहकारित्वेन मननध्यानात्मकभावनाप्रचयस्य मानान्तरेण शाब्दसाक्षात्कारं प्रति हेतुत्वाप्राप्तेः मननादिविधेरपूर्वविधित्वप्रसङ्ग इति, नेत्याह —
ततश्चेति ।
परोक्षज्ञानजनकत्वस्यापरोक्षज्ञानजनकत्वस्य च प्राप्तत्वादिति सम्बन्धः । परोक्षज्ञानहेतुत्वस्य प्राप्त्यभिधानं श्रवणविधेर्नियमविधित्वार्थमिति द्रष्टव्यम् ।
विधुरेति ।
भावनासहकृतस्य विधुरान्तःकरणस्य कामिनीसाक्षात्कारहेतुत्वदर्शनस्थले बहिरस्वतन्त्रमप्यन्तःकरणं बाह्यवस्तुभावनासहकृतं सत् तत्साक्षात्कारहेतुरिति विशिष्य कार्यकारणभावे गृहीतव्ये लाघवात् बाधकाभावाच्च भावनाप्रचयसहकृतं ज्ञानकरणत्वावच्छिन्नमपरोक्षज्ञानं प्रति हेतुरिति कार्यकारणभावो गृह्यत इति भावः । अत्र - शब्दस्य परोक्षज्ञानजननस्वाभाव्यमेवासिद्धम्, ज्ञानगतपरोक्षत्वादेः करणविशेषप्रयुक्तत्वस्य नीराकरिष्यमाणत्वात् ।
अतः शाब्दापरोक्षं प्रति मननादेरिव श्रवणस्यापि विधिर्नानुपपन्नः इत्यस्वरसं सूचयति —
तदेकदेशिन इति ।
विवरणैकदेशिन इत्यर्थः ।
मतान्तरमाह —
वेदान्तश्रवणेन न ब्रह्मसाक्षात्कार इति ।
शब्दस्य परोक्षज्ञानजननस्वाभाव्येन कॢप्तसामर्थ्यानतिलङ्घनात् इति हेतुरत्रापि मते द्रष्टव्यः ।
किं तर्हि ब्रह्मसाक्षात्कारे करणमिति पृच्छति —
किं त्विति ।
मन एव करणमिति मत्वा तत्र मानमाह —
मनसैवेति ।
क्वचित् किंत्वित्यनन्तरं मनसैवेति पाठोऽपि पृथगस्ति । तदा नानुपपत्तिः ।
तत्रैव भाष्यसम्मतिमाह —
शास्त्रेति ।
शास्त्रं ‘तत्त्वमसि’ [छा.उ.६-८-७] इत्यादिवाक्यम् । आचार्योपदेशः आचार्यकर्तृकवाक्यार्थविवरणरूपः । आदिपदं दमतितिक्षादिसङ्ग्रहार्थम् । तथा चात्र ब्रह्मसाक्षात्कारस्य मानसत्वप्रतिपादनेन तत्करणमनस्सहकारितयैव मनननिदिध्यासनयोर्विधिः, न तु पूर्वमत इव शाब्दसाक्षात्कारकरणशब्दसहकारितया इति पूर्वमतादस्य मतस्य विशेषस्सूचितो भवति ।
श्रवणे तु पूर्वमतादविशेषमाह —
श्रवणं त्विति ।
तादर्थ्येनैवेति ।
निर्विचिकित्सशाब्दपरोक्षज्ञानार्थत्वेनैवेत्यर्थः ।
मतान्तरमाह —
अपरोक्षज्ञानेति ।
ननु तर्करूपविचारात्मकस्य श्रवणस्य स्वतस्साक्षात्कारफलकत्वायोगात्तदनुग्राह्यं प्रमाणं वक्तव्यम्, तच्च किं इत्यपेक्षायामाह —
तादर्थ्यं वेति ।
साक्षात्कारार्थत्वं चेत्यर्थः ।
तस्येति ।
वेदान्तश्रवणस्येत्यर्थः ।
करणभूतेति ।
ब्रह्मसाक्षात्कारकरणभूतेत्यर्थः । न तु ब्रह्मसाक्षात्कारकरणशब्दसहकारितयेत्येवकारार्थः ।
न साक्षादिति ।
वेदान्तश्रवणस्य स्वातन्त्र्येण साक्षात्कारजनकत्वं नास्ति । तस्य तर्करूपतया स्वतः प्रमाणत्वाभावादिति भावः ।
मनस्सहकारितयवेत्येवकारार्थे हेतुमाह —
शाब्देति ।
तस्येति ।
वेदान्तश्रवणस्येत्यर्थः ।
तेन रूपेणेति ।
साक्षात्कारकरणमनस्सहकारित्वेन रूपेणेत्यर्थः ।
साक्षात्कारकरणमनस्सहकारित्वेन प्राप्त्यभावेऽपि तत्करणेन्द्रियसहकारित्वेन प्राप्तिरस्तीत्याह —
श्रावणेष्विति ।
श्रोत्रजन्यप्रत्यक्षविषयेष्वित्यर्थः ।
षङ्जादिष्विति ।
षङ्जादयो ध्वनिविशेषाः । तेषु गान्धर्वशास्त्रश्रवणरहितस्य परस्परमविवेकस्समारोपितो वर्तते । परस्परमविवेको नाम परस्परं तादात्म्यरूपः परस्परधर्मवत्तारूपश्च इति बोध्यम् । गान्धर्वशास्त्रविचारवतश्च तद्विचारसहकृतश्रोत्रेन्द्रियेणैव षङ्जादयः परस्परं विविक्ततयाऽनुभूयन्ते । एवं मनसाऽन्तरिन्द्रियेण अनुभूयमानेषु चिदात्ममनःप्राणशरीरादिषु परस्परं तादात्म्यादिरूपाविवेकः प्राणिनामनुभवसिद्धः ।
अत्रापि यद्यारोपनिवर्तक शास्त्रमस्ति तदा तत्सहकृतमन्तरिन्द्रियमेव बुद्ध्यादिविविक्तमात्मानं ब्रह्मस्वरूपतया वेदान्तैः प्रतीयमानं साक्षात्कारयेत् इति विचारवान् पुरुषः षङ्जादिसाक्षात्कारस्थले कार्यकारणभावं कल्पयतीत्याह —
प्रकाशमान इति ।
तच्छ्रवणं शास्त्रश्रवणम् ।
तत्साक्षात्कारेति ।
प्रकाशमानवस्तुसाक्षात्कारेत्यर्थः । उपयुज्यते - विविक्ततयावस्तुसाक्षात्कारहेतुर्भवतीत्यर्थः ।
इत्यस्येति ।
इति - उक्तप्रकारेण अस्य - साक्षात्कारकरणभूतेन्द्रियसहकारित्वस्य [कॢप्तत्वात्] - वेदान्तश्रवणे विधिं विनैव प्राप्तत्वात् नापूर्वविधित्वप्रसङ्ग इत्यर्थः । उक्तेषु पक्षेषु शाब्दाद्यपरोक्षोद्देशेन वा शाब्दपरोक्षोद्देशेन वा श्रवणविधिरिति स्थितम् ।
इदानीं प्रतिबन्धनिरासोद्देशेनैव तद्विधिरिति मतान्तरमाह —
वेदान्तवाक्यानामिति ।
प्रमेयासम्भावनानिवृत्त्यनुकूलन्यायविचारात्मकमननव्यावृत्तये तात्पर्यनिर्णयानुकूलेत्युक्तम् । तन्निर्णयानुकूलन्यायाश्च उपक्रमोपसंहारैकरूप्यादयः इति बोध्यम् । चेतोवृत्तिविशेषपदेन यत्नसाध्यक्रियारूपा वृत्तिः विवक्षिता, न तु तदसाध्या ज्ञानरूपा वृत्तिः विवक्षिता । ज्ञानस्य विध्ययोग्यताया वक्ष्यमाणत्वात् । ब्रह्मणीति विषयसप्तमी ।
तस्येति ।
ज्ञानस्येत्यर्थः । शब्दादि - इत्यादिपदं प्रत्यक्षादिसङ्ग्रहार्थम् ।
‘ज्ञानोद्देशेन श्रवणं विधीयते’ इति मताभिमतं श्रवणशब्दार्थमनूद्य निराकरोति —
न चोक्तरूपेति ।
ब्रह्मजिज्ञासासूत्रस्य ‘साधनचतुष्टयसम्पन्नेन ब्रह्मज्ञानाय वेदान्तविचारः कर्तव्यः’ इत्यर्थः । सौत्रजिज्ञासापदस्य विचारलक्षकत्वात् । तस्य च सूत्रस्य श्रोतव्यवाक्यं मूलम् । ततश्च श्रोतव्यवाक्ये यदि श्रवणं ज्ञानरूपं तदा श्रोतव्य इत्यस्य श्रवणरूपज्ञानकर्तव्यता अर्थः स्यात् ।
तथा च जिज्ञासासूत्रश्रोतव्यवाक्ययोः मूलमूलिभावो न स्यात् एकार्थत्वाभावात् - इत्याह —
श्रवणविधेरिति ।
ऊहः - न्यायाभासेभ्यो निष्कृष्य न्यायानामुपादानम् । न्यायाभासनिराकरणं अपोहः । ननु ‘सदेव सोम्य’ [छा.उ.६-२-१] इत्यादि ‘तत्सत्यं स आत्मा तत्त्वमसि’ [छा.उ.६-८-७] इत्येतदन्तं वाक्यजातं अद्वितीयवस्तुपरम्, तत्प्रतिपादकोपक्रमोपसंहारवत्त्वात्, इत्येवमात्मकस्य विचारस्य अनुमितिरूपं तात्पर्यनिर्धारणं साक्षात्फलम्, तद्द्वारा तात्पर्यभ्रमादिरूपप्रतिबन्धकनिवृत्तिः विचारस्य फलम्, तन्निवृत्तौ च वाक्यमप्रतिबद्धं सदद्वितीयब्रह्मबोधं जनयति, एवं श्रुत्यन्तरेष्वपि इति वस्तुगतिः ।
तथा च श्रवणस्य साक्षात् ब्रह्मज्ञानफलकत्वाभावेऽपि परम्परया तत्फलकत्वं स्यादिति शङ्कते —
न च विचारस्यैवेति ।
अप्यर्थ एवकारः । तथा च यथा ज्ञानं शब्दप्रमाणस्य फलं तथा तद्विचारस्यापि फलमस्तु, शब्दप्रमाणफले ज्ञाने विचारस्यापि तात्पर्यनिर्णयद्वारा तदधीनप्रतिबन्धनिरासद्वारा वा हेतुत्वसम्भवात् इत्यर्थः । तज्जन्यत्वं विगमविशेषणम् । भ्रमादिरेव पुरुषापराधः ।
तात्पर्यज्ञानस्य द्वारत्वाभावे हेतुमाह —
तात्पर्यज्ञानस्येति ।
प्रतिबन्धनिरासोपजननेनान्यथासिद्धत्वादिति भावः ।
[प्रतिबन्धकाभावस्य] (तात्पर्यज्ञानस्य) शाब्दबोधं प्रति हेतुत्वाभावे विचारस्य तात्पर्यनिर्णयसाध्यप्रतिबन्धकनिवृत्तिद्वारा शाब्दबोधहेतुत्वं दूरापास्तमिति मत्वा प्रतिबन्धकाभावस्याहेतुत्वे हेतुमाह —
कार्ये क्वचिदपीति ।
सत्यामपि सामग्र्यां प्रतिबन्धकवशात् कार्यं न जातमिति लोकव्यवहारविरोधात् प्रतिबन्धकाभावस्य सामग्र्यामन्तर्भावो नाङ्गीक्रियते । किं त्वप्रतिबद्धा सामग्री कार्यहेतुः इति स्वीकृत्य सामग्र्यामवच्छेदकतया दण्डत्वादिवदन्यथासिद्धिरेव स्वीक्रियत इति भावः ।
तात्पर्यानुमितिहेतुविचारात्मकानुमानस्य शाब्दप्रमितिहेतुत्वे दूषणमाह —
ब्रह्मज्ञानस्येति ।
अतिरिक्तेति ।
शब्दप्रमाणातिरिक्तेत्यर्थः ।
परतस्त्वापत्तेरिति ।
प्रामाण्याश्रयज्ञानस्य अतिरिक्तकारणजन्यत्वरूपं प्रामाण्यस्योत्पत्तौ परतस्त्वं स्यादित्यर्थः । ततश्चापसिद्धान्त इति भावः ।
यदि श्रवणस्य न ब्रह्मज्ञानं फलं, तर्हि किमुद्देशेन तद्विधिः ? अत आह —
तस्मादिति ।
ब्रह्मज्ञानफलकत्वासम्भवादित्यर्थः ।
ननु तर्हि कथं ‘द्रष्टव्यः’ इति श्रवणफलकीर्तनम् ? तत्राह —
द्रष्टव्य इति त्विति ।
स्तुतिमात्रमिति ।
आत्मन इति शेषः । स्तुतिश्च तच्छ्रवणादौ प्रवृत्त्यर्था इति भावः ।
परिसङ्ख्याविधिपक्षमाह —
ब्रह्मज्ञानार्थमिति ।
ननु वाचस्पतिमतेवक्ष्यमाणरीत्या वेदान्तश्रवणस्य नित्यप्राप्तिं सिद्धां कृत्वा परिसङ्ख्याविधिपक्षप्रवृत्तिः वाच्या ।
तथा च सति ज्ञानमुद्दिश्य श्रवणाद्यनुतिष्ठतः कथं व्यापारान्तरं प्रसज्येत, यतस्तन्निवृत्तिफलकः परिसङ्ख्याविधिस्सम्भवेत्, इत्याशङ्क्य ब्रह्मज्ञानसाधनत्वेन व्यापारान्तराप्रसक्तावपि भेदवासनावशाद्व्यापारान्तरं सम्भवतीति सदृष्टान्तमाह —
चिकित्सेति ।
चिकित्सा - औषधं, तज्ज्ञानस्य वैद्यकग्रन्थैकसाध्यत्वेन तज्ज्ञानाय चरकसुश्रुतादिसंज्ञकग्रन्थश्रवणे प्रवृत्तस्य तादर्थ्येन व्यापारान्तराप्रसक्तावपि यथा विषयवासनावशादेव तत्प्रसक्तिः, तद्वदित्यर्थः ।
ननु सुश्रुतादिग्रन्थश्रवणे प्रवृत्तस्य व्यापारान्तरसत्त्वेऽपि यथा चिकित्साज्ञानं निष्प्रत्यूहमुत्पद्यते तथा प्रत्यहं वेदान्तश्रवणमनुतिष्ठतो मध्येमध्ये लौकिकवैदिकव्यापारसत्त्वेऽपि ब्रह्मज्ञानोदयसम्भवात् निष्फलः परिसङ्ख्याविधिः इत्याशङ्क्य, श्रवणविध्यर्थवत्त्वाय निरन्तरमनुष्ठितश्रवणस्यैव ज्ञानसाधनत्वं न कादाचित्कस्येति विधेः अनैष्फल्यं इति परिहारमभिप्रेत्य, यथोक्तार्थे श्रुतिस्मृतिवाक्यान्युदाहरति —
ब्रह्मसंस्थ इति ।
न विद्यते अन्यो व्यापारो यस्य पुरुषस्य स तथा, तस्य भावस्तत्त्वं, तस्येत्यर्थः । ब्रह्मविषयकश्रवणादिव्यापारात् शमदमाद्युपबृंहितात् अन्यव्यापारशून्यत्वस्येति यावत् । तथा च सन्न्यासाधिकरण भाष्यम् [ब्र.सू.३-४-२०] - ‘शमदमाद्युपबृंहितं ब्रह्मनिष्ठत्वं तस्य स्वधर्मः । तदतिक्रमे च तस्य प्रत्यवायः’ इति । अवधारणं निश्चयः ।
ब्रह्मसंस्थपदेनायमर्थः कथं लभ्यत इत्यत आह —
सम्पूर्वस्येति ।
न च ब्रह्मणि समाप्तिर्नाम विदेहकैवल्यरूपो लय एवास्त्विति वाच्यम् । तथा सति पुनः ‘अमृतत्वमेति’ इति भागवैयर्थ्यापत्तेः । अतोऽमृतत्वप्राप्तिं प्रति ब्रह्मसंस्थता उपायत्वेन विधीयत इति वक्तव्यम् । अतो ब्रह्मणि समाप्तेरनन्यव्यापारत्वे पर्यवसानं भाष्ये कृतम् । तथा च अनन्यव्यापारत्वस्य मुक्त्युपायत्वबोधकवाक्येन अर्थात् मुमुक्षोः व्यापारान्तरनिवृत्तिः क्रियत इति भावः ।
साक्षान्निवृत्तिबोधकवाक्यमुदाहरति —
तमेवैकमिति ।
यस्मिन्नाधारे द्यावापृथिव्यादि समस्तं जगदध्यस्तं, तमेवाधारमेकरूपमात्मानं जानथ हे मुमुक्षवः । ज्ञानसाधनत्वेन च अनात्मप्रतिपादकशब्दोच्चारणादित्यागः कर्तव्य इत्याह श्रुतिः — ‘अन्या वाचो विमुञ्चथ’ इति ।
नियमविधिवादी शङ्कते —
न च ब्रह्मज्ञानानुपयोगिन इति ।
प्रतिबन्धा समाधत्ते —
सहकार्यन्तरेति ।
न प्राप्नोति ।
मौनमिति शेषः ।
उदाहृतसूत्रभाष्ययोः नियमविधिवादिसम्मतं तात्पर्यं परिसङ्ख्याविधिवादी दर्शयति —
कृतश्रवणस्येति ।
मन्वानस्येत्यनन्तरं व्यापारान्तरेऽपि प्रवर्तमानस्य इति शेषः । सूत्रे भाष्ये च अतत्साधनपक्षप्राप्तिमात्रेण नियमविधेरभ्युपगततया इति सम्बन्धः ।[वार्तिककारवचने] (वार्तिके) अत्रेत्यस्य श्रोतव्यवाक्ये इत्यर्थः । अत्र नियमो विध्यर्थो भवेत् इत्येकः सम्बन्धः । यदि नित्यप्राप्तत्वात् नियमविधिर्न सम्भवति तदा परिसङ्ख्या वा विध्यर्थो भवेत् इति सम्बन्धः । परिसङ्ख्याया विध्यर्थत्वे हेतुः यत इत्यादिः । परात्मोपासने अन्यव्यापाररहिते वयं मुमुक्षवो यतः प्रवृत्ताः इत्यर्थः ।
श्रवणादीनां विधेयत्वपक्षं मतभेदेन दर्शयित्वा तेषां विध्यभावपक्षमाह —
आत्मा श्रोतव्य इत्यादिना ।
निबध्यमानमिति ।
यथा आत्मविषयकत्वेनोच्यमानं मननं निदिध्यासनं च ज्ञानरूपं तथा श्रवणमपि ज्ञानरूपमेवेत्यर्थः ।
नेति ।
विचारस्य अनुष्ठेयक्रियारूपस्य साक्षादात्मविषयकत्वानुपपत्तेरिति भावः । ननु मननादिवदिति दृष्टान्तोऽनुपपन्नः । मनननिदिध्यासनयोः ज्ञानत्वाभावात् । मननं हि युक्त्याऽऽलोचनरूपो व्यापारः । ‘ध्यै चिन्तायाम्’ इत्यनुशासनानुरोधेन निदिध्यासनं ध्यानक्रिया, न ज्ञानम् । अतः कथं मननादिवदिति मनननिदिध्यासनयोः ज्ञानत्वं सिद्धतया निर्दिश्यते - इति चेत्, उच्यते - आत्मा ब्रह्मस्वभावः चिद्रूपत्वात् ब्रह्मवत्, बुद्ध्यादिः कल्पितः दृश्यत्वात् शुक्तिरजतादिवत्, इत्याद्यनुमितेरेव मननत्वोपगमात् । तदुक्तं चतुर्थे मैत्रेयीब्राह्मणवार्तिके — ‘आगमार्थविनिश्चित्यै मन्तव्य इति भण्यते’ (बृ.वा.२-४-२१४), ‘वेदशब्दानुरोध्यत्र तर्कोऽपि विनियुज्यते’ (बृ.वा.२-४-२१६), ‘पदार्थविषयस्तर्कः तथैवानुमितिर्भवेत्’ (बृ.वा. २-४-२२६) इति । श्रुतार्थदार्ढ्याय तर्करूपं मननं विधीयते । सोऽपि तर्कः श्रुत्यविरुद्ध एव मननत्वेन विधीयते । तच्च मननं तत्त्वंपदार्थविषयकमेव, न तु वाक्यार्थविषयकम् । तस्य वाक्यैकमेयत्वात् । तथाशब्दः समुच्चयार्थः । यथा मननात्मकतर्कस्य वेदाविरोधित्वं तथा अनुमितिरूपत्वं चेत्यर्थः । अत एव न्यायतन्त्रेऽपि मननस्यानुमितिरूपत्वमिष्यते । निदिध्यासनमपि वार्तिककारमते ज्ञानमेव । तथाहि बृहदारण्यके चतुर्थाध्यायषष्ठाध्यायगतयोः मैत्रेयीब्राह्मणयोराम्नायते — ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इति । अनन्तरं चतुर्थे ‘मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेन’ इति । षष्ठे तु ‘मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते’ इति । तत्रोभयत्राक्षेपवार्तिकम् - ‘अनुवादे यथोक्तानां प्रकान्ते दर्शनादिषु । विज्ञानेनेत्यथ कथं निदिध्यासनमुच्यते’ (बृ.वा.२—४-२३२) इति । अथ ‘आत्मा द्रष्टव्यः’ इत्यादिना उक्तानामनुवादे प्रकान्ते सति दर्शनादिषु मध्ये श्रुतं निदिध्यासनं विज्ञानेनेतिपदेन कथं उच्यते - अनूद्यते । दर्शनादीनां समानपदैरेवानुवाददर्शनेन निदिध्यासनस्यापि तद्वन्निदिध्यासनेनेत्यनुवादः स्यात् न तु विज्ञानपदेन, इत्यर्थः । तस्य समाधानवार्तिकम् - ‘ध्यानाशङ्कानिवृत्त्यर्थं विज्ञानेनेति भण्यते । निदिध्यासनशब्देन ध्यानमाशङ्क्यते यतः’ (बृ.वा.२—४-२३३) इति । निदिध्यासनशब्दस्य ध्यानवाचित्वात् श्रवणमननानन्तरं अनुभवाङ्गत्वेन ध्यानं ‘निदिध्यासितव्यः’ इत्यनेन विधीयते इति यतः पूर्ववादिभिराशङ्क्यते, अतः तदाशङ्कानिवृत्त्यर्थं अनुवादावसरे स्थित्वा पूर्ववाक्ये निदिध्यासनं विज्ञानरूपं विवक्षितं न तु ध्यानम्, अतो नात्र ध्यानविधिशङ्कावकाशः, इत्याशयवती श्रुतिः विज्ञानपदेन निदिध्यासनमनुवदतीति वार्तिकार्थः । ध्यानस्यानुभवाङ्गत्वे को दोषः, यतस्तदाशङ्का निरस्यते श्रुत्या, इत्यत आह तदनन्तरं वार्तिकार्धम् — ‘विज्ञानोत्पत्तिहेतुत्वं ध्यानादेः प्रागवादिषम्’ (बृ.वा. २-४-२३४) इति । ध्यानस्य तन्नियोगस्य वा विज्ञानोत्पत्तिहेतुत्वं प्रति यद्दूषणं वक्तव्यं तत् प्रागेव सम्बन्धग्रन्थादौ उक्तवानस्मीत्यर्थः । तत्र ह्युक्तम् - तत्त्वंपदार्थगोचरश्रवणमननाभ्यामसकृदभ्यस्ताभ्यां तत्त्वंपदलक्ष्यार्थनिर्णये सति वाक्यार्थज्ञानस्यैवावसरप्राप्तत्वेन ध्यानविधेरनवकाशः । न च ताभ्यां प्रमाणप्रमेयासम्भावनानिवृत्तावपि विपरीतप्रत्ययेन प्रतिबन्धात् न वाक्यार्थबोधोत्पत्तिरिति वाच्यम् । श्रवणमननयोरेवासकृदभ्यासमहिम्ना विपरीतप्रत्ययस्यापि निवृत्तिसम्भवात्, वाक्यार्थबोधनिवर्त्यस्य विपरीतप्रत्ययस्य तदप्रतिबन्धकत्वाच्च । लोके विपर्ययस्य स्वविरोधिदर्शनोत्पत्तिप्रतिबन्धकत्वादर्शनात् —इति । ननु यदि निदिध्यासनं न ध्यानं किं तर्हि तत् इत्यत आह वार्तिकम् —‘अपरायत्तबोधोऽत्र निदिध्यासनमुच्यते’ (बृ.वा.२-४-२१७) इति । ध्यानस्यैव पुरुषप्रयत्नानपेक्षत्वं अपरायत्तत्वम् । ‘यावद्यथोक्तविज्ञानमाविर्भवति भास्वरम् । श्रवणादिक्रिया तावत् कर्तव्येह प्रयत्नतः’ (बृ.वा.२-४-२१८) ॥ मननं आदिपदार्थः । ‘श्रुत्वा मत्वाऽथ तं साक्षादात्मानं प्रतिपद्यते’ (बृ.वा.२-४-२२०) । अथ - श्रवणमननपरिपाकजनिततत्त्वंपदलक्ष्यार्थनिर्णयानन्तरमेव वाक्येन ब्रह्मात्मानं साक्षात् - अपरोक्षतया प्रतिपद्यते - अनुभवति इत्यर्थः । वाक्यार्थज्ञानवतः कृतकृत्यतामाह - ‘अनन्यायत्तविज्ञाने श्रवणादेरुपायतः । जाते नापेक्षते किञ्चित् प्रतीचोऽनुभवात् परम्’ (बृ.वा.२—४-२२१) इति । वृत्तिज्ञाने जाते सति तेन प्रतीचो ब्रह्मत्वस्फुरणात् अनन्तरं न किञ्चिदपेक्षते इत्यर्थः । एवं वार्तिककारमते निदिध्यासनस्य ज्ञानत्वाभ्युपगमात् न मननादिवदिति दृष्टान्तासिद्धिः । न च वार्तिककारमते ‘निदिध्यासितव्यः’ इत्यस्य ‘द्रष्टव्यः इत्यनेन पौनरुक्त्यं स्यादिति वाच्यम् । दर्शनोद्देशेन श्रवणमननविधानानन्तरं पुनः फलकीर्तनस्य तदुपसंहारपरत्वोपपत्तेः । अथवा ‘द्रष्टव्यः’ इति विचारप्रयोजकापातदर्शनानुवादः, ‘निदिध्यासितव्यः’ इति तु विचारफलभूतसाक्षात्कारानुवादः, इति पौनरुक्त्यपरिहारसम्भवात् ।
श्रवणादौ विध्यभावे भाष्यसम्मतिमाह —
अत एवेति ।
श्रवणमनननिदिध्यासनानां दर्शनवत् ज्ञानरूपत्वेन, क्रियारूपत्वेऽपि वक्ष्यमाणविधया नित्यप्राप्तत्वेन च, विध्ययोग्यत्वादेव इत्यर्थः ।
किमर्थानीति ।
व्यर्थानि स्युः इति यावत् । ‘आदि’पदं ‘श्रोतव्यः’ इत्यादेः सङ्ग्रहार्थम् ।
विधिच्छायानीति ।
‘अध्येतव्यः’ इति प्रसिद्धविधितुल्यानीत्यर्थः । अत्र तव्यप्रत्ययैः दर्शनश्रवणादिगता प्रशंसा लक्ष्यते । तथा च —यो हि मुमुक्षुः आत्मदर्शनश्रवणादीन्येव मुक्तिसाधनानीति ज्ञात्वाऽपि सन्न्यासब्रह्मचर्यादिसहितश्रवणाद्यनुष्ठानक्लेशमनुसञ्चिन्त्य न तत्र सर्वोत्साहेन प्रवर्तते, किंतु यथाप्राप्तान्येव वर्णाश्रमानुरूपाणि कर्माण्युपासनानि चानुतिष्ठन् तत्रापि निर्वृतिं न लभते तैरात्यन्तिकपुरुषार्थालाभानुसन्धानेन, तं प्रत्यात्मदर्शनश्रवणादिप्रशंसार्थं प्रवर्तते ‘आत्मा वा’ इत्यादिवाक्यं तस्य सर्वोत्साहेन श्रवणादावेव प्रवृत्तिर्भवतु इत्याशयेन, अतो न विधिप्रत्ययानां वैयर्थ्यं इति भाष्यकारः परिहरति -
स्वाभाविकेति ।
आदिपदेन ‘यो हि बहिर्मुखः प्रवर्तते पुरुषः इष्टं मे भूयादनिष्टं माभूदिति, न च तत्रात्यन्तिकं पुरुषार्थं लभते, तमात्यन्तिकपुरुषार्थवाञ्छिनं स्वाभाविकात् कार्यकरणसङ्घातप्रवृत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्त्रोतस्तया प्रवर्तयन्ति ‘आत्मा वा अरे द्रष्टव्यः’ इत्यादीनि [ब्र.सू.भा.१-१-४] इत्यन्तं भाष्यं सङ्गृह्यते । स्वाभाविकत्वं विषयविशेषणम् ।
सङ्ग्रहभाष्यं विवृणोति —
यो हीति ।
प्रवर्तत इति ।
नानाविधकर्मोपासनान्यनुतिष्ठतीत्यर्थः । ‘इष्टं मे भूयादनिष्टं मा भूत्’ इत्यनेन दुःखसामान्यास्पृष्टसुखकामना ब्रह्मानन्दरूपात्यन्तिकपुरुषार्थगोचरा इह विवक्षिता ।
अत एवाह —
न च तत्रात्यन्तिकं पुरुषार्थं लभते - इति ।
बाह्यसाधनं तच्छब्दार्थः ।
स्वाभाविकादिति ।
स्वभावः - अविद्या, तत्कार्यभूतादित्यर्थः । सङ्घातस्य प्रवृत्तिः - कर्मोपासनयोरनुष्ठानम्, तद्गोचरात् - द्रव्यदेवतामन्त्रादिरूपात् इत्यर्थः । प्रत्यगात्मविषये स्त्रोतः - चित्तप्रावण्यं यस्य स प्रत्यगात्मस्त्रोताः, तस्य भावस्तत्ता, तयेत्यर्थः । तं बाह्यसाधनाद्विमुखीकृत्य श्रवणादिष्वेव प्रवर्तयन्तीत्यर्थः । एवं श्रवणादेः ज्ञानरूपत्वात् न तत्र कोऽपि विधिः इत्युक्तम् ।
इदानीं श्रवणादेः क्रियारूपत्वमुपेत्यापि न तत्र कोऽपि विधिरित्याह —
यदि चेति ।
तस्य क्रियारूपत्वं च वार्तिककारैरेवोक्तम् —‘श्रवणादिक्रिया तावत् कर्तव्येह प्रयत्नतः’ इति । आदिपदेन मननस्य सङ्ग्रहः, न ध्यानस्य । वार्तिककारमते श्रवणमननानन्तरं ध्यानानुष्ठानाभावस्योक्तत्वात् । न च ध्यानस्याननुष्ठेयत्वे ‘ओमित्येवं ध्यायथ आत्मानम्’ [मु.उ.२-२-६], ‘विद्यामेतां योगविधिं च कृत्स्नम्’ [क.उ.६-१८] इत्यादिबहुवाक्यविरोध इति वाच्यम् । तेषां ‘साङ्ख्ययोगाभिपन्नम्’ इतिश्रुतिगतयोगपदोदितमार्गान्तरप्रतिपादकतायाः तृतीयपरिच्छेदे ध्यानदीपोक्तप्रकारेण वक्ष्यमाणत्वात् । न च ‘तत् कारणम्’ इति श्रुतिगतसाङ्ख्यपदोदितविचारमार्गेऽपि ध्यानान्तर्भावः ‘पूर्वमुक्त इति वाच्यम् । निदिध्यासनपदस्य ध्यानार्थकत्वमताभिप्रायेण तदन्तर्भावस्योक्तत्वात् । ध्यानस्य साङ्ख्यमार्गात् बहिर्भाव एव भाष्यकाराणामपि सम्मतः । तथा च ‘एतेन योगः प्रत्युक्तः’ [ब्र.सू.२-२-३] इत्यधिकरणभाष्यम् - ‘तत् कारणं साङ्ख्ययोगाभिपन्नम्’ इत्यत्र वैदिकमेव ज्ञानं ध्यानं च साङ्ख्ययोगशब्दाभ्यामभिलप्येते - इति । ध्यानपदं ज्ञानाभ्यासपरम् । वैदिकं वेदोक्तम् । एतेन - वेदविरोधादिना योगशास्त्रं निराकृतम् इति सूत्रार्थः । साङ्ख्यमार्गे ध्यानाभावमभिप्रेत्यैव सर्वज्ञात्ममुनिभिरपि निदिध्यासनपदस्य ज्ञानार्थकत्वमुक्तम् - ‘श्रवणमननबुद्ध्योर्जातयोर्यत् फलं तन्निपुणमतिभिरुच्चैरुच्यते दर्शनाय । अनुभवनविहीना यैवमेवेति बुद्धिः श्रुतमननसमाप्तौ तन्निदिध्यासनं हि’ [३—३४५] इति । अस्य श्लोकस्याश्रमश्रीचरणानां व्याख्यानमिदम् —निदिध्यासने पक्षान्तरमाह - श्रवणेति । श्रवणमननबुद्ध्योः जातयोर्यत् फलं, तत् दर्शनाय निपुणमतिभिरुच्चैरुच्यते इति सम्बन्धः ।
एतदेव विशदयति —
अनुभवनविहीनेति ।
श्रुतं श्रवणम् । दीर्घकालादरनैरन्तर्यानुष्ठानेन श्रवणमननपरिपाके सतीत्यर्थः । अनुभवनविहीना-साक्षात्काररहिता अविद्यानिवर्तकवृत्तिसाक्षात्कारभिन्नेति यावत् । या एवमेवेति बुद्धिः - ‘अहं-चिदात्मा ब्रह्मस्वभाव एव, ब्रह्म च चिदेकरसप्रत्यगात्मस्वभावमेव’ इति तत्त्वंपदलक्ष्यनिर्णयात्मिका बुद्धिः, तदेव निदिध्यासनं नाम, न ध्यानम् । अस्मिन् पक्षे श्रवणमननयोरेवानुष्ठेयत्वम् । निदिध्यासनं तु नानुष्ठेयम् । दीर्घकालमनुष्ठितश्रवणमननफलरूपा बुद्धिर्यदा भवति तदैव साक्षात्कारोत्पत्तेः । पूर्वपक्षे तु निदिध्यासनमपि पृथगनुष्ठेयमिति भेद इति । साङ्ख्यमार्गे ध्यानाभावमभिप्रेत्यैव यावज्ज्ञानोदयं विचारस्यैव कर्तव्यत्वं ध्यानदीपे विद्यारण्यगुरुभिरप्युक्तम् - ‘विचार्याप्यापरोक्ष्येण ब्रह्मात्मानं न वेत्ति चेत् । आपरोक्ष्यावसानत्वात् भूयो भूयो विचारयेत्’ ॥ ‘विचारयन्नामरणं नैवात्मानं लभेत चेत् । जन्मान्तरे लभेतैव प्रतिबन्धक्षये सति’ [प.द.९-३२,३३] ॥ इति ॥ एवमानन्दपञ्चकेऽपि आत्मानन्दावसाने साङ्ख्यमार्गस्य ध्यानरहितस्यापि ध्यानेन सर्वांशेऽपि तुल्यफलत्वं बहुधा प्रपञ्चितं इति संक्षेपः ।
एवकारव्यवच्छेद्यमाह —
नेति ।
वाकारो नञनुकर्षणार्थः । विचारस्य प्रतिबन्धनिरासद्वारा ब्रह्मावगमोपयोगसम्भवेऽपि न साक्षात् तत्फलकत्वम्, ज्ञानस्य प्रमाणफलत्वात्, इत्युक्तत्वादिति भावः । ननु उक्तप्रतिबन्धनिरासद्वारा विचारस्याविद्यानिवर्तकसाक्षात्कारोपयोगित्वप्राप्तावपि तादृशसाक्षात्कारप्रतिबन्धकपापनिवृत्तिद्वारा साक्षात्कारसाधनत्वस्य मानान्तरादप्राप्तत्वात् ‘श्रोतव्यः’ इत्यत्र श्रवणस्य पापनिवृत्तिद्वारा विद्यासाधनत्वमुपदिश्यते । न च विद्याप्रतिबन्धकपापनिवृत्तेर्यज्ञादिनैव सिद्धत्वाद्विधिवैयर्थ्यमिति वाच्यम् । प्रतिबन्धकपापानामानन्त्येन केषांचिद्यज्ञाद्यनुष्ठानेन केषांचित् श्रवणानुष्ठानेन निवृत्तिरिति विभागकल्पनोपपत्तेः । तथा च प्राप्तं पुनरपूर्वविधित्वम् । एवं च ‘सहकार्यन्तरविधिः’ इत्यधिकरणभाष्ये पाण्डित्यशब्दितश्रवणे अपूर्वत्वोक्तिश्च सङ्गच्छते इति शङ्कां वारयतिप्रतिबन्धकान्तरनिरास इति । तात्पर्यभ्रमसंशयरूपप्रतिबन्धकापेक्षया अन्यत् पापरूपं प्रतिबन्धकं प्रतिबन्धकान्तरं, तन्निरासो न श्रवणफलम्, अतो न तद्द्वारा ज्ञानाय श्रवणं विधेयमित्यर्थः । अयं भावः - ‘श्रोतव्यः’ इत्यस्यापूर्वविधित्वमयुक्तम् । तस्यावृत्त्यधिकरणे [ब्र.सू. ४—१-१२] निरस्तत्वात्, विवरणाद्युक्तरीत्या वेदान्तश्रवणस्यान्वयव्यतिरेकप्रमाणसिद्धं तात्पर्यभ्रमादिलक्षणप्रतिबन्धकनिवृत्तिरूपदृष्टफलकत्वमुपजीव्य, श्रवणेनैव ज्ञानं प्रतिबन्धकनिवृत्तिं च सम्पादयेत् इति नियमविधित्वसम्भवे ‘स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानीति ब्रूमः’ इत्यादिभाष्यानुसारेण ब्रह्मप्रतिपत्तिसाधनश्रवणादिस्तुतिद्वारा तत्र प्रवृत्तिविशेषकरत्वमात्रेण ब्रह्मप्रकरणनिवेशसम्भवे वा अपूर्वविधित्वायोगात्, भाष्यकारीयापूर्वत्वोक्तेः पाक्षिकाप्राप्त्यभिप्रायकत्वसम्भवाच्चेति ।
तत्फलकत्वं चेति ।
भ्रमादिरूपप्रतिबन्धकनिरासफलकत्वं चेत्यर्थः ।
ननु प्राप्तत्वेऽपि नियमविधित्वादिसम्भवात् कथं विधित्रयाभाव इत्यत आह —
साधनान्तरं चेति ।
ननु गुर्वधीनविचारेण सह गुरुरहितविचारस्य विकल्पेन प्राप्तिरस्तीत्यत आह —
विचारविध्यभावेऽपीति ।
अत एवेति ।
उपगमनविधित एवेत्यर्थः । व्यावृत्तिरित्यनन्तरं ‘लभ्यत इति श्रोतव्यवाक्ये गुर्वधीनविचारनियमविधिरनर्थकः’ इति शेषः । न चोपगमनविधेः विचारविध्यङ्गतया तदभावे उपगमनविधेरात्मलाभ एव नास्तीत्युक्तमिति वाच्यम् । गुरूपसदनस्य ब्रह्मज्ञानं प्रति द्वारापेक्षायां लोकसिद्धस्यैव गुर्वधीनविचारस्य द्वारत्वेन स्वीकारोपपत्तौ श्रोतव्यविध्यपेक्षाभावेन तच्छेषत्वासिद्धेः विचारवदुपगमनस्यापि विद्याङ्गत्वोपपत्तेश्च इति भावः ।
पूर्वोक्तातिप्रसङ्गं परिहरति —
अध्ययनविध्यभावे त्विति ।
अध्ययनविध्यभावे तु लिखितपाठादिव्यावृत्त्यसिद्धेः सफलोऽध्ययननियमविधिः इति सम्बन्धः ।
तदर्थमिति ।
अक्षरावाप्त्यर्थमित्यर्थः । अध्ययनाङ्गोपगमनस्य विद्यार्थोपगमनापेक्षया विशेषार्थकस्तुशब्दः ।
तमेवाह —
उपगमनमित्यादिना ।
अध्ययनस्याक्षरावाप्तिफलकत्वं विवरणादौ साधितमिति भावः ।
व्यावर्त्यान्तरं दूषयति —
न च तात्पर्येति ।
ननु वस्तुतस्तन्निरासकत्वाभावेऽपि भिन्नात्मज्ञानं मुक्तिसाधनमिति भ्रमद्वारा तद्भ्रमात् तत्र प्रवृत्तिः सम्भवतीत्युक्तमिति, नेत्याह —
तन्निरासकत्वभ्रमेणेति ।
इह जन्मनि जन्मान्तरे वा यज्ञाद्यनुष्ठानजनितदृढविविदिषावतः साधनचतुष्टयसम्पन्नस्य श्रवणविधावधिकारः इत्यविवादम् । यज्ञादिजनितादृष्टं च निष्प्रपञ्चाद्वितीयब्रह्मसाक्षात्कारस्य साङ्गाध्ययनलब्धैर्वेदान्तैः मुक्तिसाधनत्वनिश्चयं सम्पाद्य तादृशब्रह्मसाक्षात्कारे दृढेच्छां च विविदिषाशब्दितां उत्पाद्य तद्द्वारा अद्वितीयात्मसाक्षात्कारसाधनभूताद्वितीयात्मश्रवणादावेव मुमुक्षुं प्रवर्तयति, न तु जीवभिन्नात्मज्ञानस्य मुक्तिसाधनत्वभ्रमापादनद्वारा भिन्नात्मज्ञानसाधनविचारादाविच्छाप्रवृत्त्यादिकमप्युत्पादयति । तदिच्छादेर्भिन्नात्मविचारद्वारा यज्ञादिफलभूतनिष्प्रपञ्चब्रह्मसाक्षात्कारहेतुत्वाभावात् । तथा च स्मृतिः —‘ईश्वरानुग्रहादेव पुंसामद्वैतवासना’ [ख.ख.१-२५] इति । यज्ञादिसम्पादितादीश्वरानुग्रहादेव पुंसामद्वैतब्रह्मज्ञानेच्छारूपा तद्वासना भवतीति तदर्थः ।
तथा च यथोक्तभ्रमवतः अद्वैतब्रह्मतत्त्वसाक्षात्कारादाविच्छाश्रद्धादिशून्यस्य श्रवणविधावनधिकारात् न तं प्रति नियमविधिरर्थवान् इत्याह —
ईश्वरानुग्रहेति ।
पराभिमतेति ।
‘आत्मा श्रोतव्यः’ इति श्रुतौ आत्मशब्दस्तावत् जीवपर एव, न परमात्मपरः । ‘आत्मनस्तु कामाय सर्वं प्रियं भवति’ (बृ.उ.२-४-५) इति पूर्ववाक्ये जीवस्य प्रकृतत्वात् । न च ‘इदं सर्वं यदयमात्मा’ इति वाक्यशेषे सर्वात्मकस्य परमात्मनः प्रतिपादनात् श्रोतव्यवाक्यस्थमात्मपदमद्वितीयात्मपरमिति वाच्यम् । तत्रापि तत्प्रतिपादनासिद्धेः । न हि प्रपञ्चपरमात्मनोरभेदः सम्भवति । चेतनाचेतनयोरैक्यस्य विरुद्धत्वात् श्रुतेरभेदध्यानविधिपरत्वोपपत्तेश्च - इत्यादियोजना पराभिमता द्रष्टव्या ।
अन्यत्रेति ।
भिन्नात्मविचारे इत्यर्थः ।
परिसङ्ख्याविधिं दूषयति —
न चेति ।
श्रवणविधिना किं गृहस्थादेः व्यापारान्तरनिवृत्तिरुपदिश्यते, किं वा सन्न्यासविधिना सिद्धस्य सन्न्यासिनः ? इति विकल्पं मनसि निधाय क्रमेण दूषयति —
असन्न्यासिन इति ।
अशक्यत्वादिति ।
विध्यन्तरविरोधापत्तिरशक्यत्वे हेतुः । तन्निवृत्तेः सिद्धतया उपदेशस्य व्यर्थत्वात् इति सम्बन्धः । ‘ब्रह्मसंस्थोऽमृतत्वमेति’ इति श्रुत्यन्तरस्य ब्रह्मसंस्थताधर्मकसन्न्यासाश्रमविधायकत्वं ‘परामर्शं जैमिनिः’ (ब्र.स्.३-४-१८) इत्यधिकरणभाष्ये स्फुटमिति भावः ।
विचारविषयत्वेन वेदान्तनियमविधिः इति पक्षं दूषयति —
न च विचारेति ।
सन्निधानादेवेति ।
अधीतसाङ्गस्वाध्यायस्य वेदान्तैरापातप्रतिपन्नब्रह्मात्मजिज्ञासोः जिज्ञासानिवर्तकनिर्णयाय कर्तव्यत्वेन विचारे प्राप्ते सति विचारविषयमन्वेषमाणस्य वेदान्तानां बुद्धिस्थत्वात् ‘वेदान्ता एव मया विचारणीयाः’ इति बुद्धिरुत्पद्यते । तथा च विधिं विनैव वेदान्तनियमस्य लब्धत्वेन विधिना तन्नियमनं व्यर्थमित्यर्थः ।
विधिं विनैव वेदान्तनियमलाभे हेत्वन्तरमाह —
स्वाध्याय इति ।
अर्थावबोधेति ।
मीमांसकमतमाश्रित्योक्तम् । अक्षरावाप्तिफलकोऽध्ययनविधिरिति सिद्धान्तेऽपि - येषां वाक्यानामध्ययनावाप्तानां अर्थज्ञानद्वारा पुरुषार्थोपयोगः सम्भवति तेषां वाक्यानामर्थज्ञानमध्ययनलब्धैः वाक्यैरेवोत्पादितं फलवत् न तदतिरिक्तभाषाप्रबन्धादिजनितम् - इति रीत्या अध्ययनविधिफलाक्षरावाप्तेः पुरुषार्थपर्यवसानकल्पनात् न भाषाप्रबन्धादिप्रसक्तिः इत्यर्थः । इतिहासपुराणमादिपदार्थः ।
श्रवणादीनामविधेयत्वे सूत्रभाष्यविरोधं शङ्कते —
न चेति ।
अभ्युपगत इति ।
सूत्रभाष्यकाराभ्यामिति शेषः । विरोधं परिहर्तुं प्रथमं श्रवणादीनां विधियोग्यक्रियारूपत्वेऽपि नित्यप्राप्तत्वात् न विधेयत्वमित्याहविचार इति । तत्प्रत्ययेत्यत्र तत्पदं वस्तुपरम् । अवगमस्य वैशद्यं प्रतिबन्धराहित्यम् ।
सूत्रभाष्ययोः श्रवणादिविधित्वव्यवहारो गौणः मुख्यासम्भवस्य दर्शितत्वात् इति विरोधं परिहरति —
विधिच्छायार्थवादस्येवेति ।
‘विष्णुरुपांशु यष्टव्यः’ इत्यादेरिव इत्यर्थः । तथाहि —‘उपांशुयाजमन्तरा यजति’ इत्याम्नाय पुनराम्नायते - ‘विष्णुरुपांशु यष्टव्यः, प्रजापतिरुपांशु यष्टव्यः, अग्नीषोमावुपांशु यष्टव्यौ’ इति । अत्र अन्तरावाक्यं आग्नेयाग्नीषोमीयपुरोडाशयोरन्तरालकालविशिष्टयागविधायकम्, विष्ण्वादिवाक्यत्रयं तु मन्त्रवर्णप्राप्तवैकल्पिकदेवतानुवादेन अन्तरावाक्यविहितयागस्तावकमर्थवादमात्रं इति व्यवस्थापितं पूर्वतन्त्रे । तत् अत्र दृष्टान्तत्वेन उदाहृतमिति द्रष्टव्यम् । यत्तु - ‘तत् कारणं साङ्ख्ययोगाभिपन्नम्’ इति श्रुतौ योगपदोपात्तस्य व्यावर्त्यस्य सम्भवात् विचारसमर्थाधिकारिणं प्रति तद्व्यावृत्तिफलको नियमविधिस्सम्भवतीति - तन्न । विचारसमर्थस्याधिकारिणः कालान्तरे स्वोद्भावितानुपपत्तिवशेन अन्योद्भावितानुपपत्तिवशेन वा पुनस्तत्त्वसंशये सति अवधारणात्मकं वेदान्तार्थज्ञानं न सम्भवतीति योग्यतावशेन तं प्रति विधिं विना विचारस्यैव नित्यतया प्राप्तत्वात् । यत्तु सगुणब्रह्मोपासनं व्यावर्त्यमुक्तम् - तन्न । श्रवणविध्यधिकारिणः सर्वतो निस्स्पृहस्य ब्रह्मलोकप्राप्तिद्वारा मुक्तिसाधनसगुणोपासने पक्षेऽपि प्रवृत्तेरसम्भवेन तस्य व्यावर्त्यत्वासम्भवात्, सगुणोपासनस्यापि श्रवणादिद्वारैव विद्यासाधनत्वेन नखविदलनादेरवधाततुल्यकक्ष्यत्ववत् सगुणोपासनस्य श्रवणादिना सह विकल्पेन प्राप्त्यभावाच्च, न तद्व्यावृत्तिफलको नियमविधिः सम्भवति । न च सगुणोपासनया श्रवणादिकं विनैव सगुणसाक्षात्कारवत् निर्गुणसाक्षात्कारोदयः सम्भवतीति वाच्यम् । प्रमाणप्रमेयासम्भावनादिप्रतिबन्धनिवृत्तिद्वारा श्रवणादेस्सत्तानिश्चयरूपब्रह्मज्ञानोपायत्वग्राहकतयापूर्वोक्तप्रमाणानुरोधेन श्रवणादेः नित्यवदनुवादलिङ्गेन च सगुणोपासनया क्रमेण परममुक्तिप्रतिपादकशास्त्रस्यापि श्रवणादिद्वारकज्ञानोत्पत्त्यविरोधित्वकल्पनात्, श्रवणादिकं विना सगुणोपासनमहिम्नैव तत्त्वज्ञानोदयोपगमे देवताधिकरणविरोधाच्च । तदधिकरणे हि - देवादीनां शरीराद्यभावात् सगुणब्रह्मोपासनेषु निर्गुणब्रह्मविद्यासाधनश्रवणादिषु च नास्ति सामर्थ्यम्, अतो न तेष्वधिकारः, इति पूर्वपक्षयित्वा, मन्त्रार्थवादेतिहासपुराणप्रामाण्यात् तेषामपि शरीरादिसद्भावात् अस्त्यधिकारः - इति सिद्धान्तितम् । तत्रेदं पूर्वपक्षप्रयोजनमुक्तम् — देवादीनां श्रवणाद्यधिकाराभावे क्रममुक्तिफलकब्रह्मोपासनया प्राप्तदेवभावस्यापि श्रवणाद्यसम्भवेन विद्योदयासम्भवात् पुनरावृत्त्यापत्तौ क्रममुक्तिकामस्य सगुणोपासनेषु प्रवृत्त्यभावः इति । सिद्धान्ते तु देवादीनां श्रवणाद्यधिकारसत्त्वादुक्तप्रवृत्तिसिद्धिः इति प्रयोजनं दर्शितम् । इदं च प्रयोजनं देवताधिकरणावसानभाष्ये सङ्ग्रहेण दर्शितम् । तथा च भाष्यं - ‘ततश्च अर्थित्वादिसम्भवादुपपन्नो देवादीनामपि ब्रह्मविद्यायामधिकारः । क्रममुक्तिदर्शनान्यपि एवमेवोपपद्यन्ते’ इति । ‘एवमेव’ इत्यस्य देवादीनां श्रवणाद्यधिकारे सत्येव इत्यर्थः । तेषां श्रवणाद्यधिकारे यानि श्रौतलिङ्गानि पूर्वमुपन्यस्तानि ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् तथर्षीणाम्’ [बृ.उ.१-४-१०] ‘एकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवास’ [छा.उ.८-११-३] इत्येवमादीनि, तानि यथा उपपद्यन्ते तथा इति अपिशब्दस्यार्थः । ननु सगुणब्रह्मोपासकानामपि सर्वेषां श्रवणादिनैव ज्ञानोदयः इति नियमो नास्ति, सगुणोपासकस्यापि हिरण्यगर्भस्य बृहदारण्यकभाष्ये पुरुषविधब्राह्मणव्याख्यानावसरे श्रवणादीनां प्रणिपातादीनां चाभावेऽपि ज्ञानजन्मप्रतिपादनात् इति चेत् - न । हिरण्यगर्भस्यापि वामदेववत् जन्मान्तरीयश्रवणादिनैव ज्ञानजन्मसंभवात् । तत्रैव भाष्ये ‘श्रवणमनननिदिध्यासनानां साक्षाज्ज्ञेयविषयत्वात्’ इति वाक्ये साक्षात्पदेन श्रवणादेः ज्ञेयब्रह्मव्यञ्जकस्य प्रणिपाताद्यपेक्षया आवश्यकत्वसूचनेन जन्मान्तरीयश्रवणादिकल्पनस्य तद्भाष्यवाक्याभिप्रेतत्वे अवगम्यमाने सति तत्पूर्वभाष्ये श्रवणादिकं विना कार्यकरणशुद्ध्यादिमात्रेण ज्ञानजन्मप्रतिपादनस्य अभ्युपगमवादत्वोपपत्तेः, हिरण्यगर्भस्य वामदेवादेरिव जन्मान्तरीये ज्ञानसाधने कल्पनीये सति कॢप्तश्रवणादिकल्पनस्यैव न्याय्यत्वाञ्च । न च - ज्ञानोत्पत्तिस्थले सर्वत्र श्रवणादिनियमो नास्ति, योगमार्गे प्रवृत्तस्य श्रवणाद्यभावेऽपि तत्त्वसाक्षात्कारोदयस्वीकारात् इति - वाच्यम् ‘ओमित्यात्मानं युञ्जीत’ [म.ना.उ. १७-१५] ‘ओमित्येवं ध्यायथ आत्मानम् [मु.उ. १-२-६] इत्यादिध्यानविधिबलेन ‘तत् कारणं साङ्ख्ययोगाभिपन्नम्’ ‘विद्यामेतां योगविधिं च कृत्स्नम्’ [क.उ.६-१८] इत्यादिश्रौतलिङ्गसहकृतेन विचारासमर्थस्य योगमार्गे अधिकारः इति तृतीयपरिच्छेदे वक्ष्यमाणतया विचारसमर्थस्य विचारं विना ज्ञानोत्पत्त्यनभ्युपगमात् । एवं यद्यत् साधनं अदृष्टद्वारा तत्त्वज्ञानसाधनत्वेन शास्त्रसिद्धं, तत् सर्वं सगुणोपासनवत् दृष्टसामग्रीभूतसाङ्ख्यमार्गेण तदशक्तौ योगमार्गेण वा तत्त्वज्ञानसाधनं इति कल्प्यते । न त्वदृष्टमात्रात् ज्ञानलाभः कल्पयितुं युक्तः । अन्यथा जीवनादृष्टमात्रादेव स्तन्यपानादिप्रवृत्तिकल्पनापत्त्या तत्रापि इष्टसाधनतास्मरणं जन्मान्तरीयसंस्कारहेतुकं सर्वसम्प्रतिपन्नं न कल्पनीयं स्यात् । कॢप्तदृष्टकारणं विना कार्योत्पत्त्ययोगस्य उभयत्र तुल्यत्वात् । अत एव पञ्चदश्यां तत्त्वज्ञानं प्रति मार्गद्वयनियम उक्तः साङ्ख्ययोगौ प्रकृत्य ‘इति मार्गौ विचार्याथ जगाद परमेश्वरः’ [प.द.१२—८३] इति । सङ्ग्रहकर्ताऽपि तृतीयपरिच्छेदे साङ्ख्ययोगशब्दितमार्गद्वयमेव विद्यावाप्त्युपायत्वेन वक्ष्यति - ‘एवं श्रवणमननादिसाधनानुष्ठानप्रवणस्य विद्यावाप्तिः इत्यस्मिन्नर्थे सर्वसम्प्रतिपन्ने स्थिते भारतीतीर्थाः ध्यानदीपे विद्यावाप्तौ उपायान्तरमप्याहुः’ इतिग्रन्थेन । तदयं निष्कर्षः - विद्याधिकारिणो विचारसमर्थस्य प्रतिषेधाभावे वेदान्तश्रवणमनुष्ठेयम् । सति तु प्रतिषेधे इतिहासपुराणभाषाप्रबन्धादिश्रवणमनुष्ठेयम् । विद्याधिकारिणो विचारासमर्थस्य तु त्रैवर्णिकस्य योगशब्दितनिर्गुणोपासनमनुष्ठेयम् । मार्गद्वयासम्भवे च तत्संभवयोग्यजन्मप्राप्त्या तदन्यतरानुष्ठानद्वारा ज्ञानलाभः — इति । तथा च श्रवणाधिकारिणः श्रवणस्य नित्यप्राप्तत्वात् तत्तुल्यकक्ष्यतया साधनान्तरस्य कस्यचित् विकल्प्य समुञ्चित्य वा प्राप्त्यभावात् न तत्र विध्यवकाशः इति सिद्धम् । एवं ब्रह्मसाक्षात्कारं प्रति श्रवणादेः नित्यप्राप्तत्वात् विधिं विनैव श्रवणाद्यनुष्ठानं सिद्ध्यति इति प्रतिपादितम् ।
इदानीं श्रवणानुष्ठापकविध्यपेक्षायामपि यथा कर्मकाण्डश्रवणं ‘कर्मवाक्यविचारः कर्तव्यः’ इति पृथग्विध्यभावेऽपि अध्ययनविधिबलादेव सिद्ध्यति एवं वेदान्तश्रवणमपि तद्बलादेव सिद्ध्यतीति न श्रोतव्यवाक्ये पृथग्विचारविध्यपेक्षाऽस्ति इत्याशयेन उपसंहरति —
एवञ्चेति ।
लोकत एव श्रवणादेः प्राप्तत्वे सति श्रवणविध्यपेक्षाभावात् इत्यक्षरार्थः । श्रोतव्यवाक्यार्थविचारेण प्रथमसूत्रार्थः सङ्गृहीतः ।