कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
मुक्तिसाधननिरूपणम्
यावतेति ।
यस्मादित्यर्थः । स्मृतौ तत्पदं ब्रह्मपरम् ।
उक्तमिति ।
‘तेनैति ब्रह्मवित् पुण्यकृत्’ [बृ.उ.४-४-९] इत्यादिश्रुत्येति शेषः । तेन-ब्रह्मवेदनपुण्ययोस्समुच्चयेन एति — ब्रह्म प्राप्नोतीति श्रुत्यर्थः ।
ज्ञानकर्मणोस्समुच्चयस्य ब्रह्मप्राप्तिहेतुत्वश्रवणमनुमोदते —
सत्यमिति ।
ब्रह्मप्राप्तेर्विद्यामात्रसाध्यत्वप्रतिपादकश्रुत्यन्तरेणोपपत्तिसहितेन विरोधात् समुच्चयश्रवणं तन्मूलकस्मृतिवचनं च क्रमसमुच्चयपरतया नेतव्यमित्याशयेनाह —
नान्यः पन्था इति ।
ब्रह्मज्ञानापेक्षया अन्यः-ज्ञानकर्मसमुच्चयरूपः केवलकर्मरूपो वा पन्थाः-उपायो मोक्षं प्रति नास्तीति श्रुत्यर्थः । नित्यं आत्मस्वरूपतया सिद्धस्य ब्रह्मणोऽवाप्तिः अप्राप्तत्वभ्रमादिनिवृत्तिरूपा । भ्रमादिनिवृत्तिश्च ज्ञानमात्रसाध्यत्वेन लोके दृष्टा । यथा कण्ठगतायामेव कनकमालायां विस्मृतायां सत्यां तस्यामप्राप्तत्वभ्रमेण बहुविधविक्षेपं प्राप्तस्य आप्तोपदेशजन्यज्ञानमात्रेण अप्राप्तत्वभ्रमनिवृत्तिरूपा पूर्वसिद्धकनकमालावाप्तिः । तत्तुल्यायां नित्यसिद्धब्रह्मावाप्तौ विद्यातिरिक्तसाधनापेक्षाऽभावात् तदतिरिक्तस्य भ्रमादिनिवृत्तौ सामर्थ्याभावाच्चेत्यर्थः ।