अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

मुक्तिसाधननिरूपणम्

यावतेति ।
यस्मादित्यर्थः । स्मृतौ तत्पदं ब्रह्मपरम् ।

उक्तमिति ।
‘तेनैति ब्रह्मवित् पुण्यकृत्’ [बृ.उ.४-४-९] इत्या­दि­श्रु­त्येति शेषः । तेन-ब्र­ह्म­वे­द­न­पु­ण्य­यो­स्स­मु­च्च­येन एति — ब्रह्म प्राप्नोतीति श्रुत्यर्थः ।

ज्ञान­क­र्म­णो­स्स­मु­च्च­यस्य ब्रह्म­प्रा­प्ति­हे­तु­त्व­श्र­व­ण­म­नु­मो­दते —
सत्यमिति ।

ब्रह्म­प्रा­प्ते­र्वि­द्या­मा­त्र­सा­ध्य­त्व­प्र­ति­पा­द­क­श्रु­त्य­न्त­रे­णो­प­प­त्ति­स­हि­तेन विरोधात् समुच्चयश्रवणं तन्मू­ल­क­स्मृ­ति­व­चनं च क्रम­स­मु­च्च­य­प­र­तया नेत­व्य­मि­त्या­श­ये­नाह —
नान्यः पन्था इति ।
ब्रह्म­ज्ञा­ना­पे­क्षया अन्यः-ज्ञा­न­क­र्म­स­मु­च्च­य­रूपः केवलकर्मरूपो वा पन्थाः-उपायो मोक्षं प्रति नास्तीति श्रुत्यर्थः । नित्यं आत्मस्वरूपतया सिद्धस्य ब्रह्म­णोऽ­वाप्तिः अप्रा­प्त­त्व­भ्र­मा­दि­नि­वृ­त्ति­रूपा । भ्रमा­दि­नि­वृ­त्तिश्च ज्ञान­मा­त्र­सा­ध्य­त्वेन लोके दृष्टा । यथा कण्ठगतायामेव कनकमालायां विस्मृतायां सत्यां तस्या­म­प्रा­प्त­त्व­भ्र­मेण बहुविधविक्षेपं प्राप्तस्य आप्तो­प­दे­श­ज­न्य­ज्ञा­न­मा­त्रेण अप्रा­प्त­त्व­भ्र­म­नि­वृ­त्ति­रूपा पूर्व­सि­द्ध­क­न­क­मा­ला­वाप्तिः । तत्तुल्यायां नित्य­सि­द्ध­ब्र­ह्मा­वाप्तौ विद्या­ति­रि­क्त­सा­ध­ना­पे­क्षाऽ­भा­वात् तदतिरिक्तस्य भ्रमादिनिवृत्तौ साम­र्थ्या­भा­वा­च्चे­त्यर्थः ।