अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

ब्रह्मसाक्षात्कारकरणविचारः

नन्वस्मिन्निति ।
साङ्ख्य­यो­ग­मा­र्ग­द्व­येऽ­पी­त्यर्थः । ननु योगमार्गे निर्गुणोपासनस्य सगु­णो­पा­स­न­दृ­ष्टा­न्तेन साक्षा­त्का­र­क­र­ण­त्वस्य अनु­प­द­मु­क्त­त्वात् पक्ष­द्व­य­सा­धा­र­ण्येन प्रश्ना­नु­प­प­त्ति­रिति चेत्, नैष दोषः-उपासनस्य साक्षा­त्का­र­क­र­णत्वे प्रमा­णा­भि­प्रा­येण प्रश्नोपपत्तेः ।

अत एव तत्र प्रमाणं वक्ष्यति —
न चेत्यादिना ।
अथवा, पूर्वत्र सगु­णो­पा­स­न­दृ­ष्टा­न्तेन निर्गुणोपासनस्य हेतु­त्व­मा­त्र­मुक्तं, न तु करणत्वम् । तथा च — योगमार्गेऽपि किमुपासनमेव करणं किंवाऽन्यदिति प्रश्नाभिप्रायः सङ्गच्छते-इति भावः ।

मार्गद्वयेऽपि साक्षा­त्का­रो­द­य­काले प्रस­ङ्ख्या­न­स्या­नु­वृ­त्ति­माह —
योगमार्ग इत्यादिना ।
निष्क­लं-नि­र्वि­शेषं परमात्मानं ध्यायमानः ततः- ध्यानात् तं पश्यतीत्यर्थः ।

कामातुरस्येति ।
कामातुरस्य अस­न्नि­कृ­ष्ट­का­मि­नी­सा­क्षा­त्कारे इत्यर्थः । तत्र सन्निकर्षाभावेन चक्षुषः करणत्वासम्भवात् मनसो बहि­र­स्वा­त­न्त्र्याच्च कामि­नी­गो­च­र­प्र­स­ङ्ख्या­न­मेव करणमिति भावः । सगुणोपासनं प्राय­ण­प­र्य­न्त­मा­व­र्त­नी­यम्, कुतः ? तत्रा­पि-म­र­ण­का­लेऽपि योगिनो ब्रह्मचिन्तनस्य श्रुति­स्मृ­ति­सि­द्ध­त्वात्, सदा प्रत्ययाभ्यासं विना मरणकाले तदसम्भवात्-इति सूत्रार्थः । अहं­ग्र­हो­पा­स­नानां विकल्पः, उपा­स्य­दे­व­ता­सा­क्षा­त्का­र­ल­क्ष­णस्य फलस्य अविशिष्टत्वात्, एकार्थानां विकल्पस्य प्रसिद्धत्वात् — इति सूत्रार्थः ।

ब्रह्मा­सा­क्षा­त्का­रस्य प्रमा­क­र­ण­ज­न्य­त्वा­भा­वेऽपि विषयाबाधात् प्रमा­त्व­मा­शङ्क्य निषेधति —
न च काकतालीयेति ।
यादृ­च्छि­के­त्यर्थः ।

कॢप्त­ज्ञा­न­क­र­णा­ज­न्यस्य ज्ञानत्वमेव नास्ति, प्रमात्वं तु दूरापास्तं इत्याशयेनाह —
प्रमा­णा­मू­ल­क­स्येति ।

अवि­सं­वा­दि­व­रा­ट­क­स­ङ्ख्या­वि­शे­ष­गो­च­रा­हा­र्य­वृ­त्ते­रपि ज्ञान­त्व­म­सि­द्ध­मि­त्याह —
आहा­र्य­वृ­त्ते­श्चेति ।

अबा­धि­ता­र्थ­ज्ञा­नत्वं हि प्रमात्वं, न त्वबा­धि­ता­र्थ­क­त्व­मा­त्रम्, अतिप्रसङ्गात् - इति मत्वा आह —
इच्छादिवदिति ।

‘ननु च प्रसङ्ख्यानस्य’ इत्यादिना प्राप्तं चोद्यं परिहरति —
मैवमिति ।

मायावृत्तिवदिति ।
न च मायावृत्तेरपि मास्तु ज्ञानत्वमिति वाच्यम् । तथासति ईश्व­री­य­मा­या­वृत्तेः ‘यस्सर्वज्ञः’ इत्यादिश्रुतिषु ज्ञाधा­त्व­र्थ­त्वा­भा­व­प्र­स­ङ्गा­दिति भावः ।

तौल्यादिति ।
न च इच्छा­दा­व­ति­प्र­सङ्ग इति वाच्यम् । तद्भिन्नत्वेन विशे­ष­णो­प­प­त्ते­रिति भावः ।

प्रस­ङ्ख्या­न­ज­न्य­सा­क्षा­त्का­रस्य प्रमा­ण­मू­ल­क­त्वात् प्रमाणत्वमिति समाधानान्तरमाह —
मार्गद्वयेऽपीति ।
अविचारितादिति योग­मा­र्गा­भि­प्रा­यम् । वेदान्तात् या ब्रह्मावगतिः तन्मू­ल­क­त­ये­त्यर्थः । न च विचा­रि­ता­द­वि­चा­रि­ताद्वा यदि ब्रह्मा­व­ग­ति­र्जाता तर्हि किमर्थं प्रसङ्ख्यानमिति वाच्यम् । प्रसङ्ख्यानात् पूर्वं अवि­द्या­नि­व­र्त­का­प्र­ति­ब­द्ध­ब्र­ह्मा­व­ग­ते­र­ला­भात् तदर्थं तदावश्यकमिति भवः ।

प्रमा­णा­ज­न्य­स्यापि प्रमा­ण­प्र­यो­ज्य­त्व­मा­त्रेण प्रमात्वे सम्मतिमाह —
उक्तं चेति ।
ज्ञानभावना - ज्ञानाभ्यासरूपं प्रसङ्ख्यानं, तज्ज­न्य­म­प­रो­क्ष­ज्ञा­न­मि­त्यर्थः । मूलप्रमाणं - वेदान्तवाक्यं तज्जन्यप्रमा वा, तस्य दार्ढ्यं नाम अवि­प्र­ति­प­न्न­प्रा­मा­ण्य­क­त्व­मिति बोध्यम् ।

प्रस­ङ्ख्या­न­ज­न्य­सा­क्षा­त्का­र­नि­ष्ठ­प्रा­मा­ण्य­ज्ञप्तौ मूल­प्र­मा­ण­ज्ञ­प्त्य­पे­क्षा­या­म­प­सि­द्धा­न्ता­पात इति शङ्कते —
न चेति ।
प्रस­ङ्ख्या­न­ज­सा­क्षा­त्का­र­नि­ष्ठ­मपि प्रामाण्यं नियमेन स्वाश्र­य­ग्रा­ह­क­सा­क्षि­भा­स्य­मे­वेति न तत्प्रा­मा­ण्य­ज्ञ­प्त्यर्थं मूल­प्र­मा­णा­नु­स­रणं, किं तु प्रस­ङ्ख्या­न­ज­न्य­व्य­व­हि­त­का­मि­नी­सा­क्षा­त्का­र­स्या­प्र­मा­त्व­द­र्श­नात् प्रस­ङ्ख्या­न­ज­न्य­ब्र­ह्म­सा­क्षा­त्का­रेऽपि कदा­चि­द­प्रा­मा­ण्य­शङ्का सम्भाव्यते, ततस्तन्निरासाय मूल­प्र­मा­णा­नु­स­र­ण­मिति नापसिद्धान्त इति भावः ।

अपवादेति ।
अप्रामाण्यशङ्का अपवादः ।

प्रस­ङ्ख्या­न­मात्रं न साक्षात्कारे करणं, किं तु तत्सहकृतं मनस्तत्र करणं - इति मतं दर्शयति —
अन्ये त्विति ।
अणुः - दुर्विज्ञेयः । अग्र्यत्वं - प्रस­ङ्ख्या­न­सं­स्कृ­त­त्वम् । मन­सै­वा­नु­द्र­ष्ट­व्य­मि­त्या­दि­श्रुतिः आदिपदार्थः ।

जीवसाक्षात्कारे मनसः करणत्वे सम्मतिमाह —
स्वप्नेति ।
प्राति­भा­सि­क­स्व­प्न­प्र­प­ञ्चा­पे­क्षया विपरीतो व्यावहारिकः प्रमात्रादिः, तज्ज्ञा­न­सा­ध­न­स्ये­त्यर्थः । आदिपदं प्रमे­या­दि­स­ङ्ग्र­हा­र्थम् ।

तथेति ।
प्रमा­तृ­श­ब्दि­त­सो­पा­धि­का­त्म­सा­क्षा­त्कारे मनसः करणतयेति तथाशब्दार्थः ।

निरु­पा­धि­का­त्म­सा­क्षा­त्का­रेऽपि मनसः करणत्वं कॢप्तमित्याह —
अहमेवेति ।
‘इदं - सद्रूपेण सर्व­व­स्तु­ष्व­नु­भू­य­मानं सर्वात्मकं ब्रह्मै­वा­ह­मस्मि, ततः सर्वोऽस्मि’ इति स्वप्ने ब्रह्म­वि­न्म­न्यते इत्यर्थः ।

ननु स्वप्ने ब्रह्मविदो महा­वा­क्या­नु­स­न्धा­न­स­म्भ­वात् वाक्यमेव करणं किं न स्यात्, इत्यत आह —
तदेति ।
स्वप्ने महा­वा­क्या­नु­स­न्धा­न­स्या­नि­य­त­त्वात् वाक्य­स्या­प­रो­क्ष­धी­हे­तु­त्वा­नु­प­ग­माच्च इति भावः ।

सम्मतिमाह -
वाक्यार्थेति ।
महा­वा­क्या­र्थे­त्यर्थः । स्थूल­सू­क्ष्म­का­र­णो­पा­धीनां ‘नेति नेति’ इत्या­दि­वा­क्यै­र्नि­षे­ध­द्वारा शोधितो यस्त्वम्पदार्थः स्वप्र­का­श­चै­त­न्या­त्मकः, तस्य पूर्ण­ता­मा­वि­र्भा­व­यति । आविर्भावश्च वृत्ति­सा­क्षा­त्कार इत्यर्थः ।

यत्तु ‘निष्कलं ध्यायमानः ततो ध्यानात्तं पश्यते’ इति योजनामभिप्रेत्य ध्यानस्य साक्षा­त्का­र­क­र­णत्वं श्रुति­सि­द्ध­मि­त्युक्तं, तद्दूषयति —
ज्ञान­प्र­सा­दे­नेति ।
कर­ण­व्यु­त्पत्त्या ज्ञानपदं चित्तपरम् । ज्ञानस्य प्रसादः - ऐकाग्र्यम् । तथा च ‘ध्यायमानः ध्यानाल्लब्धेन ज्ञानप्रसादेन पश्यते’ इति योजना विवक्षितेति भावः ।

एवं योजनायां विनिगमकं पूर्वोदाहृतानि मनसः कर­ण­त्व­बो­ध­क­व­च­ना­न्येव - इत्यभिप्रेत्य प्रस­ङ्ख्या­न­मा­त्रस्य करणत्वं दूषयति —
न त्विति ।

महावाक्यमेव तत्र करणमिति मतमाह —
अपरे त्विति ।
अस्य - पितुरुपदेशात् तत् - ब्रह्म विजज्ञौ - साक्षात्कृतवान् ह - किल इत्यर्थः । पारं - अधिष्ठानभूतं ब्रह्म । तस्य-विदुषः तावानेव विलम्बो विदेहकैवल्यं प्रति, यावत् प्रारब्धात् न विमोक्ष्यते - इत्यर्थः ।

वेदान्तेति ।
अत्र वेदा­न्त­ज­न्य­ज्ञा­ना­देव ब्रह्मा­त्मै­क्य­ल­क्ष­ण­स्या­र्थस्य सुनि­श्चि­त­त्वोक्त्या वाक्या­र्था­व­ग­त्य­न­न्तरं प्रस­ङ्ख्या­ना­नु­ष्ठानं नापेक्षितमिति प्रतीयते । इदं च तन्नैरपेक्ष्यं वाक्या­दे­वा­प­रो­क्ष­ज्ञा­नो­त्प­त्ति­पक्षे सङ्गच्छते । अन्यथा अपरोक्षज्ञानाय तस्या­पे­क्षि­त­त्वात् तन्नैरपेक्ष्यं न सङ्गच्छते । अतो वेदा­न्त­वि­ज्ञा­न­श्रुत्या वाक्य­मे­वा­प­रो­क्ष­ज्ञाने करणमिति निश्चीयत इति भावः ।

महावाक्यमेवेति ।
साङ्ख्य­मा­र्गा­नु­ष्ठा­नेन योग­मा­र्गा­नु­ष्ठा­नेन वा दृष्टा­दृ­ष्ट­ल­क्ष­ण­स­क­ल­प्र­ति­ब­न्ध­क्षये सति प्रतिबन्धरहितं सत् वाक्यमेव साक्षात्कारं जनयतीति वाक्यस्य करणत्वपक्षे न साङ्ख्य­यो­ग­मा­र्ग­यो­र्वै­य­र्थ्य­श­ङ्केति मन्तव्यम् । लोको मनसा यत् चैतन्यं न मनुते तदेव त्वं ब्रह्म विद्धि - इति योजना ।

‘न मनुते’ इति वाक्यं अशुद्धमनस एव ब्रह्म­ज्ञा­न­क­र­णत्वं निषेधतीति न च - इत्यत्र हेतुमाह —
येनाहुरिति ।
‘येन - चैतन्येन मतं - प्रकाशितं मनः’ इति वाक्यशेषे ‘अपक्वमन एव चैतन्यभास्यम्’ इति वक्तुमशक्यतया तत्र मनो­मा­त्र­ग्र­ह­ण­मा­व­श्य­कम्, तदैकरूप्याय ‘न मनुते’ इति पूर्ववाक्येऽपि मनोमात्रं ग्राह्य­मि­त्यर्थः ।

न चैवमिति ।
मनोमात्रस्य ब्रह्म­ज्ञा­न­क­र­ण­त्व­नि­षे­धो­प­गमे इत्यर्थः ।

अनभ्युदितमिति ।
अप्र­का­शि­त­मि­त्यर्थः । न च ‘वाचा’ इत्यस्य वेदा­न्ता­ति­रि­क्त­श­ब्द­प­रत्वं स्वीक्रियत इति वाच्यम् ।

अत्रापि ‘येन वागभ्युद्यते’ इति वाक्यशेषे शब्दमात्रस्य चैत­न्य­प्र­का­श्य­त्व­प्र­ति­पा­द­नेन तदैकरूप्याय पूर्ववाक्येऽपि ‘वाचा’ इत्यस्य शब्द­मा­त्र­प­र­त्वात् —
इत्याशयवानाह -
शब्दस्यापीति ।
मनोमात्रस्येव शब्द­मा­त्र­स्या­पी­त्यर्थः ।

सत्यं शब्दमात्रस्य ब्रह्म­ज्ञा­न­क­र­णत्वं निषेधति, तथापि शब्दस्य शक्त्या ब्रह्म­ज्ञा­न­क­र­ण­त्व­नि­षे­ध­परं तद्वचनं, न तु लक्षणयापि तत्क­र­ण­त्व­नि­षे­ध­प­रम्, औप­नि­ष­द­त्व­श्रु­ते­र्नि­रा­ल­म्ब­न­त्व­प्र­स­ङ्गात् - इति समा­धा­न­म­भि­प्रेत्य, विपक्षे परेषामपि बाधकं सूचयति —
मनः-क­र­ण­त्व­वा­दि­ना­म­पीति ।
वेदान्तानां लक्षणयाऽपि ब्रह्म­बो­ध­क­त्वा­न­भ्यु­प­गमे ब्रह्मण एवा­सि­द्ध्या­पत्त्या मनः­क­र­ण­त्व­वा­दि­भि­रपि तेषां ब्रह्म­ज्ञा­न­क­र­ण­त्व­स्या­भ्यु­प­ग­न्त­व्य­त्वा­दि­त्यर्थः ।

परं तु वाक्यजन्यं ब्रह्मज्ञानं परोक्षं भवतां मते, अस्माकं मते तु तदपरोक्षमिति विशेषः - इत्याशयेनाह —
परोक्षेति ।

वेदान्तानां शक्त्या ब्रह्म­बो­ध­क­त्व­नि­षे­ध­परं ‘यद्वा­चाऽ­न­भ्यु­दि­तम्’ इतिवचनं इति व्यवस्थायां श्रुत्य­न्त­र­म­नु­कू­ल­यति —
तस्येति ।
‘यद्वा­चा­न­भ्यु­दि­तम्’ इति निषे­ध­व­च­न­स्ये­त्यर्थः ।

अप्राप्येति ।
श्रुत्या ब्रह्मणि विषये शब्दानां प्राप्ति­र्नि­षि­ध्यते, सा च प्राप्तिः शक्तिरेव, तस्याः शब्दा­ना­मौ­त्स­र्गि­क­त्वा­दिति भावः ।

वक्तव्यतयेति ।
मनः­क­र­ण­त्व­वा­दि­भि­र­पीति शेषः ।

तस्येति ।
शब्दस्येत्यर्थः ।

तदिति ।
ब्रह्म­सा­क्षा­त्का­रे­त्यर्थः । ब्रह्म­गो­च­र­वृत्तिं प्रति करणत्वं न तृती­या­श्रु­त्यर्थः, पूर्वो­दा­हृ­त­श्रु­ति­वि­रो­धात् ।

किं त्वेकाग्रस्य मनसः तां प्रत्युपादानतया हेतुत्वमात्रं तदर्थः-इत्याह —
शब्द­सा­क्षा­त्का­र­ज­न­नेऽ­पीति ।

तथेति ।
चाक्षुषज्ञानादौ मनसः करणत्वाभावेन हेतु­त्व­मा­त्रे­णापि तृती­या­द­र्श­ना­दि­त्यर्थः ।

‘शम­द­मा­दि­सं­स्कृतं मन एवात्मदर्शने करणम्’ इति गीता­भा­ष्य­व­च­न­वि­रोधं परिहरति —
गीतेति ।

मतान्तरेति ।
वृत्ति­का­र­म­ते­त्यर्थः । न तु स्वम­ता­भि­प्रा­येण, उक्त­प्र­मा­ण­वि­रो­धा­दिति भावः ।