कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
ब्रह्मसाक्षात्कारकरणविचारः
नन्वस्मिन्निति ।
साङ्ख्ययोगमार्गद्वयेऽपीत्यर्थः । ननु योगमार्गे निर्गुणोपासनस्य सगुणोपासनदृष्टान्तेन साक्षात्कारकरणत्वस्य अनुपदमुक्तत्वात् पक्षद्वयसाधारण्येन प्रश्नानुपपत्तिरिति चेत्, नैष दोषः-उपासनस्य साक्षात्कारकरणत्वे प्रमाणाभिप्रायेण प्रश्नोपपत्तेः ।
अत एव तत्र प्रमाणं वक्ष्यति —
न चेत्यादिना ।
अथवा, पूर्वत्र सगुणोपासनदृष्टान्तेन निर्गुणोपासनस्य हेतुत्वमात्रमुक्तं, न तु करणत्वम् । तथा च — योगमार्गेऽपि किमुपासनमेव करणं किंवाऽन्यदिति प्रश्नाभिप्रायः सङ्गच्छते-इति भावः ।
मार्गद्वयेऽपि साक्षात्कारोदयकाले प्रसङ्ख्यानस्यानुवृत्तिमाह —
योगमार्ग इत्यादिना ।
निष्कलं-निर्विशेषं परमात्मानं ध्यायमानः ततः- ध्यानात् तं पश्यतीत्यर्थः ।
कामातुरस्येति ।
कामातुरस्य असन्निकृष्टकामिनीसाक्षात्कारे इत्यर्थः । तत्र सन्निकर्षाभावेन चक्षुषः करणत्वासम्भवात् मनसो बहिरस्वातन्त्र्याच्च कामिनीगोचरप्रसङ्ख्यानमेव करणमिति भावः । सगुणोपासनं प्रायणपर्यन्तमावर्तनीयम्, कुतः ? तत्रापि-मरणकालेऽपि योगिनो ब्रह्मचिन्तनस्य श्रुतिस्मृतिसिद्धत्वात्, सदा प्रत्ययाभ्यासं विना मरणकाले तदसम्भवात्-इति सूत्रार्थः । अहंग्रहोपासनानां विकल्पः, उपास्यदेवतासाक्षात्कारलक्षणस्य फलस्य अविशिष्टत्वात्, एकार्थानां विकल्पस्य प्रसिद्धत्वात् — इति सूत्रार्थः ।
ब्रह्मासाक्षात्कारस्य प्रमाकरणजन्यत्वाभावेऽपि विषयाबाधात् प्रमात्वमाशङ्क्य निषेधति —
न च काकतालीयेति ।
यादृच्छिकेत्यर्थः ।
कॢप्तज्ञानकरणाजन्यस्य ज्ञानत्वमेव नास्ति, प्रमात्वं तु दूरापास्तं इत्याशयेनाह —
प्रमाणामूलकस्येति ।
अविसंवादिवराटकसङ्ख्याविशेषगोचराहार्यवृत्तेरपि ज्ञानत्वमसिद्धमित्याह —
आहार्यवृत्तेश्चेति ।
अबाधितार्थज्ञानत्वं हि प्रमात्वं, न त्वबाधितार्थकत्वमात्रम्, अतिप्रसङ्गात् - इति मत्वा आह —
इच्छादिवदिति ।
‘ननु च प्रसङ्ख्यानस्य’ इत्यादिना प्राप्तं चोद्यं परिहरति —
मैवमिति ।
मायावृत्तिवदिति ।
न च मायावृत्तेरपि मास्तु ज्ञानत्वमिति वाच्यम् । तथासति ईश्वरीयमायावृत्तेः ‘यस्सर्वज्ञः’ इत्यादिश्रुतिषु ज्ञाधात्वर्थत्वाभावप्रसङ्गादिति भावः ।
तौल्यादिति ।
न च इच्छादावतिप्रसङ्ग इति वाच्यम् । तद्भिन्नत्वेन विशेषणोपपत्तेरिति भावः ।
प्रसङ्ख्यानजन्यसाक्षात्कारस्य प्रमाणमूलकत्वात् प्रमाणत्वमिति समाधानान्तरमाह —
मार्गद्वयेऽपीति ।
अविचारितादिति योगमार्गाभिप्रायम् । वेदान्तात् या ब्रह्मावगतिः तन्मूलकतयेत्यर्थः । न च विचारितादविचारिताद्वा यदि ब्रह्मावगतिर्जाता तर्हि किमर्थं प्रसङ्ख्यानमिति वाच्यम् । प्रसङ्ख्यानात् पूर्वं अविद्यानिवर्तकाप्रतिबद्धब्रह्मावगतेरलाभात् तदर्थं तदावश्यकमिति भवः ।
प्रमाणाजन्यस्यापि प्रमाणप्रयोज्यत्वमात्रेण प्रमात्वे सम्मतिमाह —
उक्तं चेति ।
ज्ञानभावना - ज्ञानाभ्यासरूपं प्रसङ्ख्यानं, तज्जन्यमपरोक्षज्ञानमित्यर्थः । मूलप्रमाणं - वेदान्तवाक्यं तज्जन्यप्रमा वा, तस्य दार्ढ्यं नाम अविप्रतिपन्नप्रामाण्यकत्वमिति बोध्यम् ।
प्रसङ्ख्यानजन्यसाक्षात्कारनिष्ठप्रामाण्यज्ञप्तौ मूलप्रमाणज्ञप्त्यपेक्षायामपसिद्धान्तापात इति शङ्कते —
न चेति ।
प्रसङ्ख्यानजसाक्षात्कारनिष्ठमपि प्रामाण्यं नियमेन स्वाश्रयग्राहकसाक्षिभास्यमेवेति न तत्प्रामाण्यज्ञप्त्यर्थं मूलप्रमाणानुसरणं, किं तु प्रसङ्ख्यानजन्यव्यवहितकामिनीसाक्षात्कारस्याप्रमात्वदर्शनात् प्रसङ्ख्यानजन्यब्रह्मसाक्षात्कारेऽपि कदाचिदप्रामाण्यशङ्का सम्भाव्यते, ततस्तन्निरासाय मूलप्रमाणानुसरणमिति नापसिद्धान्त इति भावः ।
अपवादेति ।
अप्रामाण्यशङ्का अपवादः ।
प्रसङ्ख्यानमात्रं न साक्षात्कारे करणं, किं तु तत्सहकृतं मनस्तत्र करणं - इति मतं दर्शयति —
अन्ये त्विति ।
अणुः - दुर्विज्ञेयः । अग्र्यत्वं - प्रसङ्ख्यानसंस्कृतत्वम् । मनसैवानुद्रष्टव्यमित्यादिश्रुतिः आदिपदार्थः ।
जीवसाक्षात्कारे मनसः करणत्वे सम्मतिमाह —
स्वप्नेति ।
प्रातिभासिकस्वप्नप्रपञ्चापेक्षया विपरीतो व्यावहारिकः प्रमात्रादिः, तज्ज्ञानसाधनस्येत्यर्थः । आदिपदं प्रमेयादिसङ्ग्रहार्थम् ।
तथेति ।
प्रमातृशब्दितसोपाधिकात्मसाक्षात्कारे मनसः करणतयेति तथाशब्दार्थः ।
निरुपाधिकात्मसाक्षात्कारेऽपि मनसः करणत्वं कॢप्तमित्याह —
अहमेवेति ।
‘इदं - सद्रूपेण सर्ववस्तुष्वनुभूयमानं सर्वात्मकं ब्रह्मैवाहमस्मि, ततः सर्वोऽस्मि’ इति स्वप्ने ब्रह्मविन्मन्यते इत्यर्थः ।
ननु स्वप्ने ब्रह्मविदो महावाक्यानुसन्धानसम्भवात् वाक्यमेव करणं किं न स्यात्, इत्यत आह —
तदेति ।
स्वप्ने महावाक्यानुसन्धानस्यानियतत्वात् वाक्यस्यापरोक्षधीहेतुत्वानुपगमाच्च इति भावः ।
सम्मतिमाह -
वाक्यार्थेति ।
महावाक्यार्थेत्यर्थः । स्थूलसूक्ष्मकारणोपाधीनां ‘नेति नेति’ इत्यादिवाक्यैर्निषेधद्वारा शोधितो यस्त्वम्पदार्थः स्वप्रकाशचैतन्यात्मकः, तस्य पूर्णतामाविर्भावयति । आविर्भावश्च वृत्तिसाक्षात्कार इत्यर्थः ।
यत्तु ‘निष्कलं ध्यायमानः ततो ध्यानात्तं पश्यते’ इति योजनामभिप्रेत्य ध्यानस्य साक्षात्कारकरणत्वं श्रुतिसिद्धमित्युक्तं, तद्दूषयति —
ज्ञानप्रसादेनेति ।
करणव्युत्पत्त्या ज्ञानपदं चित्तपरम् । ज्ञानस्य प्रसादः - ऐकाग्र्यम् । तथा च ‘ध्यायमानः ध्यानाल्लब्धेन ज्ञानप्रसादेन पश्यते’ इति योजना विवक्षितेति भावः ।
एवं योजनायां विनिगमकं पूर्वोदाहृतानि मनसः करणत्वबोधकवचनान्येव - इत्यभिप्रेत्य प्रसङ्ख्यानमात्रस्य करणत्वं दूषयति —
न त्विति ।
महावाक्यमेव तत्र करणमिति मतमाह —
अपरे त्विति ।
अस्य - पितुरुपदेशात् तत् - ब्रह्म विजज्ञौ - साक्षात्कृतवान् ह - किल इत्यर्थः । पारं - अधिष्ठानभूतं ब्रह्म । तस्य-विदुषः तावानेव विलम्बो विदेहकैवल्यं प्रति, यावत् प्रारब्धात् न विमोक्ष्यते - इत्यर्थः ।
वेदान्तेति ।
अत्र वेदान्तजन्यज्ञानादेव ब्रह्मात्मैक्यलक्षणस्यार्थस्य सुनिश्चितत्वोक्त्या वाक्यार्थावगत्यनन्तरं प्रसङ्ख्यानानुष्ठानं नापेक्षितमिति प्रतीयते । इदं च तन्नैरपेक्ष्यं वाक्यादेवापरोक्षज्ञानोत्पत्तिपक्षे सङ्गच्छते । अन्यथा अपरोक्षज्ञानाय तस्यापेक्षितत्वात् तन्नैरपेक्ष्यं न सङ्गच्छते । अतो वेदान्तविज्ञानश्रुत्या वाक्यमेवापरोक्षज्ञाने करणमिति निश्चीयत इति भावः ।
महावाक्यमेवेति ।
साङ्ख्यमार्गानुष्ठानेन योगमार्गानुष्ठानेन वा दृष्टादृष्टलक्षणसकलप्रतिबन्धक्षये सति प्रतिबन्धरहितं सत् वाक्यमेव साक्षात्कारं जनयतीति वाक्यस्य करणत्वपक्षे न साङ्ख्ययोगमार्गयोर्वैयर्थ्यशङ्केति मन्तव्यम् । लोको मनसा यत् चैतन्यं न मनुते तदेव त्वं ब्रह्म विद्धि - इति योजना ।
‘न मनुते’ इति वाक्यं अशुद्धमनस एव ब्रह्मज्ञानकरणत्वं निषेधतीति न च - इत्यत्र हेतुमाह —
येनाहुरिति ।
‘येन - चैतन्येन मतं - प्रकाशितं मनः’ इति वाक्यशेषे ‘अपक्वमन एव चैतन्यभास्यम्’ इति वक्तुमशक्यतया तत्र मनोमात्रग्रहणमावश्यकम्, तदैकरूप्याय ‘न मनुते’ इति पूर्ववाक्येऽपि मनोमात्रं ग्राह्यमित्यर्थः ।
न चैवमिति ।
मनोमात्रस्य ब्रह्मज्ञानकरणत्वनिषेधोपगमे इत्यर्थः ।
अनभ्युदितमिति ।
अप्रकाशितमित्यर्थः । न च ‘वाचा’ इत्यस्य वेदान्तातिरिक्तशब्दपरत्वं स्वीक्रियत इति वाच्यम् ।
अत्रापि ‘येन वागभ्युद्यते’ इति वाक्यशेषे शब्दमात्रस्य चैतन्यप्रकाश्यत्वप्रतिपादनेन तदैकरूप्याय पूर्ववाक्येऽपि ‘वाचा’ इत्यस्य शब्दमात्रपरत्वात् —
इत्याशयवानाह -
शब्दस्यापीति ।
मनोमात्रस्येव शब्दमात्रस्यापीत्यर्थः ।
सत्यं शब्दमात्रस्य ब्रह्मज्ञानकरणत्वं निषेधति, तथापि शब्दस्य शक्त्या ब्रह्मज्ञानकरणत्वनिषेधपरं तद्वचनं, न तु लक्षणयापि तत्करणत्वनिषेधपरम्, औपनिषदत्वश्रुतेर्निरालम्बनत्वप्रसङ्गात् - इति समाधानमभिप्रेत्य, विपक्षे परेषामपि बाधकं सूचयति —
मनः-करणत्ववादिनामपीति ।
वेदान्तानां लक्षणयाऽपि ब्रह्मबोधकत्वानभ्युपगमे ब्रह्मण एवासिद्ध्यापत्त्या मनःकरणत्ववादिभिरपि तेषां ब्रह्मज्ञानकरणत्वस्याभ्युपगन्तव्यत्वादित्यर्थः ।
परं तु वाक्यजन्यं ब्रह्मज्ञानं परोक्षं भवतां मते, अस्माकं मते तु तदपरोक्षमिति विशेषः - इत्याशयेनाह —
परोक्षेति ।
वेदान्तानां शक्त्या ब्रह्मबोधकत्वनिषेधपरं ‘यद्वाचाऽनभ्युदितम्’ इतिवचनं इति व्यवस्थायां श्रुत्यन्तरमनुकूलयति —
तस्येति ।
‘यद्वाचानभ्युदितम्’ इति निषेधवचनस्येत्यर्थः ।
अप्राप्येति ।
श्रुत्या ब्रह्मणि विषये शब्दानां प्राप्तिर्निषिध्यते, सा च प्राप्तिः शक्तिरेव, तस्याः शब्दानामौत्सर्गिकत्वादिति भावः ।
वक्तव्यतयेति ।
मनःकरणत्ववादिभिरपीति शेषः ।
तस्येति ।
शब्दस्येत्यर्थः ।
तदिति ।
ब्रह्मसाक्षात्कारेत्यर्थः । ब्रह्मगोचरवृत्तिं प्रति करणत्वं न तृतीयाश्रुत्यर्थः, पूर्वोदाहृतश्रुतिविरोधात् ।
किं त्वेकाग्रस्य मनसः तां प्रत्युपादानतया हेतुत्वमात्रं तदर्थः-इत्याह —
शब्दसाक्षात्कारजननेऽपीति ।
तथेति ।
चाक्षुषज्ञानादौ मनसः करणत्वाभावेन हेतुत्वमात्रेणापि तृतीयादर्शनादित्यर्थः ।
‘शमदमादिसंस्कृतं मन एवात्मदर्शने करणम्’ इति गीताभाष्यवचनविरोधं परिहरति —
गीतेति ।
मतान्तरेति ।
वृत्तिकारमतेत्यर्थः । न तु स्वमताभिप्रायेण, उक्तप्रमाणविरोधादिति भावः ।