कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)
नित्यसिद्धमोक्षमुद्दिश्य साधनानुष्ठाने प्रवृत्त्युपपादनम्
नित्यमेवेति ।
तथा च जीवस्य स्वस्वरूपतया सदा प्राप्तस्य ब्रह्मानन्दस्य प्राप्तव्यत्वासम्भवात् तत्प्राप्त्युद्देशेन तदुपायेषु प्रवृत्तिर्न स्यादिति भावः ।
नित्यतया तस्य प्राप्तिं तत्त्वमस्यादिश्रुतिसिद्धामङ्गीकरोति —
सत्यमिति ।
औपचारिकं तस्य प्राप्यत्वमाह —
नित्यप्राप्तोऽपीति ।
अनवच्छिन्नानन्दो नित्यप्राप्तोऽप्यविद्यया असत्कल्पत्वं नीत इति सम्बन्धः । तथा च प्राप्तेऽप्यप्राप्तत्वभ्रान्त्या तत्प्राप्त्युद्देशेन तदुपायेषु प्रवृत्तिर्युज्यत इत्यर्थः ।
तमिति ।
पूर्णानन्दमावृत्यानन्दविपरीतं दुःखात्मकं संसारं प्रापयन्त्येत्यर्थः ।
अकृतार्थतेति ।
पूर्णानन्दाप्राप्तिरित्यर्थः ।
निरस्ते इति ।
अविद्यायां निवृत्तायां निखिलानर्थात्मकविक्षेपरहित आनन्दः प्राप्यते । यथा स्वकण्ठगतमेव विस्मृतं सत् कनकाभरणं प्राप्तमपि अप्राप्तत्वभ्रमतत्कृतविक्षेपलक्षणानर्थनिवृत्तिमात्रेण प्राप्यते, न त्वप्राप्ताभरणप्राप्तिवन्मुख्या तस्य प्राप्तिरस्ति । तद्वदित्यर्थः ।
‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ [बृ.उ.४-३-३२] ‘आनन्दं ब्रह्मणो विद्वान्’ [तै.उ.२-४] इत्यादिवेदान्तप्रसिद्धो निरतिशयानन्दो नास्ति - इत्यनुभवस्सर्वसम्प्रतिपन्नः, तथा च प्रत्यग्रूपतया नित्यमेव तादृशानन्दे विद्यमानेऽपि तदभावप्रत्ययदर्शनेन वास्तवस्य तदभावस्यासम्भवात् अविद्यावरणाधीनस्थितिकस्य अनादेः काल्पनिकाभावस्य तदभावप्रत्ययालम्बनत्वं वक्तव्यम्, तत्रावरणस्वरूपमाह —
नास्तीति ।
‘निरतिशयानन्दो मे न प्रकाशते, अप्रकाशमानत्वान्नास्त्येव सः’ इति व्यवहारस्य सदा अभावात् आवरणस्य च सदा सत्त्वात् योग्यत्वपर्यन्तधावनमिति बोध्यम् ।
निवर्तत इति ।
ब्रह्मानन्दस्याभाव इति शेषः ।
इदानीं ब्रह्मानन्दाभावसाधनफलं ब्रह्मानन्दस्य मुख्यं प्राप्यत्वं दर्शयति —
इति यस्मिन्निति ।
ज्ञाने सति अग्रिमक्षणे निरतिशयानन्दसत्त्वं ज्ञानाभावे च साधितस्य निरतिशयानन्दाभावस्यैव सत्त्वमिति लक्षणसत्त्वात् निरतिशयानन्दस्य प्राप्तस्यापि मुख्यमेव प्राप्यत्वमित्यर्थः । ब्रह्मानन्दस्वरूपमात्रं न पुरुषार्थः, किं तु तस्यापरोक्ष्यम् ।
तच्च अविद्यानिवृत्तिद्वारा विद्यासाध्यमेव, न तु तत् विद्योदयात् प्रागस्ति — इति मतमाह —
अपरे त्विति ।
विद्याप्राप्यं आनन्दापरोक्ष्यं स्वप्रकाशचैतन्यऽरूपं, वृत्तिरूपं वा ? उभयथाऽपि न सम्भवतीति शङ्कते —
न चेति ।
आपरोक्ष्यं हि स्वव्यवहारानुकूलचैतन्याभिन्नत्वम्, तच्च संसारदशायामावृतस्यापि ब्रह्मानन्दस्य वर्तत एव, ब्रह्मानन्दव्यवहारानुकूलसाक्षिचैतन्याभेदस्य सदा ब्रह्मानन्दे सत्त्वादित्यर्थः ।
तदापीति ।
संसारकालेऽप्यस्ति । तथा च न तस्य ज्ञानप्राप्यत्वमिति भावः ।
तस्येति ।
स्वरूपज्ञानस्येत्यर्थः ।
आपरोक्ष्यशरीरप्रविष्टा या आवृतत्वनिवृत्तिः, तस्यास्सम्पादनद्वारा ब्रह्मानन्दापरोक्ष्यं विद्यासाध्यं इति समाधानं कर्तुं शाब्दापरोक्षवादे निर्णीतमर्थं स्मारयति —
न हीत्यादिना ।
तदभिन्नस्येति ।
अभिव्यक्तचैतन्याभिन्नस्येत्यर्थः ।
तदभेद इति ।
अनावृतचैतन्याभिन्नत्वमित्यर्थः ।
निरतिशयसुखापरोक्ष्यस्येति ।
चैतन्यरूपस्येत्यर्थः, न वृत्तिरूपस्य, अतो न मुक्तावापरोक्ष्यानुपपत्तिरित्यर्थः ।
चैतन्याभेदमात्रमिति ।
अर्थापरोक्ष्यनिर्वचनेऽस्मिन् अनावृतत्वमर्थविशेषणं मात्रपदेन व्यवच्छिद्यते । न चैवं घटावच्छिन्नचैतन्याभिव्यक्तौ सत्यां तदभिन्नस्य घटगन्धस्याप्यापरोक्ष्यापत्तिरिति वाच्यम् । घर्मादेः साक्षिण्यध्यस्तस्य अनावृतसाक्षिचैतन्याभिन्नस्यापि आपरोक्ष्यादर्शनेन तद्वत् घटगन्धस्याप्यभिव्यक्तघटावच्छिन्नचैतन्याभिन्नस्याप्यापरोक्ष्याभावोपपत्तेः । न च धर्मादेः अयोग्यत्वादापरोक्ष्याभाव इति वाच्यम् । तथासति प्रकृतेऽपि चाक्षुषवृत्त्यभिव्यक्तचैतन्यं प्रति फलबलेन गन्धस्यायोग्यत्वकल्पनेन तदापरोक्ष्याप्रसक्तेरिति भावः ।
तर्हि स्वरूपानन्दस्य सदा स्वव्यवहारानुकूलसाक्षिचैतन्याभिन्नत्वसत्त्वात् आपरोक्ष्यस्य विद्यासाध्यत्वानुपपत्तिः, इत्याशङ्क्याह —
तथापीति ।
तावन्मात्रस्यापरोक्ष्यरूपत्वेऽपीत्यर्थः । यथा एकस्य पुरुषस्य पुरुषान्तरचैतन्यापरोक्ष्यं नास्ति, तथा जीवस्य संसारदशायां अनवच्छिन्नानन्दापरोक्ष्यमपि नास्ति । जीवानां परस्परभेदवत् साक्षिचैतन्यब्रह्मानन्दयोरपि आज्ञानिकस्यानादिभेदस्य सत्त्वेन ब्रह्मानन्दस्य स्वव्यवहारानुकूलेन साक्षिचैतन्येनाभेदाभावात्, वास्तवाभेदस्य च परस्परभिन्नजीवसाधारणस्य विद्यमानस्याप्यकिञ्चित्करत्वात् इत्यर्थः ।
प्रविलयादिति ।
तथा च तत्त्वज्ञानस्याज्ञानतत्प्रयुक्तभेदनिवृत्तिद्वारा अनवच्छिन्नानन्दापरोक्ष्यसम्पादकत्वात् तादृशानन्दापरोक्ष्यस्य तत्त्वज्ञानसाध्यत्वं युक्तमित्यर्थः ।