अद्वैतशारदा

कृष्णालङ्कारः (सिद्धान्तलेशव्याख्या)

नित्यसिद्धमोक्षमुद्दिश्य साधनानुष्ठाने प्रवृत्त्युपपादनम्

नित्यमेवेति ।
तथा च जीवस्य स्वस्वरूपतया सदा प्राप्तस्य ब्रह्मानन्दस्य प्राप्त­व्य­त्वा­स­म्भ­वात् तत्प्रा­प्त्यु­द्दे­शेन तदुपायेषु प्रवृत्तिर्न स्यादिति भावः ।

नित्यतया तस्य प्राप्तिं तत्त्व­म­स्या­दि­श्रु­ति­सि­द्धा­म­ङ्गी­क­रोति —
सत्यमिति ।

औपचारिकं तस्य प्राप्यत्वमाह —
नित्य­प्रा­प्तोऽ­पीति ।
अन­व­च्छि­न्ना­नन्दो नित्य­प्रा­प्तोऽ­प्य­वि­द्यया असत्कल्पत्वं नीत इति सम्बन्धः । तथा च प्राप्तेऽ­प्य­प्रा­प्त­त्व­भ्रान्त्या तत्प्रा­प्त्यु­द्दे­शेन तदुपायेषु प्रवृ­त्ति­र्यु­ज्यत इत्यर्थः ।

तमिति ।
पूर्णा­न­न्द­मा­वृ­त्या­न­न्द­वि­प­रीतं दुःखात्मकं संसारं प्राप­य­न्त्ये­त्यर्थः ।

अकृतार्थतेति ।
पूर्णा­न­न्दा­प्रा­प्ति­रि­त्यर्थः ।

निरस्ते इति ।
अविद्यायां निवृत्तायां निखि­ला­न­र्था­त्म­क­वि­क्षे­प­र­हित आनन्दः प्राप्यते । यथा स्वकण्ठगतमेव विस्मृतं सत् कनकाभरणं प्राप्तमपि अप्रा­प्त­त्व­भ्र­म­त­त्कृ­त­वि­क्षे­प­ल­क्ष­णा­न­र्थ­नि­वृ­त्ति­मा­त्रेण प्राप्यते, न त्वप्रा­प्ता­भ­र­ण­प्रा­प्ति­व­न्मुख्या तस्य प्राप्तिरस्ति । तद्वदित्यर्थः ।

‘एत­स्यै­वा­न­न्द­स्या­न्यानि भूतानि मात्रा­मु­प­जी­वन्ति’ [बृ.उ.४-३-३२] ‘आनन्दं ब्रह्मणो विद्वान्’ [तै.उ.२-४] इत्या­दि­वे­दा­न्त­प्र­सिद्धो निरतिशयानन्दो नास्ति - इत्य­नु­भ­व­स्स­र्व­स­म्प्र­ति­पन्नः, तथा च प्रत्यग्रूपतया नित्यमेव तादृशानन्दे विद्यमानेऽपि तद­भा­व­प्र­त्य­य­द­र्श­नेन वास्तवस्य तद­भा­व­स्या­स­म्भ­वात् अवि­द्या­व­र­णा­धी­न­स्थि­ति­कस्य अनादेः काल्पनिकाभावस्य तद­भा­व­प्र­त्य­या­ल­म्ब­नत्वं वक्तव्यम्, तत्रा­व­र­ण­स्व­रू­प­माह —
नास्तीति ।
‘निरतिशयानन्दो मे न प्रकाशते, अप्र­का­श­मा­न­त्वा­न्ना­स्त्येव सः’ इति व्यवहारस्य सदा अभावात् आवरणस्य च सदा सत्त्वात् योग्य­त्व­प­र्य­न्त­धा­व­न­मिति बोध्यम् ।

निवर्तत इति ।
ब्रह्मा­न­न्द­स्या­भाव इति शेषः ।

इदानीं ब्रह्मा­न­न्दा­भा­व­सा­ध­न­फलं ब्रह्मानन्दस्य मुख्यं प्राप्यत्वं दर्शयति —
इति यस्मिन्निति ।
ज्ञाने सति अग्रिमक्षणे निर­ति­श­या­न­न्द­सत्त्वं ज्ञानाभावे च साधितस्य निर­ति­श­या­न­न्दा­भा­व­स्यैव सत्त्वमिति लक्षणसत्त्वात् निरतिशयानन्दस्य प्राप्तस्यापि मुख्यमेव प्राप्य­त्व­मि­त्यर्थः । ब्रह्मा­न­न्द­स्व­रू­प­मात्रं न पुरुषार्थः, किं तु तस्यापरोक्ष्यम् ।

तच्च अवि­द्या­नि­वृ­त्ति­द्वारा विद्यासाध्यमेव, न तु तत् विद्योदयात् प्रागस्ति — इति मतमाह —
अपरे त्विति ।

विद्याप्राप्यं आनन्दापरोक्ष्यं स्वप्र­का­श­चै­त­न्यऽ­रूपं, वृत्तिरूपं वा ? उभयथाऽपि न सम्भवतीति शङ्कते —
न चेति ।
आपरोक्ष्यं हि स्वव्य­व­हा­रा­नु­कू­ल­चै­त­न्या­भि­न्न­त्वम्, तच्च संसा­र­द­शा­या­मा­वृ­त­स्यापि ब्रह्मानन्दस्य वर्तत एव, ब्रह्मा­न­न्द­व्य­व­हा­रा­नु­कू­ल­सा­क्षि­चै­त­न्या­भे­दस्य सदा ब्रह्मानन्दे सत्त्वा­दि­त्यर्थः ।

तदापीति ।
संसा­र­का­लेऽ­प्यस्ति । तथा च न तस्य ज्ञान­प्रा­प्य­त्व­मिति भावः ।

तस्येति ।
स्वरू­प­ज्ञा­न­स्ये­त्यर्थः ।

आप­रो­क्ष्य­श­री­र­प्र­विष्टा या आवृ­त­त्व­नि­वृत्तिः, तस्या­स्स­म्पा­द­न­द्वारा ब्रह्मा­न­न्दा­प­रोक्ष्यं विद्यासाध्यं इति समाधानं कर्तुं शाब्दा­प­रो­क्ष­वादे निर्णीतमर्थं स्मारयति —
न हीत्यादिना ।

तदभिन्नस्येति ।
अभि­व्य­क्त­चै­त­न्या­भि­न्न­स्ये­त्यर्थः ।

तदभेद इति ।
अना­वृ­त­चै­त­न्या­भि­न्न­त्व­मि­त्यर्थः ।

निर­ति­श­य­सु­खा­प­रो­क्ष्य­स्येति ।
चैत­न्य­रू­प­स्ये­त्यर्थः, न वृत्तिरूपस्य, अतो न मुक्ता­वा­प­रो­क्ष्या­नु­प­प­त्ति­रि­त्यर्थः ।

चैत­न्या­भे­द­मा­त्र­मिति ।
अर्था­प­रो­क्ष्य­नि­र्व­च­नेऽ­स्मिन् अना­वृ­त­त्व­म­र्थ­वि­शे­षणं मात्रपदेन व्यवच्छिद्यते । न चैवं घटा­व­च्छि­न्न­चै­त­न्या­भि­व्यक्तौ सत्यां तदभिन्नस्य घट­ग­न्ध­स्या­प्या­प­रो­क्ष्या­प­त्ति­रिति वाच्यम् । घर्मादेः साक्षि­ण्य­ध्य­स्तस्य अना­वृ­त­सा­क्षि­चै­त­न्या­भि­न्न­स्यापि आप­रो­क्ष्या­द­र्श­नेन तद्वत् घट­ग­न्ध­स्या­प्य­भि­व्य­क्त­घ­टा­व­च्छि­न्न­चै­त­न्या­भि­न्न­स्या­प्या­प­रो­क्ष्या­भा­वो­प­पत्तेः । न च धर्मादेः अयो­ग्य­त्वा­दा­प­रो­क्ष्या­भाव इति वाच्यम् । तथासति प्रकृतेऽपि चाक्षु­ष­वृ­त्त्य­भि­व्य­क्त­चै­तन्यं प्रति फलबलेन गन्ध­स्या­यो­ग्य­त्व­क­ल्प­नेन तदा­प­रो­क्ष्या­प्र­स­क्ते­रिति भावः ।

तर्हि स्वरूपानन्दस्य सदा स्वव्य­व­हा­रा­नु­कू­ल­सा­क्षि­चै­त­न्या­भि­न्न­त्व­स­त्त्वात् आपरोक्ष्यस्य विद्या­सा­ध्य­त्वा­नु­प­पत्तिः, इत्याशङ्क्याह —
तथापीति ।
ताव­न्मा­त्र­स्या­प­रो­क्ष्य­रू­प­त्वेऽ­पी­त्यर्थः । यथा एकस्य पुरुषस्य पुरु­षा­न्त­र­चै­त­न्या­प­रोक्ष्यं नास्ति, तथा जीवस्य संसारदशायां अन­व­च्छि­न्ना­न­न्दा­प­रो­क्ष्य­मपि नास्ति । जीवानां परस्परभेदवत् साक्षि­चै­त­न्य­ब्र­ह्मा­न­न्द­यो­रपि आज्ञा­नि­क­स्या­ना­दि­भे­दस्य सत्त्वेन ब्रह्मानन्दस्य स्वव्य­व­हा­रा­नु­कू­लेन साक्षि­चै­त­न्ये­ना­भे­दा­भा­वात्, वास्तवाभेदस्य च पर­स्प­र­भि­न्न­जी­व­सा­धा­र­णस्य विद्य­मा­न­स्या­प्य­कि­ञ्चि­त्क­र­त्वात् इत्यर्थः ।

प्रविलयादिति ।
तथा च तत्त्व­ज्ञा­न­स्या­ज्ञा­न­त­त्प्र­यु­क्त­भे­द­नि­वृ­त्ति­द्वारा अन­व­च्छि­न्ना­न­न्दा­प­रो­क्ष्य­स­म्पा­द­क­त्वात् तादृ­शा­न­न्दा­प­रो­क्ष्यस्य तत्त्व­ज्ञा­न­सा­ध्यत्वं युक्तमित्यर्थः ।