अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

प्रथमाध्याये प्रथमः पादः (१)

भाष्य­र­त्न­प्र­भा­व्याख्या श्रीरा­मा­न­न्द­य­ति­प्र­णीता ।
यमिह कारुणिकं शरणं गतोऽप्यरिसहोदर आप महत्पदम् ।
तमहमाशु हरिं परमाश्रये जन­क­जा­ङ्क­म­न­न्त­सु­खा­कृ­तिम् ॥ १ ॥
श्रीगौर्या सकलार्थदं निजपदाम्भोजेन मुक्तिप्रदं प्रौढं विघ्नवनं हरन्तमनघं श्रीढु­ण्ढि­तु­ण्डा­सिना ।
वन्दे चर्म­क­पा­लि­को­प­क­र­णै­र्वै­रा­ग्य­सौ­ख्या­त्परं नास्तीति प्रदि­श­न्त­म­न्त­वि­धुरं श्रीकाशिकेशं शिवम् ॥ २ ॥
यत्कृ­पा­ल­व­मा­त्रेण मूको भवति पण्डितः ।
वेद­शा­स्त्र­श­रीरां तां वाणीं वीणाकरां भजे ॥ ३ ॥
कामा­क्षी­द­त्त­दु­ग्ध­प्र­चु­र­सु­र­नु­त­प्रा­ज्य­भो­ज्या­धि­पू­ज्य­श्री­गौ­री­ना­य­का­भि­त्प्र­क­ट­न­शि­व­रा­मा­र्य­ल­ब्धा­त्म­बोधैः ।
श्रीम­द्गो­पा­ल­गीर्भिः प्रक­टि­त­प­र­मा­द्वै­त­भा­सा­स्मि­ता­स्य­श्री­म­द्गो­वि­न्द­वा­णी­च­र­ण­क­म­लगो निर्वृतोऽहं यथालिः ॥ ४ ॥
श्रीशङ्करं भाष्यकृतं प्रणम्य व्यासं हरिं सूत्रकृतं च वच्मि ।
श्रीभाष्यतीर्थे परहंसतुष्ट्यै वाग्जा­ल­ब­न्ध­च्छि­द­म­भ्यु­पा­यम् ॥ ५ ॥
विस्तृ­त­ग्र­न्थ­वी­क्षा­या­म­लसं यस्य मानसम् ।
व्याख्या तदर्थमारब्धा भाष्य­र­त्न­प्र­भा­भिधा ॥ ६ ॥
श्रीमच्छारीरकं भाष्यं प्राप्य वाक्शु­द्धि­मा­प्नु­यात् ।
इति श्रमो मे सफलो गङ्गां रथ्योदकं यथा ॥ ७ ॥
यद­ज्ञा­न­स­मु­द्भू­त­मि­न्द्र­जा­ल­मिदं जगत् ।
सत्य­ज्ञा­न­सु­खा­नन्तं तदहं ब्रह्म निर्भयम् ॥ ८ ॥
इह खलु ‘स्वाध्या­योऽ­ध्ये­तव्यः’(श॰ब्रा॰ ११-५७) इति नित्या­ध्य­य­न­वि­धि­ना­धी­त­सा­ङ्ग­स्वा­ध्याये ‘तद्वि­जि­ज्ञा­सस्व’(तै.उ. ३ । १ । १) , ’सोऽन्वेष्टव्यः स विजि­ज्ञा­सि­तव्यः’(छा.उ. ८ । ७ । १) , ’आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’(बृ.उ. २ । ४ । ५) इति श्रव­ण­वि­धि­रु­प­ल­भ्यते । तस्यार्थः अमृ­त­त्व­का­मे­ना­द्वै­ता­त्म­वि­चार एव वेदान्तवाक्यैः कर्तव्य इति । तेन काम्येन निय­म­वि­धि­ना­र्था­द्भि­न्ना­त्म­शा­स्त्र­प्र­वृत्तिः, वैदिकानां पुरा­णा­दि­प्रा­धान्यं वा निरस्यत इति वस्तुगतिः । तत्र कश्चिदिह जन्मनि जन्मान्तरे वानु­ष्टि­त­य­ज्ञा­दि­भि­र्नि­ता­न्त­वि­म­ल­स्वा­न्तोऽस्य श्रवणविधेः को विषयः, किं फलम् , कोऽधिकारी, कः सम्बन्ध इति जिज्ञासते । तं जिज्ञा­सु­मु­प­ल­भ­मानो भग­वा­न्बा­द­रा­य­ण­स्त­द­नु­ब­न्ध­च­तु­ष्टयं श्रव­णा­त्म­क­शा­स्त्रा­र­म्भ­प्र­यो­जकं न्यायेन निर्णेतुमिदं सूत्रं रचयाञ्चकार ‘अथातो ब्रह्मजिज्ञासा’(ब्र.सू. १ । १ । १)‘अथातो ब्रह्मजिज्ञासा’ इति ॥ नन्वनुबन्धजातं विधि­स­न्नि­हि­ता­र्थ­वा­द­वा­क्यै­रेव ज्ञातुं शक्यम् । तथाहि - ‘तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’(छा. उ. ८ । १ । ६) इति श्रुत्या ‘यत्कृतकं तदनित्यम्’ इति न्यायवत्या ‘न जायते म्रियते वा विपश्चित्’(क. उ. १ । २ । १८) ‘यो वै भूमा तदमृतम्’(छा.उ. ७ । २४ । १) ‘अतोऽ­न्य­दा­र्तम्’(बृ॰उ॰ ३-४-२) इत्यादि श्रुत्या च भूमात्मा नित्य­स्त­तोऽ­न्य­द­नि­त्य­म­ज्ञा­न­स्व­रू­प­मिति विवेको लभ्यते । कर्मणा कृष्यादिना चितः सम्पादितः सस्यादिलोकः - भोग्य इत्यर्थः । विप­श्चि­न्नि­त्य­ज्ञा­न­स्व­रूपः । ‘परीक्ष्य लोका­न्क­र्म­चि­ता­न्ब्रा­ह्मणो निर्वे­द­मा­या­न्ना­स्त्य­कृतः कृतेन’(मु.उ. १ । २ । १२) , ‘आत्मनस्तु कामाय सर्वं प्रियं भवति’(बृ. उ. २ । ४ । ५) इत्या­दि­श्रु­त्या­ना­त्म­मात्रे देहे­न्द्रि­या­दि­स­क­ल­प­दा­र्थ­जाते वैराग्यं लभ्यते । परी­क्ष्या­नि­त्य­त्वेन निश्चित्य, अकृतो मोक्षः कृतेन कर्मणा नास्तीति कर्मतत्फलेभ्यो वैराग्यं प्राप्नु­या­दि­त्यर्थः । ‘शान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तो भूत्वा­त्म­न्ये­वा­त्मानं पश्येत्’(बृ.उ. ४ । ४ । २३) इति श्रुत्या शमादिषट्कं लभ्यते । ‘समाहितो भूत्वा’ इति काण्वपाठः । उपरतिः सन्न्यासः । ‘न स पुनरावर्तते’(कालाग्निरु० २) इति स्वय­ञ्ज्यो­ति­रा­न­न्दा­त्म­क­मो­क्षस्य नित्य­त्व­श्रुत्या मुमुक्षा लभ्यते । तथा च विवे­का­दि­वि­शे­ष­ण­वा­न­धि­का­रीति ज्ञातुं शक्यम् । यथा ‘य एता रात्रीरुपयन्ति’ इति रात्रिसत्रविधौ ‘प्रति­ति­ष्ठन्ति’ इत्य­र्थ­वा­द­स्थ­प्र­ति­ष्ठा­का­म­स्त­द्वत् तथा ‘श्रोतव्यः’(बृ.उ. २ । ४ । ५)‘श्रोतव्यः’(बृ.उ. २ । ४ । ५) इत्यत्र प्रत्ययार्थस्य नियोगस्य प्रकृत्यर्थो विचारो विषयः विचारस्य वेदान्ता विषय इति शक्यं ज्ञातुम् , ‘आत्मा द्रष्टव्यः’ इत्य­द्वै­ता­त्म­द­र्श­न­मु­द्दिश्य ‘श्रोतव्यः’ इति विचारविधानात् । न हि विचारः साक्षा­द्द­र्श­न­हेतुः, अप्रमाणत्वात् , अपि तु प्रमाणविषयत्वेन । प्रमाणं चाद्वैतात्मनि वेदान्ता एव, ‘तं त्वौपनिषदंं पुरुषम्’, ‘वेदा­न्त­वि­ज्ञा­न­सु­नि­श्चि­तार्थाः’(मु.उ. ३ । २ । ६) इति श्रुतेः । वेदान्तानां च प्रत्य­ग्ब्र­ह्मैक्यं विषयः, ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) , ‘अहं ब्रह्मास्मि’(बृ.उ. १ । ४ । १०) इति श्रुतेः । एवं विचारविधेः फलमपि ज्ञानद्वारा मुक्तिः, ‘तरति शोकमात्मवित्’(छा.उ. ७ । १ । ३) , ‘ब्रह्म­वि­द्ब्र­ह्मैव भवति’(मु.उ. ३ । २ । ९) इत्यादिश्रुतेः । तथा सम्ब­न्धोऽ­प्य­धि­का­रिणा विचारस्य कर्तव्यतारूपः, फलस्य प्राप्यतारूप इति यथायोग्यं सुबोधः । तस्मादिदं सूत्रं व्यर्थमिति चेत् । न । तासा­म­धि­का­र्या­दि­श्रु­तीनां स्वार्थे तात्प­र्य­नि­र्णा­य­क­न्या­य­सू­त्रा­भावे किं विवे­का­दि­वि­शे­ष­ण­वा­न­धि­कारी उतान्यः, किं वेदान्ताः पूर्वतन्त्रेण अगतार्था वा, किं ब्रह्म प्रत्यगभिन्नं न वा, किं मुक्तिः स्वर्गा­दि­व­ल्लो­का­न्त­रम् , आत्मस्वरूपा वेति संशयानिवृत्तेः । तस्मा­दा­ग­म­वा­क्यै­रा­पा­ततः प्रति­प­न्ना­धि­का­र्या­दि­नि­र्ण­या­र्थ­मिदं सूत्रमावश्यकम् । तदुक्तं प्रका­शा­त्म­श्री­च­रणैः - ‘अधि­का­र्या­दी­ना­मा­ग­मि­क­त्वेऽपि न्यायेन निर्णयार्थमिदं सूत्रम्’ इति । येषां मते श्रवणे विधिर्नास्ति तेषा­म­वि­हि­त­श्र­व­णेऽ­धि­का­र्या­दि­नि­र्ण­या­न­पे­क्ष­णा­त्सूत्रं व्यर्थ­मि­त्या­प­त­ती­त्यलं प्रसङ्गेन ॥ तथा चास्य सूत्रस्य श्रव­ण­वि­ध्य­पे­क्षि­ता­धि­का­र्या­दि­श्रु­तिभिः स्वार्थ­नि­र्ण­या­यो­त्था­पि­त­त्वा­द्धे­तु­हे­तु­म­द्भावः श्रुतिसङ्गतिः, शास्त्रा­र­म्भ­हे­त्व­नु­ब­न्ध­नि­र्णा­य­क­त्वे­नो­पो­द्घा­त­त्वा­च्छा­स्त्रादौ सङ्गतिः, अधि­का­र्या­दि­श्रु­तीनां स्वार्थे समन्वयोक्तेः सम­न्व­या­ध्या­य­स­ङ्गतिः, ‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि’(छा.उ. ६ । ८ । ७) इत्या­दि­श्रु­तीनां सर्वा­त्म­त्वा­दि­स्प­ष्ट­ब्र­ह्म­लि­ङ्गानां विषयादौ समन्वयोक्तेः पादसङ्गतिः, एवं सर्वसूत्राणां श्रुत्य­र्थ­नि­र्णा­य­क­त्वा­च्छ्रु­ति­स­ङ्गतिः, तत्तदध्याये तत्तत्पादे च समानप्रमेयत्वेन सङ्गतिरूहनीया । प्रमेयं च कृत्स्न­शा­स्त्रस्य ब्रह्म । अध्यायानां तु सम­न्व­या­वि­रो­ध­सा­ध­न­फ­लानि । तत्र प्रथमपादस्य स्पष्ट­ब्र­ह्म­लि­ङ्गानां श्रुतीनां समन्वयः प्रमेयः । द्विती­य­तृ­ती­य­यो­र­स्प­ष्ट­ब्र­ह्म­लि­ङ्गा­नाम् । चतुर्थपादस्य पदमात्रसमन्वय इति भेदः । अस्याधिकरणस्य प्राथ­म्या­न्ना­धि­क­र­ण­स­ङ्ग­ति­र­पे­क्षिता ॥ अथा­धि­क­र­ण­मा­र­च्यते - ‘श्रोतव्यः’ इति विहि­त­श्र­व­णा­त्मकं वेदा­न्त­मी­मां­सा­शास्त्रं विषयः । तत्किमारब्धव्यं न वेति विष­य­प्र­यो­ज­न­स­म्भ­वा­स­म्भ­वाभ्यां संशयः । तत्र नाहं ब्रह्मेति भेद­ग्रा­हि­प्र­त्य­क्षेण कर्तृ­त्वा­क­र्तृ­त्वा­दि­वि­रु­द्ध­ध­र्म­व­त्त्व­लि­ङ्ग­का­नु­मा­नेन च विरोधेन ब्रह्मा­त्म­नो­रै­क्यस्य विष­य­स्या­स­म्भ­वात् , सत्यबन्धस्य ज्ञाना­न्नि­वृ­त्ति­रू­प­फ­ला­स­म्भ­वा­न्ना­र­म्भ­णी­य­मिति प्राप्ते सिद्धान्तः ‘अथातो ब्रह्मजिज्ञासा’ इति । अत्र श्रव­ण­वि­धि­स­मा­ना­र्थ­त्वाय ‘कर्तव्या’ इति पद­म­ध्या­ह­र्त­व्यम् । अध्याहृतं च भाष्यकृता ‘ब्रह्मजिज्ञासा कर्तव्या’ इति । तत्र प्रकृ­ति­प्र­त्य­या­र्थ­यो­र्ज्ञा­ने­च्छयोः कर्त­व्य­त्वा­न­न्व­या­त्प्र­कृत्या फलीभूतं ज्ञान­म­ज­ह­ल्ल­क्ष­ण­यो­च्यते । प्रत्य­ये­ने­च्छा­साध्यो विचारो जहल्लक्षणया । तथा च ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रस्य श्रौतोऽर्थः सम्पद्यते । तत्र ज्ञानस्य स्वतः­फ­ल­त्वा­यो­गा­त्प्र­मा­तृ­त्व­क­र्तृ­त्व­भो­क्तृ­त्वा­त्म­का­न­र्थ­नि­व­र्त­क­त्वे­नैव फलत्वं वक्तव्यम् । तत्रानर्थस्य सत्यत्वे ज्ञान­मा­त्रा­न्नि­वृ­त्त्य­यो­गा­द­ध्य­स्तत्वं वक्तव्यमिति बन्ध­स्या­ध्य­स्त­त्व­म­र्था­त्सू­चि­तम् । तच्च शास्त्रस्य विष­य­प्र­यो­ज­न­व­त्त्व­सि­द्धि­हेतुः । तथाहि शास्त्र­मा­र­ब्ध­व्यम् , विष­य­प्र­यो­ज­न­व­त्त्वात् , भोजनादिवत् । शास्त्रं प्रयोजनवत् , बन्ध­नि­व­र्त­क­ज्ञा­न­हे­तु­त्वात् , रज्जु­रि­य­मि­त्या­दि­वा­क्य­वत् । बन्धो ज्ञान­नि­व­र्त्योऽ­ध्य­स्त­त्वात् , रज्जुसर्पवत् । इति प्रयोजनसिद्धिः । एव­म­र्था­द्ब्र­ह्म­ज्ञा­ना­ज्जी­व­ग­ता­न­र्थ­भ्र­म­नि­वृत्तिं फलं सूत्रयन् जीव­ब्र­ह्म­णो­रैक्यं विष­य­म­प्य­र्था­त्सू­च­यति, अन्य­ज्ञा­ना­द­न्यत्र भ्रमानिवृत्तेः । जीवो ब्रह्माभिन्नः, तज्ज्ञा­न­नि­व­र्त्या­ध्या­सा­श्र­य­त्वात् । यदित्थं तत्तथा, यथा शुक्त्यभिन्न इदमंश इति विष­य­सि­द्धि­हे­तु­र­ध्यासः । इत्येवं विष­य­प्र­यो­ज­न­व­त्त्वा­च्छा­स्त्र­मा­र­म्भ­णी­य­मिति। । अत्र पूर्वपक्षे बन्धस्य सत्यत्वेन ज्ञाना­द­नि­वृ­त्ते­रु­पा­या­न्त­र­साध्या मुक्तिरिति फलम् । सिद्धान्ते ज्ञानादेव मुक्तिरिति विवेकः । इति सर्वं मनसि निधाय ब्रह्मसूत्राणि व्याख्यातुकामो भगवान् भाष्यकारः सूत्रेण विचा­र­क­र्त­व्य­ता­रू­प­श्रौ­ता­र्था­न्य­था­नु­प­प­त्त्या­र्था­त्सू­त्रितं विष­य­प्र­यो­ज­न­व­त्व­मु­पो­द्धा­त­त्वा­त्त­त्सि­द्धि­हे­त्व­ध्या­सा­क्षेपसमा­धा­न­भा­ष्याभ्यां प्रथमं वर्णयति -
युष्म­द­स्म­त्प्र­त्य­य­गो­च­र­यो­रिति ।
एतेन सूत्रा­र्था­स्प­र्शि­त्वा­द­ध्या­स­ग्रन्थो न भाष्यमिति निरस्तम् , आर्थि­का­र्थ­स्प­र्शि­त्वात् ॥ यत्तु मङ्ग­ला­च­र­णा­भा­वा­द­व्या­ख्ये­य­मिदं भाष्यमिति, तन्न । ‘सुत­रा­मि­त­रे­त­र­भा­वा­नु­प­पत्तिः’ इत्य­न्त­भा­ष्य­र­च­नार्थं तदर्थस्य सर्वो­प­प्ल­व­र­हि­तस्य विज्ञा­न­घ­न­प्र­त्य­ग­र्थस्य तत्त्वस्य स्मृतत्वात् । अतो निर्दोषत्वादिदं भाष्यं व्याख्येयम् ॥

लोके शुक्ताविदं रजतमिति भ्रमः, सत्यरजते इदं रज­त­मि­त्य­धि­ष्ठा­न­सा­मा­न्या­रो­प्य­वि­शे­ष­यो­रै­क्य­प्र­मा­हि­त­सं­स्का­र­जन्यो दृष्ट इत्य­त्रा­प्या­त्म­न्य­ना­त्मा­ह­ङ्का­रा­ध्यासे पूर्वप्रमा वाच्या, सा चात्मा­ना­त्म­नो­र्वा­स्त­वै­क्य­म­पे­क्षते, न हि तदस्ति । तथाहि आत्मा­ना­त्मा­ना­वै­क्य­शून्यौ, पर­स्प­रै­क्या­यो­ग्य­त्वात् , तमःप्रकाशवत् । इति मत्वा हेतुभूतं विरोधं वस्तुतः प्रतीतितो व्यवहारतश्च साधयति -
युष्म­द­स्म­त्प्र­त्य­य­गो­च­र­यो­रिति ।
न च ‘प्रत्य­यो­त्त­र­प­द­योश्च’(पा॰सू॰ ७-२-९८) इति सूत्रेण ‘प्रत्यये उत्तरपदे च परतो युष्म­द­स्म­दो­र्म­प­र्य­न्तस्य त्वमादेशौ स्तः’ इति विधानात् , त्वदीयं मदीयं त्वत्पुत्रो मत्पुत्र इतिवत् ‘त्वन्म­त्प्र­त्य­य­गो­च­रयोः’ इति स्यादिति वाच्यम् । ‘त्वमावेकवचने’(पा॰सू॰ ७-२-९७) इत्ये­क­व­च­ना­धि­का­रात् । अत्र च युष्म­द­स्म­दो­रे­कार्थवाचि­त्वा­भा­वा­द­ना­त्मनां युष्मदर्थानां बहु­त्वा­द­स्म­द­र्थ­चै­त­न्य­स्या­प्यु­पा­धितो बहुत्वात् ॥ नन्वेवं सति कथमत्र भाष्ये विग्रहः । न च यूयमिति प्रत्ययो युष्म­त्प्र­त्ययः, वयमिति प्रत्य­योऽ­स्म­त्प्र­त्य­य­स्त­द्गो­च­र­यो­रिति विग्रह इति वाच्यम् , शब्द­सा­धु­त्वेऽ­प्य­र्था­सा­धु­त्वात् । न ह्यह­ङ्का­रा­द्य­ना­त्मनो यूयमिति प्रत्य­य­वि­ष­य­त्व­म­स्तीति चेत् , न । गोचरपदस्य योग्यतापरत्वात् । चिदात्मा ताव­द­स्म­त्प्र­त्य­य­योग्यः, तत्प्र­यु­क्त­सं­श­या­दि­नि­वृ­त्ति­फ­ल­भा­क्त्वात् , ‘न ताव­द­य­मे­का­न्ते­ना­वि­षयः, अस्म­त्प्र­त्य­य­वि­ष­य­त्वात्’ इति भाष्योक्तेश्च । यद्य­प्य­ह­ङ्का­रा­दि­रपि तद्योग्यस्तथापि चिदात्मनः सका­शा­द­त्य­न्त­भे­द­सि­द्ध्यर्थं युष्म­त्प्र­त्य­य­योग्य इत्युच्यते ॥ आश्र­म­श्री­च­र­णास्तु टीका­यो­ज­ना­या­मे­व­माहुः ‘सम्बोध्यचेतनो युष्म­त्प­द­वाच्यः, अह­ङ्का­रा­दि­वि­शि­ष्ट­चे­त­नोऽ­स्म­त्प­द­वाच्यः, तथा च युष्मदस्मदोः स्वार्थे प्रयु­ज्य­मा­न­यो­रेव त्वमादेशनियमो न लाक्षणिकयोः, ‘युष्मदस्मदोः षष्ठी­च­तु­र्थी­द्वि­ती­या­स्थ­यो­र्वा­नावौ’(पा०सू० ८-१-२०) इति सूत्रा­सा­ङ्ग­त्य­प्र­स­ड्गात् । अत्र शब्दलक्षकयोरिव चिन्मा­त्र­ज­ड­मा­त्र­ल­क्ष­क­यो­रपि न त्वमादेशो लक्ष­क­त्वा­वि­शे­षात्’ इति । यदि तयोः शब्दबोधकत्वे सत्येव त्वमादेशाभाव इत्यनेन सूत्रेण ज्ञापितं तदास्मिन्भाष्ये युष्मत्पदेन युष्म­च्छ­ब्द­ज­न्य­प्र­त्य­य­योग्यः परागर्थो लक्ष्यते, अस्मच्छब्देन अस्म­च्छ­ब्द­ज­न्य­प्र­त्य­य­योग्यः प्रत्यगात्मा । तथा च लक्ष्य­ता­व­च्छे­द­क­तया शब्दोऽपि बोध्यत इति न त्वमादेशः । न च परा­क्त्व­प्र­त्य­क्त्व­यो­रेव लक्ष्य­ता­व­च्छे­द­क­त्वम् , न शब्द­यो­ग्य­त्वां­शस्य, गौरवादिति वाच्यम् । परा­क्प्र­ती­चो­र्वि­रो­ध­स्फु­र­णार्थं विरु­द्ध­श­ब्द­यो­ग्य­त्व­स्यापि वक्तव्यत्वात् । अत एवे­द­म­स्म­त्प्र­त्य­य­गो­च­र­यो­रिति वक्त­व्येऽ­पी­दं­श­ब्दोऽ­स्म­दर्थे लोके वेदे च बहुशः, इमे वयमास्महे, इमे विदेहाः, अयमहमस्मीति च प्रयो­ग­द­र्श­ना­न्ना­स्म­च्छ­ब्द­वि­रो­धीति मत्वा युष्मच्छब्दः प्रयुक्तः, इदंशब्दप्रयोगे विरोधास्फूर्तेः । एतेन चेत­न­वा­चि­त्वा­द­स्म­च्छब्दः पूर्वं प्रयोक्तव्यः ‘अभ्यर्हितं पूर्व’ इति न्यायात् , ‘त्यदादीनि सर्वैर्नित्यम्’(पा०सू० १-२-७२) इति सूत्रेण विहित एकशेषश्च स्यादिति निरस्तम् । ‘युष्मदस्मदोः’ इति सूत्र इवात्रापि पूर्व­नि­पा­तै­क­शे­ष­यो­र­प्राप्तेः, एकशेषे विव­क्षि­त­वि­रो­धा­स्फू­र्तेश्च । वृद्धास्तु ‘युष्म­द­र्था­द­ना­त्मनो निष्कृष्य शुद्धस्य चिद्धा­तो­र­ध्या­रो­पा­प­वा­द­न्या­येन ग्रहणं द्योतयितुमादौ युष्मद्ग्रहणम् ’ इत्याहुः । तत्र युष्म­द­स्म­त्प­दाभ्यां परा­क्प्र­त्य­क्त्वे­ना­त्मा­ना­त्म­नो­र्व­स्तुतो विरोध उक्तः । प्रत्ययपदेन प्रतीतितो विरोध उक्तः । प्रतीयत इति प्रत्य­योऽ­ह­ङ्का­रा­दि­र­नात्मा दृश्यतया भाति । आत्मा तु प्रती­ति­त्वा­त्प्र­त्ययः स्वप्रकाशतया भाति । गोचरपदेन व्यवहारतो विरोध उक्तः । युष्मदर्थः प्रत्य­गा­त्म­ति­र­स्का­रेण कर्ता­ह­मि­त्या­दि­व्य­व­हा­र­गो­चरः, अस्म­द­र्थ­स्त्व­ना­त्म­प्र­वि­ला­पेन, अहं ब्रह्मेति व्यवहारगोचर इति त्रिधा विरोधः स्फुटीकृतः । युष्मच्चास्मच्च युष्मदस्मदी, ते एव प्रत्ययौ च तौ गोचरौ चेति युष्म­द­स्म­त्प्र­त्य­य­गो­चरौ, तयोस्त्रिधा विरु­द्ध­स्व­भा­व­यो­रि­त­रे­त­र­भा­वोऽ­त्य­न्ता­भे­द­स्ता­दात्म्यं वा तदनुपपत्तौ सिद्धा­या­मि­त्य­न्वयः ।

ऐक्यासम्भवेऽपि शुक्लो घट इति­व­त्ता­दात्म्यं किं न स्यादित्यत आह -
विषयविषयिणोरिति ।
चिज्ज­ड­यो­र्वि­ष­य­वि­ष­यि­त्वा­द्दी­प­घ­ट­यो­रिव न तादात्म्यमिति भावः ।

युष्मदस्मदी परा­प्र­त्य­ग्व­स्तुनी, ते एव प्रत्ययश्च गोचरश्चेति वा विग्रहः । अत्र प्रत्य­य­गो­च­र­प­दा­भ्या­मा­त्मा­ना­त्मनोः प्रत्य­क्प­रा­ग्भावे चिदचित्त्वं हेतुरुक्तस्तत्र हेतुमाह -
विषयविषयिणोरिति ।
अनात्मनो ग्राह्य­त्वा­द­चि­त्त्वम् , आत्मनस्तु ग्राह­क­त्वा­च्चित्त्वं वाच्यम् । अचित्त्वे स्वस्य स्वेन ग्रहस्य कर्म­क­र्तृ­त्व­वि­रो­धे­ना­स­म्भ­वा­द­प्र­त्य­क्ष­त्वा­प­त्ते­रि­त्यर्थः । यथेष्टं वा हेतुहेतुमद्भावः ।

नन्वे­व­मा­त्मा­ना­त्मनोः परा­क्प्र­त्य­क्त्वेन, चिदचित्त्वेन, ग्राह्य­ग्रा­ह­क­त्वेन च विरो­धा­त्त­मः­प्र­का­श­व­दै­क्यस्य तादात्म्यस्य वानुपपत्तौ सत्याम् , तत्प्र­मि­त्य­भा­वे­ना­ध्या­सा­भा­वेऽपि तद्धर्माणां चैत­न्य­सु­ख­जा­ड्य­दुः­खा­दीनां विनि­म­ये­ना­ध्या­सोऽ­स्त्वि­त्यत आह -
तद्धर्माणामपीति ।
तयो­रा­त्मा­ना­त्म­नो­र्ध­र्मा­स्त­द्ध­र्मा­स्ते­षा­म­पी­त­रे­त­र­भा­वा­नु­प­पत्तिः । इतरत्र धर्म्यन्तरे इतरेषां धर्माणां भावः संस­र्ग­स्त­स्या­नु­प­प­त्ति­रि­त्यर्थः । न हि धर्मिणोः संसर्गं विना धर्माणां विनिमयो अस्ति । स्फटिके लोहि­त­व­स्तु­सा­न्नि­ध्या­ल्लौ­हि­त्य­ध­र्म­सं­सर्गः ।

अस­ङ्गा­त्म­ध­र्मिणः केना­प्य­सं­स­र्गा­द्ध­र्मि­सं­स­र्ग­पू­र्वको धर्मसंसर्गः कुतस्त्य इत्य­भि­प्रे­त्योक्तं -
सुतरामिति ।

नन्वा­त्मा­ना­त्म­नो­स्ता­दा­त्म्यस्य तद्ध­र्म­सं­स­र्गस्य चाभा­वेऽ­प्य­ध्यासः किं न स्यादित्यत आह -
इत्यत इति ।
इत्युक्तरीत्या तादा­त्म्या­द्य­भा­वेन तत्प्रमाया अभावादतः प्रमा­ज­न्य­सं­स्का­र­स्या­ध्या­स­हे­तो­र­भा­वात् ‘अध्यासो मिथ्येति भवितुं युक्तम्’ इत्यन्वयः । मिथ्याशब्दो द्व्यर्थः अपह्नववचनः, अनि­र्व­च­नी­य­ता­व­च­न­श्चेति । अत्र चापह्नवार्थः ।

ननु कुत्र कस्या­ध्या­सोऽ­प­ह्नू­यत इत्याशङ्क्य, आत्म­न्य­ना­त्म­त­द्ध­र्मा­णा­म­ना­त्म­न्या­त्म­त­द्ध­र्मा­णा­म­ध्यासो निरस्यत इत्याह -
अस्म­त्प्र­त्य­य­गो­चर इत्यादिना ।

अह­मि­ति­प्र­त्य­य­यो­ग्यत्वं बुद्ध्या­दे­र­प्य­स्तीति मत्वा तत आत्मानं विवेचयति -
विषयिणीति ।
बुद्ध्या­दि­सा­क्षि­णी­त्यर्थः ।

साक्षित्वे हेतुः -
चिदात्मक इति ।
अहमिति भासमाने चिदं­शा­त्म­नी­त्यर्थः ।

युष्म­त्प्र­त्य­य­गो­च­र­स्येति ।
त्वङ्का­र­यो­ग्यस्य । इदमर्थस्येति यावत् ।

नन्वहमिति भास­मा­न­बु­द्ध्यादेः कथ­मि­द­म­र्थ­त्व­मि­त्यत आह -
विषयस्येति ।
साक्षि­भा­स्य­स्ये­त्यर्थः । साक्षि­भा­स्य­त्व­रू­प­ल­क्ष­ण­यो­गा­द्बु­द्ध्या­दे­र्घ­टा­दि­व­दि­द­म­र्थत्वं न प्रतिभासत इति भावः । अथवा यदात्मनो मुख्यं सर्वा­न्त­र­त्व­रूपं प्रत्यक्त्वं प्रतीतित्वं ब्रह्मास्मीति व्यवहारगोचरत्वं चोक्तं तदसिद्धम् , अहमिति प्रतीयमानत्वात् ,

अह­ङ्का­र­व­दि­त्या­श­ङ्क्याह -
अस्म­त्प्र­त्य­य­गो­चर इति ।
अस्मच्चासौ प्रत्ययश्चासौ गोचरश्च तस्मि­न्नि­त्यर्थः । अहं­वृ­त्ति­व्य­ङ्ग्य­स्फु­र­णत्वं स्फुरणविषयत्वं वा हेतुः । आद्ये दृष्टान्ते हेत्वसिद्धिः । द्वितीये तु पक्षे तद­सि­द्धि­रि­त्या­त्मनो मुख्यं प्रत्यक्त्वादि युक्तमिति भावः ।

ननु यदात्मनो विषयित्वं तदसिद्धम् , अनुभवामीति शब्दवत्वात् , अहङ्कारवदित्यत आह -
विषयिणीति ।
वाच्यत्वं लक्ष्यत्वं वा हेतुः । नाद्यः, पक्षे तदसिद्धेः । नान्त्यः, दृष्टान्ते तद्वैकल्यादिति भावः ।

देहं जानामीति देहा­ह­ङ्का­र­यो­र्वि­ष­य­वि­ष­यि­त्वेऽपि मनु­ष्योऽ­ह­मि­त्य­भे­दा­ध्या­स­व­दा­त्मा­ह­ङ्का­र­यो­र­प्य­भे­दा­ध्यासः स्यादित्यत आह -
चिदात्मक इति ।
तयो­र्जा­ड्या­ल्प­त्वाभ्यां सादृ­श्या­द­ध्या­सेऽपि चिदा­त्म­न्य­न­व­च्छिन्ने जडा­ल्पा­ह­ङ्का­रा­दे­र्ना­ध्यास इति भावः ।

अहमिति भास्य­त्वा­दा­त्म­व­द­ह­ङ्का­र­स्यापि प्रत्य­क्त्वा­दिकं मुख्यमेव, ततः पूर्वो­क्त­प­रा­क्त्वा­द्य­सि­द्धि­रि­त्या­श­ङ्क्याह -
युष्मदिति ।
अहं­वृ­त्ति­भा­स्य­त्व­म­ह­ङ्कारे नास्ति कर्तृ­क­र्म­त्व­वि­रो­धात् , चिद्भास्यत्वं चिदात्मनि नास्तीति हेत्वसिद्धिः । अतो बुद्ध्यादेः प्रतिभासतः प्रत्यक्त्वेऽपि पराक्त्वादिकं मुख्यमेवेति भावः । युष्म­त्प­रा­क्त­च्चासौ प्रतीयत इति प्रत्ययश्चासौ कर्तृ­त्वा­दि­व्य­व­हा­र­गो­च­रश्च तस्येति विग्रहः ।

तस्य हेयत्वार्थमाह -
विषयस्येति ।
षिञ् बन्धने । विसिनोति बध्नाति इति विष­य­स्त­स्ये­त्यर्थः ।

आत्म­न्य­ना­त्म­त­द्ध­र्मा­ध्यासो मिथ्या भवतु, अना­त्म­न्या­त्म­त­द्ध­र्मा­ध्यासः किं न स्यात् , अहं स्फुरामि सुखी­त्या­द्य­नु­भ­वा­दि­त्या­श­ङ्क्याह -
तद्विपर्ययेणेति ।
तस्मादनात्मनो विपर्ययो विरु­द्ध­स्व­भा­व­श्चै­त­न्यम् । इत्थम्भावे तृतीया । चैतन्यात्मना विष­यि­ण­स्त­द्ध­र्माणां च योऽहङ्कारादौ विषयेऽध्यासः स मिथ्येति नास्तीति भवितुं युक्तम् , अध्या­स­सा­म­ग्र्य­भा­वात् । न ह्यत्र पूर्व­प्र­मा­हि­त­सं­स्कारः सादृश्यमज्ञानं वास्ति । निर­व­य­व­नि­र्गु­ण­स्व­प्र­का­शा­त्मनि गुणा­व­य­व­सा­दृ­श्यस्य चाज्ञानस्य चायोगात् ॥

नन्वात्मनो निर्गुणत्वे तद्धर्माणामिति भाष्यं कथमिति चेत् , उच्यते । बुद्धि­वृ­त्त्य­भि­व्यक्तं चैतन्यं ज्ञानम् , विष­या­भे­दे­ना­भि­व्यक्तं स्फुरणम् , शुभ­क­र्म­ज­न्य­वृ­त्ति­व्य­क्त­मा­नन्द इत्येवं वृत्त्यु­पा­धि­कृ­त­भे­दात् ज्ञाना­दी­ना­मा­त्म­ध­र्म­त्व­व्य­प­देशः । तदुक्तं टीकायां ‘आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्मा अपृथक्त्वेऽपि चैत­न्य­त्वा­त्पृ­थ­गि­वा­व­भा­सन्ते’ इति । अतो निर्गु­ण­ब्र­ह्मा­त्म­त्व­मते, अहं करोमीति प्रतीतेरर्थस्य चाध्या­स­त्वा­यो­गा­त्प्र­मात्वं सत्यत्वं च अहं नर इति सामा­ना­धि­क­र­ण्यस्य गौणत्वमिति मतमास्थेयम् । तथा च बन्धस्य सत्यतया ज्ञाना­न्नि­वृ­त्ति­रू­प­फ­ला­स­म्भ­वा­द्ब­द्ध­मु­क्त­यो­र्जी­व­ब्र­ह्म­णो­रै­क्या­यो­गेन विषयासम्भवात् शास्त्रं नारम्भणीयमिति पूर्व­प­क्ष­भा­ष्य­ता­त्प­र्यम् । युक्त­ग्र­ह­णा­त्पू­र्व­प­क्षस्य दुर्बलत्वं सूचयति । तथाहि किमध्यासस्य नास्ति­त्व­म­यु­क्त­त्वा­द­भा­नाद्वा कारणाभावाद्वा ? आद्य इष्ट इत्याह -
तथापीति ।
एतदनुरोधादादौ यद्यपीति पठितव्यम् । अध्या­स­स्या­स­ङ्ग­स्व­प्र­का­शा­त्म­न्य­यु­क्त­त्व­म­ल­ङ्कार इति भावः ।

न द्वितीय इत्याह -
अयमिति ।
अज्ञः कर्ता मनुष्योऽहमिति प्रत्य­क्षा­नु­भ­वा­द­ध्या­स­स्या­भा­न­म­सि­द्ध­मि­त्यर्थः । न चेदं प्रत्यक्षं कर्तृत्वादौ प्रमेति वाच्यम् । अपौरुषेयतया निर्दोषेण, उप­क्र­मा­दि­लि­ङ्गा­व­धृ­त­ता­त्प­र्येण च तत्व­म­स्या­दि­वा­क्ये­ना­क­र्तृ­त्व­ब्र­ह्म­त्व­बो­ध­ने­नास्य भ्रम­त्व­नि­श्च­यात् । न च ज्येष्ठ­प्र­त्य­क्ष­वि­रो­धा­दा­ग­म­ज्ञा­न­स्यैव बाध इति वाच्यम् , देहा­त्म­वा­द­प्र­स­ङ्गात् , मनुष्योऽहमिति प्रत्य­क्ष­वि­रो­धेन ‘अथायमशरीरः’(बृ॰उ॰ ४-४-७) इत्यादिश्रुत्या देहा­द­न्या­त्मा­सिद्धेः । तस्मादिदं रज­त­मि­ति­व­त्सा­मा­ना­धि­क­र­ण्य­प्र­त्य­क्षस्य भ्रम­त्व­श­ङ्का­क­ल­ङ्कि­तस्य नाग­मा­त्प्रा­ब­ल्य­मि­त्या­स्थे­यम् । किञ्च ज्येष्ठत्वं पूर्वभावित्वं वा आगमज्ञानं प्रत्यु­प­जी­व्यत्वं वा ? आद्ये न प्राबल्यम् , ज्येष्ठस्यापि रजतभ्रमस्य पश्चाद्भाविना शुक्तिज्ञानेन बाधदर्शनात् । न द्वितीयः । आग­म­ज्ञा­नो­त्पत्तौ प्रत्य­क्षा­दि­मू­ल­वृ­द्ध­व्य­व­हारे सङ्ग­ति­ग्र­ह­द्वारा, शब्दो­प­ल­ब्धि­द्वारा च प्रत्य­क्षा­दे­र्व्या­व­हा­रि­क­प्रा­मा­ण्य­स्यो­प­जी­व्य­त्वेऽपि तात्त्वि­क­प्रा­मा­ण्य­स्या­न­पे­क्षि­त­त्वात् , अन­पे­क्षि­तां­श­स्या­ग­मेन बाधसम्भवादिति । यत्तु क्षणिकयागस्य श्रुति­ब­ला­त्का­ला­न्त­र­भा­वि­फ­ल­हे­तु­त्व­वत् ‘तथा विद्वा­न्ना­म­रू­पा­द्वि­मुक्तः’(मु॰उ॰ ३-२-७) इति श्रुति­ब­ला­त्स­त्य­स्यापि ज्ञाना­न्नि­वृ­त्ति­स­म्भ­वा­द­ध्या­स­व­र्णनं व्यर्थमिति, तन्न । ज्ञान­मा­त्र­नि­व­र्त्यस्य क्वापि सत्य­त्वा­द­र्श­नात् , सत्यस्य चात्मनो निवृ­त्त्य­द­र्श­नाच्च, अयोग्यतानिश्चये सति सत्यबन्धस्य ज्ञाना­न्नि­वृ­त्ति­श्रु­ते­र्बो­ध­क­त्वा­यो­गात् । न च सेतु­द­र्श­ना­त्स­त्यस्य पापस्य नाश­द­र्श­ना­न्ना­यो­ग्य­ता­नि­श्चय इति वाच्यम् , तस्य श्रद्धा­नि­य­मा­दि­सा­पे­क्ष­ज्ञा­न­ना­श्य­त्वात् । बन्धस्य च ‘नान्यः पन्था’ इति श्रुत्या ज्ञान­मा­त्रा­न्नि­वृ­त्ति­प्र­तीतेः, अतः श्रुत­ज्ञा­न­नि­व­र्त्य­त्व­नि­र्वा­हा­र्थ­म­ध्य­स्तत्वं वर्णनियम् । किं च ज्ञानै­क­नि­व­र्त्यस्य किं नाम सत्यत्वम् , न ताव­द­ज्ञा­ना­ज­न्य­त्वम् । ‘मायां तु प्रकृतिम्’ इति श्रुति विरो­धा­न्मा­या­वि­द्य­यो­रै­क्यात् । नापि स्वाधिष्ठाने स्वाभा­व­शू­न्यत्वं ‘अस्थूलम्’ इत्या­दि­नि­षे­ध­श्रु­ति­वि­रो­धात् । नापि ब्रह्म­व­द्बा­धा­यो­ग्य­त्वम् , ज्ञाना­न्नि­वृ­त्ति­श्रु­ति­वि­रो­धात् । अथ व्यवहारकाले बाधशून्यत्वम् , तर्हि व्यावहारिकमेव सत्य­त्व­मि­त्या­ग­त­म­ध्य­स्त­त्वम् । तच्च श्रुत्यर्थे योग्यता ज्ञानार्थं वर्णनीयमेव, याग­स्या­पू­र्व­द्वा­र­त्व­वत् । न च तदन्यत्वाधिकरणे तस्य वर्ण­ना­त्पौ­न­रु­क्त्यम् , तत्रो­क्ता­ध्या­स­स्यैव प्रवृ­त्त्य­ङ्ग­वि­ष­या­दि­सि­द्ध्य­र्थ­मादौ स्मार्य­मा­ण­त्वा­दिति दिक् ॥

अध्यासं द्वेधा दर्शयति -
लोकव्यवहार इति ।
लोक्यते मनु­ष्योऽ­ह­मि­त्य­भि­म­न्यत इति लोकोऽ­र्था­ध्यासः, तद्विषयो व्यवहारोऽभिमान इति ज्ञानाध्यासो दर्शितः ।

द्विवि­धा­ध्या­स­स्व­रू­प­ल­क्ष­ण­माह -
अन्योन्यस्मिन् इत्यादिना धर्मधर्मिणोः इत्यन्तेन ।
जाड्य­चै­त­न्या­दि­ध­र्माणां धर्मि­णा­व­ह­ङ्का­रा­त्मानौ, तयोरत्यन्तं भिन्न­यो­रि­त­रे­त­र­भे­दा­ग्र­हे­णा­न्यो­न्य­स्मिन् अन्यो­न्य­ता­दा­त्म्य­म­न्यो­न्य­ध­र्मांश्च व्यत्या­से­ना­ध्यस्य लोकव्यवहार इति योजना । अतः सोऽयमिति प्रमाया नाध्यासत्वम् , तदिदमर्थयोः कालभेदेन कल्पि­त­भे­देऽ­प्य­त्य­न्त­भे­दा­भा­वा­दिति वक्तु­म­त्य­न्ते­त्यु­क्तम् । न च धर्मि­ता­दा­त्म्या­ध्यासे धर्मा­ध्या­स­सिद्धेः ‘धर्मांश्च’ इति व्यर्थमिति वाच्यम् , अन्ध­त्वा­दी­ना­मि­न्द्रि­य­ध­र्माणां धर्म्य­ध्या­सा­स्फु­ट­त्वेऽ­प्य­न्धोऽ­ह­मिति स्फुटोऽध्यास इति ज्ञाप­ना­र्थ­त्वात् ।

नन्वा­त्मा­ना­त्मनोः पर­स्प­रा­ध्य­स्तत्वे शून्यवादः स्यादि­त्या­श­ङ्क्याह -
सत्यानृते मिथुनीकृत्येति ।
सत्यमनिदं चैतन्यं तस्यानात्मनि संस­र्ग­मा­त्रा­ध्यासो न स्वरूपस्य । अनृतं युष्मदर्थः तस्य स्वरू­प­तोऽ­प्य­ध्या­सा­त्त­यो­र्मि­थु­नी­क­र­ण­म­ध्यास इति न शून्यतेत्यर्थः ॥

नन्व­ध्या­स­मि­थु­नी­क­र­ण­लो­क­व्य­व­हा­र­श­ब्दा­ना­मे­का­र्थ­त्वेऽ­ध्यस्य मिथुुनीकृत्येति पूर्व­का­ल­त्व­वा­चि­क्त्वा­प्र­त्य­या­दे­शस्य ल्यपः कथं प्रयोग इति चेन्न, अध्या­स­व्य­क्ति­भे­दात् । तत्र पूर्व­पू­र्वा­ध्या­स­स्यो­त्त­रो­त्त­रा­ध्यासं प्रति संस्कारद्वारा पूर्वकालत्वेन हेतु­त्व­द्यो­त­नार्थं ल्यपः प्रयोगः । तदेव स्पष्टयति -
नैसर्गिक इति ।
प्रत्यगात्मनि हेतु­हे­तु­म­द्भा­वे­ना­ध्या­स­प्र­वा­होऽ­ना­दि­रि­त्यर्थः । ननु प्रवा­ह­स्या­व­स्तु­त्वात् , अध्या­स­व्य­क्तीनां सादित्वात् , कथमनादित्वमिति चेत् । उच्यते अध्या­स­त्वा­व­च्छि­न्न­व्य­क्तीनां मध्येऽन्यतमया व्यक्त्या विनाऽ­दि­का­ल­स्या­व­र्तनं कार्या­ना­दि­त्व­मि­त्य­ङ्गी­का­रात् । एतेन कारणाभावादिति कल्पो निरस्तः, संस्कारस्य निमित्तस्य नैस­र्गि­क­प­दे­नो­क्त­त्वात् । न च पूर्वप्रमाजन्य एव संस्कारो हेतुरिति वाच्यम् , लाघवेन पूर्वा­नु­भ­व­ज­न्य­सं­स्का­रस्य हेतुत्वात् । अतः पूर्वा­ध्या­स­जन्यः संस्कारोऽस्तीति सिद्धम् ।

अध्या­स­स्यो­पा­दा­न­माह -
मिथ्या­ज्ञा­न­नि­मित्त इति ।
मिथ्या च तदज्ञानं च मिथ्याज्ञानं तन्नि­मि­त्त­मु­पा­दानं यस्य स तन्निमित्तः । तदुपादानक इत्यर्थः । अज्ञा­न­स्यो­पा­दा­न­त्वेऽपि संस्फु­र­दा­त्म­त­त्वा­व­र­क­तया दोष­त्वे­ना­ह­ङ्का­रा­ध्या­स­क­र्तु­री­श्व­र­स्यो­पा­धि­त्वेन संस्का­र­का­ल­क­र्मा­दि­नि­मि­त्त­प­रि­णा­मि­त्वेन च निमित्तत्वमिति द्योतयितुं निमित्तपदम् । स्वप्र­का­शा­त्म­न्य­सङ्गे कथमविद्यासङ्गः, संस्का­रा­दि­सा­म­ग्र्य­भा­वात् , इति शङ्कानिरासार्थं मिथ्यापदम् । प्रच­ण्ड­मा­र्त­ण्ड­म­ण्डले पेच­का­नु­भ­व­सि­द्धा­न्ध­का­र­वत् , अहमज्ञ इत्य­नु­भ­व­सि­द्ध­म­ज्ञानं दुरपह्नवम् , कल्पि­त­स्या­धि­ष्ठा­ना­स्प­र्शि­त्वात् , नित्य­स्व­रू­प­ज्ञा­न­स्या­वि­रो­धि­त्वा­च्चेति । यद्वा अज्ञानं ज्ञानाभाव इति शङ्कानिरासार्थं मिथ्यापदम् । मिथ्यात्वे सति साक्षा­ज्ज्ञा­न­नि­व­र्त्य­त्व­म­ज्ञा­नस्य लक्षणं मिथ्या­ज्ञा­न­प­दे­नो­क्तम् । ज्ञाने­ने­च्छा­प्रा­ग­भावः साक्षा­न्नि­व­र्त्यत इति वदन्तं प्रति मिथ्यात्वे सतीत्युक्तम् । अज्ञा­न­नि­वृ­त्ति­द्वारा ज्ञान­नि­व­र्त्य­ब­न्धेऽ­ति­व्या­प्ति­नि­रा­साय साक्षादिति । अना­द्यु­पा­दा­नत्वे सति मिथ्यात्वं वा लक्षणम् । ब्रह्म­नि­रा­सार्थं मिथ्यात्वमिति । मृदा­दि­नि­रा­सा­र्थ­म­ना­दीति । अविद्यात्मनोः सम्ब­न्ध­नि­रा­सा­र्थ­मु­पा­दा­नत्वे सतीति ।

सम्प्रति अध्यासं द्रढयितुमभिलषति -
अहमिदं ममेदमिति ।
आध्या­त्मि­क­का­र्या­ध्या­से­ष्व­ह­मिति प्रथमोऽध्यासः । न चाधि­ष्ठा­ना­रो­प्यां­श­द्व­या­नु­प­ल­म्भात् नायमध्यास इति वाच्यम् , अयो दहतीतिवदहमुपलभ इति दृग्दृ­श्यां­श­यो­रु­प­ल­म्भात् । इदं पदेन भोग्यः सङ्घात उच्यते । अत्रा­ह­मि­द­मि­त्य­नेन मनुष्योऽहमिति तादा­त्म्या­ध्यासो दर्शितः । ममेदं शरीरमिति संसर्गाध्यासः ॥ ननु देहा­त्म­नो­स्ता­दा­त्म्य­मेव संसर्ग इति तयोः को भेद इति चेत् , सत्यम् । सत्तैक्ये सति मिथो भेद­स्ता­दा­त्म्यम् । तत्र मनु­ष्योऽ­ह­मि­त्यै­क्यां­श­भानं ममेदमिति भेदां­श­रू­प­सं­स­र्ग­भा­न­मिति भेदः । एवं साम­ग्री­स­त्त्वा­द­नु­भ­व­स­त्त्वा­द­ध्या­सोऽ­स्ती­त्यतो ब्रह्मात्मैक्ये विरोधाभावेन विषयप्रयोजनयोः सत्त्वा­त्शा­स्त्र­मा­र­म्भ­णी­य­मिति सिद्धा­न्त­भा­ष्य­ता­त्प­र्यम् ।

एवं च सूत्रे­णा­र्था­त्सू­चिते विषयप्रयोजने प्रतिपाद्य तद्धेतुमध्यासं लक्ष­ण­स­म्भा­व­ना­प्र­माणैः साधयितुं लक्षणं पृच्छति -
आहेति ।
किंल­क्ष­ण­कोऽ­ध्यास इत्याह । पूर्व­वा­दी­त्यर्थः । अस्य शास्त्रस्य तत्त्व­नि­र्ण­य­प्र­धा­न­त्वेन वाद­क­था­त्व­द्यो­त­ना­र्थ­मा­हेति परोक्तिः । ‘आह’ इत्यादि ‘कथं पुनः­प्र­त्य­गा­त्मनि’ इत्यतः प्राग­ध्या­स­ल­क्ष­ण­परं भाष्यम् । तदारभ्य सम्भावनापरम् । "तमे­त­म­वि­द्या­ख्यम्" इत्यारभ्य "सर्व­लो­क­प्र­त्यक्षः" इत्यन्तं प्रमाणपरमिति विभागः ।

लक्षणमाह -
उच्यते - स्मृतिरूप इति ।
अध्यास इत्यनुषङ्गः । अत्र परत्रावभास इत्येव लक्षणम् , शिष्टं पदद्वयं तदुपपादनार्थम् । तथाहि अवभास्यत इत्यवभासो रजताद्यर्थः तस्या­यो­ग्य­म­धि­क­रणं परत्रपदार्थः । अधि­क­र­ण­स्या­यो­ग्य­त्व­मा­रो­प्या­त्य­न्ता­भा­वत्वं तद्वत्वं वा । तथा चैकावच्छेदेन स्वसंसृज्यमाने स्वात्य­न्ता­भा­व­वति अव­भा­स्य­त्व­म­ध्य­स्त­त्व­मि­त्यर्थः । इदं च साद्य­ना­द्य­ध्या­स­सा­धा­रणं लक्षणम् । संयो­गेऽ­ति­व्या­प्ति­नि­रा­सा­यै­का­व­च्छे­दे­नेति । संयोगस्य स्वसंसृज्यमाने वृक्षे स्वात्य­न्ता­भा­व­व­त्य­व­भा­स्य­त्वेऽपि स्वात्य­न्ता­भा­व­यो­र्मू­ला­ग्रा­व­च्छे­द­क­भे­दा­न्ना­ति­व्याप्तिः । पूर्वं स्वाभाववति भूतले पश्चादानीतो घटो भातीति घटेऽ­ति­व्या­प्ति­नि­रा­साय स्वसंसृज्यमान इति पदम् , तेन स्वाभावकाले प्रति­यो­गि­सं­स­र्गस्य विद्यमानतोच्यते इति नातिव्याप्तिः । भूत्वा­व­च्छे­दे­ना­व­भा­स्य­ग­न्धेऽ­ति­व्या­प्ति­वा­र­णाय स्वात्य­न्ता­भा­व­व­तीति पदम् । शुक्ता­वि­द­न्त्वा­व­च्छे­देन रज­त­सं­स­र्ग­का­लेऽ­त्य­न्ता­भा­वोऽ­स्तीति नाव्याप्तिः ।

नन्वस्य लक्ष­ण­स्या­स­म्भवः, शुक्तौ रजतस्य सामग्र्यभावेन संसर्गासत्वात् । न च स्मर्य­मा­ण­स­त्य­र­ज­त­स्यैव परत्र शुक्ता­व­व­भा­स्य­त्वे­ना­ध्य­स्त­त्वो­क्ति­रिति वाच्यम् , अन्य­था­ख्या­ति­प्र­स­ङ्गा­दि­त्यत आह -
स्मृतिरूप इति ।
स्मर्यते इति स्मृतिः सत्यरजतादिः तस्य रूपमिव रूपमस्येति स्मृतिरूपः । स्मर्यमाणसदृश इत्यर्थः । सादृश्योक्त्या स्मर्य­मा­णा­दा­रो­प्यस्य भेदात् , नान्य­था­ख्या­ति­रि­त्युक्तं भवति ।

सादृ­श्य­मु­प­पा­द­यति -
पूर्वदृष्टेति ।
दृष्टं दर्शनम् , संस्कारद्वारा पूर्व­द­र्श­ना­द­व­भा­स्यत इति पूर्व­दृ­ष्टा­व­भासः । तेन संस्का­र­ज­न्य­ज्ञा­न­वि­ष­यत्वं स्मर्य­मा­णा­रो­प्ययोः सादृश्यमुक्तं भवति, स्मृत्यारोपयोः संस्का­र­ज­न्य­त्वात् । न च संस्का­र­ज­न्य­त्वा­दा­रो­पस्य स्मृति­त्वा­प­त्ति­रिति वाच्यम् , दोष­स­म्प्र­यो­ग­ज­न्य­त्व­स्यापि विवक्षितत्वेन संस्का­र­मा­त्र­ज­न्य­त्वा­भा­वात् । अत्र सम्प्रयोगशब्देन अधि­ष्ठा­न­सा­मा­न्य­ज्ञा­न­मु­च्यते, अहङ्काराध्यासे इन्द्रि­य­स­म्प्र­यो­गा­ला­भात् । एवं च दोष­स­म्प्र­यो­ग­सं­स्का­र­ब­ला­च्छु­क्त्यादौ रज­त­मु­त्प­न्न­म­स्तीति पर­त्रा­व­भा­स्य­त्व­ल­क्ष­ण­मु­प­प­न्न­मिति स्मृति­रू­प­पू­र्व­दृ­ष्ट­प­दा­भ्या­मु­प­पा­दि­तम् । अन्ये तु ताभ्यां दोषा­दि­त्र­य­ज­न्यत्वं कार्या­ध्या­स­ल­क्ष­ण­मु­क्त­मि­त्याहुः । अपरे तु स्मृतिरूपः स्मर्यमाणसदृशः, सादृस्यं च प्रमा­णा­ज­न्य­ज्ञा­न­वि­ष­यत्वं स्मृत्यारोपयोः प्रमा­णा­ज­न्य­त्वात् । पूर्व­दृ­ष्ट­प­द­त­ज्जा­ती­य­प­रम् , अभिनवरजतादेः पूर्व­दृ­ष्ट­त्वा­भा­वात् । तथा च प्रमा­णा­ज­न्य­ज्ञा­न­वि­ष­यत्वे सति पूर्व­दृ­ष्ट­जा­ती­यत्वं प्राती­ति­का­ध्या­स­ल­क्षणं ताभ्यामुक्तम् । पर­त्रा­व­भा­स­श­ब्दा­भ्या­म­ध्या­स­मा­त्र­ल­क्षणं व्याख्यातमेव । तत्र स्मर्य­मा­ण­ग­ङ्गादौ अभिनवघटे चाति­व्या­प्ति­नि­रा­साय प्रमाणेत्यादि पदद्वयमित्याहुः । तत्रार्थाध्यासे स्मर्यमाणसदृशः परत्र पूर्व­द­र्श­ना­द­व­भा­स्यत इति योजना । ज्ञानाध्यासे तु स्मृतिसदृशः परत्र पूर्व­द­र्श­ना­द­व­भास इति वाक्यं योजनीयमिति सङ्क्षेपः ।

ननु अध्यासे वादि­वि­प्र­ति­पत्तेः कथ­मु­क्त­ल­क्ष­ण­सि­द्धि­रि­त्या­श­ङ्क्या­धि­ष्ठा­ना­रो­प्य­स्व­रू­प­वि­वा­देऽपि परत्र परावभास इति लक्षणे संवा­दा­द्यु­क्तिभिः सत्याधिष्ठाने मिथ्या­र्था­व­भा­स­सिद्धेः सर्व­त­न्त्र­सि­द्धान्त इदं लक्षणमिति मत्वा अन्य­था­त्म­ख्या­ति­वा­दि­नो­र्म­त­माह -
तं केचिदिति ।
केचि­द­न्य­था­ख्या­ति­वा­दि­नोऽ­न्यत्र शुक्त्या­दा­व­न्य­ध­र्मस्य स्वावयवधर्मस्य देशा­न्त­र­स्थ­रू­प्या­दे­र­ध्यास इति वदन्ति । आत्म­ख्या­ति­वा­दि­नस्तु बाह्यशुक्त्यादौ बुद्धिरूपात्मनो धर्मस्य रजतस्याध्यासः, आन्तरस्य रजतस्य बहिर्वदवभास इति वदन्तीत्यर्थः ।

अख्यातिमतमाह -
केचिदिति ।
यत्र यस्याध्यासो लोक­सि­द्ध­स्त­यो­र­र्थ­यो­स्त­द्धि­योश्च भेदाग्रहे सति तन्मूलो भ्रमः, इदं रूप्यमिति विशिष्टव्यवहार इति वदन्तीत्यर्थः । तैरपि विशि­ष्ट­व्य­व­हा­रा­न्य­था­नु­प­पत्त्या विशि­ष्ट­भ्रान्तेः स्वीकार्यत्वात् , परत्र परा­व­भा­स­स­म्म­ति­रिति भावः ।

शून्यमतमाह -
अन्ये त्विति ।
तस्यै­वा­धि­ष्ठा­नस्य शुक्त्या­दे­र्वि­प­री­त­ध­र्म­त्व­क­ल्पनां विपरीतो विरुद्धो धर्मो यस्य तद्भावस्तस्य रज­ता­दे­र­त्य­न्ता­सतः कल्पनामाचक्षत इत्यर्थः ।

एतेषु मतेषु परत्र परा­व­भा­स­त्व­ल­क्ष­ण­सं­वा­द­माह -
सर्वथापि त्विति ।
अन्य­था­ख्या­ति­त्वा­दि­प्र­का­र­वि­वा­देऽ­प्य­ध्यासः परत्र परा­व­भा­स­त्व­ल­क्षणं न जहातीत्यर्थः । शुक्ता­व­प­रो­क्षस्य रजतस्य देशान्तरे बुद्धौ वा सत्त्वा­यो­गा­त्शू­न्यत्वे प्रत्य­क्ष­त्वा­यो­गात् , शुक्तौ सत्त्वे बाधा­यो­गा­त्मि­थ्या­त्व­मे­वेति भावः ।

आरो­प्य­मि­थ्यात्वे न युक्त्यपेक्षा, तस्या­नु­भ­व­सि­द्ध­त्वा­दि­त्याह -
तथा चेति ।
बाधा­न­न्त­र­का­ली­नोऽ­य­म­नु­भवः, तत्पूर्वं शुक्ति­का­त्व­ज्ञा­ना­यो­गात् , रजतस्य बाध­प्र­त्य­क्ष­सिद्धं मिथ्यात्वं वच्छब्देनोच्यते ।

आत्मनि निरु­पा­धि­केऽ­ह­ङ्का­रा­ध्यासे दृष्टा­न्त­मुक्त्वा ब्रह्म­जी­वा­वा­न्त­र­भे­द­स्या­वि­द्या­द्यु­पा­धि­क­स्या­ध्यासे दृष्टान्तमाह -
एक इति ।
द्विती­य­च­न्द्र­स­हि­त­व­देक एवाङ्गुल्या द्विधा भातीत्यर्थः । लक्ष­ण­प्र­क­र­णो­प­सं­हा­रार्थ इति शब्दः ।

भवत्वध्यासः शुक्त्यादौ, आत्मनि तु न सम्भ­व­ती­त्या­क्षि­पति -
कथं पुनरिति ।

यत्रा­प­रो­क्षा­ध्या­सा­धि­ष्ठा­नत्वं तत्रे­न्द्रि­य­सं­यु­क्तत्वं विषयत्वं चेति व्याप्तिः शुक्त्यादौ दृष्टा । तत्र व्याप­का­भा­वा­दा­त्म­नोऽ­धि­ष्ठा­नत्वं न सम्भ­व­ती­त्य­भि­प्रे­त्याह -
प्रत्यगात्मनीति ।
प्रतीचि पूर्ण इन्द्रि­या­ग्राह्ये विष­य­स्या­ह­ङ्का­रा­दे­स्त­द्ध­र्माणां चाध्यासः कथमित्यर्थः ।

उक्तव्याप्तिमाह -
सर्वो हीति ।
पुरोऽ­व­स्थि­त­त्व­मि­न्द्रि­य­सं­यु­क्त­त्वम् ।

नन्वा­त्म­नोऽ­प्य­धि­ष्ठा­न­त्वार्थं विष­य­त्वा­दि­क­म­स्त्वि­त्यत आह -
युष्मदिति ।
इदं­प्र­त्य­या­न­र्हस्य प्रत्यगात्मनो ‘न चक्षुषा गृह्यते’ इत्यादि श्रुतिमनुसृत्य त्वमविषयत्वं ब्रवीषि । संप्र­त्य­ध्या­स­लो­भेन विष­य­त्वा­ङ्गी­कारे श्रुति­सि­द्धा­न्त­यो­र्बाधः स्यादित्यर्थः ।

आत्म­न्य­ध्या­स­स­म्भा­वनां प्रतिजानीते -
उच्यत इति ।

अधि­ष्ठा­ना­रो­प्य­यो­रे­क­स्मिन् ज्ञाने भास­मा­न­त्व­मा­त्र­म­ध्या­स­व्या­प­कम् , तच्च भान­प्र­यु­क्त­सं­श­य­नि­वृ­त्त्या­दि­फ­ल­भा­क्त्वम् , तदेव भान­भि­न्न­त्व­घ­टितं विषयत्त्वम् , तन्न व्यापकम् , गौरवादिति मत्वाह -
न तावदिति ।
अयमात्मा नियमेनाविषयो न भवति ।

तत्र हेतुमाह -
अस्मदिति ।
अस्म­प्र­त्य­योऽ­ह­मि­त्य­ध्या­स­स्तत्र भास­मा­न­त्वा­दि­त्यर्थः । अस्म­द­र्थ­चि­दात्मा प्रति­बि­म्बि­त­त्वेन यत्र प्रतीयते सोऽस्म­त्प्र­त्य­योऽ­ह­ङ्का­र­स्तत्र भासमानत्वादिति वार्थः । न चाध्यासे सति भासमानत्वं तस्मिन्सति स इति परस्पराश्रय इति वाच्यम् , अनादित्वात् , पूर्वाभ्यासे भासमानात्मन उत्त­रा­ध्या­सा­धि­ष्ठा­न­त्व­स­म्भ­वात् ॥

नन्व­ह­मि­त्य­ह­ङ्का­र­वि­ष­य­क­भा­न­रू­प­स्या­त्मनो भासमानत्वं कथम् , तद्विषयत्वं विना तत्फ­ल­भा­क्त्वा­यो­गा­दि­त्यत आह -
अप­रो­क्ष­त्वा­च्चेति ।
चशब्दः शङ्कानिरासार्थः । स्वप्र­का­श­त्वा­दि­त्यर्थः ।

स्वप्रकाशत्वं साधयति -
प्रत्यगिति ।
आबा­ल­प­ण्डि­त­मा­त्मनः संश­या­दि­शू­न्य­त्वेन प्रसिद्धेः स्वप्र­का­श­त्व­मि­त्यर्थः । अतः स्वप्रकाशत्वेन भास­मा­न­त्वा­दा­त्म­नोऽ­ध्या­सा­धि­ष्ठा­नत्वं सम्भवतीति भावः ।

यदु­क्त­म­प­रो­क्षा­ध्या­सा­धि­ष्ठा­न­त्व­स्ये­न्द्रि­य­सं­यु­क्त­तया ग्राह्यत्वं व्यापकमिति तत्राह -
न चायमिति ।

तत्र हेतुमाह -
अप्र­त्य­क्षेऽ­पीति ।
इन्द्रि­या­ग्रा­ह्येऽ­पी­त्यर्थः । बाला अविवेकिनः तल­मि­न्द्र­नी­ल­क­टा­ह­कल्पं नभो मलिनं पीत­मि­त्ये­व­म­प­रो­क्ष­म­ध्य­स्यन्ति, तत्रे­न्द्रि­य­ग्रा­ह्यत्वं नास्तीति व्यभिचारान्न व्याप्तिः । एते­ना­त्मा­ना­त्मनोः सादृ­श्या­भा­वा­न्ना­ध्यास इत्यपास्तम् , नील­न­भ­सो­स्त­द­भा­वेऽ­प्य­ध्या­स­द­र्श­नात् । सिद्धान्ते आलो­का­का­र­चा­क्षु­ष­वृ­त्त्य­भि­व्य­क्त­सा­क्षि­वे­द्यत्वं नभसि इति ज्ञेयम् ।

सम्भावनां निगमयति -
एवमिति ।

ननु ब्रह्म­ज्ञा­न­ना­श्य­त्वेन सूत्रि­ता­म­विद्यां हित्वा अध्यासः किमिति वर्ण्यत इत्यत आह -
तमेतमिति ।
आक्षिप्तं समा­हि­त­मु­क्त­ल­क्ष­ण­ल­क्षि­त­म­ध्या­स­म­वि­द्या­का­र्य­त्वा­द­वि­द्येति मन्यन्त इत्यर्थः ।

विद्या­नि­व­र्त्य­त्वा­च्चा­स्या­वि­द्या­त्व­मि­त्याह -
तद्विवेकेनेति ।
अध्य­स्त­नि­षे­धे­ना­धि­ष्ठा­न­स्व­रू­प­नि­र्धा­रणं विद्या­म­ध्या­स­नि­व­र्ति­का­मा­हु­रि­त्यर्थः ।

तथापि कारणाविद्यां त्यक्त्वा कार्याविद्या किमिति वर्ण्यते तत्राह -
तत्रेति ।
तस्मिन्नध्यासे उक्त­न्या­ये­ना­वि­द्या­त्मके सतीत्यर्थः । मूलाविद्यायाः सषु­प्ता­व­न­र्थ­त्वा­द­र्श­ना­त्का­र्या­त्मना तस्या अन­र्थ­त्व­ज्ञा­प­नार्थं तद्वर्णनमिति भावः । अध्य­स्त­कृ­त­गु­ण­दो­षा­भ्या­म­धि­ष्ठानं न लिप्यत इत्यक्षरार्थः ।

एवमध्यासस्य लक्षणसम्भावने उक्त्वा प्रमाणमाह -
तमेतमिति ।
तं वर्णितमेतं साक्षि­प्र­त्य­क्ष­सिद्धं पुरस्कृत्य हेतुं कृत्वा लौकिकः कर्मशास्त्रीयो मोक्ष­शा­स्त्री­य­श्चेति त्रिविधो व्यवहारः प्रवर्तत इत्यर्थः |

तत्र विधिनिषेधपराणि कर्म­शा­स्त्रा­ण्यृ­ग्वे­दा­दीनि, विधि­नि­षे­ध­शू­न्य­प्र­त्य­ग्ब्र­ह्म­प­राणि मोक्षशास्त्राणि वेदा­न्त­वा­क्या­नीति विभागः । एवं व्यव­हा­र­हे­तु­त्वे­ना­ध्यासे प्रत्य­क्ष­सि­द्धेऽपि प्रमाणान्तरं पृच्छति -
कथं पुनरिति ।
अवि­द्या­वा­न­ह­मि­त्य­ध्या­स­वा­नात्मा प्रमाता स विषय आश्रयो येषां तानि अवि­द्या­व­द्वि­ष­या­णीति विग्रहः । तत्त­त्प्र­मे­य­व्य­व­हा­र­हे­तु­भू­तायाः प्रमाया अध्या­सा­त्म­क­प्र­मा­त्रा­श्रि­त­त्वा­त्प्र­मा­णा­ना­म­वि­द्या­व­द्वि­ष­यत्वं यद्यपि प्रत्यक्षं तथापि पुनरपि कथं केन प्रमा­णे­ना­वि­द्या­व­द्वि­ष­य­त्व­मिति योजना । यद्वाऽ­वि­द्या­व­द्वि­ष­याणि कथं प्रमाणानि स्युः, आश्र­य­दो­षा­द­प्रा­मा­ण्या­प­त्ते­रि­त्या­क्षेपः ।

तत्र प्रमाणप्रश्ने व्यव­हा­रा­र्था­प­त्तिम् , तल्लिङ्गानुमानं चाह -
उच्यते इत्यादिना तस्मादित्यन्तेन ।
देवदत्तकर्तृको व्यवहारः, तदी­य­दे­हा­दि­ष्व­हं­म­मा­ध्या­स­मूलः, तद­न्व­य­व्य­ति­रे­का­नु­सा­रि­त्वात् , यदित्थं तत्तथा, यथा मृन्मूलो घट इति प्रयोगः ।

तत्र व्यतिरेकं दर्शयति -
देहेति ।
देवदत्तस्य सुषु­प्ता­व­ध्या­सा­भावे व्यवहाराभावो दृष्टः, जाग्र­त्स्व­प्न­यो­र­ध्यासे सति व्यवहार इत्यन्वयः स्फुट­त्वा­न्नोक्तः । अनेन लिङ्गेन कारणतयाध्यासः सिध्यति, व्यव­हा­र­रू­प­का­र्या­नु­प­पत्त्या वेति भावः ।

ननु मनु­ष्य­त्वा­दि­जा­ति­मति देहेऽ­ह­मि­त्या­भि­मा­न­मा­त्रा­द्व्य­व­हारः सिध्यतु किमि­न्द्रि­या­दिषु ममा­भि­मा­ने­ने­त्या­श­ङ्क्याह -
नहीति ।
इन्द्रियपदं लिङ्गा­दे­र­प्यु­प­ल­क्ष­णम् , प्रत्य­क्षा­दी­त्या­दि­प­द­प्र­यो­गात् । तथा च प्रत्य­क्ष­लि­ङ्गा­दि­प्र­युक्तो यो व्यवहारो द्रष्टा अनुमाता श्रोता­ह­मि­त्या­दि­रूपः स इन्द्रियादीनि मम­ता­स्प­दा­न्य­गृ­हीत्वा न सम्भवतीत्यर्थः । यद्वा तानि ममत्वेनानुपादाय यो व्यवहारः स नेति योजना । पूर्व­त्रा­नु­पा­दा­ना­स­म्भ­व­क्रि­य­यो­रेको व्यवहारः कर्ता इति क्त्वाप्रत्ययः साधुः । उत्त­र­त्रा­नु­पा­दा­न­व्य­व­हा­र­यो­रे­का­त्म­क­र्तृ­क­त्वात् , तत्साधुत्वमिति भेदः । इन्द्रियादिषु ममे­त्य­ध्या­सा­भा­वेऽ­न्धा­दे­रिव द्रष्टृ­त्वा­दि­व्य­व­हारो न स्यादिति भावः ।

इन्द्रि­या­ध्या­से­नैव व्यवहारादलं देहा­ध्या­से­ने­त्यत आह -
न चेति ।
इन्द्रि­या­णा­म­धि­ष्ठा­न­मा­श्रयः । शरीरमित्यर्थः ।

नन्वस्त्वात्मना संयुक्तं शरीरं तेषामाश्रयः किम­ध्या­से­ने­त्य­त्राह -
न चान­ध्य­स्ता­त्म­भा­वे­नेति ।
अनध्यस्त आत्मभावः आत्मतादात्म्यं यस्मिन् तेनेत्यर्थः । ‘असङ्गो हि’ इति श्रुतेः, आध्यासिक एव देहात्मनोः सम्बन्धो न संयोगादिरिति भावः ।

नन्वात्मनो देहा­दि­भि­रा­ध्या­सि­क­स­म्ब­न्धोऽपि मास्तु, स्वतश्चेतनतया प्रमा­तृ­त्वो­प­पत्तेः । न च सुषुप्तौ प्रमा­तृ­त्वा­पत्तिः करणोपरमादिति तत्राह -
न चैतस्मिन्निति ।
प्रमाश्रयत्वं हि प्रमातृत्वम् । प्रमा यदि नित्यचिन्मात्रं तर्ह्या­श्र­य­त्वा­योगः करणवैयर्थ्यं च । यदि वृत्तिमात्रम् , जग­दा­न्ध्य­प्र­सङ्गः, वृत्ते­र्ज­ड­त्वात् । अतो वृत्तीद्धो बोधः प्रमा, तदा­श्र­य­त्व­म­स­ङ्ग­स्या­त्मनो वृत्ति­म­न्म­न­स्ता­दा­त्म्या­ध्यासं विना न सम्भवतीति भावः । देहाध्यासे, तद्धर्माध्यासे चास­ती­त्य­क्ष­रार्थः ।

तर्ह्यात्मनः प्रमातृत्वं मास्तु इति वदन्तं प्रत्याह -
न चेति ।

तस्मादात्मनः प्रमा­तृ­त्वा­दि­व्य­व­हा­रा­र्थ­म­ध्या­सोऽ­ङ्गी­क­र्तव्य इत्य­नु­मा­ना­र्था­पत्त्योः फलमुपसंहरति -
तस्मादिति ।
प्रमा­ण­स­त्त्वा­दि­त्यर्थः ।

यद्वा प्रमाणप्रश्नं समाधायाक्षेपं परिहरति -
तस्मादिति ।
अहमित्यध्यासस्य प्रमा­त्र­न्त­र्ग­त­त्वे­ना­दो­ष­त्वात् , अवि­द्या­व­दा­श्र­या­ण्यपि प्रमाणान्येवेति योजना । सति प्रमातरि पश्चाद्भवन् दोष इत्युच्यते, यथा काचादिः । अविद्या तु प्रमा­त्र­न्त­र्ग­त­त्वान्न दोषः, येन प्रत्य­क्षा­दी­ना­म­प्रा­माण्यं भवेदिति भावः ।

ननु यदु­क्त­म­न्व­य­व्य­ति­रे­काभ्यां व्यव­हा­रोऽ­ध्या­स­कार्य इति, तदयुक्तं विदु­षा­म­ध्या­सा­भा­वेऽपि व्यव­हा­र­दृ­ष्टे­रि­त्यत आह -
पश्वादिभिश्चेति ।
चशब्दः शङ्का­नि­रा­सार्थः, किं विद्वत्त्वं ब्रह्मास्मीति साक्षात्कारः उत यौक्ति­क­मा­त्मा­ना­त्म­भे­द­ज्ञा­नम् । आद्ये बाधि­ता­ध्या­सा­नु­वृत्त्या व्यवहार इति समन्वयसूत्रे वक्ष्यते । द्वितीये परो­क्ष­ज्ञा­न­स्या­प­रो­क्ष­भ्रा­न्त्य­नि­व­र्त­क­त्वात् , विवेकिनामपि व्यवहारकाले पश्वा­दि­भि­र­वि­शे­षात् अध्यासवत्त्वेन तुल्य­त्वा­द्व्य­व­हा­रोऽ­ध्या­स­कार्य इति युक्तमित्यर्थः । अत्रायं प्रयोगः विवे­कि­नोऽ­ध्या­स­वन्तः, व्यव­हा­र­व­त्त्वात् , पश्वादिवदिति ।

तत्र सङ्ग्रहवाक्यं व्याकुर्वन् दृष्टान्ते हेतुं स्फुटयति -
यथाहीति ।

विज्ञा­न­स्या­नु­कू­लत्वं प्रतिकूलत्वं चेष्टा­नि­ष्ठ­सा­ध­न­गो­च­र­त्वम् , तदेवोदाहरति -
यथेति ।
अयं दण्डो मदनिष्टसाधनम् , दण्डत्वात् , अनुभूतदण्डवत् , इदं तृणमिष्टसाधनम् अनु­भू­त­जा­ती­य­त्वात् , अनु­भू­त­तृ­ण­व­दि­त्य­नु­माय व्यव­हा­र­न्ती­त्यर्थः ।

अधुना हेतोः पक्षधर्मतामाह -
एवमिति ।
व्युत्प­न्न­चित्ता अपीत्यन्वयः । विवे­कि­नोऽ­पी­त्यर्थः ।

फलितमाह -
अत इति ।
अनु­भ­व­ब­ला­दि­त्यर्थः ।

समान इति ।
अध्या­स­का­र्य­त्वेन तुल्येत्यर्थः ।

नन्वस्माकं प्रवृ­त्ति­र­ध्या­सा­दिति न पश्वादयो ब्रुवन्ति, नापि परे­षा­मे­त­त्प्र­त्य­क्षम् , अतः साध्यविकलो दृष्टान्त इति नेत्याह -
पश्वादीनां चेति ।
तेषा­मा­त्मा­ना­त्म­नो­र्ज्ञा­न­मा­त्र­मस्ति न विवेकः, उपदेशाभावात् । अतः साम­ग्री­स­त्त्वा­द­ध्या­स­स्तेषां प्रसिद्ध इत्यर्थः ।

निगमयति -
तत्सामान्येति ।
तैः पश्वादिभिः सामान्यं व्यवहारवत्त्वं तस्य दर्श­ना­द्वि­वे­कि­ना­म­प्ययं व्यवहारः समान इति निश्चीयत इति सम्बन्धः । समानत्वं व्यव­हा­र­स्या­ध्या­स­का­र्य­त्वे­ने­त्युक्तं पुरस्तात् ।

तत्रो­क्ता­न्व­य­व्य­ति­रेकौ स्मारयति -
तत्काल इति ।
तस्याध्यासस्य काल एव कालो यस्य स तत्कालः । यदा अध्यासस्तदा व्यवहारः, तदभावे सुषुप्तौ तदभाव इत्यु­क्ता­न्व­या­दि­मा­निति यावत् । अतो व्यव­हा­र­लि­ङ्गा­द्वि­वे­कि­ना­मपि देहा­दि­ष्व­हं­म­मा­भि­मा­नोऽ­स्ती­त्य­न­व­द्यम् ।

ननु लौकि­क­व्य­व­हा­र­स्या­ध्या­सि­क­त्वेऽपि ज्योति­ष्टो­मा­दि­व्य­व­हा­रस्य नाध्या­स­ज­न्य­त्वम् , तस्य देहा­ति­रि­क्ता­त्म­ज्ञा­न­पू­र्व­क­त्वा­दि­त्या­शङ्क्य हेतुमङ्गीकरोति -
शास्त्रीये त्विति ।

तर्हि कथं वैदि­क­क­र्म­णोऽ­ध्या­स­ज­न्य­त्व­सि­द्धि­रि­त्या­शङ्क्य किं तत्र देहा­न्या­त्म­धी­मा­त्र­म­पे­क्षि­त­मुत, आत्म­त­त्त्व­ज्ञा­नम् , आद्ये तस्या­ध्या­सा­बा­ध­क­त्वा­त्त­त्सि­द्धि­रि­त्याह -
तथापीति ।

न द्वितीय इत्याह -
न वेदान्तेति ।
क्षुत्पि­पा­सा­दि­ग्रस्तो जातिविशेषवानहं संसारीति ज्ञानं कर्मण्यपेक्षितं न तद्वि­प­री­ता­त्म­त­त्त्व­ज्ञा­नम् , अनु­प­यो­गा­त्प्र­वृ­त्ति­बा­धा­च्चे­त्यर्थः ।

शास्त्री­य­क­र्म­णोऽ­ध्या­स­ज­न्यत्वं निगमयति -
प्राक्चेति ।

अध्यासे आगमं प्रमाणयति -
तथा हीति ।
यथा प्रत्य­क्षा­नु­मा­ना­र्था­प­त्त­योऽ­ध्यासे प्रमाणं तथा­ग­मोऽ­पी­त्यर्थः । ‘ब्राह्मणो यजेत’, ‘न ह वै स्नात्वा भिक्षेत’, ‘अष्टवर्षं ब्राह्म­ण­मु­प­न­यीत’, ‘कृष्ण­के­शोऽ­ग्नी­ना­द­धीत’ इत्यागमो ब्राह्म­णा­दि­प­दै­र­धि­का­रिणं वर्णा­द्य­भि­मा­नि­न­म­नु­व­द­न्न­ध्यासं गमयतीति भावः ।

एवमध्यासे प्रमाणसिद्धेऽपि कस्य कुत्राध्यास इति जिज्ञासायां तमुदाहर्तुं लक्षणं स्मारयति -
अध्यासो नामेति ।

उदाहरति -
तद्यथेति ।
तल्लक्षणं यथा स्पष्टं भवति तथोदाह्रियत इत्यर्थः । स्वदेहाद्भेदेन प्रत्यक्षाः पुत्रादयो बाह्याः तद्ध­र्मा­न्सा­क­ल्या­दी­न्दे­ह­वि­शि­ष्टा­त्म­न्य­ध्य­स्यति, तद्ध­र्म­ज्ञा­ना­त्स्व­स्मि­न्स्त­त्तु­ल्य­ध­र्मा­न­ध्य­स्य­ती­त्यर्थः । भेदा­प­रो­क्ष­ज्ञाने तद्ध­र्मा­ध्या­सा­यो­गात् , अन्य­था­ख्या­त्य­न­ङ्गी­का­रा­च्चेति द्रष्टव्यम् ।

देहे­न्द्रि­य­ध­र्मा­न्म­नो­वि­शि­ष्टा­त्म­न्य­ध्य­स्य­ती­त्याह -
तथेति ।
कृश­त्वा­दि­ध­र्म­वतो देहादेरात्मनि तादात्म्येन कल्पि­त­त्वा­त्त­द्धर्माः साक्षा­दा­त्म­न्य­ध्यस्ता इति मन्तव्यम् ।

अज्ञा­त­प्र­त्य­ग्रूपे साक्षिणि मनो­ध­र्मा­ध्या­स­माह -
तथान्तःकरणेति ।

धर्मा­ध्या­स­मुक्त्वा तद्वदेव धर्म्यध्यासमाह -
एवमिति ।
अन्तःकरणं साक्षि­ण्य­भे­दे­ना­ध्यस्य तद्धर्मान् कामा­दी­न­ध्य­स्य­तीति मन्तव्यम् । स्वप्रचारा मनोवृत्तयः । प्रति - प्राति­लो­म्ये­ना­स­ज्ज­ड­दुः­खा­त्म­का­ह­ङ्का­रा­दि­वि­ल­क्ष­ण­तया सच्चि­त्सु­खा­त्म­क­त्वे­ना­ञ्चति प्रकाशत इति प्रत्यक् ।

एव­मा­त्म­न्य­ना­त्म­त­द्ध­र्मा­ध्या­स­मु­दा­हृ­त्या­ना­त्म­न्या­त्म­नोऽपि संसृ­ष्ट­त्वे­ना­ध्या­स­माह -
तञ्चेति ।
अहमित्यध्यासे चिदात्मनो भानं वाच्यम् , अन्यथा जग­दा­न्ध्या­पत्तेः । न चान­ध्य­स्त­स्या­ध्यासे भानमस्ति । तस्मा­द्र­ज­ता­दा­वि­दम् इवात्मनः संसर्गाध्यास एष्टव्यः ।

तद्विपर्ययेणेति ।
तस्याध्यस्तस्य जडस्य विप­र्य­योऽ­धि­ष्ठा­न­त्वम् , चैतन्यं च तदात्मना स्थितमिति यावत् । तत्राज्ञाने केवलात्मना संसर्गः, मन­स्य­ज्ञा­नो­प­हि­तस्य देहादौ मन उपहितस्येति विशेषः । एवमात्मनि बुद्ध्या­द्य­ध्या­सा­त्क­र्तृ­त्वा­दि­लाभः, बुद्ध्यादौ चात्मा­ध्या­सा­च्चै­त­न्य­लाभ इति भावः ।

वर्णि­ता­ध्या­स­मु­प­सं­ह­रति -
एवमयमिति ।
अना­द्य­वि­द्या­त्म­क­तया कार्या­ध्या­स­स्या­ना­दि­त्व­म­ध्या­सा­त्सं­स्का­र­स्त­तोऽ­ध्यास इति । प्रवाहतो नैसर्गिकत्वम् । एवमुपादानं निमित्तं चोक्तं भवति । ज्ञानं विना ध्वंसा­भा­वा­दा­न­न्त्यम् । तदुक्तं भगवद्गीतासु ‘न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा’ इति ।

हेतुमुक्त्वा स्वरूपमाह -
मिथ्येति ।
मिथ्या माया तया प्रतीयत इति प्रत्ययः कार्यप्रपञ्चः तत्प्र­ती­ति­श्चे­त्ये­वं­स्व­रूप इत्यर्थः ।

तस्य कार्यमाह -
कर्तृत्वेति ।

प्रमाणं निगमयति -
सर्वेति ।
साक्षि­प्र­त्य­क्ष­मे­वा­ध्या­स­ध­र्मि­ग्रा­हकं मानम् , अनुमानादिकं तु सम्भा­वा­ना­र्थ­मि­त्य­भि­प्रेत्य प्रत्य­क्षो­प­सं­हारः कृतः ।

एवमध्यासं वर्णयित्वा तत्साध्ये विषयप्रयोजने दर्शयति -
अस्येति ।

कर्तृ­त्वा­द्य­न­र्थ­हे­तो­र­ध्या­सस्य समू­ल­स्या­त्य­न्ति­क­नाशो मोक्षः स केनेत्यत आह -
आत्मेति ।
ब्रह्मा­त्मै­क्य­सा­क्षा­त्का­रस्य प्रतिपत्तिः श्रव­णा­दि­भि­र­प्र­ति­ब­न्धेन लाभस्तस्या इत्यर्थः ।

विद्यायां कारणमाह -
सर्व इति ।
आरभ्यन्ते अधीत्य विचार्यन्ते इत्यर्थः । विचा­रि­त­वे­दा­न्तानां ब्रह्मात्मैक्यं विषयः, मोक्षः फलमित्युक्तं भवति । अर्था­त्त­द्वि­चा­रा­त्म­क­शा­स्त्र­स्यापि ते एव विषयप्रयोजने इति ज्ञेयम् ।

ननु वेदान्तेषु प्राणा­द्यु­पा­स्तीनां भाना­दा­त्मै­क्य­मेव तेषामर्थ इति कथमित्यत आह -
यथा चेति ।
शरीरमेव शरीरकम् , कुत्सितत्वात् , तन्निवासी शारीरको जीवस्तस्य ब्रह्मत्वविचारो मीमांसा तस्यामित्यर्थः । उपास्तीनां चित्तै­का­ग्र्य­द्वा­रा­त्मै­क्य­ज्ञा­ना­र्थ­त्वा­त्त­द्वा­क्या­ना­मपि महा­ता­त्प­र्य­मैक्ये इति वक्ष्यते । एवमध्यासोक्त्या ब्रह्मात्मैक्ये विरोधाभावेन विष­य­प्र­यो­ज­न­व­त्वा­च्छा­स्त्र­मा­र­म्भ­णी­य­मिति दर्शितम् ॥
॥ इति प्रथमवर्णकम् ॥

विचारस्य साक्षाद्विषया वेदान्ताः, तेषां गता­र्थ­त्वा­ग­ता­र्थ­त्वा­भ्या­मा­र­म्भ­स­न्देहे कृत्स्नस्य वेदस्य विधिपरत्वात् , विधेश्च ‘अथातो धर्मजिज्ञासा’ इत्यादिना पूर्वतन्त्रेण विचारितत्वात् , अवगतार्था एव वेदान्ता इत्य­व्य­व­हि­त­वि­ष­या­भा­वा­न्ना­रम्भ इति प्राप्ते ब्रूते -
वेदान्तेति ।
वेदा­न्त­वि­ष­य­क­पू­जि­त­वि­चा­रा­त्म­क­शा­स्त्रस्य व्याख्या­तु­मि­ष्टस्य सूत्र­स­न्द­र्भ­स्येदं प्रथ­म­सू­त्र­मि­त्यर्थः । यदि विधिरेव वेदार्थः स्यात्तदा सर्वज्ञो बादरायणो ब्रह्मजिज्ञासां न ब्रूयात् , ब्रह्मणि मानाभावात् । अतो ब्रह्मणो जिज्ञा­स्य­त्वोक्त्या केनापि तन्त्रे­णा­न­व­ग­त­ब्र­ह्म­प­र­वे­दा­न्त­वि­चार आरम्भणीय इति सूत्र­कृ­द्द­र्श­यति । तच्च ‘व्याचि­ख्या­सि­तस्य’ इति पदेन भाष्यकारो बभाषे ॥
॥ इति द्वितीयवर्णकम् ॥

एवं वर्णकद्वयेन वेदान्तविचारस्य कर्तव्यतायां विष­य­प्र­यो­ज­न­व­त्त्व­म­ग­ता­र्थत्वं चेति हेतुद्वयं सूत्र­स्या­र्थि­कार्थं व्याख्या­या­क्ष­र­व्या­ख्या­मा­र­भ­माणः पुन­र­प्य­धि­का­रि­भा­वा­भा­वाभ्यां शास्त्रा­र­म्भ­स­न्देहे सति अथ­श­ब्द­स्या­न­न्त­र्या­र्थ­क­त्वोक्त्या अधिकारिणं साधयति -
तत्राथशब्द इति ।
सूत्र इत्यर्थः ।

‘मङ्ग­ला­न­न्त­रा­र­म्भ­प्र­श्न­का­र्त्स्न्ये­ष्वथो अथ’ इत्यथशब्दस्य बहवोऽर्थाः सन्ति । तत्र ‘अथ योगानुशासनम्’ इत्यत्र सूत्रे यथा अथशब्द आरम्भार्थकः योग­शा­स्त्र­मा­र­भ्यत इति तद्वदत्र किं न स्यादित्यत आह -
नाधिकारार्थ इति ।
अयमाशयः - किं जिज्ञासापदं ज्ञानेच्छापरमुत विचारलक्षकम् ? आद्येऽ­थ­श­ब्द­स्या­र­म्भा­र्थत्वे ब्रह्म­ज्ञा­ने­च्छा­र­भ्यत इति सूत्रार्थः स्यात्स चासङ्गतः, तस्या अनारभ्यत्वात् । न हि प्रत्य­धि­क­र­ण­मिच्छा क्रियते किन्तु तया विचारः । न द्वितीयः, कर्त­व्य­प­दा­ध्या­हारं विना विचा­र­ल­क्ष­क­त्वा­यो­गात् , अध्याहृते च तेनै­वा­र­म्भो­क्ते­र­थ­श­ब्द­वै­य­र्थ्यात् । किन्त्व­धि­का­रि­सि­द्ध्य­र्थ­मा­न­न्त­र्या­र्थ­तैव युक्तेति ।

अधुना सम्भा­वि­त­म­र्था­न्तरं दूषयति -
मङ्गलस्येति ।
वाक्यार्थो विचारकर्तव्यता न हि तत्र मङ्गलस्य कर्तृ­त्वा­दि­ना­न्व­योऽ­स्ती­त्यर्थः ।

ननु सूत्रकृता शास्त्रादौ मङ्गलं कार्य­मि­त्य­थ­शब्दः प्रत्युक्त इति चेत्सत्यम् , न तस्यार्थो मङ्गलं किन्तु तच्छ्र­व­ण­मु­च्चा­रणं च मङ्गलकृत्यं करोति । तद­र्थ­स्त्वा­न­न्त­र्य­मे­वे­त्याह -
अर्थान्तरेति ।
अर्था­न्त­र­मा­न­न्त­र्यम् । श्रुत्या श्रवणेन शङ्ख­वी­णा­दि­ना­द­श्र­व­ण­व­दो­ङ्का­रा­थ­श­ब्दयोः श्रवणं मङ्गलफलकम् ।
‘ओङ्का­र­श्चा­थ­श­ब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मा­न्मा­ङ्ग­लि­का­विमौ ॥ ’
इति स्मरणादिति भावः ।

ननु प्रपञ्चो मिथ्येति प्रकृते सति, अथ मतं प्रपञ्चः सत्य इत्यत्र पूर्व­प्र­कृ­ता­र्था­दु­त्त­रा­र्थ­स्या­र्था­न्त­र­त्वा­र्थोऽ­थ­शब्दो दृष्टः, तथात्र किं न स्यादित्यत आह -
पूर्वेति ।
फलतः फलस्येत्यर्थः । ब्रह्म­जि­ज्ञा­सायाः पूर्वम् अर्थविशेषः प्रकृतो नास्ति यस्मात्तस्या अर्था­न्त­र­त्व­म­थ­श­ब्दे­नो­च्येत । यतः कुत­श्चि­द­र्था­न्त­रत्वं सूत्रकृता न वक्तव्यम् , फलाभावात् । यदि फलस्य जिज्ञा­सा­प­दो­क्त­क­र्त­व्य­वि­चा­रस्य हेतुत्वेन यत्पूर्वं प्रकृतं तद­पे­क्षा­स्ती­त्य­पे­क्षा­ब­ला­त्प्र­कृ­त­हे­तु­मा­क्षिप्य ततोऽ­र्था­न्त­र­त्व­मु­च्यते, तदा­र्था­न्त­र­त्व­मा­न­न्त­र्येऽ­न्त­र्भ­वति हेतु­फ­ल­भा­व­ज्ञा­ना­या­न­न्त­र्य­स्या­वश्यं वाच्यत्वात् । तस्मा­दि­द­म­र्था­न्त­र­मि­त्युक्ते तस्य हेतु­त्वा­प्र­तीतेः । तस्मा­दि­द­म­न­न्त­र­मि­त्युक्ते भवत्येव हेतुत्वप्रतीतिः । न चाश्वादनन्तरो गौरित्यत्र हेतु­त्व­भा­ना­प­त्ति­रिति वाच्यम् , तयोर्देशतः कालतो वा व्यव­धा­ने­ना­न­न्त­र्य­स्या­मु­ख्य­त्वात् । अतः सामग्रीफलयोरेव मुख्य­मा­न­न्त­र्यम् , अव्यवधानात् । तस्मिन्नुक्ते सत्य­र्था­न्त­रत्वं न वाच्यं ज्ञान­त्वा­द्वै­फ­ल्या­च्चेति भावः । फलस्य विचारस्य पूर्व­प्र­कृ­त­हे­त्व­पे­क्षाया बला­द्य­द­र्था­न्त­रत्वं तस्या­न­न्त­र्या­भे­दात् न पृथ­ग­थ­श­ब्दा­र्थ­त्व­मि­त्य­ध्या­हृत्य भाष्यं योजनीयम् । यद्वा पूर्व­प्र­कृ­तेऽ­र्थेऽ­पेक्षा यस्या अर्था­न्त­र­ता­या­स्तस्याः फलं ज्ञानं तद्द्वा­रा­न­न्त­र्या­व्य­ति­रे­का­त्त­ज्ज्ञाने तस्याः ज्ञान­तोऽ­न्त­र्भा­वा­न्ना­थ­श­ब्दा­र्थ­ते­त्यर्थः ।

नन्वा­न­न्त­र्या­र्थ­क­त्वेऽ­प्या­न­न्त­र्य­स्या­वधिः क इत्याशङ्क्याह -
सति चेति ।
यन्नियमेन पूर्ववृत्तं पूर्वभावि असाधारणकारणं पुष्कलकारणमिति यावत् , तदेवावधिरिति वक्त­व्य­मि­त्यर्थः ।

नन्वस्तु धर्मविचार इव ब्रह्मविचारेऽपि वेदाध्ययनं पुष्क­ल­का­र­ण­मि­त्यत आह -
स्वाध्यायेति ।
समानं ब्रह्मविचारे साधारणकारणं न पुष्क­ल­का­र­ण­मि­त्यर्थः ।

ननु संयो­ग­पृ­थ­क्त्व­न्या­येन ‘यज्ञेन दानेन’ इत्यादिश्रुत्या ‘यज्ञादिकर्माणि ज्ञानाय विधीयन्ते’ इति सर्वा­पे­क्षा­धि­क­रणे वक्ष्यते । तथा च पूर्वतन्त्रेण तदवबोधः पुष्कलकारणमिति शङ्कते -
नन्विति ।
इह ब्रह्म­जि­ज्ञा­सायां विशेषोऽसाधारणं कारणम् । [‘एकस्य तूभयार्थत्वे संयोगपृथक्त्व’ इति जैमिनीसूत्रम् , तदर्थस्तु - एकस्य कर्मण उभ­या­र्थ­त्वेऽ­ने­क­फ­ल­स­म्बन्धे संयोगः उभयसम्बन्धबोधकं वाक्यं तस्य पृथक्त्वं भेदः स हेतुः । ततश्चात्रापि ज्योति­ष्टो­मा­दि­क­र्मणां स्वर्गा­दि­फ­ल­का­ना­मपि ‘यज्ञेन दानेन’ इत्यादि वचनात् ज्ञानार्थत्वं चेति । ]

परिहरति -
नेत्यादिना ।
अयमाशयः - न ताव­त्पू­र्व­त­न्त्रस्थं न्यायसहस्रं ब्रह्मज्ञाने तद्विचारे वा पुष्कलं कारणम् , तस्य धर्म­नि­र्ण­य­मा­त्र­हे­तु­त्वात् । नापि कर्मनिर्णयः, तस्या­नु­ष्ठा­न­हे­तु­त्वात् । न हि धूमाग्न्योरिव धर्म­ब्र­ह्म­णो­र्व्या­प्ति­रस्ति, यया धर्मज्ञानात् ब्रह्मज्ञानं भवेत् । यद्यपि शुद्धि­वि­वे­का­दि­द्वारा कर्माणि हेतवः, तथापि तेषां नाधि­का­रि­वि­शे­ष­ण­त्वम् , अज्ञातानां तेषां जन्मा­न्त­र­कृ­ता­ना­मपि फलहेतुत्वात् । अधिकारिविशेषणं ज्ञायमानं प्रवृ­त्ति­पु­ष्क­ल­का­र­ण­मा­न­न्त­र्या­व­धि­त्वेन वक्तव्यम् । अतः कर्माणि, तदवबोधः, तन्न्यायविचारो वा नावधिरिति न ब्रह्म­जि­ज्ञा­साया धर्म­जि­ज्ञा­सा­न­न्त­र्य­मिति ।

ननु धर्म­ब्र­ह्म­जि­ज्ञा­सयोः कार्य­का­र­ण­त्वा­भा­वेऽ­प्या­न­न्त­र्यो­क्ति­द्वारा क्रम­ज्ञा­ना­र्थोऽ­थ­शब्दः । ‘हृद­य­स्या­ग्रेऽ­व­द्य­त्यथ जिह्वाया अथ वक्षसः’ इत्यवदानानां क्रम­ज्ञा­ना­र्था­थ­श­ब्द­व­दि­त्या­श­ङ्क्याह -
यथेति ।
अव­दा­ना­ना­मा­न­न्त­र्य­नि­यमः क्रमो यथा­थ­श­ब्दा­र्थ­स्तस्य विवक्षितत्वात् न तथेह धर्म­ब्र­ह्म­जि­ज्ञा­सयोः क्रमो विवक्षितः, एक­क­र्तृ­क­त्वा­भा­वेन तयोः क्रमानपेक्षणात् । अतो न क्रमार्थोऽथशब्द इत्यर्थः ।

ननु तयो­रे­क­क­र्तृ­कत्वं कुतो नास्तीत्यत आह -
शेषेति ।
येषा­मे­क­प्र­धा­न­शे­षता, यथावदानानां प्रयाजादीनां च । ययोश्च शेषशेषित्वम् , यथा प्रयाजदर्शयोः । यस्य चाधि­कृ­ता­धि­का­र­त्वम् , यथा अपां प्रणयनं दर्श­पू­र्ण­मा­सा­ङ्ग­मा­श्रित्य ‘गोदोहनेन पशुकामस्य’ इति विहितस्य गोदोहनस्य । यथा वा ‘दर्श­पू­र्ण­मा­सा­भ्या­मिष्ट्वा सोमेन यजेत’ इति दर्शा­द्यु­त्त­र­काले विहितस्य सोमयागस्य दर्शा­द्य­धि­कृ­ता­धि­का­रत्वं तेषा­मे­क­क­र्तृ­कत्वं भवति । तत­श्चै­क­प्र­यो­ग­व­च­न­गृ­ही­तानां तेषां युग­प­द­नु­ष्ठा­न­स­म्भ­वा­त्क्र­मा­का­ङ्क्षायां श्रुत्या­दि­भिर्हि क्रमो बोध्यते, नैवं जिज्ञासयोः शेषशेषित्वे श्रुति­लि­ङ्गा­दिकं मानमस्ति । ननु ‘ब्रह्मचर्यं समाप्य गृही भवेत् गृहाद्वनी भूत्वा प्रव्रजेच्च’ इति श्रुत्या,
‘अधीत्य विधिवद्वेदान् पुत्रानुत्पाद्य धर्मतः ।
इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत्’ ।
इति स्मृत्या चाधि­कृ­ता­धि­का­रत्वं भातीति तन्न । ‘ब्रह्मचर्यादेव प्रव्रजेत्’ । ‘आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे । ’ इति श्रुति­स्मृ­तिभ्यां त्वयो­दा­हृ­त­श्रु­ति­स्मृ­त्यो­र­शु­द्ध­चि­त्त­वि­ष­य­त्वा­व­ग­मात् । एतदुक्तं भवति यदि जन्मा­न्त­र­कृ­त­क­र्मभिः शुद्धं चित्तं तदा ब्रह्मचर्यादेव संन्यस्य ब्रह्म जिज्ञासितव्यम् , यदा न शुद्धमिति रागेण ज्ञायते तदा गृही भवेत् , तत्राप्यशुद्धौ वनीभवेत् , तत्राप्यशुद्धौ तथैव कालमाकलयेत् , वने शुद्धौ प्रव्रजेदिति । तथा च श्रुतिः - ‘यदहरेव विरजेत्तदहरेव प्रव्रजेत्’ इति । तस्मा­न्ना­न­यो­र­धि­कृ­ता­धि­का­रत्वे किञ्चिन्मानमिति भावः ।

ननु मीमांसयोः शेष­शे­षि­त्व­म­धि­कृ­ता­धि­का­रत्वं च मास्तु । एक­मो­क्ष­फ­ल­क­त्वे­नै­क­क­र्तृ­कत्वं स्यादेव । वदन्ति हि - ‘ज्ञान­क­र्माभ्यां मुक्तिः’ इति समुच्चयवादिनः । एव­मे­क­वे­दा­र्थ­जि­ज्ञा­स्य­क­त्वा­च्चै­क­क­र्तृ­क­त्वम् । तथा चाग्ने­या­दि­ष­ड्या­गा­ना­मे­क­स्व­र्ग­फ­ल­का­नाम् , द्वाद­शा­ध्या­यानां चैक­ध­र्म­जि­ज्ञा­स्य­कानां क्रमवत्तयोः क्रमो विवक्षित इति क्रमार्थोऽथशब्द इत्यशङ्क्याह -
फलेति ।
फल­भे­दा­ज्जि­ज्ञा­स्य­भे­दाच्च न क्रमो विवक्षित इत्यनुषङ्गः । यथा सौर्या­र्य­म्ण­प्रा­जा­प­त्य­च­रूणां ब्रह्म­व­र्च­स­स्व­र्गा­युः­फ­ल­भे­दात् , यथा वा काम­चि­कि­त्सा­त­न्त्र­यो­र्जि­ज्ञा­स्य­भे­दान्न क्रमापेक्षा तद्व­न्मी­मां­स­योर्न क्रमापेक्षेति भावः ।

तत्रफलभेदं विवृणोति -
अभ्युदयेति ।
विष­या­भि­मु­ख्ये­नो­दे­ती­त्य­भ्यु­दयो विषयाधीनं सुखं स्वर्गादिकं तच्च धर्म­ज्ञा­न­हे­तो­र्मी­मां­सायाः फलमित्यर्थः ।

न केवलं फलस्य स्वरूपतो भेदः किन्तु हेतुतोऽपीत्याह -
तच्चेति ।

ब्रह्म­ज्ञा­न­हे­तो­र्मी­मां­सायाः फलं तु तद्वि­रु­द्ध­मि­त्याह -
निश्रेयसेति ।
नित्यं निरपेक्षं श्रेयो निश्रेयसं मोक्ष­स्त­त्फ­ल­मि­त्यर्थः ।

ब्रह्मज्ञानं च स्वोत्प­त्ति­व्य­ति­रि­क्त­म­नु­ष्ठानं नापेक्षत इत्याह -
न चेति ।
स्वरूपतो हेतुतश्च फलभेदान्न समुच्चय इति भावः ।

जिज्ञास्यभेदं विवृणोति -
भव्यश्चेति ।
भवतीति भव्यः । साध्य इत्यर्थः ।

साध्यत्वे हेतुमाह -
नेति ।

तर्हि तुच्छत्वम् , नेत्याह -
पुरुषेति ।
पुरुषव्यापारः प्रय­त्न­स्तन्त्रं हेतुर्यस्य तत्त्वा­दि­त्यर्थः । कृति­सा­ध्य­त्वा­त्कृ­ति­ज­न­क­ज्ञा­न­काले धर्मस्यासत्वं न तुच्छ­त्वा­दि­त्यर्थः ।

ब्रह्मणो धर्मा­द्वै­ल­क्ष­ण्य­माह -
इह त्विति ।
उत्त­र­मी­मां­सा­या­मि­त्यर्थः । भूतमसाध्यम् ।

तत्र हेतुः -
नित्येति ।
सदा सत्वादित्यर्थः ।

साध्या­सा­ध्य­त्वेन धर्मब्रह्मणोः स्वरू­प­भे­द­मुक्त्वा हेतुतोऽप्याह -
नेति ।
धर्म­व­त्कृ­त्य­धीनं नेत्यर्थः ।

मानतोऽपि भेदमाह -
चोदनेति ।
अज्ञातज्ञापकं वाक्यमत्र चोदना । तस्याः प्रवृ­त्ति­र्बो­ध­कत्वं तद्वै­ल­क्ष­ण्याच्च जिज्ञास्यभेद इत्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति -
या हीति ।
लक्षणं प्रमाणं ‘स्वर्गकामो यजेत’ इत्यादिवाक्यं हि स्वविषये धर्मे यागा­दि­क­र­ण­स्व­र्गा­दि­फ­ल­क­भा­व­ना­रूपे फल­हे­तु­या­गा­दि­गो­च­र­नि­योगे वा हितसाधने यागादौ वा पुरुषं प्रव­र्त­य­दे­वा­व­बो­ध­यति । ‘अयमात्मा ब्रह्म’ इत्यादि त्वमर्थं केवलमप्रपञ्चं ब्रह्म बोधयत्वेव न प्रवर्तयति विष­या­भा­वा­दि­त्यर्थः ।

नन्ववबोध एव विषयस्तत्राह -
न पुरुष इति ।

ब्रह्मचोदनया पुरुषोऽवबोधे न प्रवर्तत इत्यत्र हेतुं पूर्ववाक्येनाह -
अवबोधस्येति ।

स्वजन्यज्ञाने स्वयं प्रमाणं न प्रव­र्त­क­मि­त्यत्र दृष्टान्तमाह -
यथेति ।
मानादेव बोधस्य जातत्वात् , जाते च विध्ययोगात् , न वाक्यार्थज्ञाने पुरुषप्रवृत्तिः । तथा च प्रवर्तकमानमेयो धर्मः, उदासीनमानमेयं ब्रह्म, इति जिज्ञास्यभेदात् , न तन्मीमांसयोः क्रमार्थोऽथशब्द इति भावः ।

एव­म­थ­श­ब्द­स्या­र्था­न्त­रा­स­म्भ­वात् आन­न्त­र्य­वा­चित्वे सति तदवधित्वेन पुष्कलकारणं वक्तव्यमित्याह -
तस्मादिति ।

उपदिश्यते ।
सूत्रकृतेति शेषः ।

तत्किमित्यत आह -
उच्यत इति ।
विवे­का­दी­ना­मा­ग­मि­क­त्वेन प्रामाणिकत्वं पुर­स्ता­दे­वो­क्तम् । लौकिकव्यापारात् मनस उपरमः शमः बाह्य­क­र­णा­ना­मु­प­रमो दमः । ज्ञानार्थं विहि­त­नि­त्या­दि­क­र्म­स­न्यास उपरतिः । शीतो­ष्णा­दि­द्व­न्द्व­स­हनं तितिक्षा । निद्रा­ल­स्य­प्र­मा­द­त्या­गेन मनःस्थितिः समाधानम् । सर्वत्रास्तिकता श्रद्धा । एत­त्ष­ट्क­प्राप्तिः शमादिसम्पत् । अत्र विवे­का­दी­ना­मु­त्त­रो­त्त­र­हे­तु­त्वे­ना­धि­का­रि­वि­शे­ष­णत्वं मन्तव्यम् ।

तेषा­म­न्व­य­व्य­ति­रे­काभ्यां ब्रह्म­जि­ज्ञा­सा­हे­तु­त्व­माह -
तेष्विति ।
यथा­क­थ­ञ्चि­त्कु­तू­ह­लि­तया ब्रह्म­वि­चा­र­प्र­वृ­त्त­स्यापि फलपर्यन्तं तज्ज्ञा­ना­नु­द­या­द्व्य­ति­रे­क­सिद्धिः ।

अथ­श­ब्द­व्या­ख्या­न­मु­प­सं­ह­रति -
तस्मादिति ।

ननू­क्त­वि­वे­का­दिकं न सम्भवति, ‘अक्षय्यं ह वै चातु­र्मा­स्य­या­जिनः सुकृतम्’ इत्यादिश्रुत्या कर्मफलस्य नित्यत्वेन ततो वैराग्यसिद्धेः । जीवस्य ब्रह्म­स्व­रू­प­मो­क्ष­श्चा­युक्तः, भेदात्तस्य लोष्टा­दि­व­त्पु­रु­षा­र्थ­त्वा­यो­गाच्च । ततो न मुमुक्षासम्भव इत्या­क्षे­प­प­रि­हा­रा­र्थोऽ­तः­शब्दः तं व्याचष्टे -
अतःशब्द इति ।
अथ­श­ब्दे­ना­न­न्त­र्य­वा­चिना तद­व­धि­त्वे­ना­र्था­द्वि­वे­का­दि­च­तु­ष्ट­यस्य ब्रह्म­जि­ज्ञा­सा­हे­तुत्वं यदुक्तं तस्या­र्थि­क­हे­तु­त्व­स्या­क्षे­प­नि­रा­सा­या­नु­वा­द­कोऽ­तः­शब्द इत्यर्थः ।

उक्तं विवृणोति -
यस्मादिति ।
तस्मा­दि­त्यु­त्त­रेण सम्बन्धः । ‘यदल्पं तन्मर्त्य’ ‘यत्कृतकं तदनित्यम्’ इति न्यायवती ‘तद्यथेह’ इत्यादिश्रुतिः कर्म­फ­ला­क्ष­य­त्व­श्रु­ते­र्बा­धका । तस्मात् अतोऽन्यदार्तम्’ इति श्रुत्या अना­त्म­मा­त्र­स्या­नि­त्य­त्व­वि­वे­कात् वैराग्यलाभ इति भावः ।

मुमुक्षां सम्भावयति -
तथेति ।
यथा वेदः कर्म­फ­ला­नि­त्यत्वं दर्शयति, तथा ब्रह्मज्ञानात् प्रशा­न्त­शो­का­नि­ल­म­पारं स्वय­ञ्ज्यो­ति­रा­नन्दं दर्शयतीत्यर्थः । जीव­त्वा­दे­र­ध्या­सोक्त्या ब्रह्मत्वसम्भव उक्त एवेति भावः ।

एव­म­था­तः­श­ब्दाभ्यां पुष्क­ल­का­र­ण­व­तोऽ­धि­का­रिणः समर्थनात् शास्त्र­मा­र­ब्ध­व्य­मि­त्याह -
तस्मादिति ।

सुत्र­वा­क्य­पू­र­णा­र्थ­म­ध्या­हृ­त­क­र्त­व्य­प­दा­न्व­यार्थं ब्रह्म­जि­ज्ञा­सा­प­देन विचारं लक्षयितुं तस्य स्वाभि­म­त­स­मा­स­क­थ­ने­ना­व­य­वार्थं दर्शयति -
बह्मण इति ।
ननु धर्माय जिज्ञासा इतिवत् ब्रह्मणे जिज्ञासेति चतुर्थीसमासः किं न स्यादिति चेत् । उच्यते जिज्ञासा पदस्य हि मुख्या­र्थ­मिच्छा, तस्याः प्रथमं कर्म­का­र­क­म­पे­क्षितं पश्चात्फलम् , ततश्चादौ कर्मज्ञानार्थं षष्ठीसमासो युक्तः । कर्मण्युक्ते सत्य­र्था­त्फ­ल­मुक्तं भवति, इच्छायाः कर्मण एव फलत्वात् । यथा स्वर्गस्येच्छा इत्युक्ते स्वर्गस्य फलत्वं लभ्यते तद्वत् । अत एव ‘धर्मजिज्ञासा’ इत्यत्रापि ‘सा हि तस्य ज्ञातुमिच्छा’ इति इच्छां गृहीत्वा षष्ठीसमासो दर्शितः । विचारलक्षणायां तु विचारस्य क्लेशात्मकतया प्रथमं फला­का­ङ्क्ष­त्वात् धर्माय जिज्ञासेति चतुर्थीसमास उक्तः, तथा वृत्ति­का­रै­र्ब्र­ह्मणे जिज्ञासा इत्युक्तं चेदस्तु ज्ञानत्वेन ब्रह्मणः फलत्वादिति ।

अधुना ब्रह्मपदार्थमाह -
ब्रह्म चेति ।

ननु ‘ब्रह्म­क्ष­त्र­मिदं ब्रह्म आयाति ब्रह्म स्वय­म्भू­र्ब्रह्म प्रजापतिः’ इति श्रुतिषु लोके च ब्राह्मणत्वजातौ जीवे वेदे कमलासने च ब्रह्मशब्दः प्रयुज्यत इत्याशङ्क्याह -
अत एवेति ।
जग­त्का­र­ण­त्व­ल­क्ष­ण­प्र­ति­पा­द­क­सू­त्रा­सा­ङ्ग­त्य­प्र­स­ङ्गा­दे­वे­त्यर्थः ।

वृत्त्यन्तरे शेषे षष्ठीत्युक्तं दूषयति -
ब्रह्मण इतीति ।
सम्बन्धसामान्यं शेषः । जिज्ञासेत्यत्र सन्प्र­त्य­य­वा­च्याया इच्छाया ज्ञानं कर्म, तस्य ज्ञानस्य ब्रह्म कर्म । तत्र सकर्मकक्रियायाः कर्मज्ञानं विना ज्ञातु­म­श­क्य­त्वात् , इच्छाया विष­य­ज्ञा­न­ज­न्य­त्वाच्च प्रथमापेक्षितं कर्मैव षष्ठ्या वाच्यं न शेष इत्यर्थः ।

ननु प्रमा­णा­दि­क­म­न्य­देव तत्कर्मास्तु ब्रह्म तु शेषितया सम्बध्यतां तत्राह -
जिज्ञा­स्या­न्त­रेति ।
श्रुतं कर्म त्यक्त्वा­न्य­द­श्रुतं कल्पयन् ‘पिण्डमुत्सृज्य करं लेढि’ इति न्यायमनुसरतीति भावः ।

गूढाभिसन्धिः शङ्क्यते -
नन्विति ।
‘षष्ठी शेषे’ इति विधानात् , षष्ठ्या सम्बन्धमात्रं प्रतीतमपि विशे­षा­का­ङ्क्षायां सक­र्म­क­क्रि­या­सं­नि­धा­नात् कर्मत्वे पर्य­व­स्य­ती­त्यर्थः ।

अभि­स­न्धि­म­जा­न­न्नि­वो­त्त­र­माह -
एवमपीति ।
कर्मलाभेऽपि प्रत्यक्षं ‘कर्तृकर्मणोः कृति’ इति सूत्रेण जिज्ञा­सा­प­द­स्या­का­र­प्र­त्य­या­न्त­त्वेन कृदन्तस्य योगे विहितं प्रथमापेक्षितं च कर्मत्वं त्यक्त्वा परोक्षमशाब्दं कल्पयत इत्यर्थः ।

शेषवादी स्वाभि­स­न्धि­मु­द्धा­ट­यति -
न व्यर्थ इति ।
शेषषष्ठ्यां ब्रह्म­स­म्ब­न्धिनी जिज्ञासा प्रतिज्ञाता भवति । तत्र यानि ब्रह्माश्रितानि लक्ष­ण­प्र­मा­ण­यु­क्ति­ज्ञा­न­सा­ध­न­फ­लानि तेषामपि विचारः प्रतिज्ञातो भवति । तज्जिज्ञासाया अपि ब्रह्म­ज्ञा­ना­र्थ­त्वेन ब्रह्म­स­म्ब­न्धि­त्वात् । कर्मणिषष्ठ्यां तु ब्रह्मकर्मक एव विचारः प्रतिज्ञातो भव­ती­त्य­भि­स­न्धिना शेष­ष­ष्ठी­त्यु­च्यते । अतो मत्प्रयासो न व्यर्थः । ब्रह्म­त­त्स­म्ब­न्धिनां सर्वेषां विचा­र­प्र­ति­ज्ञा­न­मर्थः फलं यस्य तत्त्वा­दि­त्यर्थः ।

त्वत्प्र­या­स­स्येदं फलं न युक्तम् , सूत्रेण मुखतः प्रधानस्य ब्रह्मणो विचारे प्रतिज्ञाते सति तदुपकरणानां विचा­र­स्या­र्थि­क­प्र­ति­ज्ञाया उदितत्वादित्याह सिद्धान्ती -
न प्रधानेति ।

सङ्गृहीतमर्थं सदृष्टान्तं व्याकरोति -
ब्रह्म हीत्यादिना ।

’तद्वि­जि­ज्ञा­सस्व’ इति मूल­श्रु­त्य­नु­सा­राच्च कर्मणि षष्ठीत्याह -
श्रुत्य­नु­ग­मा­च्चेति ।
श्रुति­सू­त्र­यो­रे­का­र्थ­त्व­ला­भा­च्चे­त्यर्थः ।

जिज्ञा­सा­प­द­स्या­व­य­वा­र्थ­माह -
ज्ञातुमिति ।

नन्वनवगते वस्तुनीच्छाया अदर्शनात्तस्या मूलं विषयज्ञानं वक्तव्यम् । ब्रह्मज्ञानं तु जिज्ञासायाः फलम् , तदेव मूलं कथ­मि­त्या­श­ङ्क्याह -
अवगतीति ।
आव­र­ण­नि­वृ­त्ति­रू­पा­भि­व्य­क्ति­म­च्चै­त­न्य­म­व­गतिः पर्य­न्तोऽ­व­धि­र्य­स्या­ख­ण्ड­सा­क्षा­त्का­र­वृ­त्ति­ज्ञा­नस्य तदेव जिज्ञासायाः कर्म, तदेव फलम् । मूलं त्वापा­त­ज्ञा­न­मि­त्य­धुना वक्ष्यत इति फल­मू­ल­ज्ञा­न­यो­र्भे­दान्न जिज्ञा­सा­नु­प­प­त्ति­रि­त्यर्थः ।

ननु गमनस्य ग्रामः कर्म, तत्प्राप्तिः फलमिति भेदात्कर्म एव फलमित्युक्तं तत्राह -
फलेति ।
क्रियान्तरे तयोर्भेदेऽपि इच्छायाः फल­वि­ष­य­त्वा­त्क­र्मैव फलमित्यर्थः ।

ननु ज्ञाना­व­ग­त्यो­रै­क्या­द्भे­दो­क्ति­र­यु­क्ते­त्यत आह -
ज्ञानेनेति ।
ज्ञानं वृत्तिः अव­ग­ति­स्त­त्फ­ल­मिति भेद इति भावः । अव­ग­न्तु­म­भि­व्य­ञ्ज­यि­तुम् ।

अवगतेः फलत्वं स्फुटयति -
ब्रह्मेति ।

हिशब्दोक्तं हेतुमाह -
निःशेषेति ।
बीजमविद्या आदि­र्य­स्या­न­र्थस्य तन्ना­श­क­त्वा­दि­त्यर्थः ।

अव­य­वा­र्थ­मुक्त्वा सूत्र­वा­क्या­र्थ­माह -
तस्मादिति ।
अत्र सन्प्रत्ययस्य विचारलक्षकत्वं तव्यप्रत्ययेन सूचयति । अथा­त­श­ब्दा­भ्या­म­धि­का­रिणः साधि­त­त्त्वा­त्तेन ब्रह्मज्ञानाय विचारः कर्तव्य इत्यर्थः ॥
॥ इति तृतीयं वर्णकम् ॥

प्रथमवर्णके बन्ध­स्या­ध्या­स­त्वोक्त्या विष­या­दि­प्र­सि­द्धा­वपि ब्रह्म­प्र­सि­द्ध्य­प्र­सि­द्ध्यो­र्वि­ष­या­दि­स­म्भ­वा­स­म्भ­वाभ्यां शास्त्रा­र­म्भ­स­न्देहे पूर्वपक्षमाह -
तत्पुनरिति । -
पुनःशब्दो वर्ण­का­न्त­र­द्यो­त­नार्थः । यदि वेदा­न्त­वि­चा­रा­त्प्रा­गेव ब्रह्मज्ञानं तर्ह्य­ज्ञा­त­त्व­रू­प­वि­ष­यत्वं नास्ति, अज्ञानाभावेन तन्नि­वृ­त्ति­रू­प­फ­ल­मपि नास्तीति न विचारयितव्यम् । अथाज्ञातं केनापि तर्हि तदुद्देशेन विचारः कर्तुं न शक्यते, अज्ञा­त­स्यो­द्दे­शा­यो­गात् । तथा च बुद्धावनारूढस्य विचा­रा­त्म­क­शा­स्त्रेण वेदान्तैश्च प्रति­पा­द­ना­यो­गात् । तत्प्र­ति­पा­द्य­त्व­रूपः सम्बन्धो नास्तीति ज्ञाना­नु­त्पत्तेः फलमपि नास्ती­त्य­ना­रभ्यं शास्त्र­मि­त्यर्थः ॥

आपातप्रसिद्ध्या विष­या­दि­ला­भा­दा­र­म्भ­णी­य­मिति सिद्धान्तयति -
उच्यत इत्यादिना ।
प्रसिद्धं तावदित्यर्थः । अस्ति­त्व­स्या­प्र­कृ­त­त्वे­ना­स्ति­प­दस्य प्रसि­द्धि­प­र­त्वात् ।

ननु केन मानेन ब्रह्मणः प्रसिद्धिः । न च ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति श्रुत्या सेति वाच्यम् । ब्रह्मपदस्य लोके सङ्ग­ति­ग्र­हा­भा­वेन तद्घ­टि­त­वा­क्य­स्या­बो­ध­क­त्वा­दि­त्या­शङ्क्य ब्रह्म­प­द­व्यु­त्पत्त्या प्रथमं तस्य निर्गुणस्य सगुणस्य च प्रसि­द्धि­रि­त्याह -
ब्रह्मशब्दस्य हीति ।
अस्यार्थः श्रुतौ सूत्रे च ब्रह्मपदस्य प्रयो­गा­न्य­था­नु­प­पत्त्या कश्चि­द­र्थोऽ­स्तीति ज्ञायते, प्रमाणवाक्ये निर­र्थ­क­श­ब्द­प्र­यो­गा­द­र्श­नात् । स चार्थो महत्वरूप इति व्याक­र­णा­न्नि­श्ची­यते, ‘बृहि वृद्धौ’ इति स्मरणात् । सा च वृद्धि­र्नि­र­व­धि­क­म­ह­त्व­मिति सङ्कोचकाभावात् , श्रुतावनन्तपदेन सह प्रयोगाच्च ज्ञायते । निरवधिकमहत्वं चान्त­व­त्त्वा­दि­दो­ष­वत्त्वे सर्व­ज्ञ­त्वा­दि­गु­ण­ही­नत्वे च न सम्भवति, लोके गुण­ही­न­दो­ष­व­तो­र­ल्प­त्व­प्र­सिद्धेः । अतो बृंह­णा­द्ब्र­ह्मेति व्युत्पत्त्या देशकालवस्तुतः परि­च्छे­दा­भा­व­रूपं नित्यत्वं प्रतीयते । अवि­द्या­दि­दो­ष­शू­न्यत्वं शुद्धत्वम् । जाड्यराहित्यं बुद्धत्वम् । बन्धकालेऽपि स्वतोबन्धाभावो मुक्तत्वं च प्रतीयते । एवं सकलदोषशून्यं निर्गुणं प्रसिद्धम् । तथा सर्व­ज्ञ­त्वा­दि­गु­णकं च तत्पदवाच्यं प्रसिद्धम् । ज्ञेयस्य कार्यस्य वा परि­शे­षेऽ­ल्प­त्व­प्र­स­ङ्गेन सर्वज्ञत्वस्य सर्व­का­र्य­श­क्ति­म­त्त्वस्य च लाभादिति ।

एवं तत्प­दा­त्प्र­सि­द्धे­र­प्र­मा­ण­त्वे­ना­पा­त­त्वा­द­ज्ञा­ना­नि­व­र्त­क­त्वा­ज्जि­ज्ञा­सो­प­प­त्ति­रि­त्युक्त्वा त्वम्प­दा­र्था­त्म­नापि ब्रह्मणः प्रसिद्ध्या तदुपपत्तिरत्याह -
सर्वस्येति ।
सर्वस्य लोकस्य योऽय­मा­त्मा­त­द­भे­दा­द्ब्र­ह्मणः प्रसि­द्धि­रि­त्यर्थः ।

नन्वात्मनः प्रसिद्धिः केत्यत आह -
सर्वो हीति ।
अहमस्मीति न प्रत्येतीति न किन्तु प्रत्येत्येव । सैव सच्चिदात्मनः प्रसि­द्धि­रि­त्यर्थः ।

आत्मनः कुतः सत्तेति शून्य­म­त­मा­श­ङ्क्याह -
यदि हीति ।
आत्मनः शून्यस्य प्रतीतौ अहं नास्मीति लोको जानीयात् । लोकस्तु अहमस्मीति जानाति तस्मा­दा­त्म­नोऽ­स्ति­त्व­प्र­सि­द्धि­रि­त्यर्थः ।

आत्म­प्र­सि­द्धा­वपि ब्रह्मणः किमायातं तत्राह -
आत्मा चेति ।
‘अयमात्मा ब्रह्म’ इत्या­दि­श्रु­ते­रिति भावः ।

प्रसि­द्धि­प­क्षोक्तं दोषं पूर्वपक्षेण स्मारयति -
यदीति ।
अज्ञातत्वाभावेन विष­या­द्य­भा­वा­द­वि­चा­र्यत्वं प्राप्त­मि­त्यर्थः । यथा इदं रजतमिति वस्तुतः शुक्ति­प्र­सि­द्धि­स्त­द्वत् अहमस्मीति सत्त्व­चै­त­न्य­रू­प­त्व­सा­मा­न्येन वस्तुतो ब्रह्मणः प्रसिद्धिः, नेयं पूर्णा­न­न्द­ब्र­ह्म­त्व­रू­प­वि­शे­ष­गो­चरा, वादिनां विवा­दा­भा­व­प्र­स­ङ्गात् ।

न हि शुक्ति­त्व­वि­शे­ष­द­र्शने सति रजतं रङ्गमन्यद्वेति विप्र­ति­प­त्ति­रस्ति । अतो विप्र­ति­प­त्त्य­न्य­था­नु­प­पत्त्या सामान्यतः प्रसिद्धावपि विशे­ष­स्या­ज्ञा­त­त्वा­द्वि­ष­या­दि­सि­द्धि­रिति सिद्धान्तयति -
न इत्यादिना ।
सामा­न्य­वि­शे­ष­भावः स्वात्मनि सच्चि­त्पू­र्णा­दि­प­द­वा­च्य­भे­दा­त्क­ल्पित इति मन्तव्यम् ।

तत्र स्थूल­सू­क्ष्म­क्र­मेण विप्र­ति­प­त्ती­रु­प­न्य­स्यति -
देह­मा­त्र­मि­त्या­दिना ।
शास्त्र­ज्ञा­न­शून्याः प्राकृताः ।

वेद­बा­ह्य­म­ता­न्युक्त्वा तार्किकादिमतमाह -
अस्तीति ।

साङ्ख्यमतमाह -
भोक्तेति ।

किमात्मा देहादिरूपः उत तद्भिन्न इति विप्र­ति­प­त्ति­को­टि­त्वेन देहे­न्द्रि­य­म­नो­बु­द्धि­शू­न्या­न्युक्त्वा तद्भिन्नोऽपि कर्तृ­त्वा­दि­मान्न वेति विप्र­ति­प­त्ति­को­टि­त्वेन तार्कि­क­सा­ङ्ख्य­प­क्षा­वु­प­न्य­स्या­क­र्ता­पी­श्व­रा­द्भिन्नो न वेति विवादकोटित्वेन योगिमतमाह -
अस्ति तद्व्यतिरिक्त ईश्वर इति ।
निरतिशयत्वं गृहीत्वा ईश्वरः सर्व­ज्ञ­त्वा­दि­स­म्पन्न इति योगिनो वदन्ति ।

भेदकोटिमुक्त्वा सिद्धा­न्त­को­टि­माह -
आत्मा स भोक्तुरिति ।
भोक्तु­र्जी­व­स्या­कर्तुः साक्षिणः स ईश्वर आत्मास्वरूपमिति वेदान्तिनो वदन्तीत्यर्थः ।

विप्र­ति­प­त्ती­रु­प­सं­ह­रति -
एवं बहवः इति ।
विप्रतिपत्तीनां प्रपञ्चो निरासश्च विवरणोपन्यासेन दर्शितः सुख­बो­धा­ये­ती­हो­प­र­म्यते । तत्र युक्ति­वा­क्या­श्रयः सिद्धान्तिनः जीवो ब्रह्मैव आत्मत्वात् , ब्रह्मवत् इत्यादि युक्तेः, ‘तत्त्वमसि’ इत्या­दि­श्रु­ते­श्चा­बा­धि­तायाः सत्त्वात् । अन्ये तु देहादिरात्मा, अहं­प्र­त्य­य­गो­च­र­त्वात् , व्यतिरेकेण घटा­दि­व­दि­त्या­दि­यु­क्त्या­भा­सम् , ‘स वा एष पुरुषोन्नरसमयः’ इन्द्रियसंवादे ‘चक्षुरादयस्ते ह वाचमूचुः’ ‘मन उवाच’, ‘योऽयं विज्ञानमयः’, ‘असदेवेदमग्र आसीत्’, ‘कर्ता बोद्धा', ‘अनश्नन्नन्यः’, ‘आत्मानमन्तरो यमयति’ इति वाक्याभासं चाश्रिता इति विभागः । देहादिरनात्मा, भौतिकत्वात् , दृश्यत्वात् इत्यादिन्यायैः, ‘आन­न्द­म­योऽ­भ्या­सात्’ इत्या­दि­सू­त्रै­श्चा­भा­सत्वं वक्ष्यते ।

ननु सन्तु विप्र­ति­प­त्त­य­स्त­थापि यस्य यन्मते श्रद्धा तदाश्रयणात्तस्य स्वार्थः सेत्स्यति किं ब्रह्म­वि­चा­रा­र­म्भे­णे­त्यत आह -
तत्राविचार्येति ।
ब्रह्मा­त्मै­क्य­वि­ज्ञा­ना­देव मुक्तिरिति वस्तुगतिः । मतान्तराश्रयणे तद­भा­वा­न्मो­क्ष­सिद्धिः । किञ्चा­त्मा­न­म­न्यथा ज्ञात्वा तत्पापेन संसारान्धकूपे पतेत् , ‘अन्धं तमः प्रविशन्ति’ ‘ये के चात्महनो जनाः’ इति श्रुतेः, ‘योऽन्यथा सन्त­मा­त्मा­न­म­न्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरे­णा­त्मा­प­हा­रिणा ॥ ’ इति वचनाच्चेत्यर्थः ।

अतः सर्वेषां मुमुक्षूणां निःश्रेयसफलाय वेदान्तविचारः कर्तव्य इति­सू­त्रा­र्थ­मु­प­सं­ह­रति -
तस्मादिति ।
बन्ध­स्या­ध्य­स्त­त्वेन विष­या­दि­स­द्भा­वा­द­ग­ता­र्थ­त्वात् , अधि­का­रि­ला­भा­दा­पा­त­प्र­सिद्ध्या विष­या­दि­स­म्भ­वाच्च वेदान्तविषया मीमांसापूजिता विचारणा, वेदा­न्ता­वि­रो­धिनो ये तर्का­स्त­न्त्रा­न्त­र­स्था­स्ता­न्यु­प­क­र­णानि यस्याः सा निश्रे­य­सा­या­र­भ्यत इत्यर्थः ।

ननु सूत्रे विचा­र­वा­चि­प­दा­भा­वा­त्त­दा­रम्भः कथं सूत्रार्थ इत्यत आह -
ब्रह्मेति ।
ब्रह्म­ज्ञा­ने­च्छो­क्ति­द्वारा विचारं लक्षयित्वा तत्कर्तव्यतां ब्रवीतीति भावः । एवं प्रथमसूत्रस्य चत्वारोऽर्थाः व्याख्या­न­च­तु­ष्ट­येन दर्शिताः । सूत्रस्य चानेकार्थत्वं भूषणम् । नन्विदं सूत्रं शास्त्राद्बहिः स्थित्वा शास्त्र­मा­र­म्भ­यति अन्तर्भूत्वा वा । आद्ये तस्य हेयता, शास्त्रा­स­म्ब­न्धात् । द्वितीये तस्यारम्भकं वाच्यम् । न च स्वयमेवारम्भकम् , स्वस्मा­त्स्वो­त्प­त्ते­रि­त्या­त्मा­श्र­यात् । न चारम्भकान्तरं पश्याम इति । उच्यते - श्रवणविधिना आरब्दमिदं शास्त्रं शास्त्रा­न्त­र्ग­त­मेव शास्त्रारम्भं प्रतिपादयति । यथा­ध्य­य­न­वि­धि­र्वे­दा­न्त­र्गत एव कृत्स्न­वे­द­स्या­ध्य­यने प्रयुङ्क्ते तद्व­दि­त्य­न­व­द्यम् ॥ १ ॥

प्रथमसूत्रेण शास्त्रा­र­म्भ­मु­प­पाद्य शास्त्रमारभमाणः पूर्वो­त्त­रा­धि­क­र­णयोः सङ्गतिं वक्तुं वृत्तं कीर्तयति -
ब्रह्मेति ।

मुमुक्षुणा ब्रह्मज्ञानाय वेदान्तविचारः कर्तव्य इत्युक्तम् । ब्रह्मणो विचा­र्य­त्वोक्त्या अर्था­त्प्र­मा­णादि विचाराणां प्रति­ज्ञा­त­त्वेऽपि ब्रह्मप्रमाणं विना कर्तु­म­श­क्य­त्वात् , तत्स्व­रू­प­ज्ञा­ना­यादौ लक्षणं वक्तव्यम् , तन्न सम्भ­व­ती­त्या­क्षिप्य सूत्रकृतं पूजयन्नेव लक्ष­ण­सू­त्र­म­व­धा­र­यति -
किं लक्षणकमिति ।
किमाक्षेपे । नास्त्येव लक्षणमित्यर्थः । आक्षे­पे­णा­स्यो­त्था­ना­दा­क्षे­प­स­ङ्गतिः । लक्ष­ण­द्यो­ति­वे­दा­न्तानां स्पष्ट­ब्र­ह्म­लि­ङ्गानां लक्ष्ये ब्रह्मणि समन्वयोक्तेः श्रुति­शा­स्त्रा­ध्या­य­पा­द­स­ङ्ग­तयः । तथा हि ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिवाक्यं विषयः । तत्किं ब्रह्मणो लक्षणं न वेति सन्देहः । तत्र पूर्वपक्षे ब्रह्म­स्व­रू­प­सिद्ध्या मुक्त्यसिद्धिः फलम् , सिद्धान्ते तत्सिद्धिरिति भेदः । यद्य­प्या­क्षे­प­स­ङ्गतौ पूर्वा­धि­क­र­ण­फ­ल­मेव फलमिति कृत्वा पृथङ्न वक्तव्यम् । तदुक्तम् -
‘आक्षेपे चापवादे च प्राप्त्यां लक्षणकर्मणि ।
प्रयोजनं न वक्तव्यं यच्च कृत्वा प्रवर्तते’ इति । तथापि स्पष्टा­र्थ­मु­क्त­मिति मन्तव्यम् । यत्र पूर्वा­धि­क­र­ण­सि­द्धा­न्तेन पूर्वपक्षः तत्रापवादिकी सङ्गतिः प्राप्ति­स्त­दर्था चिन्ता । तत्र नेति प्राप्तम् , जन्मा­दे­र्ज­ग­द्ध­र्म­त्वेन ब्रह्म­ल­क्ष­ण­त्वा­यो­गात् । न च जगदुपादानत्वे सति कर्तृत्वं लक्षणमिति वाच्यम् , कर्तु­रु­पा­दा­नत्वे दृष्टा­न्ता­भा­वे­ना­नु­मा­ना­प्र­वृत्तेः । न च श्रौतस्य ब्रह्मणः श्रुत्यैव लक्षणसिद्धेः किमनुमानेनेति वाच्यम् , अनुमानस्य श्रुत्य­नु­ग्रा­ह­क­त्वेन तदभावे तद्विरोधे वा श्रुत्य­र्था­सिद्धेः । -

न च जग­त्क­र्तृ­त्व­मु­पा­दा­नत्वं वा प्रत्येकं लक्षणमस्त्विति वाच्यम् , कर्तृ­मा­त्र­स्यो­पा­दा­ना­द्भि­न्नस्य ब्रह्म­त्वा­यो­गात् , वस्तुतः परिच्छेदादिति प्राप्ते पुरु­षा­भ्यू­ह­मा­त्र­स्या­नु­मा­न­स्या­प्र­ति­ष्ठि­त­स्या­ती­न्द्रि­यार्थे स्वात­न्त्र्या­यो­गात् , अपौरुषेयतया निर्दो­ष­श्रु­त्यु­क्तो­भ­य­का­र­ण­त्वस्य सुखा­दि­दृ­ष्टा­न्तेन सम्भावयितुं शक्यत्वात् , तदेव लक्षणमिति सिद्धान्तयति -
जन्माद्यस्य यतः इति ।
अत्र यद्यपि जग­ज्ज­न्म­स्थि­ति­ल­य­का­र­णत्वं लक्षणं प्रतिपाद्यते तथाप्यग्रे ‘प्रकृतिश्च’ इत्यधिकरणे तत्कारणत्वं न कर्तृत्वमात्रं किन्तु कर्तृ­त्वो­पा­दा­न­त्वो­भ­य­रू­प­त्व­मिति वक्ष्यमाणं सिद्ध­व­त्कृ­त्यो­भ­य­का­र­णत्वं लक्षणमित्युच्यत इति न पौनरुक्त्यम् । ननु जिज्ञा­स्य­नि­र्गु­ण­ब्र­ह्मणः कारणत्वं कथं लक्षणमिति चेत् , उच्यते - यथा रजतं शुक्तेर्लक्षणं यद्रजतं सा शुक्तिरिति, तथा यज्जगत्कारणं तद्ब्रह्मेति कल्पितं कारणत्वं तटस्थं सदेव ब्रह्मणो लक्ष­ण­मि­त्य­न­व­द्यम् ॥

सूत्रं व्याचष्टे -
जन्मेत्यादिना ।
बहुव्रीहौ पदार्थाः सर्वे वाक्या­र्थ­स्या­न्य­प­दा­र्थस्य विशेषणानि । यथा चित्र­गो­र्दे­व­द­त्तस्य चित्रा गावः तद्वदत्रापि जन्मादीति नपुं­स­कै­क­व­च­न­द्यो­ति­तस्य समाहारस्य जन्म­स्थि­ति­भ­ङ्गस्य जन्म विशेषणम् , तथा च जन्मनः समा­सा­र्थै­क­दे­शस्य गुणत्वेन संविज्ञानं यस्मिन् बहुव्रीहौ स तद्गुणसंविज्ञान इत्यर्थः । तत्र यज्जन्मकारणं तद्ब्रह्मेति ब्रह्म­त्व­वि­धा­न­म­यु­क्तम् , स्थिति­ल­य­का­र­णा­द्भि­न्न­त्वेन ज्ञाते ब्रह्मत्वस्य ज्ञातु­म­श­क्य­त्वात् । अतो जन्म­स्थि­ति­भ­ङ्गै­र्नि­रू­पि­तानि त्रीणि कारणत्वानि मिलितान्येव लक्षणमिति मत्वा सूत्रे समाहारो द्योतित इति ध्येयम् ।

नन्वादित्वं जन्मनः कथं ज्ञातव्यम् , संसा­र­स्या­ना­दि­त्वा­दि­त्यत आह -
जन्मनश्चेति ।
मूलश्रुत्या वस्तुगत्या चादित्वं ज्ञात्वा तदपेक्ष्य सूत्रकृता जन्मन आदि­त्व­मु­क्त­मि­त्यर्थः ।

इदमः प्रत्य­क्षा­र्थ­मा­त्र­वा­चि­त्व­मा­श­ङ्क्यो­प­स्थि­त­स­र्व­का­र्य­वा­चि­त्व­माह -
अस्येतीति ।

वियदादिजगतो नित्यत्वात् न जन्मादिसम्बन्ध इत्यत आह -
षष्ठीति ।
विष­या­दि­म­हा­भू­तानां जन्मादिसम्बन्धो वक्ष्यत इति भावः ।

ननु जगतो जन्मादेर्वा ब्रह्म­स­म्ब­न्धा­भा­वान्न लक्ष­ण­त्व­मि­त्या­शङ्क्य तत्कारणत्वं लक्षणमिति पञ्चम्यर्थमाह -
यत इतीति ।
यच्छब्देन सत्यं ज्ञान­म­न­न्त­मा­न­न्द­रूपं वस्तूच्यते ‘आनन्दाद्ध्येव’ इति निर्णीतत्वात् । तथा च स्वरू­प­ल­क्ष­ण­सि­द्धि­रिति मन्तव्यम् ।

पदार्थमुक्त्वा पूर्व­सू­त्र­स्थ­ब्र­ह्म­प­दा­नु­ष­ङ्गेण तच्छ­ब्दा­ध्या­हा­रेण च सूत्र­वा­क्या­र्थ­माह -
अस्येत्यादिना ।

कारणस्य सर्व­ज्ञ­त्वा­दि­स­म्भा­व­ना­र्थानि जगतो विशेषणानि । यथा कुम्भकारः प्रथमं कुम्भशब्दाभेदेन विकल्पितं पृथु­बु­ध्नो­द­रा­का­र­स्व­रूपं बुद्धावालिख्य तदात्मना कुम्भं व्याकरोति - बहिः प्रकटयति, तथा परमकारणमपि स्वेप्सि­त­ना­म­रू­पा­त्मना व्याक­रो­ती­त्य­नु­मी­यत इति मत्वाह -
नामरूपाभ्यामिति ।
इत्थम्भावे तृतीया । आद्यकार्यं चेतनजन्यम् , कार्यत्वात् , कुम्भवदिति प्रधा­न­शू­न्य­यो­र्नि­रासः ।

हिर­ण्य­ग­र्भा­दि­जी­व­ज­न्यत्वं निरस्यति -
अनेकेति ।
श्राद्ध­वै­श्वा­न­रे­ष्ट्यादौ पितापुत्रयोः कर्तृ­भो­क्त्रो­र्भे­दा­त्पृ­थ­गुक्तिः । ‘यो ब्रह्माणं विदधाति पूर्वं सर्व एत आत्मनो व्युच्चरन्ति’ इति श्रुत्या स्थूल­सू­क्ष्म­दे­हो­पा­धि­द्वारा जीवानां कार्यत्वेन जग­न्म­ध्य­पा­ति­त्वान्न जग­त्का­र­ण­त्व­मि­त्यर्थः ।

कारणस्य सर्वज्ञत्वं सम्भावयति -
प्रतिनियतेति ।
प्रतिनियतानि व्यवस्थितानि देश­का­ल­नि­मि­त्तानि येषां क्रियाफलानां तदा­श्र­य­स्ये­त्यर्थः । स्वर्गस्य क्रियाफलस्य मेरुपृष्ठं देशः । देहपातादूर्ध्वं काल उत्त­रा­य­ण­म­र­णा­दि­नि­मित्तं च प्रतिनियतम् । एवं राजसेवाफले ग्रामा­दे­र्दे­शा­दि­व्य­वस्था ज्ञेया । तथा च यथा सेवाफलं देशा­द्य­भि­ज्ञ­दा­तृकं तथा कर्मफलम् , फलत्वादिति सर्व­ज्ञ­त्व­सि­द्धि­रिति भावः ।

सर्वशक्तित्वं सम्भावयति -
मनसापीति ।

नन्वन्येऽपि वृद्धि­प­रि­णा­मा­दयो भावविकाराः सन्तीति किमिति जन्मा­दी­त्या­दि­प­देन न गृह्यन्ते तत्राह -
अन्येषामिति ।
वृद्धि­प­रि­णा­म­यो­र्ज­न्मनि अपक्षयस्य नाशेऽन्तर्भावः इति भावः ।

ननु देहो ‘जायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, विनश्यति’ इति यास्क­मु­नि­वा­क्य­मे­त­त्सू­त्र­मूलं किं न स्यादत आह -
यास्केति ।
यास्कमुनिः किल महा­भू­ता­ना­मु­त्प­न्नानां स्थितिकाले भौतिकेषु प्रत्यक्षेण जन्मा­दि­ष­ट्क­मु­प­लभ्य निरुक्तवाक्यं चकार । तन्मूलीकृत्य जन्मा­दि­ष­ट्क­का­र­णत्वं लक्षणं सूत्रार्थ इति ग्रहणे सूत्रकृता ब्रह्मलक्षणं न सङ्गृहीतं किन्तु महाभूतानां लक्षणमुक्तमिति शङ्का स्यात्सा मा भूदिति ये श्रुत्युक्ता जन्मादयस्त एव गृह्यन्त इत्यर्थः । यदि निरुक्तस्यापि श्रुतिर्मूलमिति महा­भू­त­ज­न्मा­दि­क­म­र्थ­स्तर्हि सा श्रुतिरेव सूत्रस्य मूलमस्तु, किमन्तर्गडुना निरुक्तेनेति भावः । यदि जगतो ब्रह्मातिरिक्तं कारणं स्यात्तदा ब्रह्मलक्षणस्य तत्रा­ति­व्या­प्त्या­दि­दोषः स्यात् , अतस्तन्निरासाय लक्षणसूत्रेण ब्रह्म विना जगज्जन्मादिकं न सम्भवति, कार­णा­न्त­रा­स­म्भ­वा­दिति युक्तिः सूत्रिता । सा तर्कपादे विस्तरेण वक्ष्यते ।

अधुना सङ्क्षेपेण तां दर्शयति -
न यथोक्तेत्यादिना ।
नामरूपाभ्यां व्याकृ­त­स्ये­त्या­दीनां च चतुर्णां जगद्विशेषणानां व्याख्यानावसरे प्रधानशून्ययोः संसारिणश्च निरासो दर्शितः । पर­मा­णू­ना­म­चे­त­नानां स्वतः प्रवृ­त्त्य­यो­गात् , जीवान्यस्य ज्ञान­शू­न्य­त्व­नि­य­मे­ना­नु­मा­ना­त्स­र्व­ज्ञे­श्व­रा­सिद्धौ तेषां प्रेरकाभावात् , जग­दा­र­म्भ­क­त्वा­स­म्भव इति भावः ।

स्वभावादेव विचित्रं जगदिति लोकायतस्तं प्रत्याह -
न चेति ।
जगत उत्पत्त्यादि सम्भावयितुं न शक्यमित्यन्वयः ।

किं स्वयमेव स्वस्य हेतुरिति स्वभाव उत कार­णा­न­पे­क्ष­त्वम् । नाद्यः, आत्माश्रयात् । न द्वितीय इत्याह -
विशिष्टेति ।
विशि­ष्टा­न्य­सा­धा­र­णानि देश­का­ल­नि­मि­त्तानि । तेषां कार्या­र्थि­भि­रु­पा­दी­य­मा­न­त्वा­त्का­र्यस्य कारणानपेक्षत्वं न युक्तमित्यर्थः । अनेपेक्षत्वे धान्यार्थिनां भूविशेषे वर्षादिकाले बीजादिनिमित्ते च प्रवृत्तिर्न स्यादिति भावः ।

पूर्वो­क्त­स­र्व­ज्ञ­त्वा­दि­वि­शे­ष­ण­क­मी­श्वरं मुक्त्वा जगत उत्पत्यादिकं न सम्भवतीति भाष्येण कर्तारं विना कार्यं नास्तीति व्यतिरेक उक्तः । तेन यत्कार्यं तत्सकर्तृकमिति व्याप्ति­र्ज्ञा­यते । एतदेव व्याप्तिज्ञानं जगति पक्षे कर्तारं साध­य­त्स­र्व­ज्ञे­श्वरं साधयति किं श्रुत्येति तार्किकाणां भ्रान्ति­मु­प­न्य­स्यति -
एतदेवेति ।
एतदेवानुमानमेव साधनं न श्रुतिरिति मन्यन्त इति योजना । अथवा एत­द्व्या­प्ति­ज्ञा­न­मेव श्रुत्य­नु­ग्रा­ह­क­यु­क्ति­मा­त्र­त्वे­ना­स्म­त्स­म्मतं सदनुमानं स्वतन्त्रमिति मन्यन्त इत्यर्थः । सर्व­ज्ञ­त्व­मा­दि­श­ब्दार्थः । यद्वा व्याप्ति­ज्ञा­न­स­ह­कृ­त­मे­त­ल्ल­क्ष­ण­मे­वा­नु­मानं स्वतन्त्रं मन्यन्त इत्यर्थः । तत्रायं विभागः व्याप्ति­ज्ञा­नात् जगतः कर्ता­स्ती­त्य­स्ति­त्व­सिद्धिः । पश्चात्स कर्ता, सर्वज्ञः, जगत्कारणत्वात् , व्यतिरेकेण कुलालादिवदिति सर्व­ज्ञ­त्व­सि­द्धि­र्ल­क्ष­णा­दिति । अत्र मन्यन्त इत्य­नु­मा­न­स्या­भा­सत्वं सूचितम् । तथाहि - अङ्कुरादौ तावज्जीवः कर्ता न भवति जीवाद्भिन्नस्य घट­व­द­चे­त­न­त्व­नि­य­मा­दन्यः कर्ता नास्त्येवेति व्यति­रे­क­नि­श्च­यात् , यत्कार्यं तत्सकर्तृकमिति व्याप्ति­ज्ञा­ना­सिद्धिः । लक्ष­ण­लि­ङ्ग­का­नु­माने तु बाधः अशरीरस्य जन्म­ज्ञा­ना­यो­गात् , यज्ज्ञानं तन्मनोजन्यमिति व्याप्तिविरोधेन नित्य­ज्ञा­ना­सि­द्धे­र्ज्ञा­ना­भा­व­नि­श्च­यात् , तस्मा­द­ती­न्द्रि­यार्थे श्रुतिरेव शरणम् । श्रुत्य­र्थ­स­म्भा­व­ना­र्थ­त्वे­ना­नु­मानं युक्तिमात्रं न स्वतन्त्रमिति भावः ।

नन्विदमयुक्तम् , श्रुते­र­नु­मा­ना­न्त­र्भा­व­म­भि­प्रेत्य भव­दी­य­सू­त्र­कृ­ता­नु­मा­न­स्यै­वो­प­न्य­स्य­त्वा­दिति वैशेषिकः शङ्कते -
नन्विति ।
अतो मन्यन्ते इत्य­नु­मा­न­स्या­भा­सो­क्ति­र­यु­क्तेति भावः ।

यदि श्रुतीनां स्वत­न्त्र­मा­नत्वं न स्यात्तर्हि ‘तत्तु समन्वयात्’ इत्यादिना तासां तात्पर्यं सूत्रकृन्न विचारयेत् , तस्मा­दु­त्त­र­सू­त्राणां श्रुति­वि­चा­रा­र्थ­त्वात् जन्मा­दि­सू­त्रेऽपि श्रुतिरेव स्वातन्त्र्येण विचार्यते नानुमानमिति परिहरति -
नेति ।

किं च मुमु­क्षो­र्ब्र­ह्मा­व­ग­ति­र­भीष्टा यदर्थमस्य शास्त्र­स्या­रम्भः, सा च नानुमानात् , ‘तं त्वौपनिषदम्’ इति श्रुतेः । अतो नानुमानं विचार्यमित्याह -
वाक्यार्थेति ।
वाक्यस्य तदर्थस्य च विचा­रा­द्य­ध्य­व­सानं तात्पर्यनिश्चयः प्रमे­य­स­म्भ­व­नि­श्च­यश्च तेन जाता ब्रह्मा­व­ग­ति­र्मु­क्तये भवतीत्यर्थः । सम्भवो बाधाभावः ।

ननु किम­नु­मा­न­मु­पे­क्षि­त­मेव नेत्याह -
सत्सु त्विति ।
विम­त­म­भि­न्न­नि­मि­त्तो­पा­दा­न­कम् , कार्य­त्वा­दू­र्ण­ना­भ्या­र­ब्ध­त­न्त्वा­दि­वत् , विमतं चेतनप्रकृतिकम् , कार्यत्वात् , सुखा­दि­व­दि­त्य­नु­मानं श्रुत्य­र्थ­दा­र्ढ्याय अपे­क्षि­त­मि­त्यर्थः । दार्ढ्यं संश­य­वि­प­र्या­स­नि­वृत्तिः । ‘मन्तव्यः’ इति श्रुता­र्थ­स्त­र्केण सम्भावनीय इत्यर्थः । यथा कश्चित् गान्धा­र­दे­शे­भ्य­श्चो­रै­र­न्य­त्रा­रण्ये बद्धनेत्र एव त्यक्तः केन­चि­न्मु­क्त­ब­न्ध­स्त­दु­क्त­मा­र्ग­ग्र­ह­ण­स­मर्थः पण्डितः स्वयं तर्ककुशलो मेधावी स्वदेशानेव प्राप्नुयात् एव­मे­वे­हा­वि­द्या­का­मा­दिभिः स्वरूपानन्दात् प्रच्या­व्य­स्मि­न्न­रण्ये संसारे क्षिप्तः केन­चि­द्द­या­प­र­व­शे­ना­चा­र्येण नासि त्वं संसारी किन्तु ‘तत्त्वमसि’ इत्यु­प­दि­ष्ट­स्व­रूपः स्वयं तर्क­कु­श­ल­श्चे­त्स्व­रूपं जानी­या­न्ना­न्य­थेति ।

श्रुतिः स्वस्याः पुरु­ष­म­ति­रू­प­त­र्का­पेक्षां दर्शयतीत्याह -
पण्डित इति ।
आत्मनः श्रुतेरित्यर्थः ।

ननु ब्रह्मणो मननाद्यपेक्षा न युक्ता, वेदार्थत्वात् , धर्मवत् । किन्तु श्रुति­लि­ङ्ग­वा­क्या­दय एवापेक्षिता इत्यत आह -
नेति ।
जिज्ञास्ये धर्म इव जिज्ञास्ये ब्रह्मणीति व्याख्येयम् । अनुभवो ब्रह्म­सा­क्षा­त्का­राख्यो विद्वदनुभवः । आदि­प­दा­न्म­न­न­नि­दि­ध्या­स­न­यो­र्ग्रहः ।

तत्र हेतुमाह -
अनुभवेति ।
मुक्त्यर्थं ब्रह्मज्ञानस्य शाब्दस्य साक्षा­त्का­रा­व­सा­न­त्वा­पे­क्ष­णा­त्प्र­त्य­ग्भू­त­सि­द्ध­ब्र­ह्म­गो­च­र­त्वेन साक्षा­त्का­र­फ­ल­क­त्व­स­म्भ­वात् , तदर्थं मननाद्यपेक्षा युक्ता । धर्मे तु नित्यपरोक्षे साध्ये साक्षा­त्का­र­स्या­न­पे­क्षि­त­त्वा­द­स­म्भ­वाच्च श्रुत्या निर्ण­य­मा­त्र­म­नु­ष्ठा­ना­या­पे­क्षि­तम् । लिङ्गादयस्तु श्रुत्य­न्त­र्भूता एव श्रुतिद्वारा निर्ण­यो­प­यो­गि­त्वे­ना­पे­क्ष्यन्ते न मननादयः अनु­प­यो­गा­दि­त्यर्थः । निरपेक्षः शब्दः श्रुतिः । शब्द­स्या­र्थ­प्र­का­श­न­सा­मर्थ्यं लिङ्गम् । पदं योग्ये­त­र­प­दा­काङ्क्षं वाक्यम् । अङ्ग­वा­क्य­सा­पेक्षं प्रधानवाक्यं प्रकरणम् । क्रम­प­ठि­ता­ना­म­र्थानां क्रम­प­ठि­तै­र्य­था­क्रमं सम्बन्धः स्थानम् । यथा ऐन्द्राग्न्यादय इष्टयो दश क्रमेण पठिताः दशमन्त्राश्च ‘इन्द्राग्नी रोचना दिवि’ इत्याद्याः तत्र प्रथमेष्टौ प्रथममन्त्रस्य विनियोग इत्याद्यूहनीयम् । संज्ञासाम्यं समाख्या । यथा­ध्व­र्य­व­सं­ज्ञ­कानां मन्त्रा­णा­मा­ध्व­र्य­व­सं­ज्ञके कर्मणि विनियोग इति विवेकः । एवं तावद्ब्रह्म मननाद्यपेक्षम् , वेदार्थत्वात् , धर्मवत् , इत्यनुमाने साध्यत्वेन धर्म­स्या­नु­भ­वा­यो­ग्य­त्वम् , अन­पे­क्षि­ता­नु­भ­वत्वं चोपा­धि­रि­त्यु­क्तम् । उपा­धि­व्य­ति­रे­का­द्ब्र­ह्मणि मन­ना­द्य­पे­क्षत्वं चोक्तम् । तत्र यदि वेदा­र्थ­त्व­मा­त्रेण ब्रह्मणो धर्मेण साम्यं त्वयोच्येत तर्हि कृतिसाध्यत्वं विधि­नि­षे­ध­वि­क­ल्पो­त्स­र्गा­प­वा­दाश्च ब्रह्मणि धर्मवत् स्युरिति ।

विपक्षे बाधकमाह -
पुरुषेत्यादिना ।
पुरुषकृत्यधीना आत्मलाभ उत्पत्तिर्यस्य तद्भावाच्च धर्मे श्रुत्यादीनामेव प्रामा­ण्य­मि­त्य­न्वयः ।

धर्मस्य साध्यत्वं लौकि­क­क­र्म­दृ­ष्टा­न्तेन स्फुटयति -
कर्तुमिति ।
लौकिकवदित्यर्थः ।

दृष्टान्तं स्फुटयति -
यथेति ।

दार्ष्टा­न्ति­क­माह -
तथेति ।

तद्वद्धर्मस्य कर्तुमकर्तुं शक्यत्वमुक्त्वा अन्यथाकर्तुं शक्यत्वमाह -
उदित इति ।

धर्मस्य साध्य­त्व­मु­प­पाद्य तत्र विध्या­दि­यो­ग्य­ता­माह -
विधीति ।
विधि­प्र­ति­षे­धाश्च विकल्पादयश्च धर्मे साध्ये येऽर्थवन्तः सावकाशा भवन्ति ते ब्रह्मण्यपि स्युरित्यर्थः ।

‘यजेत’ ‘न सुरां पिबेत्’ इत्यादयो विधिनिषेधाः । व्रीहि­भि­र्य­वैर्या यजेतेति सम्भावितो विकल्पः ग्रह­णा­ग्र­ह­ण­यो­रै­च्छिकः । उदि­ता­नु­दि­त­हो­म­यो­र्व्य­व­स्थि­त­वि­कल्पः । ‘न हिंस्यात्’ इत्युत्सर्गः, ‘अग्नीषोमीयं पशुमालभेत’ इत्यपवादः । तथा ‘आहवनीये जुहोति’ इत्युत्सर्गः, ‘अश्वस्य पदे पदे जुहोति’ इत्यपवाद इति विवेकः । एते ब्रह्मणि स्युरि­त्य­त्रे­ष्टा­पत्तिं वारयति -
न इत्यादिना भूत­व­स्तु­वि­ष­य­त्वात् इत्यन्तेन ।
इदं वस्तु, एवम् , नैवम् , घटः पटो वेति प्रकारविकल्पः । अस्ति नास्ति वेति सत्ता­स्व­रू­प­वि­कल्पः ।

ननु वस्तुन्यपि आत्मादौ वादिनामस्ति नास्ती­त्या­दि­वि­कल्पा दृश्यन्ते तत्राह -
विक­ल्प­ना­स्त्विति ।
अस्ति­त्वा­दि­को­टि­स्म­रणं पुरु­ष­बु­द्धि­स्त­न्मूला मनः­स्प­न्दि­त­मात्राः संश­य­वि­प­र्य­य­वि­कल्पा न प्रमारूपा इत्यक्षरार्थः । अयं भावः धर्मो हि यथा यथा ज्ञायते तथा तथा कर्तुं शक्यते इति यथाशास्त्रं पुरु­ष­बु­द्ध्य­पेक्षा विकल्पाः सर्वे प्रमारूपा एव भवन्ति, तत्साम्येन ब्रह्मण्यपि सर्वे विकल्पा यथार्थाः स्युरिति ।

तत्राप्येवमिति वदन्तं प्रत्याह -
नेति ।
यदि सिद्ध­व­स्तु­ज्ञा­न­मपि साध्य­ज्ञा­न­व­त्पु­रु­ष­बु­द्धि­म­पेक्ष्य जायेत तदा सिद्धे विकल्पा यथार्थाः स्युः, न सिद्ध­व­स्तु­ज्ञानं पौरुषं किं तर्हि प्रमा­ण­व­स्तु­ज­न्यम् , तथा च वस्तुन एकरूपत्वादेकमेव ज्ञानं प्रमा, अन्ये विकल्पा अयथार्था एवेत्यर्थः ।

अत्र दृष्टान्तमाह -
नहि स्थाणाविति ।
स्थाणु­रे­वे­त्य­व­धा­रणे सिद्धे सर्वे विकल्पा यथार्था न भवन्तीत्यर्थः ।

तत्र यद्वस्तुतन्त्रं ज्ञानं तद्यथार्थम् , यत्पुरुषतन्त्रं तन्मिथ्येति विभजते -
तत्रेति ।
स्थाणावित्यर्थः ।

स्थाणा­वु­क्त­न्यायं घटादिष्वतिदिशति -
एवमिति ।

प्रकृतमाह -
तत्रैवं सतीति ।
सिद्धेऽर्थे ज्ञान­प्र­मा­त्वस्य वस्त्वधीनत्वे सति ब्रह्मज्ञानमपि वस्तुजन्यमेव यथार्थं न पुरुषतन्त्रं भूता­र्थ­वि­ष­त्वात् , स्थाणु­ज्ञा­न­व­दि­त्यर्थः । अतः साध्येऽर्थे सर्वे विकल्पाः पुन्तन्त्रा न सिद्धेऽर्थे इति वैलक्षण्यात् न धर्मसाम्यं ब्राह्मण इति मननाद्यपेक्षा सिद्धेति भावः ।

ननु तर्हि ब्रह्म प्रत्य­क्षा­दि­गो­च­रम् , धर्म­वि­ल­क्ष­ण­त्वात् , घटादिवत् । तथा च जन्मादिसूत्रे जगत्कारणानुमानं विचार्यम् , सिद्धार्थे तस्य मानत्वात् , न श्रुतिः, सिद्धार्थे तस्या अमानत्वेन तद्विचारस्य निष्फलत्वादिति शङ्कते -
नन्विति ।
प्रमा­णा­न्त­र­वि­ष­य­त्व­मेव प्राप्तमिति कृत्वा प्रमा­णा­न्त­र­स्यैव विचा­र­प्रा­प्ता­विति शेषः ।

अत्र पूर्वपक्षी प्रष्टव्यः, किं यत्कार्यं तद्ब्र­ह्म­ज­मि­त्य­नु­मानं ब्रह्मसाधकं किं वा यत्कार्यं तत्सकारणमिति । नाद्यः, व्याप्त्य­सि­द्धे­रि­त्याह -
नेति ।
ब्रह्मण इन्द्रि­या­ग्रा­ह्य­त्वा­त्प्र­त्य­क्षेण व्याप्ति­ग्र­हा­यो­गान्न प्रमा­णा­न्त­र­वि­ष­य­त्व­मि­त्यर्थः ।

इन्द्रि­या­ग्रा­ह्यत्वं कुत इत्यत आह -
स्वभावत इति ।
‘पराञ्चि खानि व्यतृ­ण­त्स्व­यम्भूः’ इति श्रुतेः, ब्रह्मणो रूपा­दि­ही­न­त्वा­च्चे­त्यर्थः ।

इन्द्रि­या­ग्रा­ह्य­त्वेऽपि व्याप्तिग्रहः किं न स्यादत आह -
सति हीति ।
तन्नास्तीति शेषः । इदं कार्यं ब्रह्मजमिति व्याप्ति­प्र­त्यक्षं ब्रह्म­णोऽ­ती­न्द्रि­य­त्वान्न सम्भवतीत्यर्थः ।

द्वितीये कारणसिद्धावपि कारणस्य ब्रह्मत्वं श्रुतिं विना ज्ञातु­म­श­क्य­मि­त्याह -
कार्यमात्रमिति ।
सम्बद्धं कृतं यस्मात् श्रुतिमन्तरेण जगत्कारणं ब्रह्मेति निश्च­या­ला­भ­स्त­स्मा­त्त­ल्ला­भाय श्रुतिरेव प्राधान्येन विचारणीया, अनुमानं तूपा­दा­न­त्वा­दि­सा­मा­न्य­द्वारा मृदादिवत् ब्रह्मणः स्वका­र्या­त्म­क­त्वा­दि­श्रौ­ता­र्थ­स­म्भा­व­नार्थं गुणतया विचा­र्य­मि­त्यु­प­सं­ह­रति -

तस्मादिति ।
एतत्सूत्रस्य विषयवाक्यं पृच्छति -

किं पुनरिति ।
इह ब्रह्मणि लक्षणार्थत्वेन विचारयितुमिष्टं वाक्यं किमित्यर्थः ।

अत्र हि प्रथमसूत्रे विशि­ष्टा­धि­का­रिणो ब्रह्मविचारं प्रतिज्ञाय ब्रह्म­ज्ञा­तु­का­मस्य द्वितीयसूत्रे लक्षणमुच्यते । तथैव श्रुतावपि मुमु­क्षो­र्ब्र­ह्म­ज्ञा­तु­का­मस्य जग­त्का­र­ण­त्वो­प­ल­क्ष­णा­नु­वा­देन ब्रह्म ज्ञाप्यत इति श्रौता­र्थ­क्र­मा­नु­सा­रित्वं सूत्रस्य दर्शयितुं सोपक्रमं वाक्यं पठति -
भृगुरिति ।
अधीहि स्मारय उपदिशेत्यर्थः । अत्र येनेत्येकत्वं विवक्षितम् , नानात्वे ब्रह्म­त्व­वि­धा­ना­यो­गात् । यज्जगत्कारणं तदे­क­मि­त्य­वा­न्त­र­वा­क्यम् । यदेकं कारणं तद्ब्रह्मेति वा यत्कारणं तदेकं बह्मेति वा महावाक्यमिति भेदः ।

किं तर्हि स्वरू­प­ल­क्ष­ण­मि­त्या­शङ्क्य वाक्य­शे­षा­न्नि­र्णितो यतःशब्दार्थः सत्यज्ञानानन्द इत्याह -
तस्य चेति ।

‘यः सर्वज्ञः’ ‘तस्मा­दे­त­द्ब्रह्म नाम रूपमन्नं च जायते’ ‘विज्ञानमानन्दं ब्रह्म’ इत्यादि शाखा­न्त­री­य­वा­क्या­न्य­प्यस्य विषय इत्याह -
अन्यान्यपीति ।

एवं जातीयकत्वमेवाह -
नित्येति ।
तदेवं सर्वासु शाखासु लक्ष­ण­द्व­य­वा­क्यानि जिज्ञास्ये ब्रह्मणि समन्वितानि, तद्धिया मुक्तिरिति सिद्धम् ॥ २ ॥

यस्य निःश्वसितं वेदाः सर्वा­र्थ­ज्ञा­न­श­क्तयः ।
श्रीरामं सर्ववेत्तारं वेदवेद्यमहं भजे ॥ १ ॥
वृत्तानुवादेन सङ्गतिं वद­न्नु­त्त­र­सु­त्र­म­व­ता­र­यति -
जगदिति ।
चेतनस्य ब्रह्मणो जग­त्का­र­ण­त्वोक्त्या सर्व­ज्ञ­त्व­म­र्था­त्प्र­ति­ज्ञातं सूत्रकृता, चेत­न­सृ­ष्टे­र्ज्ञा­न­पू­र्व­क­त्वात् । तथा च ब्रह्म सर्वज्ञम् , सर्वकारणत्वात् , यो यत्कर्ता स तज्ज्ञः, यथा कुलाल इति स्थितम् । तदेवार्थिकं सर्वज्ञत्वं प्रधा­ना­दि­नि­रा­साय वेद­क­र्तृ­त्व­हे­तुना द्रढ­य­न्ना­हे­त्यर्थः । हेतु­द्व­य­स्यै­का­र्थ­सा­ध­न­त्वात् , एक­वि­ष­य­त्व­म­वा­न्त­र­स­ङ्गतिः । यद्वा वेदस्य नित्य­त्वा­द्ब्र­ह्मणः सर्वहेतुता नास्ती­त्या­क्षे­प­स­ङ्गत्या वेद­हे­तु­त्व­मु­च्यते ‘अस्य महतो भूतस्य निःश्व­सि­त­मे­त­द्य­दृ­ग्वेदो यजुर्वेदः साम­वे­दोऽ­थ­र्वा­ङ्गि­रसः’ इति वाक्यं विषयः तत्किं वेदहेतुत्वेन ब्रह्मणः सर्वज्ञत्वं साधयति उत न साधयति इति सन्देहः । तत्र व्याक­र­णा­दि­व­द्वे­दस्य पौरुषेयत्वे मूल­प्र­मा­ण­सा­पे­क्ष­त्वे­ना­प्रा­मा­ण्या­पा­तान्न साधयतीति पूर्वपक्षे जग­द्धे­तो­श्चे­त­न­त्वा­सिद्धिः फलम् । सिद्धान्ते तत्सिद्धिः । अस्य वेदान्तवाक्यस्य स्पष्ट­ब्र­ह्म­लि­ङ्गस्य वेदकर्तरि समन्वयोक्तेः श्रुति­शा­स्त्रा­ध्या­य­पा­द­स­ङ्ग­तयः । एवमापादं श्रुत्या­दि­स­ङ्ग­तय ऊह्याः ।

वेदे हि सर्वा­र्थ­प्र­का­श­न­श­क्ति­रु­प­ल­भ्यते, सा तदु­पा­दा­न­ब्र­ह्म­ग­त­श­क्ति­पू­र्विका तद्गता वा, प्रका­श­न­श­क्ति­त्वात् । कार्य­ग­त­श­क्ति­त्वाद्वा, प्रदी­प­श­क्ति­व­दिति वेदोपादानत्वेन ब्रह्मणः स्वस­म्ब­द्धा­शे­षा­र्थ­प्र­का­श­न­सा­म­र्थ्य­रूपं सर्वसाक्षित्वं सिध्यति । यद्वा यथा अध्येतारः पूर्वक्रमं ज्ञात्वा वेदं कुर्वन्ति, तथा विचि­त्र­गु­ण­मा­या­स­हा­योऽ­ना­वृ­ता­न­न्त­स्व­प्र­का­श­चि­न्मात्रः परमेश्वरः स्वकृ­त­पू­र्व­क­ल्पी­य­क्र­म­स­जा­ती­य­क्र­म­वन्तं वेदराशिं तदर्थांश्च युगपज्जानन्नेव करोतीति न वेदस्य पौरुषेयता । यत्र ह्यर्थ­ज्ञा­न­पू­र्वकं वाक्यज्ञानं वाक्यसृष्टौ कारणं तत्र पौरुषेयता, अत्र च यौगपद्यान्न सा, अतो वेदकर्ता वेदमिव तदर्थमपि स्वसम्बद्धं नान्तरीयकतया जानातीति सर्वज्ञ इति सिद्धान्तयति -
शास्त्रेति ।

शास्त्रं प्रति हेतुत्वात् , ब्रह्म सर्वज्ञं सर्वकारणं च इति सङ्ग­ति­द्व­या­नु­सा­रेण सूत्र­यो­ज­ना­म­भि­प्रेत्य पदानि व्याचष्टे -
महत इति ।
हेतोः सर्व­ज्ञ­त्व­सि­द्धये वेदस्य विशेषणानि । तत्र ग्रन्थ­तोऽ­र्थ­तश्च महत्त्वम् , हित­शा­स­ना­त्शा­स्त्र­त्वम् ।

शास्त्रशब्दः शब्द­मा­त्रो­प­ल­क्ष­णार्थ इति मत्वाह -
अनेकेति ।
पुरा­ण­न्या­य­मी­मां­सा­ध­र्म­शा­स्त्राणि शिक्षा­क­ल्प­व्या­क­र­ण­नि­रु­क्त­च्छ­न्दो­ज्यो­ति­षाणि षडङ्गानि इति दश विद्यास्थानानि वेदा­र्थ­ज्ञा­न­हे­तवः । तैरु­प­कृ­त­स्ये­त्यर्थः । अनेन मन्वादिभिः परिगृहीतत्वेन वेदस्य प्रामाण्यं सूचितम् ।

अबो­ध­क­त्वा­भा­वा­दपि प्रामा­ण्य­मि­त्याह -
प्रदीपवदिति ।
सर्वा­र्थ­प्र­का­श­न­श­क्ति­म­त्वेऽ­प्य­चे­त­न­त्वा­त्स­र्व­ज्ञ­क­ल्पत्वं योनिरुपादानं कर्तृ च ।

ननु सर्वज्ञस्य यो गुणः सर्वा­र्थ­ज्ञा­न­श­क्ति­मत्वं वेदस्य तदन्वितत्वेऽपि तद्योनेः सर्वज्ञत्वं कुत इत्यत आह -
न हीति ।
उपादाने तच्छक्तिं विना कार्ये तद­यो­गा­द्वे­दो­पा­दा­नस्य सर्वज्ञत्वम् , अनुमानं तु पूर्वं दर्शितम् । न चावि­द्या­या­स्त­दा­पत्तिः । शक्ति­म­त्वेऽ­प्य­चे­त­न­त्वा­दिति भावः ।

वेदः स्ववि­ष­या­द­धि­का­र्थ­ज्ञा­न­व­ज्जन्यः प्रमा­ण­वा­क्य­त्वात् , व्याक­र­ण­रा­मा­य­णा­दि­व­दि­त्य­नु­मा­ना­न्त­रम् । तत्र व्याप्तिमाह -
यद्यदिति ।
विस्तरः शब्दाधिक्यम् , अने­ना­र्थ­तोऽ­ल्पत्वं वदन् कर्तु­र्ज्ञा­न­स्या­र्था­धिक्यं सूचयति, दृश्यते चार्थवादाधिक्यं वेदे । अत्रैषा योजना - यद्यच्छास्त्रं यस्मा­दा­प्ता­त्स­म्भ­वति स ततः शास्त्रा­द­धि­का­र्थ­ज्ञान इति प्रसिद्धम् , यथा शब्द­सा­धु­त्वा­दि­र्ज्ञे­यै­क­दे­शोऽर्थो यस्य तदपि व्याकरणादि पाणि­न्या­दे­र­धि­का­र्थ­ज्ञा­त्स­म्भ­वति । यद्यल्पार्थमपि शास्त्र­म­धि­का­र्थ­ज्ञा­त्स­म्भ­वति तदा ‘अस्य महतः’ इत्या­दि­श्रु­ते­र्य­स्मा­न्म­ह­तोऽ­प­रि­च्छि­न्ना­द्भू­ता­त्स­त्या­द्योनेः सकाशात् अने­क­शा­खे­त्या­दि­वि­शि­ष्टस्य वेदस्य पुरु­ष­निः­श्वा­स­व­द­प्र­य­त्ने­नैव सम्भवः तस्य सर्वज्ञत्वं सर्वशक्तिमत्वं चेति किमु वक्तव्यमिति ।

तत्र वेदस्य पौरु­षे­य­त्व­श­ङ्का­नि­र­सार्थं श्रुति­स्थ­निः­श्व­सि­त­प­दा­र्थ­माह -
अप्रयत्नेनेति ।
प्रमा­णा­न्त­रे­णा­र्थ­ज्ञा­न­प्र­यासं विना निमे­षा­दि­न्या­ये­ने­त्यर्थः । अत्रानुमानेन ‘यः सर्वज्ञः’ इति श्रुत्यु­क्त­स­र्व­ज्ञ­त्व­दा­र्ढ्याय पाणि­न्या­दि­व­द्वे­द­क­र्तरि अधि­का­र्थ­ज्ञा­न­स­त्ता­मात्रं साध्यते न त्वर्थज्ञानस्य वेदहेतुत्वं निःश्व­सि­त­श्रु­ति­वि­रो­धात् , वेद­ज्ञा­न­मा­त्रे­णा­ध्ये­तृ­व­द्वे­द­क­र्तृ­त्वो­प­प­त्तेश्च । इयान् विशेषः - अध्येता परापेक्षः, ईश्वरस्तु स्वकृ­त­वे­दा­नु­पूर्वीं स्वयमेव स्मृत्वा तथैव कल्पादौ ब्रह्मा­दि­ष्वा­वि­र्भा­व­यन् अना­वृ­त­ज्ञा­न­त्वा­त्त­द­र्थ­म­त्य­व­र्ज­नी­य­तया जानातीति सर्वज्ञ इत्यनवद्यम् ॥

अधुना ब्रह्मणो लक्षणानन्तरं प्रमा­ण­जि­ज्ञा­सायां वर्णकान्तरमाह -
अथवेति ।
लक्ष­ण­प्र­मा­ण­यो­र्ब्र­ह्म­नि­र्ण­या­र्थ­त्वा­दे­क­फ­ल­कत्वं सङ्गतिः ।

‘तं त्वौपनिषदं पुरुषम्’ इति श्रुति­र्ब्र­ह्मणो वेदैकवेद्यत्वं ब्रूते न वेति संशये, कार्यलिङ्गेनैव लाघ­वा­त्क­र्तु­रे­कस्य सर्वज्ञस्य ब्रह्मणः सिद्धेर्न ब्रूते इति प्राप्ते वेद­प्र­मा­ण­क­त्वात् ब्रह्मणो न प्रमा­णा­न्त­र­वे­द्य­त्व­मिति सिद्धान्तयति -
शास्त्र­यो­नि­त्वा­दिति ।

तद्व्याचष्टे -
यथोक्तमिति ।
सर्वत्र पूर्वो­त्त­र­प­क्ष­यु­क्ति­द्वयं संशयबीजं द्रष्टव्यम् । अत्र पूर्वपक्षे अनुमानस्यैव विचा­र्य­ता­सिद्धिः फलं सिद्धान्ते वेदान्तानामिति भेदः । अनुमानादिना ब्रह्मसिद्धिः पूर्वसूत्रे प्रस­ङ्गा­न्नि­रस्ता । किञ्च विचि­त्र­प्र­प­ञ्चस्य प्रासा­दा­दि­व­दे­क­क­र्तृ­क­ता­बा­धान्न लाघवावतारः ।

न च सर्व­ज्ञ­त्वा­त्क­र्तु­रे­क­त्व­स­म्भवः । एक­त्व­ज्ञा­ना­त्स­र्व­ज्ञ­त्व­ज्ञानं तत­स्त­दि­त्य­न्यो­न्या­श्र­य­म­भि­प्रे­त्याह -
शास्त्रादेवेति ।

किं तच्छास्त्रमिति तदाह -
शास्त्रमिति ।

पृथ­गा­र­म्भ­मा­क्षि­पति -
किमर्थमिति ।
येन हेतुना दर्शितं ततः किमर्थमित्यर्थः ।

जन्मा­दि­लि­ङ्ग­का­नु­मा­नस्य स्वात­न्त्र्ये­णो­प­न्या­स­श­ङ्का­नि­रा­सार्थं पृथ­क्सू­त्र­मि­त्याह -
उच्यत इति ॥ ३ ॥

वेदान्ताः सिद्धब्रह्मपरा उत कार्यपरा इति निष्फ­ल­त्व­सा­पे­क्ष­त्वयोः प्रस­ङ्गा­प्र­स­ङ्गाभ्यां संशये पूर्वसूत्रे द्विती­य­व­र्ण­के­ना­क्षे­प­स­ङ्गत्या पूर्वपक्षमाह
कथं पुनरित्यादिना ।
‘सदेव सोम्य’ इत्यादीनां सर्वा­त्म­त्वा­दि­स्प­ष्ट­ब्र­ह्म­लि­ङ्गानां ब्रह्मणि समन्वयोक्तेः, श्रुत्या­दि­स­ङ्ग­तयः । पूर्वपक्षे वेदान्तेषु मुमु­क्षु­प्र­वृ­त्त्य­सिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः ।

कथमित्याक्षेपे हेतुः -
यावतेति ।
यतो जैमिनिसूत्रेण शास्त्रस्य वेदस्य क्रियापरत्वं दर्शि­त­म­तोऽ­क्रि­या­र्थ­त्वा­द्वे­दा­न्त­ना­मा­न­र्थक्यं फल­व­द­र्थ­शू­न्यत्वं प्राप्त­मि­त्य­न्वयः । सूत्रस्यायमर्थः - प्रथमसूत्रे ताव­द्वे­द­स्या­ध्य­य­न­क­र­ण­क­भा­व­ना­वि­धि­भा­व्यस्य फल­व­द­र्थ­प­र­त्व­मु­क्तम् । ‘चोद­ना­ल­क्ष­णोऽर्थो धर्मः’ इति द्वितीयसूत्रे धर्मे कार्ये चोदना प्रमाणमिति वेद­प्रा­मा­ण्य­व्या­पकं कार्य­प­र­त्व­म­व­सि­तम् । तत्र ‘वायुर्वै क्षेपिष्ठा’ इत्या­द्य­र्थ­वा­दानां धर्मे प्रामाण्यमस्ति न वेति संशये आम्ना­य­प्रा­मा­ण्यस्य क्रियार्थत्वेन व्याप्तत्वात् , अर्थवादेषु धर्म­स्या­प्र­तीतेः अक्रियार्थानां तेषामानर्थक्यं निष्फलार्थत्वम् ।

न चाध्य­य­न­वि­ध्यु­पा­त्तानां निष्फले सिद्धेऽर्थे प्रामाण्यं युक्तम् , तस्मा­द­नि­त्य­मेषां प्रामा­ण्य­मु­च्यते । व्याप­का­भा­वा­द्व्याप्यं प्रामाण्यं नास्त्येवेति यावत् । एवं पूर्वपक्षेऽपि ‘विधिना त्वेक­वा­क्य­त्वा­त्स्तु­त्य­र्थेन विधीनां स्युः’ इति सूत्रेण सिद्धान्तमाह -
क्रियापरत्वमिति ।
अनित्यमिति प्राप्ते दर्शितमित्यर्थः । वायुर्वै क्षिप्रतमगामिनी देवता तद्देवताकं कर्म क्षिप्रमेव फलं दास्यति, इत्येवं विधेयार्थानां स्तुतिरूपार्थेन द्वारेण ‘वायव्यं श्वेतमालभेत’ इत्या­दि­वि­धि­वा­क्ये­नै­क­वा­क्य­त्वा­द­र्थ­वादाः सफलाः स्युः । स्तुतिलक्षणया सफ­ल­का­र्य­प­र­त्वा­त्प्र­मा­ण­म­र्थ­वादा इति यावत् ।

नन्व­ध्य­य­न­वि­धि­गृ­ही­तानां वेदा­न्ता­ना­मा­न­र्थक्यं न युक्तमित्यत आह -
कर्त्रिति ।
न वयं वेदा­न्ता­ना­मा­न­र्थक्यं साधयामः किन्तु लोके सिद्धस्य माना­न्त­र­वे­द्य­त्वा­न्नि­ष्फ­ल­त्वाच्च सिद्ध­ब्र­ह्म­प­रत्वे तेषां माना­न्त­र­सा­पे­क्ष­त्व­नि­ष्फ­ल­त्वयोः प्रस­ङ्गा­द­प्रा­मा­ण्या­पा­तात् , कार्य­शे­ष­क­र्तृ­दे­व­ता­फ­लानां प्रकाशनद्वारा कार्यपरत्वं वक्तव्यमिति ब्रूमः । तत्र त्वन्त­त्प­दा­र्थ­वा­क्यानां कर्तृ­दे­व­ता­स्ता­व­क­त्वम् , विवि­दि­षा­दि­वा­क्यानां फलस्तावकत्वम् ।

ननु कर्म­वि­शे­ष­म­ना­रभ्य प्रक­र­णा­न्त­रा­धी­तानां वेदान्तानां कथं तच्छेषत्वम् , माना­भा­वा­दि­त्य­रुच्या पक्षान्तरमाह -
उपासनेति ।
मोक्ष­का­मोऽ­स­द्ब्र­ह्मा­भे­द­मा­रोप्य अहं ब्रह्मा­स्मी­त्यु­पा­सीत इत्यु­पा­स­ना­विधिः, आदि­श­ब्दा­च्छ्र­व­णा­दयः । तत्कार्यपरत्वं वा वक्त­व्य­मि­त्यर्थः ।

ननु श्रुतं ब्रह्म विहायाश्रुतं कार्यपरत्वं किमर्थं वक्तव्यमिति तत्राह -
नहीति ।
परितः सम­न्ता­न्नि­श्च­येन स्थितं परिनिष्ठितं कृत्यनपेक्षम् । सिद्धमिति यावत् । तस्य प्रति­पा­द­न­म­ज्ञा­तस्य वेदेन ज्ञापनम् , तन्न सम्भवति, मान­न्त­र­यो­ग्येऽर्थे वाक्यस्य संवादे सत्य­नु­वा­द­क­त्वात् , ‘अग्निर्हिमस्य भेषजम्’ इति वाक्यवत् । विसंवादे च बोधकत्वात् , ‘आदित्यो यूपः’ इति वाक्यवदित्यर्थः ।

सिद्धो न वेदार्थः, माना­न्त­र­यो­ग्य­त्वा­द्घ­ट­व­दि­त्युक्त्वा निष्फलत्वाच्च तथेत्याह -
तदिति ।
सिद्धज्ञापने हेयोपादेयागोचरे फलाभावाच्च तन्न सम्भवतीत्यर्थः । फलं हि सुखा­व्या­प्ति­र्दुः­ख­हा­निश्च । तच्च प्रवृत्ति निवृत्तिभ्यां साध्यम् । ते चोपादेयस्य प्रवृ­त्ति­प्र­य­त्न­का­र्यस्य हेयस्य निवृ­त्ति­प्र­य­त्न­का­र्यस्य ज्ञानाभ्यां जायेते, न सिद्धज्ञानादिति भावः ।

तर्हि सिद्ध­बो­धि­वे­द­वा­दानां साफल्यं कथमित्याशङ्क्य ‘आम्नायस्य’ इत्या­दि­स­ङ्ग्र­ह­वाक्यं विवृणोति -
अत एवेति ।
सिद्ध­व­स्तु­ज्ञा­ना­त्फ­ला­भा­वा­दे­वे­त्यर्थः । ‘देवैर्निरुद्धः सोऽग्निररोदीत्’ इति वाक्य­स्या­श्रु­ज­त्वेन रजतस्य निन्दाद्वारा ‘बर्हिषि न देयं’ इति सफ­ल­नि­षे­ध­शे­ष­त्व­वत् वेदान्तानां विध्यादिशेषत्वं वाच्यमित्यर्थः ।

ननु तेषां मन्त्र­व­त्स्वा­त­न्त्र्य­मस्तु नार्थ­वा­द­व­द्वि­ध्ये­क­वा­क्य­त्व­मि­त्या­शङ्क्य दृष्टा­न्ता­सि­द्धि­माह -
मन्त्राणां चेति ।
प्रथमाध्याये प्रमा­ण­ल­क्ष­णेऽ­र्थ­वा­द­चि­न्ता­न­न्तरं मन्त्रचिन्ता कृता ‘इषे त्वा’ इति मन्त्रे ‘छिनद्मि’ इत्य­ध्या­हा­रा­च्छा­खा­च्छे­द­न­क्रि­या­प्र­तीतेः, ‘अग्निर्मूर्धा’ इत्यादौ च क्रिया­सा­ध­न­दे­व­ता­दि­प्र­तीतेः मन्त्राः श्रुत्यादिभिः क्रतौ विनियुक्ताः, ते किमु­च्चा­र­ण­मा­त्रे­णा­दृष्टं कुर्वन्तः क्रता­वु­प­कु­र्वन्ति उत दृष्टे­नै­वा­र्थ­स्म­र­णे­नेति सन्देहे चिन्ता­दि­ना­प्य­ध्य­य­न­का­ला­व­ग­त­म­न्त्रा­र्थस्य स्मृति­स­म्भ­वा­द­दृ­ष्टार्था मन्त्रा इति प्राप्ते सिद्धान्तः - ‘अविशिष्टस्तु वाक्यार्थः’ इति लोक­वे­द­यो­र्वा­क्या­र्थ­स्या­वि­शे­षा­न्म­न्त्र­वा­क्यानां दृष्टेनैव स्वार्थ­प्र­का­श­नेन क्रतू­प­का­र­क­त्व­स­म्भ­वात् , दृष्टे सम्भवति अदृ­ष्ट­क­ल्प­ना­नु­प­पत्तेः, फल­व­द­नु­ष्ठा­ना­पे­क्षि­तेन क्रिया­त­त्सा­ध­न­स्म­र­णेन द्वारेण मन्त्राणां कर्माङ्गत्वम् । ‘मन्त्रै­रे­वार्थः स्मर्तव्यः’ इति निय­म­स्त्व­दृ­ष्टार्थ इति । तथा चार्थवादानां स्तुति­प­दा­र्थ­द्वारा पदैकवाक्यत्वं विधिभिः, मन्त्राणां तु वाक्या­र्थ­ज्ञा­न­द्वारा तैर्वा­क्यै­क­वा­क्य­त्व­मिति विभागः ।

नन्वस्तु कर्म­प्र­क­र­ण­स्थ­वा­क्यानां विध्ये­क­वा­क्य­त्वम् , वेदान्तानां तु सिद्धे प्रामाण्यं किं न स्यादिति तत्राह -
न क्वचिदिति ।
वेदान्ता विध्ये­क­वा­क्य­त्वे­नै­वा­र्थ­वन्तः, सिद्धा­र्था­वे­द­क­त्वात् , मन्त्रा­र्थ­वा­दा­दि­व­दि­त्यर्थः ।

अन्य­त्रा­दृ­ष्टापि वेदान्तेषु कल्प्यतामिति तत्राह -
उपपन्ना वेति ।
नेत्यनुषङ्गः । सिद्धे फला­भा­वा­स्यो­क्त­त्वा­दिति भावः ।

तर्हि ब्रह्मण्येव स्वार्थे विधिः कल्प्यतां कृतं वेदान्तानां विध्य­न्त­र­शे­ष­त्वे­ने­त्यत आह -
न चेति ।

ननु ‘दध्ना जुहोति’ इति सिद्धे दधनि विधि­र्दृ­ष्ट­स्त­त्राह -
क्रियेति ।
दध्नः क्रियासाधनस्य प्रयुज्यमानतया साध्य­त्वा­द्वि­धे­यता, निष्क्रि­य­ब्र­ह्मणः कथ­म­प्य­सा­ध्य­त्वान्न विधे­य­त्व­मि­त्यर्थः ।

भाट्ट­म­त­मु­प­सं­ह­रति -
तस्मादिति ।

स्वयमेवारुचिं वद­न्प­क्षा­न्त­र­माह -
अथेति ।

सिद्धान्तसूत्रं व्याचष्टे -
तुशब्द इति ।

तद्ब्रह्म वेदा­न्त­प्र­मा­ण­क­मिति प्रति­ज्ञा­तेऽर्थे हेतुं पृच्छति -
कथमिति ।

हेतुमाह -
समिति ।
अन्व­य­ता­त्प­र्य­वि­ष­यत्वं तस्मादित्येव हेतुः । तात्पर्यस्य सम्य­क्त्व­म­ख­ण्डा­र्थ­वि­ष­य­कत्वं सूचयितुं सम् - पदं प्रति­ज्ञा­न्त­र्ग­त­मेव । तथा चाखण्डं ब्रह्म वेदा­न्त­ज­प्र­मा­वि­षयः, वेदा­न्त­ता­त्प­र्य­वि­ष­य­त्वात् , यो यद्वा­क्य­ता­त्प­र्य­वि­षयः स तद्वा­क्य­प्र­मेयः, यथा कर्म­वा­क्य­प्र­मेयो धर्म इति प्रयोगः । वाक्या­र्थ­स्या­ख­ण्डत्वं - असंसृष्टत्वम् । वाक्यस्य चाखण्डार्थकत्वं - स्वपदोपस्थिता ये पदार्थास्तेषां यः संस­र्ग­स्त­द्गो­च­र­प्र­मा­ज­न­क­त्वम् । न चेदमप्रसिद्धम् । प्रकृ­ष्ट­प्र­का­श­श्चन्द्र इत्यादि लक्षणवाक्यानां लोके लक्षणया चन्द्रा­दि­व्य­क्ति­मा­त्र­प्र­मा­हे­तु­त्वात् । सर्वपदलक्षणा चाविरुद्धा सर्वै­र­र्थ­वा­द­प­दै­रे­कस्याः स्तुते­र्ल­क्ष्य­त्वा­ङ्गी­का­रात् । तथा सत्य­ज्ञा­ना­दि­प­दै­र­खण्डं ब्रह्म भातीति न पक्षासिद्धिः । नापि हेत्वसिद्धिः, उप­क्र­मा­दि­लि­ङ्गै­र्वे­दा­न्ता­ना­म­द्वि­ती­या­ख­ण्ड­ब्र­ह्मणि तात्प­र्य­नि­र्ण­यात् ।

तत्र छान्दोग्यषष्ठे उपक्रमं दर्शयति -
सदेवेति ।
उद्दालकः पुत्रमुवाच - हे सोम्य प्रियदर्शन, इदं सर्वं जगत् , अग्रे उत्पत्तेः प्राक्काले सदबाधितं ब्रह्मैवासीत् । एवकारेण जगतः पृथक्सत्ता निषिध्यते । सजा­ती­य­वि­जा­ती­य­स्व­ग­त­भे­द­नि­रा­सार्थं ‘एक­मे­वा­द्वि­ती­यम्’ इति पदत्रयम् । एवमद्वितीयं ब्रह्मोपक्रम्य ‘ऐतदात्म्यमिदं सर्वम्’ इत्युपसंहरति । इद­मु­प­क्र­मो­प­सं­हा­रै­क­रूप्यं तात्पर्यलिङ्गम् , यथा ‘तत्त्वमसि’ इति नवकृत्वोऽभ्यासः । रूपा­दि­ही­ना­द्वि­ती­य­ब्र­ह्मणो माना­न्त­रा­यो­ग्य­त्वा­द­पू­र्व­त्व­मु­क्तम् - ‘अत्र वाव किल सत्सोम्य न निभालयसे’ इति । सङ्घाते स्थितं प्रत्यग्ब्रह्म न जानासीत्यर्थः । ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये’ इति ब्रह्म­ज्ञा­ना­त्फ­ल­मुक्तं विदुषः । तस्य यावत्कालं देहो न विमोक्ष्यते तावदेव देहपातपर्यन्तो विलम्बः । अथ देहपातानन्तरं विद्वान् ब्रह्म सम्पत्स्यते । विदे­ह­कै­व­ल्य­म­नु­भ­व­ती­त्यर्थः । ‘अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य’ इत्या­द्य­द्वि­ती­य­ज्ञा­ना­र्थोऽ­र्थ­वादः । मृदा­दि­दृ­ष्टान्तैः प्रकृत्यतिरेकेण विकारो नास्ती­त्यु­प­प­त्ति­रुक्ता ।

एवं षङ्विधानि तात्प­र्य­लि­ङ्गानि व्यस्तानि समस्तानि वा प्रतिवेदान्तं दृश्यन्त इत्यै­त­रे­यो­प­क्र­म­वाक्यं पठति -
आत्मा वा इति ।

बृहदारण्यके मधु­का­ण्डो­प­सं­हा­र­वाक्यं सदात्मनो निर्वि­शे­ष­त्वा­र्थ­माह -
तदेतदिति ।
मायाभिर्बहुरूपं तद्ब्रह्म । एतदपरोक्षम् । अपूर्वं कारणशून्यम् । अनपरं कार्यरहितम् । अनन्तरं जात्यन्तरमस्य नास्ती­त्य­न­न्त­रम् । एकरसमित्यर्थः । अबा­ह्य­म­द्वि­ती­यम् ।

तस्या­प­रो­क्ष­त्व­मु­प­पा­द­यति -
अयमिति ।
सर्वमनुभवतीति सर्वानुभूः । चिन्मा­त्र­मि­त्यर्थः ।

ऋग्य­जुः­सा­म­वा­क्या­नुक्त्वा आथर्वणवाक्यमाह -
ब्रह्मैवेदमिति ।
यत्पु­र­स्ता­त्पू­र्व­दि­ग्व­स्तु­जा­त­मि­द­म­ब्र­ह्मेव विदुषां भाति तदमृतं ब्रह्मैव वस्तु इत्यर्थः । आदिपदेन ‘सत्यं ज्ञानम्’ इत्यादिवाक्यानि गृह्यन्ते ।

नन्वस्तु ब्रह्म­ण­स्ता­त्प­र्य­वि­ष­य­त्वम् , वेदान्तानां कार्यमेवार्थः किं न स्यादिति तत्राह -
न चेति ।
वेदान्तानां ब्रह्मणि तात्पर्ये निश्चीयमाने कार्यार्थत्वं न युक्तं ‘यत्परः शब्दः स शब्दार्थः’ इति न्यायादित्यर्थः ।

यदु­क्त­म­र्थ­वा­द­न्या­येन वेदान्तानां कर्त्रा­दि­स्ता­व­क­त्व­मिति तत्राह -
न च तेषामिति ।
तेषां कर्म­शे­ष­स्ता­व­कत्वं न भाति किन्तु ज्ञानद्वारा कर्म तत्सा­ध­न­ना­श­क­त्व­मेव । तत्तत्र विद्याकाले कः कर्ता केन करणेन कं विषयं पश्येत् इति श्रुतेरित्यर्थः । अर्थवादानां तु स्वार्थे फला­भा­वा­त्स्तु­ति­ल­क्ष­ण­तेति भावः ।

यदुक्तं सिद्धत्वेन मानान्तरवेद्यं ब्रह्म न वेदार्थ इति तत्राह -
न च परीति ।
’तत्त्वमसि’ इति शास्त्र­म­न्त­रे­णेति सम्बन्धः । धर्मो न वेदार्थः, साध्यत्वेन पाक­व­न्मा­ना­न्त­र­वे­द्य­त्वात् । यदि वेदं विना धर्म­स्या­नि­र्ण­यान्न मानान्तरवेद्यता तदा ब्रह्मण्यपि तुल्यम् ।

यच्चोक्तं निष्फ­ल­त्वा­द्ब्रह्म न वेदार्थ इति तदनूद्य परिहरति -
यत्त्वित्यादिना ।
रहि­त­त्वा­द्भि­न्न­त्वात् । ब्रह्मण इति शेषः ।

यदप्युक्तम् - ‘उपासनापरत्वं वेदान्तानाम्’ इति तत्र किं प्राण­प­ञ्चा­ग्न्या­दि­वा­क्या­ना­मुत सर्वेषामिति । तत्रा­द्य­म­ङ्गी­क­रोति -
देवतादीति ।
ज्येष्ठ­त्वा­दि­गुणः फलं चादिशब्दार्थः । न द्वितीयः, विधिशून्यानां ‘सत्यं ज्ञानम्’ इत्यादीनां स्वार्थे फल­व­ता­मु­पा­स­ना­प­र­त्व­क­ल्प­ना­यो­गात् ।

किञ्च तदर्थस्य ब्रह्म­ण­स्त­च्छे­षत्वं ज्ञाना­त्प्रा­गूर्ध्वं वा । आद्ये, अध्य­स्त­गु­ण­व­त­स्तस्य तच्छेषत्वेऽपि न द्वितीय इत्याह -
न तु तथेति ।
प्राणा­दि­दे­व­ता­व­दि­त्यर्थः ।

‘अहं ब्रह्मास्मि’ इत्येकत्वे ज्ञाते सति हेयो­पा­दे­य­शू­न्य­तया ब्रह्मात्मनः फलाभावात् , उपा­स्यो­पा­स­क­द्वै­त­ज्ञा­नस्य कारणस्य नाशाच्च नोपा­स­ना­शे­ष­त्व­मि­त्याह -
एकत्व इति ।

द्वैतज्ञानस्य संस्का­र­ब­ला­त्पु­न­रु­दये विधानमिति नेत्याह -
नहीति ।
दृढस्येति शेषः । भ्रान्ति­त्वा­नि­श्चयो दार्ढ्यम् , संस्कारोत्थं तु भ्रान्तित्वेन निश्चितं न विधिनिमित्तम् ।

येनेति ।
उपासनायां कारणस्य सत्वेनेत्यर्थः ।

वेदप्रामाण्यस्य व्यापकं क्रीया­र्थ­क­त्व­म­नु­व­दति -
यद्यपीति ।
कर्म­का­ण्डेऽ­र्थ­वा­दा­दी­ना­मि­त्यर्थः । तथा च व्याप­का­भा­वा­द्वे­दा­न्तेषु व्याप्या­भा­वा­नु­मा­न­मिति भावः ।

वेदान्ता न स्वार्थे मानम् , अक्रि­या­र्थ­त्वात् ‘सोऽरोदीत्’ इत्या­दि­व­दि­त्य­नु­माने निष्फ­ला­र्थ­क­त्व­मु­पा­धि­रि­त्याह -
तथापीति ।
अर्थवादानां निष्फ­ल­स्वा­र्था­मा­न­त्वेऽ­पी­त्यर्थः । तद्विषयस्य तत्करणस्य । स्वार्थे ब्रह्मात्मनीति शेषः । सफ­ल­ज्ञा­न­क­र­ण­त्वेन वेदान्तानां स्वार्थे मानत्वसिद्धेर्न क्रियार्थकत्वं तद्व्यापकमिति भावः ।

ननु माभू­द्वे­द­प्रा­मा­ण्यस्य व्यापकं क्रियार्थकत्वम् , व्याप्यं तु भविष्यति, तद­भा­वा­द्वे­दा­न्तानां प्रामाण्यं दुर्ज्ञानमिति, नेत्याह -
न चेति ।
येन वेदप्रामाण्यं स्वस्या­नु­मा­न­ग­म्य­त्वे­ना­न्यत्र क्वचिद्दृष्टं दृष्टा­न्त­म­पे­क्षेत तदेव नास्तीत्यर्थः । चक्षु­रा­दि­व­द्वे­दस्य स्वतः­प्रा­मा­ण्य­ज्ञा­नान्न तद्व्या­प्ति­लि­ङ्गा­द्य­पेक्षा । प्रामाण्यसंशये तु फल­व­द­ज्ञा­ता­बा­धि­ता­र्थ­ता­त्प­र्या­त्प्रा­मा­ण्य­नि­श्चयो न क्रियार्थत्वेन । कूपे पतेदिति वाक्ये व्यभिचारादिति भावः ।

वर्ण­का­र्थ­मु­प­सं­ह­रति -
तस्मादिति ।
सम­न्व­या­दि­त्यर्थः ।

विधिवाक्यानामपि फल­व­द­ज्ञा­ता­र्थ­त्वेन प्रामाण्यं तत्तुल्यं वेदान्तानामपीति स्थितम् । एवं पदानां सिद्धेऽर्थे व्युत्प­त्ति­मि­च्छतां ब्रह्म­ना­स्ति­कानां मतम् , ब्रह्मणो माना­न्त­रा­यो­ग्य­त्वात् , सफलत्वाच्च वेदा­न्तै­क­मे­य­त्व­मि­त्युक्त्या निरस्तम् । सम्प्रति सर्वेषां पदानां कार्या­न्वि­तार्थे शक्तिमिच्छतां विधिशेषत्वेन प्रत्यग्ब्रह्म वेदा­न्तै­र्बो­ध्यते न स्वात­न्त्र्ये­णेति वदतां वृत्तिकाराणां मतनिरासाय सूत्रस्य वर्ण­का­न्त­र­मा­र­भ्यते । तत्र वेदान्ताः किमु­पा­स­ना­वि­धि­शे­ष­त्वेन ब्रह्म बोधयन्ति उत स्वात­न्त्र्ये­णेति सिद्धे व्युत्प­त्त्य­भा­व­भा­वाभ्यां संशये पूर्वपक्षमाह -
अत्रापर इति ।
ब्रह्मणो वेदा­न्त­वे­द्य­त्वोक्तौ वृत्तिकाराः पूर्व­प­क्ष­य­न्ती­त्यर्थः । उपासनातो मुक्तिः पूर्वपक्षे, तत्त्व­ज्ञा­ना­दे­वेति सिद्धान्ते फलम् । विधिर्नियोगः तस्य विषयः प्रति­प­त्ति­रु­पा­सना ।

अस्याः को विषय इत्या­का­ङ्क्षायां सत्या­दि­वा­क्यै­र्वि­धि­प­रै­रेव ब्रह्मसमर्प्यत इत्याह -
प्रतिपत्तीति ।
विधि­वि­ष­य­प्र­ति­प­त्ति­वि­ष­य­त­ये­त्यर्थः ।

विधि­प­रा­द्वा­क्या­त्त­च्छे­ष­लाभे दृष्टान्तमाह -
यथेति ।
‘यूपे पशुं बध्नाति’ ‘आहवनीये जुहोति’ ‘इन्द्रं यजेत’ इति विधिषु के यूपादय इत्या­का­ङ्क्षायां ‘यूपं तक्षति, अष्टाश्रीकरोति’ इति तक्ष­णा­दि­सं­स्कृतं दारु यूपः । ‘अग्नीनादधीत’ इत्या­धा­न­सं­स्कृ­तोऽ­ग्नि­रा­ह­व­नीयः । ‘वज्रहस्तः पुरन्दरः’ इति विधिपरैरेव वाक्यैः समर्प्यन्ते तद्व­द्ब्र­ह्मे­त्यर्थः । विधि­प­र­वा­क्य­स्यापि अन्या­र्थ­बो­धित्वे वाक्यभेदः स्यादिति शङ्का­नि­रा­सा­र्थ­म­पि­शब्दः । माना­न्त­रा­ज्ञा­ता­न्यपि शेषतयोच्यन्ते न प्रधानत्वेनेति न वाक्यभेदः । प्रधा­ना­र्थ­भे­द­स्यैव वाक्य­भे­द­क­त्वा­दिति भावः ।

ननू­क्त­ष­ड्वि­ध­लि­ङ्गै­स्ता­त्प­र्य­वि­ष­यस्य ब्रह्मणः कुतो विधिशेषत्वमिति शङ्कते -
कुत इति ।

वृद्धव्यवहारेण हि शास्त्र­ता­त्प­र्य­नि­श्चयः । वृद्धव्यवहारे च श्रोतुः प्रवृ­त्ति­नि­वृत्ती उद्दि­श्या­पू­र्व­प्र­योगो दृश्यते । अतः शास्त्रस्यापि ते एव प्रयोजने । ते च कार्यज्ञानजन्ये इति कार्यपरत्वं शास्त्रस्य । ततः कार्यशेषत्वं ब्रह्मण इत्याह -
प्रवृत्तीति ।

शास्त्रस्य नियोगपरत्वे वृद्धसम्मतिमाह -
न तथाहीत्यादिना ।
क्रिया, कार्यम् , नियोगो, विधिः धर्मोऽ­पू­र्व­मि­त्य­न­र्था­न्त­रम् ।

को वेदार्थ इत्या­का­ङ्क्षायां शाब­र­भा­ष्य­कृ­तो­क्तम् -
दृष्टो हीति ।
तस्य वेदस्य ।

कार्यं वेदार्थ इत्यत्र चोदनासूत्रस्थं भाष्यमाह -
चोदनेति ।
क्रियाया नियोगस्य ज्ञानद्वारा प्रवर्तकं वाक्यं चोदनेत्युच्यत इत्यर्थः ।

शब­र­स्वा­मि­स­म्म­ति­मुक्त्वा जैमिनिसम्मतिमाह -
तस्य ज्ञानमिति ।
तस्य धर्मस्य ज्ञाप­क­म­पौ­रु­षे­य­वि­धि­वा­क्य­मु­प­देशः । तस्य धर्मे­णा­व्य­ति­रे­का­दि­त्यर्थः ।

पदानां कार्या­न्वि­तार्थे शक्तिरित्यत्र सूत्रं पठति -
तद्भूतानामिति ।
तत्तत्र वेदे भूतानां सिद्धा­र्थ­नि­ष्ठानां पदानां क्रियार्थेन कार्यवाचिना लिङादिपदेन समाम्नायः सहोच्चारणं कर्तव्यम् । पदार्थज्ञानस्य वाक्या­र्थ­रू­प­का­र्य­धी­नि­मि­त्त­त्वा­दि­त्यर्थः । कार्या­न्वि­तार्थे शक्तानि पदानि कार्यवाचिपदेन सह पदा­र्थ­स्मृ­ति­द्वारा कार्यमेव वाक्यार्थं बोधयन्तीति भावः ।

फलितमाह -
अत इति ।
यतो वृद्धा एवमाहुः, अतो विधि­नि­षे­ध­वा­क्य­मेव शास्त्रम् । अर्थवादादिकं तु तच्छे­ष­त­यो­प­क्षी­णम् । तेन कर्मशास्त्रेण सामान्यं शास्त्रत्वम् । तस्मा­द्वे­दा­न्तानां कार्यपरत्वेनैव अर्थवत्वं स्यादित्यर्थः ।

ननु वेदान्तेषु नियोज्यस्य विधेयस्य चादर्शनात्कथं कार्यधीरिति । तत्राह -
सति चेति ।

ननु धर्म­ब्र­ह्म­जि­ज्ञा­सा­सू­त्र­का­रा­भ्या­मिह काण्ड­द्व­येऽ­र्थ­भेद उक्तः, एककार्यार्थत्वे शास्त्र­भे­दा­नु­प­पत्तेः । तत्र काण्डद्वये जिज्ञास्यभेदे सति फलवैलक्षण्यं वाच्यम् । तथा च न मुक्तिफलाय ज्ञानस्य विधेयता, मुक्ते­र्वि­धे­य­क्रि­या­ज­न्यत्वे कर्म­फ­ला­द­वि­शे­ष­प्र­स­ङ्गा­द­वि­शेषे जिज्ञा­स्य­भे­दा­सिद्धेः । अतः कर्म­फ­ल­वि­ल­क्ष­ण­त्वा­न्नि­त्य­सि­द्ध­मु­क्ते­स्त­द्व्य­ञ्ज­क­ज्ञा­न­वि­धि­र­युक्त इत्याशङ्कते -
नन्विहेति ।
मुक्तेः कर्म­फ­ला­द्वै­ल­क्ष­ण्य­म­सि­द्ध­मिति तदर्थं ज्ञानं विधेयम् ।

न च तर्हि सफलं कार्यमेव वेदान्तेष्वपि जिज्ञास्यमिति तद्भे­दा­सि­द्धि­रिति वाच्यम् , इष्टत्वात् । न च ब्रह्मणो जिज्ञा­स्य­त्व­सू­त्र­वि­रोधः, ज्ञान­वि­धि­शे­ष­त्वेन सूत्रकृता ब्रह्म­प्र­ति­पा­द­ना­दिति परिहरति -
नेति ।

ब्रह्मणो विधि­प्र­यु­क्तत्वं स्फुटयति -
आत्मा वा इति ।
‘ब्रह्म वेद’ इत्यत्र ब्रह्मभावकामो ब्रह्मवेदनं कुर्यादिति विधिः परिणम्यत इति द्रष्टव्यम् । लोकं ज्ञानस्वरूपम् ।

वेदा­न्ता­ने­वा­र्थतो दर्शयति -
नित्य इति ।

ननु किं विधिफलमिति तदाह -
तदुपासनादिति ।
प्रत्य­ग्ब्र­ह्मो­पा­स­नात् ‘ब्रह्म­वि­दा­प्नोति परम्’ इति शास्त्रोक्तो मोक्षः स्वर्ग­व­ल्लो­का­प्र­सिद्धः फलमित्यर्थः ।

ब्रह्मणः कर्त­व्यो­पा­स­ना­वि­ष­य­क­वि­धि­शे­ष­त्वा­न­ङ्गी­कारे बाधकमाह -
कर्तव्येति ।
विध्य­स­म्ब­द्ध­सि­द्ध­बोधे प्रवृ­त्त्या­दि­फ­ला­भा­वा­द्वे­दा­न्तानां वैफल्यं स्यादित्यर्थः । नन्विति शङ्का स्पष्टार्था ।

दृष्टा­न्त­वै­ष­म्येण परिहरति -
स्यादिति ।
एत­द­र्थ­व­त्व­मे­वं­चे­त्स्या­दि­त्यर्थः ।

एवं शब्दार्थमाह -
यदिति ।

किञ्च यदि ज्ञानादेव मुक्तिस्तदा श्रव­ण­ज­न्य­ज्ञा­ना­न­न्तरं मननादिविधिर्न स्यात् , तद्विधेश्च कार्यसाध्या मुक्तिरित्याह -
श्रोतव्य इति ।

शब्दानां कार्या­न्वि­त­शक्तेः, प्रवृ­त्त्या­दि­फ­ल­स्यैव शास्त्रत्वात् , सिद्धे फलाभावात् , मननादिविधेश्च कार्यपरा वेदान्ता इति पूर्व­प­क्ष­मु­प­सं­ह­रति -
तस्मादिति ।
वेदान्ता न विधिपराः स्वार्थे फलवत्वे सति नियो­ज्य­वि­धु­र­त्वात् , नायं सर्प इति वाक्यवत् ।

‘सोऽरोदीत्’ ‘स्वर्गकामो यजेत’ इति वाक्य­यो­र्नि­रा­साय हेतौ विशेषणद्वयमिति सिद्धान्तयति -
अत्रेति ।

यदुक्तं मोक्षकामस्य नियोज्यस्य ज्ञानं विधेयमिति, तन्नेत्याह -
नेति ।
मोक्षो न विधिजन्यः, कर्म­फ­ल­वि­ल­क्ष­ण­त्वात् , आत्मवदित्यर्थः ।

उक्तहेतुज्ञानाय कर्मतत्फले प्रपञ्चयति -
शारीरमित्यादिना वर्णितं संसाररूपमनुवदति इत्यन्तेन ।
अथ वेदा­ध्य­य­ना­न­न्त­रम् , अतो - वेदस्य फलवदर्थपरत्वात् , धर्मनिर्णयाय कर्मवाक्यविचारः कर्तव्य इति सूत्रार्थः ।

न केवलं धर्माख्यं कर्म किन्तु अधर्मोऽपीत्याह -
अधर्मोऽपीति ।
निषे­ध­वा­क्य­प्र­मा­ण­त्वा­दि­त्यर्थः ।

कर्मोक्त्वा फलमाह -
तयोरिति ।
मोक्षस्तु अतीन्द्रियो विशोकः शरीराद्यभोग्यो विष­या­द्य­ज­न्योऽ­ना­त्म­वि­त्स्व­प्र­सिद्ध इति वैल­क्ष­ण्य­ज्ञा­नाय प्रत्यक्षादीनि विशेषणानि ।

सामान्येन कर्मफलमुक्त्वा धर्मफलं पृथक्प्रपञ्चयति -
मनुष्यत्वादीति ।
‘स एको मानुष आनन्दः’ ततः शतगुणो गन्ध­र्वा­दी­ना­मिति श्रुते­र­नु­भ­वा­नु­सा­रि­त्व­म­नु­श­ब्दार्थः ।

ततश्च ।
सुख­ता­र­त­म्या­दि­त्यर्थः । मोक्षस्तु निरतिशयः, तत्साधनं च तत्व­ज्ञा­न­मे­क­रू­प­मिति वैलक्षण्यम् ।

किं च साध­न­च­तु­ष्ट­य­स­म्पन्न एकरूप एव मोक्ष­वि­द्या­धि­कारी, कर्मणि तु नानाविध इति वैलक्षण्यमाह -
धर्मेति ।
गम्यते न केवलं किं तु प्रसिद्धं चेत्यर्थः । अर्थित्वं फलकामित्वम् । सामर्थ्यं लौकिकं पुत्रादि । आदि­प­दा­द्वि­द्वत्त्वं शास्त्रा­नि­न्दि­तत्वं च ।

किं च कर्मफलं मार्गप्राप्यम् , मोक्षस्तु नित्याप्त इति भेदमाह -
तथेति ।
उपासनायां चित्त­स्थै­र्य­प्र­क­र्षा­द­र्चि­रा­दि­मा­र्गेण ब्रह्मलोकगमनं ‘तेऽर्चिषम्’ इत्यादिना श्रूयत इत्यर्थः ।
‘अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् ।
आतिथ्यं वैश्वदेवं च इष्ट­मि­त्य­भि­धी­यते ॥
वापीकूपतडागादि देवतायतनानि च ।
अन्न­प्र­दा­न­मा­रामः पूर्त­मि­त्य­भि­धी­यते ॥
शरणागतसन्त्राणं भूतानां चाप्यहिंसनम् ।
बहिर्वेदि च यद्दानं दत्त­मि­त्य­भि­धी­यते ॥ ’

तत्रापि ।
चन्द्र­लो­केऽ­पी­त्यर्थः । सम्पतति गच्छति अस्माल्लोकादमुं लोकमनेनेति सम्पातः कर्म । यावत्कर्म भोक्तव्यं तावत्स्थित्वा पुन­रा­या­न्ती­त्यर्थः ।

मनु­ष्य­त्वा­दू­र्ध्व­ङ्ग­तेषु सुखस्य तारतम्यमुक्त्वा अधोगतेषु तदाह -
तथेति ।

इदानीं दुःख­त­द्धे­तु­त­द­नु­ष्ठा­यिनां तारतम्यं वदन्नधर्मफलं प्रपञ्चयति -
तथोर्ध्वमिति ।

द्विविधं कर्मफलं मोक्षस्य तद्वै­व­ल­क्ष­ण्य­ज्ञा­नाय प्रप­ञ्चि­त­मु­प­सं­ह­रति -
एवमिति ।
अस्मि­ता­का­म­क्रो­ध­भ­या­न्या­दि­श­ब्दार्थः । ‘ते तं मुक्त्वा स्वर्गलोकं विशालम्’ इत्याद्या स्मृतिः । काष्ठो­प­च­या­ज्ज्वा­लो­प­च­य­द­र्श­नात् , फलतारतम्येन साध­न­ता­र­त­म्या­नु­मानं न्यायः ।

श्रुतिमाह -
तथाचेति ।

मोक्षो न कर्मफलम् , कर्म­फ­ल­वि­रु­द्धा­ती­न्द्रि­य­त्व­वि­शो­क­त्व­श­री­रा­द्य­भो­ग्य­त्वा­दि­ध­र्म­व­त्वात् , व्यतिरेकेण स्वर्गादिवदिति न्याया­नु­ग्राह्यां श्रुतिमाह -
अशरीरमिति ।
वावेत्यवधारणे । तत्त्वतो विदेहं सन्तमात्मानं वैषयिके सुखदुःखे नैव स्पृशत इत्यर्थः ।

मोक्ष­श्चे­दु­पा­स­ना­रू­प­ध­र्म­फ­लम् , तदेव प्रियमस्तीति तन्निषेधायोग इत्याह -
धर्मकार्यत्वे हीति ।

ननु प्रियं नाम वैषयिकं सुखं तन्निषिध्यते, मोक्षस्तु धर्मफलमेव, कर्मणां विचि­त्र­दा­न­सा­म­र्थ्या­दिति शङ्कते -
अशरीरत्वमेवेति ।

आत्मनो देहा­स­ङ्गि­त्व­म­श­री­र­त्वम् , तस्या­ना­दि­त्वान्न कर्म­सा­ध्य­ते­त्याह -
नेति ।
अशरीरं स्थूलदेहशून्यम् , देहेष्वनेकेषु अनित्येषु एकं नित्यमवस्थितम् , महान्तं व्यापिनम् ।

आपे­क्षि­क­म­हत्त्वं वारयति -
विभुमिति ।
तमात्मानं ज्ञात्वा धीरः सन् शोकोपलक्षितं संसारं नानुभवतीत्यर्थः ।

सूक्ष्मदेहाभावे श्रुतिमाह -
अप्राण इति ।
प्राणमनसोः क्रिया­ज्ञा­न­श­क्त्यो­र्नि­षे­धात् , तदधीनानां कर्म­ज्ञा­ने­न्द्रि­याणां निषेधो हि यतः, अतः शुद्ध इत्यर्थः । देहद्वयाभावे श्रुतिः ‘असङ्गो हि’ इति ।

निर्दे­हा­त्म­स्व­रू­प­मो­क्ष­स्या­ना­दि­भा­वत्वे सिद्धे फलितमाह -
अत एवेति ।

नित्यत्वेऽपि परिणामितया धर्मकार्यत्वं मोक्ष­स्ये­त्या­शङ्क्य नित्यं द्वेधा विभजते -
तत्र किञ्चिदिति ।
नित्यवस्तुमध्य इत्यर्थः । परिणामि च तन्नित्यं चेति परिणामिनित्यम् ।

आत्मा तु कूटस्थनित्य इति न कर्मसाध्य इत्याह -
इदं त्विति ।
परिणामिनो नित्यत्वं प्रत्य­भि­ज्ञा­क­ल्पितं मिथ्यैव । कूटस्थस्य तु नाश­का­भा­वा­न्नि­त्यत्वं पारमार्थिकम् ।

कूट­स्थ­त्व­सि­ध्यर्थं परि­स्प­न्दा­भा­व­माह -
व्योमवदिति ।

परिणामाभावमाह -
सर्व­वि­क्रि­या­र­हि­त­मिति ।

फला­न­पे­क्षि­त्वान्न फलार्थापि क्रियेत्याह -
नित्यतृप्तमिति ।
तृप्ति­र­न­पे­क्ष­त्वम् , विशोकं सुखं वा । निरवयवत्वान्न क्रिया । तस्य भानार्थमपि न क्रिया, स्वय­ञ्ज्यो­ति­ष्ट्वात् । अतः कूटस्थत्वान्न कर्मसाध्यो मोक्ष इत्युक्तम् ।

कर्म­त­त्का­र्या­स­ङ्गि­त्वाच्च तथेत्याह -
यत्रेति ।
काला­न­व­च्छि­न्न­त्वा­च्चे­त्याह -

कालेति ।
कालत्रयं च नोपावर्तत इति योग्यतया सम्बन्धनीयम् ।

धर्मा­द्य­न­व­च्छेदे मानमाह -
अन्यत्रेति ।
अन्यदित्यर्थः । कृतात्कार्यात् , अकृताच्च कारणात् , भूताद्भव्याच्च, चका­रा­द्व­र्त­मा­नाच्च अन्यद्यत्पश्यसि तद्वदेत्यर्थः ।

ननु उक्ताः श्रुतयो ब्रह्मणः कूट­स्था­स­ङ्गित्वं वदन्तु, मोक्षस्य नियोगफलत्वं किं न स्यादिति, तत्राह -
अत इति ।
तत्कैवल्यं ब्रह्मैव । कर्म­फ­ल­वि­ल­क्ष­ण­त्वा­दि­त्यर्थः । ब्रह्मा­भे­दा­न्मो­क्षस्य कूटस्थत्वं धर्मा­द्य­स­ङ्गित्वं चेति भावः । यद्वा तज्जिज्ञास्यं तद्ब्रह्म अतः पृथ­ग्जि­ज्ञा­स्य­त्वा­द्ध­र्मा­द्य­स्पृ­ष्ट­मि­त्यर्थः । अतः शब्दा­भा­व­पा­ठेऽ­प्य­य­मे­वार्थः । ब्रह्मणो विधिस्पर्शो शास्त्र­पृ­थक्त्वं न स्यात् , कार्य­वि­ल­क्ष­णा­न­धि­ग­त­वि­ष­य­ला­भात् । नहि ब्रह्मात्मैक्यं भेदप्रमाणे जाग्रति विधि­प­र­वा­क्या­ल्लब्धुं शक्यम् । न वा तद्विना विधेरनुपपत्तिः । योषि­द­ग्न्यै­क्यो­पा­स्ति­वि­धि­द­र्श­ना­दिति भावः ।

अथवा मोक्षस्य नियोगासाध्यत्वे फलितं सूत्रार्थमाह -
अत इति ।
यदत्र जिज्ञास्यं ब्रह्म तत्स्वतन्त्रमेव वेदा­न्तै­रु­प­दि­श्यते । सम­न्व­या­दि­त्यर्थः ।

विपक्षे दण्डं पातयति -
तद्यदीति ।

तत्रैवं सतीति ।
मोक्षे साध्य­त्वे­ना­नित्ये सतीत्यर्थः ।

अत इति ।
मुक्ते­र्नि­यो­गा­सा­ध्य­त्वेन नियोज्यालाभात् । कर्त­व्य­नि­यो­गा­भा­वा­दि­त्यर्थः ।

प्रदी­पा­त्त­मो­नि­वृ­त्ति­व­ज्ज्ञा­ना­द­ज्ञा­न­नि­वृ­त्ति­रू­प­मो­क्षस्य दृष्टफलत्वाच्च न नियो­ग­सा­ध्य­त्व­मि­त्याह -
अपिचेति ।
यो ब्रह्माहमिति वेद स ब्रह्मैव भवति । परं कारणमवरं कार्यं तद्रूपे तदधिष्ठाने तस्मिन्दृष्टे सति अस्य द्रष्टु­र­ना­र­ब्ध­फ­लानि कर्माणि नश्यन्ति । ब्रह्मणः स्वरूपमानन्दं विद्वान्निर्भयो भवति, द्वितीयाभावात् । अभयं ब्रह्म प्राप्तोऽसि, अज्ञा­न­हा­ना­त्त­ज्जी­वाख्यं ब्रह्म गुरू­प­दे­शा­दा­त्मा­न­मेव अहं ब्रह्मा­स्मी­त्य­वेत् विदितवत् । तस्मा­द्वे­द­ना­त्त­द्ब्रह्म पूर्णमभवत् । परि­च्छे­द­भ्रा­न्ति­हा­ना­दे­क­त्वम् , अहं ब्रह्म इत्य­नु­भ­व­त­स्त­त्रा­नु­भ­व­काले मोहशोकौ न स्त इति श्रुतीनामर्थः ।

तासां तात्पर्यमाह -
ब्रह्मेति ।
विद्या­त­त्फ­ल­यो­र्मध्य इत्यर्थः । मोक्षस्य विधिफलत्वे स्वर्गा­दि­व­त्का­ला­न्त­र­भा­वित्वं स्यात् , तथा च श्रुतिबाध इति भावः ।

इतश्च मोक्षो वैधो नेत्याह -
तथेति ।
तद्ब्र­ह्मै­त­त्प्र­त्य­ग­स्मीति पश्यन् तस्माज्ज्ञानात् वामदेवो मुनीन्द्रः शुद्धं ब्रह्म प्रतिपेदे ह तत्र ज्ञाने तिष्ठन् दृष्ट­वा­ना­त्म­म­न्त्रान् स्वस्य सर्वा­त्म­त्व­प्र­का­श­कान् ‘अहं मनुः’ इत्या­दी­न्द­द­र्शे­त्यर्थः ।

यद्यपि स्थिति­र्गा­न­क्रि­याया लक्षणम् , ब्रह्मदर्शनं तु ब्रह्म­प्र­ति­प­त्ति­क्रि­याया हेतुरिति वैषम्यमस्ति तथापि ‘लक्षणहेत्वोः क्रियायाः’ इति सूत्रेण क्रियां प्रति लक्ष­ण­हे­त्वो­र­र्थ­यो­र्व­र्त­मा­ना­द्धातोः परस्य लटः शतृशानचावादेशौ भवत इति विहि­त­श­तृ­प्र­त्य­य­सा­म­र्थ्या­त्ति­ष्ठ­न्गा­यति इत्युक्ते तत्कर्तृकं कार्यान्तरं मध्ये न भातीत्येतावता पश्यन् प्रतिपेदे इत्यस्य दृष्टान्तमाह -
यथेति ।

किं च ज्ञाना­द­ज्ञा­न­नि­वृत्तिः श्रूयते । ज्ञानस्य विधेयत्वे कर्म­त्वा­द­वि­द्या­नि­व­र्त­कत्वं न युक्तम् , अतो बोधका एव वेदान्ता न विधायका इत्याह -
त्वं हीति ।
भारद्वाजादयः षडृषयः पिप्पलादं गुरुं पादयोः प्रणम्य ऊचिरे - त्वं खल्वस्माकं पिता । यस्त्व­म­वि­द्या­म­हो­दधेः परं पुन­रा­वृ­त्ति­शून्यं पारं ब्रह्म विद्या­प्ल­वे­ना­स्मां­स्ता­र­यसि प्रापयसि । ज्ञानेनाज्ञानं नाशयसीति यावत् ।

प्रश्न­वा­क्य­मुक्त्वा छान्दोग्यमाह -
श्रुतमिति ।
अत्र ‘तारयतु’ इत्य­न्त­मु­प­क्र­म­स्थम् , शेष­मु­प­सं­हा­र­स्थ­मिति भेदः । आत्मविच्छोकं तरतीति भगवत्तुल्येभ्यो मया श्रुतमेव हि न दृष्टम् , सोऽहमज्ञत्वात् हे भगवः, शोचामि, तं शोचन्तं मां भगवानेव ज्ञानप्लवेन शोकसागरस्य परं पारं प्रापयत्विति नारदेनोक्तः सन­त्कु­मा­र­स्तस्मै तपसा दग्धकिल्बिषाय नारदाय तमसः शोक­नि­दा­ना­ज्ञा­नस्य ज्ञानेन निवृत्तिरूपं पारं ब्रह्म दर्शि­त­वा­नि­त्यर्थः । ‘एतद्यो वेद­सोऽ­वि­द्या­ग्रन्थिं विकिरति’ इति वाक्य­मा­दि­श­ब्दार्थः ।

एवं श्रुते­स्त­त्त्व­प्रमा मुक्तिहेतुर्न कर्मेत्युक्तम् । तत्रा­क्ष­पा­द­गौ­त­म­मु­नि­सं­म­ति­माह -
तथा चेति ।
गौरोऽहमिति मिथ्या­ज्ञा­न­स्या­पाये राग­द्वे­ष­मो­हा­दि­दो­षाणां नाशः, दोषा­पा­या­द्ध­र्मा­ध­र्म­स्व­रू­प­प्र­वृ­त्ते­र­पायः, प्रवृ­त्य­पा­या­त्पु­न­र्दे­ह­प्रा­प्ति­रू­प­ज­न्मा­पायः, एवं पाठ­क्र­मे­णो­त्त­रो­त्त­रस्य हेतुनाशान्नाशे सति तस्य प्रवृ­त्ति­रू­प­हे­तो­र­न­न्त­रस्य कार्यस्य जन्म­नोऽ­पा­या­द्दुः­ख­ध्वं­स­रू­पोऽ­प­वर्गो भवतीत्यर्थः ।

ननु पूर्वसूत्रे ‘तत्त्व­ज्ञा­ना­न्निः­श्रे­य­सा­धि­गमः’ इत्युक्ते सती­त­र­प­दा­र्थ­भि­न्ना­त्म­त­त्त्व­ज्ञानं कथं मोक्षं साध­य­ती­त्या­का­ङ्क्षायां मिथ्या­ज्ञा­न­नि­वृ­त्ति­द्वा­रे­णेति वक्तुमिदं सूत्रं प्रवृत्तम् । तथा च भिन्ना­त्म­ज्ञा­ना­न्मुक्तिं वदत्सूत्रं सम्मतं चेत्परमतानुज्ञा स्यादित्यत आह -
मिथ्येति ।
तत्त्व­ज्ञा­ना­न्मु­क्ति­रि­त्यंशे सम्मतिरुक्ता भेदज्ञानं तु ‘यत्र हि द्वैतमिव भवति’ इति श्रुत्या भ्रान्तित्वात् ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ इति श्रुत्या अन­र्थ­हे­तु­त्वाच्च न मुक्तिहेतुरिति भावः ।

ननु ब्रह्मा­त्मै­क­त्व­वि­ज्ञा­न­मपि भेदज्ञानवन्न प्रमा, सम्प­दा­दि­रू­प­त्वेन भ्रान्ति­त्वा­दि­त्यत आह -
न चेदमित्यादिना ।
अल्पा­ल­म्ब­न­ति­र­स्का­रे­णो­त्कृ­ष्ट­व­स्त्व­भे­द­ध्यानं सम्पत् , यथा मनः­स्व­वृ­त्त्या­न­न्त्या­द­न­न्तम् , तत उत्कृष्टा विश्वेदेवा अप्यनन्ता इत्य­न­न्त­त्व­सा­म्यात् विश्वेदेवा एव मन इति सम्प­त्त­या­न­न्त­फ­ल­प्रा­प्ति­र्भ­वति तथा चेत­न­त्व­सा­म्या­ज्जीवे ब्रह्माभेदः सम्पदिति न चेत्यर्थः ।

आलम्बनस्य प्राधान्येन ध्यानं प्रती­को­पा­स्ति­र­ध्यासः । यथा ब्रह्मदृष्ट्या मनस आदित्यस्य वा । तथा अहं ब्रह्मेति ज्ञानमध्यासो नेत्याह -
न चेति ।
आदेश उपदेशः ।

क्रियाविशेषो विशिष्टक्रिया तथा योगो निमित्तं यस्य ध्यानस्य तत्तथा । यथा प्रलयकाले वायु­र­ग्न्या­दी­न्सं­वृ­णोति संहरतीति संवर्गः, स्वापकाले प्राणो वागा­दी­न्सं­ह­र­तीति संहा­र­क्रि­या­यो­गा­त्सं­वर्ग इति ध्यानं छान्दोग्ये विहितम् , तथा वृद्धि­क्रि­या­यो­गा­ज्जीवो ब्रह्मेति ज्ञानमिति नेत्याह -
नापीति ।

यथा ‘पत्न्य­वे­क्षि­त­माज्यं भवति’ इति उपां­शु­या­जा­द्य­ङ्ग­स्या­ज्यस्य संस्का­र­क­म­वे­क्षणं विहितं तथा कर्मणि कर्तृ­त्वे­ना­ङ्ग­स्या­त्मनः संस्कारार्थं ब्रह्मज्ञानं नेत्याह -
नाप्याज्येति ।

प्रति­ज्ञा­च­तु­ष्टये हेतुमाह -
सम्पदादीति ।
उप­क्र­मा­दि­लि­ङ्गै­र्ब्र­ह्मा­त्मै­क­त्व­व­स्तुनि प्रमितिहेतुर्यः समा­ना­धि­क­र­ण­वा­क्यानां पदनिष्ठः सम­न्व­य­स्ता­त्पर्यं निश्चितं तत्पीड्येत । किं च एक­त्व­ज्ञा­ना­दा­ज्ञा­नि­क­हृ­द­य­स्या­न्तः­क­र­णस्य यो रागा­दि­ग्र­न्थि­श्चि­न्म­य­स्ता­दा­त्म्य­रू­पा­ह­ङ्का­र­ग्र­न्थिर्वा नश्य­ती­त्य­ज्ञा­न­नि­वृ­त्ति­फ­ल­वा­क्य­बाधः स्यात् , सम्प­दा­दि­ज्ञा­न­स्या­प्र­मा­त्वे­ना­ज्ञा­ना­नि­व­र्त­क­त्वात् । किञ्च जीवस्य ब्रह्मत्वसम्पदा कथं तद्भावः । पूर्वरूपे स्थिते नष्टे वान्य­स्या­न्या­त्म­ता­यो­गात् । तस्मान्न सम्प­दा­दि­रू­प­मि­त्यर्थः ।

सम्प­दा­दि­रू­प­त्वा­भावे फलितमाह -
अत इति ।
प्रमात्वान्न कृतिसाध्या किं तर्हि नित्यैव । न प्रमा­ण­सा­ध्ये­त्यर्थः ।

उक्तरीत्या सिद्ध­ब्र­ह्म­रू­प­मो­क्षस्य कार्यसाध्यत्वं तज्ज्ञानस्य नियोगविषयत्वं च कल्पयितुमशक्यं कृत्य­सा­ध्य­त्वा­दि­त्याह -
एवंभूतस्येति ।

ननु ब्रह्म कार्याङ्गम् , कार­क­त्वा­त्प­त्न्य­वे­क्ष­ण­क­र्म­का­र­का­ज्य­व­दिति चेत् , किं ज्ञाने ब्रह्मणः कर्म­का­र­क­त्व­मु­तो­पा­स­ना­याम् । नाद्य इत्याह -
न चेति ।
शाब्दज्ञानं विदि­क्रि­या­श­ब्दार्थः - विदितं कार्यमविदितं कारणं तस्मादधि अन्यदित्यर्थः । येनात्मना इदं सर्वं दृश्यं लोको जानाति तं केन करणेन जानीयात् । तस्मादविषय आत्मेत्यर्थः ।

न द्वितीय इत्याह -
तथेति ।
‘यन्मनसा न मनुते’ इति श्रुत्या लोको मनसा यद्ब्रह्म न जाना­ती­त्य­वि­ष­य­त्व­मुक्त्वा तदेवावेद्यं ब्रह्म त्वं विद्धि । तत्तू­पा­धि­वि­शिष्टं देव­ता­दि­क­मि­त्यु­पा­सते जना नेदं ब्रह्मेत्यर्थः ।

ब्रह्मणः शाब्द­बो­धा­वि­ष­यत्वे प्रति­ज्ञा­हा­नि­रिति शङ्कते -
अविषयत्व इति ।

वेदा­न्त­ज­न्य­वृ­त्ति­कृ­ता­वि­द्या­नि­वृ­त्ति­फ­ल­शा­लि­तया शास्त्र­प्र­मा­ण­कत्वं वृत्ति­वि­ष­य­त्वेऽपि स्वप्र­का­श­ब्र­ह्मणो वृत्त्य­भि­व्य­क्त­स्फु­र­णा­वि­ष­य­त्वा­द­प्र­मे­य­त्व­मिति परिहरति -
नेति ।
पर­त्वा­त्फ­ल­त्वा­दि­त्यर्थः । निवृ­त्ति­रू­प­ब्र­ह्म­ता­त्प­र्या­दिति वार्थः ।

उक्तं विवृणोति -
नहीति ।
चिद्वि­ष­य­त्व­मि­द­न्त्वम् । अविषयता अनिदन्तया ।

अदृश्यत्वे श्रुतिमाह -
तथा चेति ।
यस्य ब्रह्मामतं चैतन्यविषय इति निश्चयस्तेन सम्यगवगतम् । यस्य त्वज्ञस्य ब्रह्म चैतन्यविषय इति मतं स न वेद ।

उक्तमेव दार्ढ्या­र्थ­म­नु­व­दति -
अविज्ञातमिति ।
अविषयतया ब्रह्म विजा­न­ता­म­वि­ज्ञा­त­म­दृ­श्य­मिति पक्षः । अज्ञानां तु ब्रह्म विज्ञातं दृश्यमिति पक्ष इत्यर्थः ।

दृष्टे­र्द्र­ष्टारं चाक्षु­ष­म­नो­वृत्तेः साक्षिणम् , अनया दृश्यया दृष्ट्या न पश्ये­र्वि­ज्ञा­ते­र्बु­द्धि­वृ­त्ते­र्नि­श्च­य­रू­पायाः साक्षिणं तथा न विष­यी­कु­र्या­दि­त्याह -
नेति ।

नन्व­वि­द्या­दि­नि­व­र्त­क­त्वेन शास्त्रस्य प्रामाण्येऽपि निवृ­त्ते­रा­ग­न्तु­क­त्वा­न्मो­क्ष­स्या­नि­त्यत्वं स्यादिति नेत्याह -
अत इति ।
तत्त्व­ज्ञा­ना­दि­त्यर्थः । ध्वंसस्य नित्य­त्वा­दा­त्म­रू­प­त्वाच्च नानि­त्य­त्व­प्र­सङ्ग इत्यर्थः ।

उत्प­त्ति­वि­का­रा­प्ति­सं­स्का­र­रूपं चतुर्विधमेव क्रियाफलं तद्भि­न्न­त्वा­न्मो­क्षस्य नोपा­स­ना­सा­ध्य­त्व­मि­त्याह -
यस्य तु इत्यादिना तस्मा­ज्ज्ञा­न­मेकं मुक्त्वा इत्यन्तेन ।
तथा उत्पा­द्य­त्व­व­त्वि­का­र्यत्वे चापेक्षत इति युक्तमित्यन्वयः ।

दूषयति -
तयोरिति ।
स्थित­स्या­व­स्था­न्तरं विकारः ।

नन्व­नि­त्य­त्व­नि­रा­साय क्रियया स्थितस्यैव ब्रह्मणो ग्राम­व­दा­प्ति­रस्तु, नेत्याह -
न चेति ।

ब्रह्म जीवाभिन्नं न वा । उभ­य­था­प्या­प्त­त्वान्न क्रिया­पे­क्षे­त्याह -
स्वात्मे­त्या­दिना ।

यथा व्रीहीणां संस्कार्यत्वेन प्रोक्षणापेक्षा तथा मोक्षस्य नेत्याह -
नापीत्यादिना ।
गुणाधानं व्रीहिषु प्रोक्षणादिना, क्षालनादिना वस्त्रादौ मलापनयः ।

शङ्कते -
स्वात्मधर्म इति ।

ब्रह्मा­त्म­स्व­रूप एव मोक्षोऽ­ना­द्य­वि­द्या­म­ला­वृत उपासनया मले नष्टेऽभिव्यज्यत इत्यत्र दृष्टान्तः -
यथेति ।

संस्कारो मलनाशः । किमात्मनि मलः सत्यः कल्पितो वा । द्वितीये ज्ञानादेव तन्नाशो न क्रियया । आद्ये क्रिया किमात्मनिष्ठा अन्यनिष्ठा वा । नाद्य इत्याह -
न, क्रियेति ।

अनुपपत्तिं स्फुटयति -
यदिति ।
क्रिया हि स्वाश्रये संयो­गा­दि­वि­का­र­म­कु­र्वती न जायत इत्यर्थः । तच्च वाक्यबाधनम् ।

न द्वितीय इत्याह -
अन्येति ।
अविषयत्वात् । क्रिया­श्र­य­द्र­व्या­सं­यो­गि­त्वा­दिति यावत् । दर्पणं तु सावयवं क्रिया­श्र­ये­ष्ट­का­चू­र्णा­दि­द्र­व्य­सं­यो­गि­त्वा­त्सं­स्क्रि­यत इति भावः ।

अन्यक्रिययान्यो न संस्क्रियत इत्यत्र व्यभिचारं शङ्कते -
नन्विति ।

आत्मनो मूला­वि­द्या­प्र­ति­बि­म्बि­त­त्वेन गृहीतस्य नरोऽहमिति भ्रान्त्या देह­ता­दा­त्म्य­मा­प­न्नस्य क्रिया­श्र­य­त्व­भ्रान्त्या संस्का­र्य­त्व­भ्र­मान्न व्यभिचार इत्याह -
नेति ।

कश्चिदिति ।
अनि­श्चि­त­ब्र­ह्म­स्व­रूप इत्यर्थः । यत्रात्मनि विषये आरो­ग्य­बु­द्धि­रु­त्प­द्यते तस्य देह­सं­ह­त­स्यै­वा­रो­ग्य­फ­ल­मि­त्य­न्वयः ।

ननु देहाभिन्नस्य कथं संस्कारः, तस्या­मु­ष्मि­क­फ­ल­भो­क्तृ­त्वा­यो­गा­दि­त्यत आह -
तेनेति ।
देह­सं­ह­ते­नै­वा­न्तः­क­र­ण­प्र­ति­बि­म्बा­त्मना कर्ताहमिति भासमानेन प्रत्ययाः कामादयो मन­स्ता­दा­त्म्या­दस्य सन्तीति प्रत्ययिना क्रियाफलं भुज्यत इत्यर्थः । मनो­वि­शि­ष्ट­स्या­मु­ष्मि­क­भोक्तुः संस्कारो युक्त इति भावः ।

विशिष्टस्य भोक्तृत्वं न केवलस्य साक्षिण इत्यत्र मानमाह -
तयोरिति ।
प्रमा­तृ­सा­क्षि­णो­र्मध्ये सत्त्व­सं­स­र्ग­मा­त्रेण कल्पि­त­क­र्तृ­त्वा­दि­मान् प्रमाता पिप्पलं कर्मफलं भुङ्क्ते, स एव शोधितत्वेनान्यः साक्षितया प्रकाशत इत्यर्थः । आत्मा देहः । देहादियुक्तं प्रमा­त्रा­त्मा­न­मि­त्यर्थः ।

एवं सोपाधिकस्य चिद्धा­तो­र्मि­थ्या­सं­स्का­र्य­त्व­मुक्त्वा निरु­पा­धि­क­स्या­सं­स्का­र्यत्वे मानमाह -
एक इति ।
सर्व­भू­ते­ष्व­द्वि­तीय एको देवः स्वप्रकाशः ।

तथापि मायावृतत्वान्न प्रकाशत इत्याह -
गूढ इति ।

ननु जीवे­ना­स­म्ब­न्धा­द्भि­न्न­त्वाद्वा देवस्याभानं न तु मायागूहनादिति, नेत्याह -
सर्वव्यापी सर्व­भू­ता­न्त­रा­त्मेति ।
देवस्य विभु­त्वा­त्स­र्व­प्रा­णि­प्र­त्य­क्त्वा­च्चा­व­र­णा­दे­वा­भा­न­मि­त्यर्थः । प्रत्यक्त्वे कर्तृत्वं स्यादिति चेन्न, कर्माध्यक्षः । क्रिया­सा­क्षी­त्यर्थः । तर्हि साक्ष्यमस्तीति द्वैतापत्तिः । न सर्व­भू­ता­ना­म­धि­ष्ठानं भूत्वा साक्षी भवति । साक्ष्य­म­धि­ष्ठाने साक्षिणि कल्पितमिति भावः ।

साक्षि­श­ब्दा­र्थ­माह -
चेता केवल इति ।
बोद्धृत्वे सति अकर्ता साक्षीति लोकप्रसिद्धम् । चकारो दोषा­भा­व­स­मु­च्च­यार्थः । निर्गु­ण­त्वा­न्नि­र्दो­ष­त्वाच्च गुणो दोषनाशो वा संस्कारो नेत्यर्थः । ‘सः’ इत्यु­प­क्र­मा­च्छु­क्रा­दि­शब्दाः पुंस्त्वेन वाच्याः । स एव आत्मा परि सर्वमगात् व्याप्तः, शुक्रो दीप्तिमान् , अकायो लिङ्गशून्यः, अव्रणोऽक्षतः, अस्नाविरः शिराविधुरः अनश्वर इति वा । आभ्यां पदाभ्यां स्थूल­दे­ह­शू­न्य­त्व­मु­क्तम् । शुद्धो रागादिमलशून्यः । अपापविद्धः पुण्य­पा­पा­भ्या­म­सं­स्पृष्ट इत्यर्थः ।

अत इति ।
उत्प­त्त्या­प्ति­वि­का­र­सं­स्का­रे­भ्योऽ­न्य­त्प­ञ्चमं क्रियाफलं नास्ति, यन्मोक्षस्य क्रियासाध्यत्वे द्वारं भवेदित्यर्थः ।

ननु मोक्ष­स्या­सा­ध्यत्वे शास्त्रारम्भो वृथा । न । ज्ञाना­र्थ­त्वा­दि­त्याह -
तस्मादिति ।
द्वारा­भा­वा­दि­त्यर्थः ।

व्याघातं शङ्कते -
नन्विति ।
तथा च मोक्षे क्रियानुप्रवेशो नास्तीति व्याहतमिति भावः ।

मानसमपि ज्ञानं न विधियोग्या क्रिया, वस्तु­त­न्त्र­त्वात् , कृत्य­सा­ध्य­त्वा­च्चे­त्याह -
नेति ।

वैलक्षण्यं प्रपञ्चयति -
क्रिया हीति ।
यत्र विषये तदनपेक्षयैव या चोद्यते तत्र सा हि क्रियेति योजना ।

विष­य­व­स्त्व­न­पेक्षा, कृतिसाध्या च क्रियेत्यत्र दृष्टान्तमाह -
यथेति ।
गृही­त­म­ध्व­र्यु­णेति शेषः । वष­ट्क­रि­ष्य­न्होता, सन्ध्यां देवतामिति चैवमादिवाक्येषु यथा यादृशी ध्यानक्रिया वस्त्वनपेक्षा पुन्तन्त्रा च चोद्यते तादृशी क्रियेत्यर्थः ।

ध्यानमपि मान­स­त्वा­ज्ज्ञा­न­वन्न क्रियेत्यत आह -
ध्यानमित्यादिना ।
तथापि क्रियैवेति शेषः । कृत्य­सा­ध्य­त्व­मु­पा­धि­रिति भावः ।

ध्यान­क्रि­या­मुक्त्वा ततो वैलक्षण्यं ज्ञानस्य स्फुटयति -
ज्ञानं त्विति ।
अतः प्रमात्वान्न चोदनातन्त्रं न विधेर्विषयः । पुरुषः कृतिद्वारा तन्त्रं हेतुर्यस्य तत्पु­रु­ष­त­न्त्रम् , तस्मा­द्व­स्त्व­व्य­भि­चा­रा­द­पु­न्त­न्त्र­त्वाच्च ध्याना­ज्ज्ञा­नस्य महान्भेद इत्यर्थः ।

भेदमेव दृष्टा­न्ता­न्त­रे­णाह -
यथा चेति ।
अभेदसत्त्वेऽपि विधितो ध्यानं कर्तुं शक्यम् , न ज्ञानमित्यर्थः ।

ननु प्रत्य­क्ष­ज्ञा­नस्य विषयजन्यतया तत्त­न्त्र­त्वेऽपि शाब्दबोधस्य तद­भा­वा­द्वि­धे­य­क्रि­या­त्व­मिति नेत्याह -
एवं सर्वेति ।
शब्दा­नु­मा­ना­द्य­र्थे­ष्वपि ज्ञान­म­वि­धे­य­क्रि­या­त्वेन ज्ञातव्यम् । तत्रापि मानादेव ज्ञानस्य प्राप्ते­र्वि­ध्य­यो­गा­दि­त्यर्थः ।

तत्रैवं सति ।
लोके ज्ञान­स्या­वि­धे­यत्वे सतीत्यर्थः । यथा­भू­त­त्व­म­बा­धि­त­त्वम् ।

ननु ‘आत्मानं पश्येत्’ ‘ब्रह्म त्वं विद्धि’ ‘आत्मा द्रष्टव्यः’ इति विज्ञाने लिङ्लो­ट्त­व्य­प्र­त्यया विधायकाः श्रूयन्ते, अतो ज्ञानं विधेयमित्यत आह -
तद्विषय इति ।
तस्मिन् ज्ञानरूपविषये विधयः पुरुषं प्रव­र्त­यि­तु­म­शक्ता भवन्ति । अनियोज्यं कृत्यसाध्यं नियोज्यशून्यं वा ज्ञानं तद्वि­ष­य­क­त्वा­दि­त्यर्थः । ममायं नियोग इति बोद्धा नियोज्यो विषयश्च विधेर्नास्तीति भावः ।

तर्हि ज्ञेयं ब्रह्म विधीयताम् , नेत्याह -
अहेयेति ।
वस्तुस्वरूपो विषयस्तत्त्वात् । ब्रह्मणो निर­ति­श­य­स्या­सा­ध्य­त्वान्न विधे­य­त्व­मि­त्यर्थः । उदा­सी­न­व­स्तु­वि­ष­य­क­त्वाच्च ज्ञानं न विधेयम् , प्रवृ­त्या­दि­फ­ला­भा­वा­दि­त्यर्थः ।

विधिपदानां गतिं पृच्छति -
किमर्थानीति ।
विधिच्छायानि प्रसि­द्ध­या­गा­दि­वि­धि­तु­ल्या­नी­त्यर्थः ।

विधि­प्र­त्य­यै­रा­त्म­ज्ञानं पर­म­पु­रु­षा­र्थ­सा­ध­न­मिति स्तूयते । स्तुत्या आत्य­न्ति­के­ष्ट­हे­तु­त्व­भ्रान्त्या या विषयेषु प्रवृ­त्ति­रा­त्म­श्र­व­णा­दि­प्र­ति­ब­न्धिका तन्नि­वृ­त्ति­फ­लानि विधिपदानीत्याह -
स्वाभाविकेति ।

विवृणोति -
यो हीत्यादिना ।
तत्र विषयेषु । सङ्घातस्य या प्रवृत्तिः तद्गो­च­रा­च्छ­ब्दा­दे­रि­त्यर्थः । स्रोत­श्चि­त्त­वृ­त्ति­प्र­वाहः । प्रवृत्तयन्ति ज्ञान­सा­ध­न­श्र­व­णा­दा­विति शेषः ।

श्रवणस्वरूपमाह -
तस्येति ।
अन्वेषणं ज्ञानम् । यदिदं जग­त्त­त्स­र्व­मा­त्मै­वे­त्य­ना­त्म­बा­धे­नात्मा बोध्यते । अद्वि­ती­या­दृ­श्या­त्म­बोधे विधिस्तपस्वी द्वैतवनोपजीवनः क्व स्थास्यतीति भावः ।

आत्मज्ञानिनः कर्तव्याभावे मानमाह -
तथा चेति ।
अयं स्वयं परमानन्दः परमात्माहमस्मि इति यदि कश्चित्पुरुष आत्मानं जानीयात्तदा किं फलमिच्छन् , कस्य वा भोक्तुः प्रीतये, शरीरं तप्य­मा­न­म­नु­स­ञ्ज्व­रे­त्त­प्येत । भोक्तृ­भो­ग्य­द्वै­ता­भा­वा­त्कृ­त­कृत्य आत्म­वि­दि­त्य­भि­प्रायः । ज्ञान­दौ­र्ल­भ्या­र्थ­श्चे­च्छब्दः । एतद्गुह्यतमं तत्त्वम् ।

वृत्ति­का­र­म­त­नि­रा­स­मु­प­सं­ह­रति -
तस्मादिति ।

प्राभा­क­रो­क्त­मु­प­न्य­स्यति -
यदपि केचिदिति ।
कर्तात्मा लोकसिद्धत्वान्न वेदान्तार्थः । तदन्यद्ब्रह्म नास्त्येव, वेदस्य कार्यपरत्वेन माना­भा­वा­दि­त्यर्थः ।

मानाभावेऽसिद्ध इत्याह -
तन्नेति ।
अज्ञातस्य फल­स्व­रू­प­स्या­त्मन उप­नि­ष­दे­क­वे­द्य­स्या­का­र्य­शे­ष­त्वा­त्कृ­त्स्न­वे­दस्य कार्य­प­र­त्व­म­सि­द्धम् । न च प्रवृ­त्ति­नि­वृ­त्ति­लि­ङ्गाभ्यां श्रोतु­स्त­द्धेतुं कार्यबोधमनुमाय वक्तृवाक्यस्य कार्यपरत्वं निश्चित्य वाक्यस्थपदानां कार्यान्विते शक्तिग्रहान्न सिद्ध­स्या­प­दा­र्थस्य वाक्या­र्थ­त्व­मिति वाच्यम् , पुत्रस्ते जात इति वाक्यश्रोतुः पितु­र्ह­र्ष­लि­ङ्गे­नेष्टं पुत्रजन्मानुमाय पुत्रादिपदानां सिद्धे सङ्गतिग्रहात् , कार्या­न्वि­ता­पे­क्ष­या­न्वि­तार्थे शक्ति­रि­त्य­ङ्गी­कारे लाघवात् , सिद्धस्यापि वाक्या­र्थ­त्वा­दि­त्य­लम् ।

किञ्च ब्रह्मणो नास्तित्वादेव कृत्स्नवेदस्य कार्यपरत्वमुत वेदान्तेषु तस्याभानात् , अथ वा कार्यशेषत्वात् , किं वा लोक­सि­द्ध­त्वा­दा­हो­स्वित् माना­न्त­र­वि­रो­धात् । तत्राद्यं पक्षत्रयं निराचष्टे -
योऽसाविति ।
अन­न्य­शे­ष­त्वा­र्थम् ‘असंसारी’ इत्यादि विशेषणम् ।

नास्तित्वाभावे हेतुं वेदा­न्त­मा­न­सि­द्ध­त्व­मुक्त्वा हेत्व­न्त­र­मा­त्म­त्व­माह -
स एष इति ।
इतिरिदमर्थे । इदं न इदं न इति सर्व­दृ­श्य­नि­षे­धेन य आत्मा उपदिष्टः स एष इत्यर्थः ।

चतुर्थं शङ्कते -
नन्वात्माहमिति ।

आत्म­नोऽ­ह­ङ्का­रा­दि­सा­क्षि­त्वे­ना­ह­न्धी­वि­ष­य­त्वस्य निरस्तत्वान्न लोकसिद्धतेत्याह -
नेति ।

यं तीर्थकारा अपि न जानन्ति तस्यालौकिकत्वं किमु वाच्यमित्याह -
नहीति ।
सम­स्ता­र­त­म्य­व­र्जितः । तत्तन्मते आत्मा­न­धि­ग­ति­द्यो­त­कानि विशेषणानि ।

पञ्चमं निरस्यति -
अत इति ।
केनचिद्वादिना प्रमाणेन युक्त्या वेत्यर्थः । अगम्यत्वान्न मानान्तरविरोध इति भावः ।

साक्षी कर्माङ्गम् , चेतनत्वात् , कर्तृवदिति, तत्राह -
विधीति ।
अज्ञा­त­सा­क्षि­णोऽ­नु­प­यो­गा­ज्ज्ञा­तस्य व्याघातकत्वान्न कर्म­शे­ष­त्व­मि­त्यर्थः ।

साक्षिणः सर्व­शे­षि­त्वा­द­हे­या­नु­पा­दे­य­त्वाच्च न कर्म­शे­ष­त्व­मि­त्याह -
आत्मत्वादिति ।

अनि­त्य­त्वे­ना­त्मनो हेय­त्व­मा­श­ङ्क्याह -
सर्वं हीति ।

परिणामित्वेन हेयतां निराचष्टे -
विक्रियेति ।

उपादेयत्वं निराचष्टे -
अत एवेति ।
निर्वि­का­रि­त्वा­दि­त्यर्थः । उपादेयत्वं हि साध्यस्य न त्वात्मनः । नित्य­सि­द्ध­त्वा­दि­त्यर्थः ।

पर­प्रा­प्त्य­र्थ­मात्मा हेय इत्यत आह -
तस्मात् , पुरुषान्न परं किञ्चिदिति ।
काष्ठा सर्वस्यावधिः ।

एव­मा­त्म­नोऽ­न­न्य­शे­ष­त्वात् , अबाध्यत्वात् , अपूर्वत्वात् , वेदान्तेषु स्फुटभानाच्च वेदा­न्तै­क­वे­द्य­त्व­मु­क्तम् । तत्र श्रुतिमाह -
तं त्वेति ।
तं सका­र­ण­सू­त्र­स्या­धि­ष्ठानं पुरुषं पूर्णं हे शाकल्य, त्वा त्वां पृच्छामीत्यर्थः ।

अत इति ।
उक्तलिङ्गैः श्रुत्या च वेदा­न्ता­ना­मा­त्म­व­स्तु­प­र­त्व­नि­श्च­या­दि­त्यर्थः ।

पूर्वो­क्त­म­नु­व­दति -
यदपीति ।

वेदस्य नैरर्थक्ये शङ्किते तस्या­र्थ­व­त्ता­प­र­मिदं भाष्यम् -
दृष्टो हीति ।

तत्र ‘फल­व­द­र्था­व­बो­ध­नम्’ इति वक्तव्ये धर्म­वि­चा­र­प्र­क्र­मात् ‘कर्मावबोधनम्’ इत्युक्तं नैतावता वेदान्तानां ब्रह्म­प­र­त्व­नि­रासः । अत एव ‘अनुपलब्धेऽर्थे तत्प्रमाणम्’ इति सूत्रकारो धर्मस्य फल­व­द­ज्ञा­त­त्वे­नैव वेदार्थतां दर्शयति । तच्चावशिष्टं ब्रह्मण इति न वृद्ध­वा­क्यै­र्वि­रोध इत्याह -
तद्धर्मेति ।
निषे­ध­शा­स्त्र­स्यापि निवृ­त्ति­का­र्य­प­र­त्व­मस्ति, तत्सू­त्र­भा­ष्य­वा­क्य­जातं कर्मकाण्डस्य कार्य­प­र­त्वा­भि­प्रा­य­मि­त्यर्थः । वस्तुतस्तु लिङर्थे कर्मकाण्डस्य तात्पर्यम् , लिङर्थश्च, लोके प्रव­र्त­क­ज्ञा­न­गो­च­र­त्वेन कॢप्तं यागा­दि­क्रि­या­ग­त­मि­ष्ट­सा­ध­न­त्व­मेव न क्रिया­तोऽ­ति­रिक्तं कार्यं तस्य कूर्म­लो­म­व­द­प्र­सि­द्ध­त्वा­दिति तस्यापि परा­भि­म­त­का­र्य­वि­ल­क्षणे सिद्धे प्रामाण्यं किमुत ज्ञान­का­ण्ड­स्येति मन्तव्यम् ।

किं च वेदान्ताः सिद्धवस्तुपराः, फल­व­द्भू­त­श­ब्द­त्वात् , दध्या­दि­श­ब्द­व­दि­त्याह -
अपि चेति ।

किम­क्रि­या­र्थ­क­श­ब्दा­ना­मा­न­र्थ­क्य­म­भि­धे­या­भावः, फलाभावो वा । आद्य आह -
आम्नायस्येति ।
इति न्यायेन एत­द­भि­धे­य­रा­हित्यं निय­मे­ना­ङ्गी­कु­र्वतां ‘सोमेन यजेत’ ‘दध्ना जुहोति’ इत्यादि वाक्येषु दधि­सो­मा­दि­श­ब्दा­ना­म­र्थ­शू­न्यत्वं स्यादित्यर्थः ।

ननु केनो­क्त­म­भि­धे­य­रा­हि­त्य­मि­त्या­श­ङ्क्याह -
प्रवृत्तीति ।
कार्यातिरेकेण भव्यार्थत्वेन कार्यशेषत्वेन दध्यादिशब्दो भूतं वक्ति चेत् , तर्हि सत्यादिशब्दः कूटस्थं न वक्तीत्यत्र को हेतुः, किं कूट­स्थ­स्या­क्रि­य­त्वा­दु­ता­क्रि­या­शे­ष­त्वा­द्वेति प्रश्नः ।

ननु दध्यादेः कार्या­न्व­यि­त्वेन कार्य­त्वा­दु­प­देशः, न कूट­स्थ­स्या­का­र्य­त्वा­दि­त्या­द्य­मा­शङ्क्य निरस्यति -
नहीति ।
दध्यादेः कार्यत्वे कार्य­शे­ष­त्व­हानिः । अतो भूतस्य कार्या­द्भि­न्नस्य दध्यादेः शब्दार्थत्वं लब्धमिति भावः ।

द्वितीयं शङ्कते -
अक्रि­या­त्वेऽ­पीति ।
क्रियार्थः कार्यशेषपरः । कूटस्थस्य त्वका­र्य­शे­ष­त्वा­न्नो­प­देश इति भावः ।

भूतस्य कार्यशेषत्वं शब्दार्थत्वाय फलाय वा, नाद्य इत्याह -
नैष दोष इति ।
दध्यादेः कार्यशेषत्वे सत्यपि शब्देन वस्तु­मा­त्र­मे­वो­प­दिष्टं न कार्यान्वयी शब्दार्थः । अन्वि­ता­र्थ­मात्रे शब्दानां शक्तिरित्यर्थः ।

द्विती­य­म­ङ्गी­क­रोति -
क्रियार्थत्वं त्विति ।
तस्य भूतविशेषस्य दध्यादेः क्रियाशेषत्वं फल­मु­द्दि­श्या­ङ्गी­क्रि­यत इत्यर्थः । न तु ब्रह्मण इति तुशब्दार्थः ।

ननु भूतस्य कार्य­शे­ष­त्वा­ङ्गी­कारे स्वातन्त्र्येण कथं शब्दार्थतेति, तत्राह -
न चेति ।
फलार्थं शेष­त्वा­ङ्गी­का­र­मा­त्रेण शब्दा­र्थ­त्व­भङ्गो नास्ति शेषत्वस्य शब्दा­र्थ­ता­या­म­प्र­वे­शा­दि­त्यर्थः ।

आनर्थक्यं फलाभाव इति पक्षं शङ्कते -
यदीति ।
यद्यपि दध्यादि स्वतो निष्फलमपि क्रियाद्वारा सफ­ल­त्वा­दु­प­दिष्टं तथापि कूट­स्थ­ब्र­ह्म­वा­दिनः क्रिया­द्वा­रा­भा­वा­त्तेन दृष्टान्तेन किं फलं स्यादित्यर्थः ।

भूतस्य साफल्ये क्रियैव द्वारमिति न नियमः, रज्ज्वाः ज्ञानमात्रेण साफ­ल्य­द­र्श­ना­दि­त्याह -
उच्यत इति ।

तथैव ।
दध्या­दि­व­दे­वे­त्यर्थः । दध्यादेः क्रियाद्वारा साफल्यं ब्रह्मणस्तु स्वत इति विशेषे सत्यपि वेदान्तानां सफ­ल­भू­ता­र्थ­क­त्व­मा­त्रेण दध्या­द्यु­प­दे­श­सा­म्य­मि­त्य­न­व­द्यम् ।

इदानीं वेदान्तानां निषे­ध­वा­क्य­व­त्सि­द्धा­र्थ­प­र­त्व­मि­त्याह -
अपि चेति ।
नञः प्रकृत्यर्थेन सम्बन्धात् हननाभावो नञर्थः, इष्टसाधनत्वं तव्या­दि­प्र­त्य­यार्थः, इष्टश्चात्र नरकदुःखाभावः, तत्परिपालको हननाभाव इति निषेधवाक्यार्थः । हननाभावो दुःखा­भा­व­हे­तु­रि­त्यु­क्ता­व­र्था­द्ध­न­नस्य दुःखसाधनत्वधिया पुरुषो निवर्तते । नात्र नियोगः कश्चिदिति, तस्य क्रिया­त­त्सा­ध­न­द­ध्या­दि­वि­ष­य­त्वात् । न च हननाभावरूपा नञ्वाच्या निवृत्तिः क्रिया, अभावत्वात् । नापि क्रियासाधनम् । अभावस्य भावा­र्था­हे­तु­त्वा­द्भा­वा­र्था­स­त्त्वा­च्चे­त्यर्थः । अतो निषेधशास्त्रस्य सिद्धार्थे प्रामाण्यमिति भावः ।

विपक्षे दण्डमाह -
अक्रियेति ।

ननु स्वभावतो रागतः प्राप्तेन हन्त्य­र्थे­ना­नु­रा­गेण नञ्सम्बन्धेन हेतुना हननविरोधिनी सङ्कल्पक्रीया बोध्यते, सा च नञर्थरूपा तत्रा­प्रा­प्त­त्वा­द्वि­धी­यते, अहननं कुर्यादिति । तथा च कार्यार्थकमिदं वाक्य­मि­त्या­शङ्क्य निषेधति -
न चेति ।
औदासीन्यं पुरुषस्य स्वरूपं तच्च हन­न­क्रि­या­नि­वृ­त्त्यु­प­ल­क्षितं निवृ­त्त्यौ­दा­सीन्यं हननाभाव इति यावत् । तद्व्यतिरेकेण नञः क्रियार्थत्वं कल्पयितुं न च शक्यमिति योजना । मुख्या­र्थ­स्या­भा­वस्य नञर्थत्वसम्भवे तद्वि­रो­धि­क्रि­या­ल­क्ष­णाया अन्याय्यत्वात् निषे­ध­वा­क्य­स्यापि कार्यार्थकत्वे विधि­नि­षे­ध­भे­द­वि­प्ल­वा­प­त्ते­श्चेति भावः ।

ननु तद­भा­व­व­त्त­द­न्य­त­द्वि­रु­द्ध­यो­रपि नञः शक्तिः किं न स्यात् , अब्राह्मणः अधर्म इति प्रयो­ग­द­र्श­ना­दिति चेन्न, अने­का­र्थ­त्व­स्या­न्या­य्य­त्वा­दि­त्याह -
नञश्चेति ।
गवादिशब्दानां तु अगत्या नानार्थकत्वम् , स्वर्गे­षु­वा­ग्व­ज्रा­दीनां शक्य­प­शु­स­म्ब­न्धा­भा­वेन लक्षणानवतारात् । अन्य­वि­रु­द्ध­योस्तु लक्ष्यत्वं युक्तम् , शक्यसम्बन्धात् । ब्राह्म­णा­द­न्य­स्मिन् क्षत्रियादौ, धर्मविरुद्धे वा पापे ब्राह्म­णा­द्य­भा­वस्य नञ्शक्यस्य सम्बन्धात् । प्रकृते च आख्या­त­यो­गा­न्न­ञ्प्र­स­ज्य­प्र­ति­षे­धक एव न पर्युदासलक्षकः इति मन्तव्यम् । यद्वा नञः प्रकृत्या न सम्बन्धः प्रकृतेः प्रत्य­या­र्थो­प­स­र्ज­न­त्वात् , प्रधा­न­स­म्ब­न्धा­च्चा­प्र­धा­नानां किन्तु प्रकृ­त्य­र्थ­नि­ष्ठेन प्रत्य­या­र्थे­ने­ष्ट­सा­ध­न­त्वेन सम्बन्धो नञः, इष्टं च स्वापेक्षया बल­व­द­नि­ष्टा­न­नु­बन्धि यत्तदेव न तात्का­लि­क­सु­ख­मा­त्रम् , विष­सं­यु­क्ता­न्न­भो­ग­स्यापि इष्टत्वापत्तेः । तथा च ‘न हन्तव्यः’ हननं बल­व­द­नि­ष्टा­सा­ध­नत्वे सति इष्टसाधनं न भवतीत्यर्थः । अत्र च ‘हन्तव्यः’ इति हनने विशि­ष्टे­ष्ट­सा­ध­नत्वं भ्रान्ति­प्रा­प्त­म­नूद्य नेत्यभावबोधने बलवदनिष्टसाधनं हननमिति बुद्धिर्भवति, हनने तात्का­लि­के­ष्ट­सा­ध­न­त्व­रू­प­वि­शे­ष्य­स­त्वेन विशि­ष्टा­भा­वा­बु­द्धे­र्वि­शे­ष­णा­भा­व­प­र्य­व­सा­नात् । विशेषणं बल­व­द­नि­ष्टा­सा­ध­न­त्व­मिति तदभावो बल­व­द­नि­ष्ट­सा­ध­नत्वं नञर्थ इति पर्यवसन्नम् ।

तद्बु­द्धि­रौ­दा­सी­न्य­प­रि­पा­लि­के­त्याह -
अभावेति ।
चोऽप्यर्थः पक्षान्तरद्योती । प्रकृ­त्य­र्था­भा­व­बु­द्धि­व­त्प्र­त्य­या­र्था­भा­व­बु­द्धि­र­पी­त्यर्थः ।

बुद्धेः क्षणि­क­त्वा­त्त­द­भावे सत्यौ­दा­सी­न्या­त्प्र­च्यु­ति­रूपा हननादौ प्रवृत्तिः स्यादिति, अत्राह -
सा चेति ।
यथाग्निरिन्धनं दग्ध्वा शाम्यति एवं सा नञ­र्था­भा­व­बुद्धिः हन­ना­दा­वि­ष्ट­सा­ध­न­त्व­भ्रा­न्ति­मूलं रागेन्धनं दग्ध्वैव शाम्य­ती­त्य­क्ष­रार्थः । रागनाशे कृते प्रच्युतिरिति भावः । यद्वा रागतः प्राप्ता सा क्रिया रागनाशे स्वयमेव शाम्यतीत्यर्थः ।

परपक्षे तु हननविरोधिक्रिया कार्ये­त्यु­क्तेऽपि हन­न­स्ये­ष्ट­सा­ध­न­त्व­भ्रा­न्त्य­नि­रा­सा­त्प्र­च्यु­ति­र्दु­र्वारा । तस्मात्तदभाव एव नञर्थ इत्युपसंहरति -
तस्मादिति ।
भावार्थाभावेन तद्वि­ष­य­क­कृ­त्य­भा­वा­त्का­र्या­भा­व­स्त­च्छ­ब्दार्थः । यद्वे­त्यु­क्त­पक्षे निवृ­त्त्यु­प­ल­क्षि­त­मौ­दा­सीन्यं यस्मा­द्वि­शि­ष्टा­भा­वा­य­त्त­मे­वेति व्याख्येयम् । स्वतः­सि­द्ध­स्यौ­दा­सी­न्यस्य नञ­र्थ­सा­ध्य­त्वो­प­पा­द­नार्थं निवृ­त्त्यु­प­ल­क्षि­त­त्व­मिति ध्येयम् । ‘तस्य बटोर्व्रतम्’ इत्य­नु­ष्ठे­य­क्रि­या­वा­चि­व्र­त­श­ब्देन कार्यमुपक्रम्य ‘नेक्षे­तो­द्य­न्त­मा­दि­त्यम्’ इति प्रजा­प­ति­व्र­त­मु­क्तम् । अत उपक्रमबलात्तत्र नञ ईक्ष­ण­वि­रो­धि­स­ङ्क­ल्प­क्रि­या­ल­क्ष­णा­ङ्गी­कृता । एवमगौरसुरा अधर्म इत्यादौ नाम­धा­त्व­र्थ­यु­क्तस्य नञः प्रति­षे­ध­वा­चि­त्वा­यो­गात् अन्य­वि­रु­द्ध­ल­क्ष­क­त्वम् । एतेभ्यः प्रजा­प­ति­व्र­ता­दि­भ्योऽ­न्य­त्रा­भा­व­मेव नञर्थं मन्यामह इत्यर्थः । दुःखाभावफलके नञर्थे सिद्धे निषे­ध­शा­स्त्र­मा­न­त्व­व­द्वे­दा­न्तानां ब्रह्मणि मानत्वमिति भावः ।

तर्ह्य­क्रि­या­र्था­ना­मा­न­र्थ­क्य­मिति सूत्रं किंविषयमिति, तत्राह -
तस्मादिति ।
वेदान्तानां स्वार्थे फल­व­त्वा­द्व्य­र्थ­क­था­वि­षयं तदित्यर्थः । यदपीत्यादि स्पष्टार्थम् ।

श्रव­ण­ज्ञा­न­मा­त्रा­त्सं­सा­रा­नि­वृ­त्ता­वपि साक्षा­त्का­रा­ज्जी­वत एव मुक्ति­र्दु­र­प­ह्न­वेति सदृष्टान्तमाह -
अत्रोच्यत इत्यादिना ।
ब्रह्माहमिति साक्षा­त्का­र­वि­रो­धा­दि­त्यर्थः ।

तत्त्वविदो जीवन्मुक्तौ मानमाह -
तदुक्तं श्रुत्येति ।

जीवतोऽशरीरत्वं विरुद्धमिति शङ्कते -
शरीर इति ।

आत्मनो देहसम्बन्धस्य भ्रान्ति­प्र­यु­क्त­त्वा­त्त­त्त्व­धिया तन्ना­श­रू­प­म­श­री­रत्वं जीवतो युक्तमित्याह -
नेत्यादिना ।

असङ्गात्मरूपं त्वशरीरत्वं तत्त्वधिया जीवतो व्यज्यत इत्याह -
नित्यमिति ।

देहात्मनोः सम्बन्धः सत्य इति शङ्कते -
तत्कृतेति ।
तन्नाशार्थं कार्यापेक्षेति भावः ।

आत्मनः शरीरसम्बन्धे जाते धर्मा­ध­र्मो­त्पत्तिः, तस्यां सत्यां सम्ब­न्ध­ज­न्मे­त्य­न्यो­न्या­श्र­या­दे­क­स्या­सिद्ध्या द्विती­य­स्या­प्य­सिद्धिः स्यादिति परिहरति -
नेत्यादिना ।

नन्वे­त­द्दे­ह­ज­न्य­ध­र्मा­ध­र्म­क­र्मण एत­द्दे­ह­स­म्ब­न्ध­हे­तुत्वे स्याद­न्यो­न्या­श्रयः । पूर्वदेहकर्मण एत­द्दे­ह­स­म्ब­न्धो­त्पत्तिः, पूर्वदेहश्च तत्पू­र्व­दे­ह­कृ­त­क­र्मण इति बीजा­ङ्कु­र­व­द­ना­दि­त्वा­न्नायं दोष इत्यत आह -
अन्धेति ।
अप्रा­मा­णि­की­त्यर्थः । न हि बीजादङ्कुरः ततो बीजान्तरं च यथा प्रत्यक्षेण दृश्यते तद्वदात्मनो देहसम्बन्धः पूर्वकर्मकृतः प्रत्यक्षः । नाप्यस्ति कश्चिदागमः । प्रत्युत ‘असङ्गो हि’ इत्यादिश्रुतिः सर्वकर्तृत्वं वारयतीति भावः ।

तत्र युक्तिमाह -
क्रियेति ।
कूटस्थस्य कृत्ययोगान्न कर्तृ­त्व­मि­त्यर्थः ।

स्वतो निष्क्रियस्यापि कारकसन्निधिना कर्तृत्वमिति शङ्कां दृष्टा­न्त­वै­ष­म्येण निरस्यति -
नेति ।
राजादीनां स्वक्री­त­भृ­त्य­कार्ये कर्तृत्वं युक्तं नात्मन इत्यर्थः ।

देह­क­र्म­णो­र­वि­द्या­भूमौ बीजा­ङ्कु­र­व­दा­व­र्त­मा­न­यो­रा­त्मना सम्बन्धो भ्रान्तिकृत एवेत्याह -
मिथ्येति ।

ननु ‘यजेत’ इति विध्य­नु­प­प­त्त्या­त्मनः कर्तृ­त्व­मे­ष्ट­व्य­मिति, तत्राह -
एतेनेति ।
भ्रान्तिकृतेन देहादिसम्बन्धेन यागा­दि­क­र्तृ­त्व­मा­ब्र­ह्म­बो­धा­द्व्या­ख्या­त­मि­त्यर्थः ।

अत्राहुः ।
प्राभाकरा इत्यर्थः । भ्रान्त्य­भा­वा­द्दे­ह­स­म्ब­न्धा­दिकं सत्यमिति भावः ।

भेद­ज्ञा­ना­भा­वान्न गौण इत्याह -
नेति ।
प्रसिद्धो ज्ञातो वस्तुनोर्भेदो येन तस्य गौण­मु­ख्य­ज्ञा­ना­श्र­यत्व प्रसि­द्धे­रि­त्यर्थः । यस्य तस्य पुंसो गौणौ भवत इत्यन्वयः । शौर्या­दि­गु­ण­वि­ष­या­वि­त्यर्थः ।

तस्य त्विति ।
भेद­ज्ञा­न­शू­न्यस्य पुंस इत्यर्थः ।

शब्द­प्र­त्य­या­विति ।
शब्दः शाब्द­बो­ध­श्चे­त्यर्थः ।

संशयमूलौ तावुदाहरति -
यथा मन्देति ।

यदा संशयमूलयोर्न गौणत्वं तदा भ्रान्तिमूलयोः किं वाच्यमित्याह -
यथा वेति ।

अकस्मादिति ।
अत­र्कि­ता­दृ­ष्टा­दिना संस्कारोद्बोधे सतीत्यर्थः । निरुपचारेण गुणज्ञानं विनेत्यर्थः ।

देहा­दि­व्य­ति­रि­क्ता­त्म­वा­दि­ना­मिति ।
देहात्मवादिनां तु प्रमेत्यभिमान इति भावः ।

जीवन्मुक्तौ प्रमाणमाह -
तथा चेति ।
तत्तत्र जीवन्मुक्तस्य देहे । यथा दृष्टान्तः अहिनिर्ल्वयनी सर्पत्वक् वल्मीकादौ प्रत्यस्ता निक्षिप्ता मृता सर्पेण त्यक्ताभिमाना वर्तते, एवमेवेदं विदुषा त्यक्ताभिमानं शरीरं तिष्ठति । अथ तथा त्वचा निर्मु­क्त­स­र्प­व­दे­वायं देहस्थोऽशरीरः विदुषो देहे सर्पस्य त्वची­वा­भि­मा­ना­भा­वा­द­श­री­र­त्वा­द­मृतः प्राणितीति प्राणो जीवन्नपि ब्रह्मैव, किं तद्ब्रह्म तेजः स्वय­ञ्ज्यो­ति­रा­नन्द एवेत्यर्थः । वस्तु­तोऽ­च­क्षु­रपि बाधि­त­च­क्षु­रा­द्य­नि­वृत्या सच­क्षु­रि­वे­त्यादि योज्यम् ।

इत्यनवद्यमिति ।
ब्रह्मा­त्म­ज्ञा­ना­न्मु­क्ति­ला­भा­त्सिद्धं वेदान्तानां प्रामाण्यम् , हित­शा­स­ना­च्छा­स्त्रत्वं च निर्दोषतया स्थितमित्यर्थः ।

ब्रह्म­ज्ञा­न­मु­द्दिश्य श्रव­ण­व­न्म­न­न­नि­दि­ध्या­स­न­यो­र­प्य­वा­न्त­र­वा­क्य­भे­देन विध्य­ङ्गी­का­रान्न ब्रह्मणो विधि­शे­ष­त्व­मु­द्दे­श्य­ज्ञा­न­ल­भ्य­तया प्राधा­न्या­दि­त्याह -
नेति ।
श्रवणं ज्ञान­क­र­ण­वे­दा­न्त­गो­च­र­त्वा­त्प्र­धा­नम् , मन­न­नि­दि­ध्या­स­नयोः प्रमे­य­गो­च­र­त्वा­त्त­द­ङ्ग­त्वम् , नियमादृष्टस्य ज्ञान उपयोगः सर्वा­पे­क्षा­न्या­या­दिति मन्तव्यम् ।

तर्हि ज्ञाने विधिः किमिति त्यक्तः, तत्राह -
यदि हीति ।
यदि ज्ञाने विधिमङ्गीकृत्य वेदान्तैरवगतं ब्रह्म विधेयज्ञाने कर्मकारकत्वेन विनियुज्येत तदा विधिशेषत्वं स्यात् । न त्ववगतस्य विनि­यु­क्त­त्व­मस्ति, प्राप्तावगत्या फललाभे विध्य­यो­गा­दि­त्यर्थः ।

तस्मात्
विध्यसम्भवात् । अतः शेषत्वासम्भवात् । सत्या­दि­वा­क्यै­र्ल­ब्ध­ज्ञा­ने­ना­ज्ञा­न­नि­वृ­त्ति­रू­प­फ­ल­लाभे सतीत्यर्थः ।

सूत्रं योजयति -
स्वतन्त्रमिति ।