अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

तृतीयाध्याये चतुर्थः पादः

तृतीयाऽध्याये चतुर्थः पादः ।
कर्मा­ङ्ग­वि­द्या­प्र­स­ङ्गा­द्ब्र­ह्म­ज्ञा­नस्य कर्मा­ङ्ग­त्व­मा­श­ङ्क्याह -
पुरुषार्थोऽतः शब्दादिति बादरायणः ।
पूर्वपादे परापरविद्यानां गुणो­प­सं­हा­रोक्त्या स्वरूपं निश्चि­त­म­स्मि­न्पादे तासां कर्मानङ्गतया पुरु­षा­र्थ­हे­तुत्वं निरूप्यते । ततोऽ­ङ्गा­का­ङ्क्षायां यज्ञादीनि बहिरङ्गानि शमा­द्दी­न्य­न्त­र­ङ्गानि च निरूप्यन्त इत्ये­क­वि­द्या­वि­ष­यत्वं पादयोः संगतिः ।

तत्रादौ तत्त्वज्ञानं विषयीकृत्य वादि­वि­प्र­ति­पत्त्या संशयमाह -
अथेति ।
पूर्वपक्षे ज्ञान­क­र्म­णो­र­ङ्गा­ङ्गि­त्वेन समुच्चयः । सिद्धान्ते केव­ल­ज्ञा­ना­न्मु­क्ति­रिति फलभेदः । 'य आत्मेति' प्रजा­प­त्यु­क्त­ब्र­ह्म­वि­द्यायां लोकादिकं सगुणविद्याफलं मोक्षा­न­न्देऽ­न्त­र्भा­वा­भि­प्रा­ये­णो­क्त­मिति मन्तव्यम् ॥१॥