भाष्यरत्नप्रभाव्याख्या
प्रदानाधिकरणम्
प्रदानवदेव तदुक्तम् ।
वायुप्राणयोर्भेदाभेदवाक्याभ्यां संशयमाह -
तत्रेति ।
अस्तु कर्माङ्गानां तत्संबद्धोपास्तीनां च फलभेदान्नित्यत्वानित्यत्वरूपः प्रयोगभेदः, इह तु वायुप्राणयोः स्वरूपाभेदात्तत्स्वरूपप्राप्तिलक्षणफलैक्याच्च ध्यानप्रयोगैक्यमिति पूर्वपक्षयति -
अपृथगिति ।
'अग्निर्वाग्भूत्वा' इत्यारभ्य 'वायुः प्राणो भूत्वा नासिके प्राविशत्' इत्यभेदं दर्शयतीत्यर्थः ।
यतश्चोदेति सूर्यस्तं वद' इति प्रश्ने सूत्रात्मकवायुर्वाच्यो वायुस्थाने प्राणं वदन्नेकत्वं तयोर्दर्शयतीत्याह -
तथेति ।
किञ्च यदि वायुप्राणयोः पृथग्ध्यानं स्यात्तर्हि ध्यानाङ्गव्रतभेदोऽपि स्यादिह तु प्राणापाननिरोधात्मकव्रतैक्यश्रुतेर्ध्यानैक्यमित्याह -
तस्मादिति ।
व्रतैक्यस्य प्रशस्तत्वादित्यर्थः ।
किञ्च वायुप्राणो संवर्गौ भेदेनोपक्रम्य परस्ताद्वाक्यशेषे संवर्गदेवैक्यश्रुतेः प्रयोगैक्यमित्याह -
तथेति ।
महात्मन इति द्वितीयाबहुवचनम् । चतुरश्चतुःसंख्याकानग्निसूर्योदकचन्द्रानपरांश्च वाक्चक्षुःश्रोत्रमनोरूपानेको देवः कः प्रजापतिः जगार गीर्णवानुपसंहृतवानित्यर्थः । न ब्रवीति भेदमिति शेषः ।
यथा 'अग्निहोत्रं जुहोति' इत्युत्पन्नाग्निहोत्रस्यैकस्यैव दधितण्डुलादिगुणभेदेन सायंप्रातःकालभेदेन प्रयोगभेदस्तथा 'अन्नादो भवति य एवं वेद' इत्युत्पन्नायाः संवर्गविद्याया एकत्वेऽप्युत्पन्नशिष्टवायुप्राणाख्यगुणभेदात्प्रयोगभेद इत्युत्सूत्रं सिद्धान्तयति -
पृथगेवेति ।
'तौ वा एतौ द्वौ संवर्गौ' इत्युपास्यभेदवाक्यस्य प्रयोगभेदपरत्वाद्वाक्यादेव भेदसिद्धिरित्यर्थः ।
पूर्वपक्ष्युक्तमनूद्य प्रत्याह -
ननूक्तमित्यादिना ।
उपास्यतया प्रधानभूतसंवर्गगुणविशिष्टोपास्यभेदवाक्यविरोधादनुपास्यवायुतत्त्वैक्यवचनं न प्रयोगैक्यप्रापकमिति भावः ।
सूर्योदयास्तमययोर्वाय्वधीनत्वात्तदभेदाभिप्रायेण प्राणात्तावुक्तौ । ततोऽध्यात्माधिदैवावस्थाभेदेनोक्तस्य ध्येयभेदस्य निरासे 'यतश्चोदेति' इति श्लोकस्य न शक्तिरित्याह -
श्लोकेति ।
असामर्थ्ये लिङ्गमाह -
स यथेति ।
श्लोकोपन्यासवद्व्रतैक्योपन्यासोऽपि तत्त्वाभेदाभिप्रायेणेत्याह -
एतेनेति ।
नन्वेवकाराद्वायुव्रतनिवृत्तेः प्राण एवैको ध्येयो भातीत्यत आह -
एकमेवेति ।
वदनदर्शनादीनि वाक्चक्षुरादीनां व्रतानि श्रमरूपमृत्युना भग्नानीत्युक्त्वा प्राणस्याभग्नव्रतत्वं निर्धारितं, तथा ज्वलनतापादीन्यग्न्यादित्यादीनां व्रतानि भग्नानीत्युक्त्वा वायोरभग्नव्रतत्वं निर्धारितं, 'स यथैषां प्राणानां मध्यमः प्राणः स्थिरव्रत एवमेतासां देवनां वायुर्म्लोचन्ति ह्यन्या देवता न वायुःसैषानस्तमिता देवता यद्वायुः' इति श्रुतेः । अतो भग्नव्रतनिरासार्थ एवकारो न वायुव्रतनिवृत्त्यर्थ इत्यर्थः ।
अत्रैवार्थे लिङ्गमाह -
एकमिति ।
उकारश्चार्थः । तेन व्रतेन वायोः सायुज्यं समानदेहत्वं सलोकतां च जयतीत्यर्थः ।
नन्वत्र वायुप्राप्तिर्न श्रुतेत्यत्राह -
देवतेति ।
तस्मात्तत्त्वाभेददृष्ट्या व्रतैक्यमिति स्थितं, संप्रति पूर्वोक्तं पृथगुपदेशं विवृणोति -
तथा तौ वा इति ।
सौत्रं दृष्टान्तं व्याचष्टे -
प्रदानवदिति ।
त्रयः पुरोडाशा अस्यां सन्तीति त्रिपुरोडाशिनीष्टिस्तस्यां किं सहप्रदानमुत भेदेनेति संदेहे पूर्वपक्षमाह -
सर्वेषामिति ।
सर्वेषां देवानामाभिमुख्येन प्रापयन्हविरवद्यति गृह्णाति, अच्छंवट्कारं वषट्काराख्यदेवभागमित्यर्थः । यद्वा सर्वदेवार्थं युगपदवदानं कार्यमित्यत्र हेतुरच्छंवट्कारमिति अव्यर्थत्वायेत्यर्थः । एकार्थमवत्ते हविषि शेषो यागानर्हतया वृथा स्यादिति भावः ।
एवं सहावदानश्रुतेर्देवैक्याच्च पुरोडाशानां सहप्रक्षेपे प्राप्ते पृथक्प्रक्षेप इति सिद्धान्तमाह -
राजेति ।
राजाधिराजस्वराजगुणभेदेन विशिष्टदेवताभेदादित्यर्थः ।
किञ्चाध्वर्युणा यजेति प्रैषे कृते होत्रा यो मन्त्रः पठ्यते सा याज्या, अनुब्रूहीति प्रैषानन्तरमन्त्रः पुरोनुवाक्येति भेदोऽस्ति, तत्रास्यामिष्टौ प्रथमपुरोडाशप्रदाने या कॢप्ता याज्या स द्वितीयप्रदाने पुरोनुवाक्या, या च पूर्वमनुवाक्य, स पश्चाद्याज्येति व्यत्यासमन्वाहेति श्रुत्या विधानात्, यथाश्रुति प्रक्षेपपृथक्त्वमित्याह -
याज्येति ।
संकर्षो देवताकाण्डम् । वाशब्दोऽवधारणे, नानैव देवता राजादिगुणभेदेन भेदावगमादिति सूत्रार्थः ।
दृष्टान्ते देवताभेदात्कर्मभेदवद्विद्याभेदः स्यादित्यत आह -
तत्र त्विति ।
कर्मोत्पत्तिवाक्यस्थदेवताभेदः कर्मभेदे हेतुरिह त्वन्नादो भवति य एवं वेदेत्युत्पत्तावेकत्वेन ज्ञातविद्यायाः पश्चाच्छ्रुतवायुप्राणभेदो न भेदकः, अग्निहोत्रस्येव दध्यादिद्रव्यभेद इत्यर्थः ।
तर्हि केनांशेन प्रदानस्य दृष्टान्तत्वमित्यत आह -
विद्यैक्येऽपीति ।
अवस्थाभेदाद्देवताभेदः प्रयोगभेदश्चेत्यंशेनायं दृष्टान्त इत्यर्थः ॥४३॥