अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

प्रतीकाधिकरणम्

न प्रतीके न हि सः ।
उभयथा ध्यान­स­म्भ­वा­त्सं­शयः । यथा ब्रह्म­ण्य­भे­द­स­त्त­वा­द­ह­ङ्ग्रह उक्त एवं प्रतीकेष्वपि ब्रह्मविकारतया जीवा­भि­न्न­ब्र­ह्मा­भि­न्न­त्वा­ज्जी­वा­भे­द­स­त्त्वे­ना­ह­ङ्ग्रहः कार्य इति दृष्टान्तेन पूर्वपक्षः । अत्र प्रती­को­पा­स्ती­ना­म­ह­ङ्ग्र­हो­पा­स्ति­भि­र­वि­शेषः । सिद्धान्ते तु विशेषसिद्धिरिति फलम् । एत­दा­र­भ्या­धि­क­र­ण­त्र­यस्य प्रासङ्गिकी पादसङ्गतिः, ब्रह्मै­क्य­ध्या­न­प्र­स­ङ्गा­ग­त­त्वा­दिति विवेकः ।

किं प्रती­के­ष्वा­त्म­त्वा­नु­भ­व­ब­ला­द­ह­ङ्ग्रह उत वस्तुतो जीवा­भे­द­स­त्त्वात् । नाद्य इत्याह -
न हि स इति ।
नानुभवतीत्यर्थः ।

द्विती­य­म­प्य­सिद्ध्या दूषयति -
यत्पुनरिति ।
विकारस्य ब्रह्मणा स्वरू­पै­क्या­यो­गा­द्बा­धे­नैक्यं वाच्यं प्रतीकबाधे चोपास्तिविधिर्न स्यादित्यर्थः ।

किञ्च कर्तृ­त्वा­द्य­बा­धे­नो­पा­स्ति­वि­धि­प्र­वृ­त्ति­र्वाच्या बाधे तदयोगात् । तथा च बाध­मू­ल­ब्र­ह्मै­क्य­ज्ञानं द्वारीकृत्य प्रती­के­ष्व­ह­ङ्ग्र­हो­पा­स्ति­क­ल्पना न युक्ता, बाध­वि­रो­धा­दि­त्याह -
न च ब्रह्मण इति ।

अतो जीवप्रतीकयोः स्वरू­प­भे­दा­द­ह­ङ्ग्रहे विध्यश्रवणाच्च नाहङ्ग्रह इति फलितमाह -
अतश्चेति ।
यथा रुचकस्वस्तिकयोः सुव­र्णा­त्म­नै­क्येऽपि मिथो नैक्यं तथा जीवप्रतीकयोः ब्रह्मा­त्म­नै­क्येऽपि भेदः समः । यदि च धर्मिव्यतिरेकेण तयो­र­भा­व­नि­श्च­या­द्व­स्त्वैक्यं तदोपासनोच्छेद उक्त इत्यर्थः ॥४॥