भाष्यरत्नप्रभाव्याख्या
ऐकात्म्याधिकरणम्
मनश्चिदादीनां पुरुषार्थत्वमुक्तं तदयुक्तं देहातिरिक्तपुरुषाभावादित्याक्षिपति -
एक आत्मनः शरीरे भावात् ।
सिद्धान्तफलमाह -
बन्धेति ।
पूर्वपक्षे तु परलोकार्थकर्मसु मोक्षार्थविद्यायां चाप्रवृत्तिरिति व्यतिरेकमुखेन फलमाह -
न ह्यसतीति ।
व्यतिरिक्तात्मविचारस्य पूर्वतन्त्रे कृतत्वात्पौनरुक्त्यमित्याशङ्क्य तत्रत्यविचारस्यापीदमेव सूत्रं मूलं जैमिनिसूत्राभावादतः क्व पुनरुक्तिरित्याह -
ननु शास्त्रेत्यादिना ।
'यज्ञायुधी यजमानः स्वर्गं लोकमेति' इत्यादिवाक्यस्य भोक्तुरभावादप्रामाण्यप्राप्तावित एवाकृष्य भोक्तुर्विचारः कृत इत्यत्र वृत्तिकारवचनं लिङ्गमाह -
अत एवेति ।
तत्र सूत्राभावादेवेत्यर्थः । उद्धार उपरमः ।
अस्याधिकरणस्यास्मिन्पादे प्रसङ्गसंगतिरित्याह -
इह चेति ।
आमुष्मिकफलोपासनानिर्णयप्रसङ्गेन तदपेक्षितात्मास्तित्वमुच्यत इत्यर्थः ।
एतत्सिद्धवत्कृत्य प्रथमसूत्रेऽथशब्देनाधिकारी चिन्तितस्तस्मादिदमधिकरणं सर्वशास्त्राङ्गमिति शास्त्रसंगतिमाह -
कृत्स्नेति ।
आक्षेपलक्षणामवान्तरसंगतिमाह -
अपि चेति ।
देहातिरिक्त आत्मास्ति न वेति वादिविप्रतिपत्तेः संशये पूर्वपक्षमाह -
अत्रैक इति ।
यद्यपि समस्तेषु मिलितेषु भूतेषु चैतन्यं न दृष्टं तप्तोदकुम्भस्य ज्ञानाभावाद्व्यस्तेषु तु नास्त्येव तथापि देहात्मकभूतेषु स्यादिति तेभ्यो भूतेभ्यश्चैतन्यं संभावयन्तो मदशक्तिवद्विज्ञानं संघातजं तद्विशिष्टसंघात आत्मेत्याहुरित्यन्वयः । यथा मादकद्रव्येषु ताम्बूलपत्रादिषु प्रत्येकमदृष्टापि मदशक्तिस्तत्संघाताज्जायते तद्वदित्यर्थः ।
ननु देहः स्वयं न चेतनः घटवद्भौतिकत्वात्किन्तु चेतनः कश्चित्स्वर्गादिभोक्तास्ति तत्सांनिध्याद्देहस्य चैतन्यविभ्रम इत्यत आह -
न स्वर्गेति ॥५३॥
मनुष्योऽहं जानामिति देहस्य ज्ञातृतायाः प्रत्यक्षत्वादात्मधर्मत्वेन प्रसिद्धानां धर्माणां देहान्वयव्यतिरेकानुभवात्तदन्यात्मनि प्रत्यक्षाभावादप्रत्यक्षस्याप्रामाणिकत्वाद्देह एवात्मेति प्राप्ते सूत्रस्थनत्वितिपदेन सिद्धान्तं प्रतिजानीते -
नत्वेतदिति ।
अनुमानस्य तावत्प्रामाण्यमनिच्छताप्यास्थेयमन्यथा व्यवहारासिद्धेः ।
न ह्यनागतपाकादाविष्टसाधनतानुमितिं विना प्रवृत्तिः संभवति । तथा च ज्ञानादयो देहव्यतिरिक्ताश्रया देहसत्त्वेऽप्यसत्त्वाद्व्यतिरेकेण देहरूपादिवदित्याह -
व्यतिरेक एवास्येति ।
न चादौ श्यामदेहस्य पश्चाद्रूपान्तरे व्यभिचारः, गुणत्वसाक्षाद्व्याप्यजात्यवच्छेदेन असत्त्वस्य विवक्षितत्वात् देहेऽवस्थिते सदा रूपत्वावच्छिन्नमस्त्येव । ज्ञानत्वावच्छिन्नं तु नास्तीति न ज्ञानं देहधर्मः ।
किञ्च एते न देहगुणाः परैरदृश्यत्वादित्याह -
देहधर्माश्चेति ।
किञ्च देहव्यतिरेके तेषामभावस्य संदिग्धत्वान्न देहधर्मत्वनिश्चय इत्याह -
अपि चेति ।
न चानुपलम्भात्तेषामभावनिश्चयस्तवानुपलब्धेरमानत्वात्, तद्धर्म्यात्मनो देहान्तरप्राप्त्याप्यनुपलम्भोपपत्तेश्चेति भावः ।
उपलब्धिवदिति सूत्रस्थं पदं व्याख्यातुमुपक्रमते -
किमात्मकमिति ।
तत्किं भूतातिरिक्तं तत्त्वमुत रूपादिवद्भूतधर्मः । नाद्यः, अपसिद्धान्तादित्युक्त्वा द्वितीयमाशङ्क्य निषेधति -
यदनुभवनमित्यादिना ।
देहात्मकभूतानां चैतन्यं प्रति विषयत्वात्कर्तृकर्मविरोधेन विषयस्य कर्तृत्वायोगान्न भूतकर्तृकत्वं चैतन्यस्येत्यर्थः ।
किञ्च ज्ञानस्य भूतधर्मत्वे रूपादिवज्जाड्यापत्तेर्न तद्धर्मत्वमित्याह -
न हीति ।
फलितं सूत्रपदार्थमाह -
अतश्चेति ।
या देहातिरिक्ता सद्रूपोपलब्धिः स एवात्मा चेदनित्यः स्यादुपलब्धेरनित्यत्वादित्यत आह -
नित्यत्वं चेति ।
घटः स्फुरति पटः स्फुरतीति सर्वत्र स्फूर्तेरभेदान्नित्यत्वं विषयोपरागनाशे तु नाशभ्रम इत्यर्थः ।
एवमात्मा देहाद्भिन्न उपलब्धिरूपत्वादुपलब्धिवदित्युक्तम् , किञ्च जाग्रत्स्वप्नयोर्देहभेदेऽप्यात्मैकत्वप्रत्यभिज्ञानादात्मभेदे चान्यानुभूतेऽन्यस्य स्मृतीच्छानुपपत्तेः स्वप्नस्मृत्यादिमानात्मा देहाद्भिन्न इत्याह -
अहमिति ।
निरस्तमप्यधिकाभिधित्सयानुवदति -
यत्तूक्तमिति ।
उपलब्धेर्देहान्वयव्यतिरेकौ न देहधर्मत्वसाधकौ तन्निमित्तत्वेनान्यथासिद्धेरित्यधिकमाह -
अपि चेति ।
उपलब्धिमात्रे देहस्य निमित्तत्वमप्यसिद्धमित्याह -
न चात्यन्तमिति ।
स्वप्नोपलब्धिर्न देहजन्या, देहव्यापारं विनापि भावाद्वृक्षवत् । अत एव तन्वभावेऽपि स्वप्नवद्योगिनां भोगं सूत्रकृद्वक्ष्यति ।
जाग्रदुपलब्धेर्देहजत्वमस्तीत्यत्यन्तमित्युक्तम् । तस्मादुक्तानुमानानुगृहीतान्मम शरीरमिति भेदानुभावादहं मनुष्य इत्यभेदज्ञानं भ्रम इत्युपसंहरति -
तस्मादिति ॥५४॥