अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

ऐकात्म्याधिकरणम्

मनश्चिदादीनां पुरु­षा­र्थ­त्व­मुक्तं तदयुक्तं देहा­ति­रि­क्त­पु­रु­षा­भा­वा­दि­त्या­क्षि­पति -
एक आत्मनः शरीरे भावात् ।

सिद्धान्तफलमाह -
बन्धेति ।

पूर्वपक्षे तु परलोकार्थकर्मसु मोक्षा­र्थ­वि­द्यायां चाप्रवृत्तिरिति व्यतिरेकमुखेन फलमाह -
न ह्यसतीति ।

व्यति­रि­क्ता­त्म­वि­चा­रस्य पूर्वतन्त्रे कृत­त्वा­त्पौ­न­रु­क्त्य­मि­त्या­शङ्क्य तत्र­त्य­वि­चा­र­स्या­पी­द­मेव सूत्रं मूलं जैमि­नि­सू­त्रा­भा­वा­दतः क्व पुन­रु­क्ति­रि­त्याह -
ननु शास्त्रे­त्या­दिना ।

'यज्ञायुधी यजमानः स्वर्गं लोकमेति' इत्यादिवाक्यस्य भोक्तु­र­भा­वा­द­प्रा­मा­ण्य­प्रा­प्ता­वित एवाकृष्य भोक्तुर्विचारः कृत इत्यत्र वृत्तिकारवचनं लिङ्गमाह -
अत एवेति ।
तत्र सूत्रा­भा­वा­दे­वे­त्यर्थः । उद्धार उपरमः ।

अस्या­धि­क­र­ण­स्या­स्मि­न्पादे प्रस­ङ्ग­सं­ग­ति­रि­त्याह -
इह चेति ।
आमु­ष्मि­क­फ­लो­पा­स­ना­नि­र्ण­य­प्र­स­ङ्गेन तद­पे­क्षि­ता­त्मा­स्ति­त्व­मु­च्यत इत्यर्थः ।

एत­त्सि­द्ध­व­त्कृत्य प्रथ­म­सू­त्रेऽ­थ­श­ब्दे­ना­धि­कारी चिन्ति­त­स्त­स्मा­दि­द­म­धि­क­रणं सर्व­शा­स्त्रा­ङ्ग­मिति शास्त्रसंगतिमाह -
कृत्स्नेति ।

आक्षे­प­ल­क्ष­णा­म­वा­न्त­र­सं­ग­ति­माह -
अपि चेति ।

देहातिरिक्त आत्मास्ति न वेति वादि­वि­प्र­ति­पत्तेः संशये पूर्वपक्षमाह -
अत्रैक इति ।
यद्यपि समस्तेषु मिलितेषु भूतेषु चैतन्यं न दृष्टं तप्तोदकुम्भस्य ज्ञाना­भा­वा­द्व्य­स्तेषु तु नास्त्येव तथापि देहात्मकभूतेषु स्यादिति तेभ्यो भूते­भ्य­श्चै­तन्यं संभावयन्तो मद­श­क्ति­व­द्वि­ज्ञानं संघातजं तद्विशिष्टसंघात आत्मे­त्या­हु­रि­त्य­न्वयः । यथा मादकद्रव्येषु ताम्बू­ल­प­त्रा­दिषु प्रत्ये­क­म­दृ­ष्टापि मद­श­क्ति­स्त­त्सं­घा­ता­ज्जा­यते तद्वदित्यर्थः ।

ननु देहः स्वयं न चेतनः घट­व­द्भौ­ति­क­त्वा­त्किन्तु चेतनः कश्चि­त्स्व­र्गा­दि­भो­क्तास्ति तत्सां­नि­ध्या­द्दे­हस्य चैतन्यविभ्रम इत्यत आह -
न स्वर्गेति ॥५३॥

मनुष्योऽहं जानामिति देहस्य ज्ञातृतायाः प्रत्य­क्ष­त्वा­दा­त्म­ध­र्म­त्वेन प्रसिद्धानां धर्माणां देहा­न्व­य­व्य­ति­रे­का­नु­भ­वा­त्त­द­न्या­त्मनि प्रत्य­क्षा­भा­वा­द­प्र­त्य­क्ष­स्या­प्रा­मा­णि­क­त्वा­द्देह एवात्मेति प्राप्ते सूत्र­स्थ­न­त्वि­ति­प­देन सिद्धान्तं प्रतिजानीते -
नत्वेतदिति ।
अनुमानस्य ताव­त्प्रा­मा­ण्य­म­नि­च्छ­ता­प्या­स्थे­य­म­न्यथा व्यवहारासिद्धेः ।

न ह्यना­ग­त­पा­का­दा­वि­ष्ट­सा­ध­न­ता­नु­मितिं विना प्रवृत्तिः संभवति । तथा च ज्ञानादयो देह­व्य­ति­रि­क्ता­श्रया देह­स­त्त्वेऽ­प्य­स­त्त्वा­द्व्य­ति­रे­केण देह­रू­पा­दि­व­दि­त्याह -
व्यतिरेक एवास्येति ।
न चादौ श्यामदेहस्य पश्चा­द्रू­पा­न्तरे व्यभिचारः, गुण­त्व­सा­क्षा­द्व्या­प्य­जा­त्य­व­च्छे­देन असत्त्वस्य विवक्षितत्वात् देहेऽवस्थिते सदा रूप­त्वा­व­च्छि­न्न­म­स्त्येव । ज्ञान­त्वा­व­च्छिन्नं तु नास्तीति न ज्ञानं देहधर्मः ।

किञ्च एते न देहगुणाः परै­र­दृ­श्य­त्वा­दि­त्याह -
देहधर्माश्चेति ।

किञ्च देहव्यतिरेके तेषामभावस्य संदिग्धत्वान्न देह­ध­र्म­त्व­नि­श्चय इत्याह -
अपि चेति ।
न चानु­प­ल­म्भा­त्ते­षा­म­भा­व­नि­श्च­य­स्त­वा­नु­प­ल­ब्धे­र­मा­न­त्वात्, तद्धर्म्यात्मनो देहा­न्त­र­प्रा­प्त्या­प्य­नु­प­ल­म्भो­प­प­त्ते­श्चेति भावः ।

उपलब्धिवदिति सूत्रस्थं पदं व्याख्या­तु­मु­प­क्र­मते -
किमात्मकमिति ।

तत्किं भूतातिरिक्तं तत्त्वमुत रूपा­दि­व­द्भू­त­धर्मः । नाद्यः, अप­सि­द्धा­न्ता­दि­त्युक्त्वा द्वितीयमाशङ्क्य निषेधति -
यद­नु­भ­व­न­मि­त्या­दिना ।
देहात्मकभूतानां चैतन्यं प्रति विष­य­त्वा­त्क­र्तृ­क­र्म­वि­रो­धेन विषयस्य कर्तृ­त्वा­यो­गान्न भूतकर्तृकत्वं चैत­न्य­स्ये­त्यर्थः ।

किञ्च ज्ञानस्य भूतधर्मत्वे रूपा­दि­व­ज्जा­ड्या­प­त्तेर्न तद्ध­र्म­त्व­मि­त्याह -
न हीति ।

फलितं सूत्रपदार्थमाह -
अतश्चेति ।

या देहातिरिक्ता सद्रूपोपलब्धिः स एवात्मा चेदनित्यः स्यादु­प­ल­ब्धे­र­नि­त्य­त्वा­दि­त्यत आह -
नित्यत्वं चेति ।
घटः स्फुरति पटः स्फुरतीति सर्वत्र स्फूर्ते­र­भे­दा­न्नि­त्यत्वं विषयोपरागनाशे तु नाशभ्रम इत्यर्थः ।

एवमात्मा देहाद्भिन्न उप­ल­ब्धि­रू­प­त्वा­दु­प­ल­ब्धि­व­दि­त्यु­क्तम् , किञ्च जाग्र­त्स्व­प्न­यो­र्दे­ह­भे­देऽ­प्या­त्मै­क­त्व­प्र­त्य­भि­ज्ञा­ना­दा­त्म­भेदे चान्या­नु­भू­तेऽ­न्यस्य स्मृती­च्छा­नु­प­पत्तेः स्वप्न­स्मृ­त्या­दि­मा­नात्मा देहाद्भिन्न इत्याह -
अहमिति ।

निर­स्त­म­प्य­धि­का­भि­धि­त्स­या­नु­व­दति -
यत्तूक्तमिति ।

उप­ल­ब्धे­र्दे­हा­न्व­य­व्य­ति­रेकौ न देहधर्मत्वसाधकौ तन्नि­मि­त्त­त्वे­ना­न्य­था­सि­द्धे­रि­त्य­धि­क­माह -
अपि चेति ।

उपलब्धिमात्रे देहस्य निमि­त्त­त्व­म­प्य­सि­द्ध­मि­त्याह -
न चात्यन्तमिति ।
स्वप्नो­प­ल­ब्धिर्न देहजन्या, देहव्यापारं विनापि भावाद्वृक्षवत् । अत एव तन्वभावेऽपि स्वप्न­व­द्यो­गिनां भोगं सूत्र­कृ­द्व­क्ष्यति ।

जाग्र­दु­प­ल­ब्धे­र्दे­ह­ज­त्व­म­स्ती­त्य­त्य­न्त­मि­त्यु­क्तम् । तस्मा­दु­क्ता­नु­मा­ना­नु­गृ­ही­ता­न्मम शरीरमिति भेदानुभावादहं मनुष्य इत्यभेदज्ञानं भ्रम इत्युपसंहरति -
तस्मादिति ॥५४॥