अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

आकाशाधिकरणम्

भवतु रूप­व­त्त्वा­दि­दु­र्ब­ल­लि­ङ्गानां पापा­स्प­र्शि­त्वा­द्य­व्य­भि­चा­रि­ब्र­ह्म­लि­ङ्गै­र­न्य­था­न­य­नम् । इह त्वाका­श­प­द­श्रु­ति­र्लि­ङ्गा­द्ब­ली­य­सीति प्रत्युदाहणेन प्राप्ते प्रत्याह
आका­श­स्त­ल्लि­ङ्गा­दिति ।

छान्दो­ग्य­वा­क्य­मु­दा­ह­रति
इदमिति ।
शालावत्यो ब्राह्मणो जैवलिं राजानं पृच्छति, अस्य पृथ्वी­लो­क­स्या­न्यस्य च क आधार इति । राजाब्रूते, 'आकाश इति ह' इति । 'यदेष आकाशः' इत्या­न­न्द­त्व­स्या­सा­धा­र­णस्य श्रवणादाकाशो ब्रह्मे­त्य­व­धा­रि­तम् । 'आकाशो वै नाम' इत्यत्र 'तद्ब्रह्म' इति वाक्यशेषादिति विभागः ।

निर्वहिता
उत्प­त्ति­स्थि­ति­हेतुः । ते नामरूपे, यदन्तरा यस्माद्भिन्ने । यत्र कल्पितत्वेन मध्ये स्त इति वार्थः । अत्र पूर्वपक्षे भूता­का­शा­त्म­नो­द्गी­थो­पास्तिः, सिद्धान्ते ब्रह्मात्मना इति फलम् । उपास्ये स्पष्ट­ब्र­ह्म­लि­ङ्ग­वा­क्य­स­म­न्व­यो­क्ते­रा­पादं श्रुत्या­दि­स­ङ्ग­तयः । स्पष्टमत्र भाष्यम् ।

तेजःप्रभृतिषु वाय्वादेरपि कार­ण­त्वा­दे­व­का­र­श्रु­ति­बाधः, सर्व­श्रु­ते­श्चा­का­शा­ति­रि­क्त­वि­ष­य­त्वेन सङ्कोचः स्यादित्याह
सत्यं दर्शितमिति ।
ब्रह्मणस्तु सर्वात्मकत्वात् 'तस्मादेव सर्वम्' इति श्रुति­र्यु­क्तेति भावः ।

तथा सर्वलयाधारत्वम् , निर­ति­श­य­म­ह­त्त्वम् , स्थितावपि पर­मा­श्र­य­त्व­मि­त्ये­तानि स्पष्टानि ब्रह्म­लि­ङ्गा­नी­त्याह
तथा आकाशमित्यादिना ।
रातेर्धनस्य दातुः । रातिरिति पाठे बन्धुरित्यर्थः ।

लिङ्गान्तरमाह
अपि चेति ।
दाल्भ्य­शा­ला­वत्यौ ब्राह्मणौ राजा चेति त्रय उद्गी­थ­वि­द्या­कु­शला विचारयामासुः, किमुद्गीथस्य परायणमिति । तत्र स्वर्गा­दा­ग­ता­भि­र­द्भि­र्जी­वि­तेन प्राणेन क्रिय­मा­णो­द्गी­थस्य स्वर्ग एव परायणमिति दाल्भ्य­प­क्ष­म­प्र­ति­ष्ठा­दो­षेण शालावत्यो निन्दित्वा स्वर्गस्यापि कर्मद्वारा हेतुरयं लोकः प्रति­ष्ठे­त्यु­वाच । तं शालावत्यस्य पक्षं 'अन्तवद्वै ते किल शाला­व­त्य­साम' इति राजा निन्दि­त्वा­न­न्त­मे­वा­काशं वक्ति । भूता­का­शो­क्ता­व­न्त­व­त्त्व­दो­ष­ता­द­व­स्थ्या­दि­त्यर्थः ।

नन्वाकाशोऽनन्त इति न श्रुत­मि­त्या­श­ङ्क्याह
तं चेति ।
उद्गीथ आकाश एवेति सम्पा­द­ना­दु­द्गी­थ­स्या­न­न्त­त्वा­दिकं न स्वत इति भावः । स उद्गीथावयव ओङ्कारः, एष आकाशात्मकः, परः रस­त­म­त्वा­दि­र्गु­णै­रु­त्कृष्टः, अतोऽ­क्ष­रा­न्त­रेभ्यो वरीयान् । श्रेष्ठ इत्यर्थः । परः इत्यव्ययं सकारान्तं वा, परः कृत्स्नमिति प्रयोगात् । परश्चासौ वरेभ्योऽतिशयेन वरः । परो­व­री­या­नि­त्यर्थः ।

प्राथम्यात् , श्रुत­त्वा­च्चा­का­श­शब्दो बलीयानित्युक्तं स्मारयति
यत्पुनरिति ।

एव­का­र­स­र्व­श­ब्दा­नु­गृ­ही­ता­न­न्त्या­दि­ब­हु­लि­ङ्गा­ना­म­नु­ग्र­हाय 'त्यजेदेकं कुल­स्यार्थे' इति न्यायेनैकस्याः श्रुतेर्बाधो युक्त इत्याह
अत्र ब्रूम इति ।

आका­श­प­दा­द्भू­त­स्यैव प्रथ­म­प्र­ती­ति­रिति नियमो नास्ती­त्य­पि­श­ब्देन द्योतितम् । तत्र युक्तिमाह
दर्शितश्चेति ।
आका­श­प­दा­द्गौ­णा­र्थस्य ब्रह्मणोऽपि प्रथ­म­प्र­ती­ति­रस्ति, तस्य तत्पर्यायाणां च ब्रह्मणि प्रयो­ग­प्रा­चु­र्या­दिति भावः । अक्षरे कूटस्थे व्योमन् व्योम्नि ऋचो वेदाः सन्ति । प्रमाणत्वेन यस्मिन्नक्षरे विश्वे देवा अधिष्ठिता इत्यर्थः ।

ओङ्कारः कं सुखं ब्रह्म खं व्याप­क­मि­त्यु­पा­सीत । श्रुत्य­न्त­र­प्र­यो­ग­माह
खं पुराणमिति ।
व्याप्यनादि ब्रह्मेत्यर्थः । 'कं ब्रह्म खं ब्रह्म' इति छान्दोग्यम् , 'ओं खं ब्रह्म खं पुराणम्' इति बृहदारण्यकमिति भेदः । किञ्च तत्रैव प्रथ­मा­नु­सा­रे­णो­त्तरं नेयम् , यत्र तन्नेतुं शक्यम् ।

यत्र त्वशक्यं तत्रो­त्त­रा­नु­सा­रेण प्रथमं नेयमित्याह
वाक्येति ।

तस्मादुपास्ये ब्रह्मणि वाक्यं सम­न्वि­त­मि­त्यु­प­सं­ह­रति
तस्मादिति ॥ २२ ॥