भाष्यरत्नप्रभाव्याख्या
बालाक्यधिकरणम्
जगद्वाचित्वात् । विषयमाह
कौषीतकीति ।
बलाकाया अपत्यं बालाकिर्ब्राह्मणस्तं प्रति राजोवाच
यो वा इति ।
न केवलमादित्यादीनां कर्ता किन्तु सर्वस्य जगत इत्याह
यस्येति ।
एतज्जगद्यस्य कर्म । क्रियते इति व्युत्पत्त्या कार्यमित्यर्थः ।
कर्मेतिशब्दस्य योगरूढिभ्यां संशयमाह
तत्रेति ।
पूर्वत्रैकवाक्यस्थसदादिशब्दबलादसच्छब्दो नीतः । इह तु वाक्यभेदात् 'ब्रह्म ते ब्रवाणि' इति बालाकिवाक्यस्थब्रह्मशब्देन प्राणादिशब्दो ब्रह्मपरत्वेन नेतुमशक्य इति प्रत्युदाहरणेन पूर्वपक्षमाह
किं तावदिति ।
पूर्वपक्षे वाक्यस्य प्राणाद्युपास्तिपरत्वाद्ब्रह्मणि समन्वयासिद्धिः सिद्धान्ते ज्ञेये समन्वयसिद्धिरिति फलम् । अथ सुषुप्तौ । द्रष्टेति शेषः ।
श्रुतं पुरुषकर्तृत्वं प्राणस्य कथमित्यत आह
ये चैत इति ।
सूत्रात्मकप्राणस्य विकाराः सूर्यादय इत्यत्र मानमाह
क्रतम इति ।
यस्य महिमानः सर्वे देवा इति पूर्ववाक्ये दर्शितम् , अतः सर्वदेवात्मकत्वात् , स प्राणो ब्रह्म । त्यत् परोक्षम् । शास्त्रैकवेद्यत्वादित्यर्थः ।
पूर्वपक्षान्तरमाह
जीवो वेति ।
यत्कारणं यस्माज्जीवं बोधयति तस्मादस्ति सुप्तोत्थापनं जीवलिङ्गमिति योजना । तौ ह पुरुषं सुप्तमाजग्मतुः । तं राजा हे बृहत्पाण्डरवासः सोमराजन्नित्यामन्त्र्य सम्बोध्य सम्बोधनानभिज्ञत्वात्प्राणादेरनात्मत्वमुक्त्वा यष्ठ्याघातेनोत्थाप्य जीवं बोधितवानित्यर्थः । श्रेष्ठी प्रधानः स्वैर्भृत्यैर्ज्ञातिभिरुपहृतं भुङ्क्ते स्वाः ज्ञातयश्च तमुपजीवन्ति, एवं जीवोऽपि आदित्यादिभिः प्रकाशादिना भोगोपकरणैर्भुङ्क्ते ते च हविर्ग्रहणादिना जीवमुपजीवन्तीत्युक्तं भोक्तृत्वं जीवलिङ्गम् ।
ननु 'प्राण एवैकधा भवति' इति श्रुतः प्राणशब्दो जीवे कथमित्यत आह
प्राणभृत्त्वाच्चेति ।
सूत्राद्बहिरेव सिद्धान्तयति
एवमिति ।
स च बालाकिर्ब्रह्मत्वभ्रान्त्या व्यष्टिलिङ्गरूपान्पुरुषानुक्त्वा राज्ञा निरस्तस्तूष्णीं स्थितः । त्वदुक्तं ब्रह्म मृषेत्युक्त्वा राज्ञोच्यमानं ब्रह्मैवेति वक्तव्यमन्यथाराज्ञोऽपि मृषावादित्वप्रसङ्गादित्याह
यदि सोऽपीति ।
वेदितव्योऽपीत्यर्थः ।
मुख्यं पुरुषकर्तृत्वं ब्रह्मण एव लिङ्गम् , प्राणजीवयोस्तन्नियम्यत्वेनास्वातन्त्र्यादित्याह
कर्तृत्वं चेति ।
यदुक्तं चलनादृष्टयोर्वाचकः कर्मशब्दः प्राणजीवयोरुपस्थापक इति, तन्नेत्याह
यस्येति ।
अनेकार्थकाच्छब्दादन्यतरार्थस्य प्रकरणादुपपदाद्वा ग्रहणं न्याय्यम् । अत्र प्रकरणोपपदयोरसत्त्वात्कस्य ग्रहणमिति संशये पुरुषकर्तृपदसांनिध्यात्क्रियत इति योगाज्जगद्ग्रहणमित्यर्थः ।
एतत्कर्मेतिप्रकृतपरामर्शात्पुरुषाः पूर्वोक्तः कर्मशब्देन निर्दिश्यन्तामित्यत आह
नापीति ।
पौनरुक्त्यातात्पुरुषाणां नपुंसकैकवचनेन परामर्शायोगाच्चेत्यर्थः ।
ननु पुरुषोत्पादकस्य कर्तुर्व्यापारः करोत्यर्थमुत्पादनं तस्यफलं पुरुषजन्म तदन्यतरवाची कर्मशब्दोऽस्त्वित्यत आह
नापीति ।
कर्तृशब्देनेति ।
क्रियाफलाभ्यां विना कर्तृत्वायोगात्कर्तृशब्देनैव तयोर्ग्रहणमित्यर्थः ।
जगतोऽपि प्रकरणोपपदे न स्त इत्युक्तमङ्गीकरोति
सत्यमिति ।
प्रकरणादिकं हि सर्वनाम्नः सङ्कोचकम् , तस्मिन्नसति सामान्येन बुद्धिस्थं सर्वमेव गृह्यते । अत्र च सङ्कोचकासत्त्वात्सर्वार्थकेन सर्वनाम्ना बुद्धिस्थस्य कार्यमात्रस्य कर्मशब्दो वाचक इत्याह
तथापीति ।
किञ्च जगदेकदेशोक्त्या जगत्प्रकृतमित्याह
पूर्वत्रेति ।
जगद्ग्रहे पुरुषाणामपि ग्रहात्पृथगुक्तिर्व्यर्थेत्यत आह
एतदुक्तमिति ।
स वेदितव्य इति सम्बन्धः । पुरुषमात्रनिरूपितं कर्तृत्वमिति भ्रान्तिनिरासार्थो वाशब्दः ।
ब्राह्मणा भोजयितव्याः परिव्राजकाश्चेत्यत्र यथा ब्राह्मणशब्दः परिव्राजकान्यविषयः तथात्र कर्मशब्दः पुरुषान्यजगद्वाचीत्याह
एवमिति ।
अस्तु जगत्कर्ता वेदितव्यः, परमेश्वरस्य किमायातमित्यत आह
परमेश्वरेति ॥ १६ ॥
सिद्धान्तमुक्त्वा पूर्वपक्षबीजमनूद्य दूषयति
जीवमुख्यप्राणलिङ्गादिति ।
उक्तमेव स्मारयति
त्रिविधमिति ।
श्रैष्ठ्यं गुणाधिक्यम् , आधिपत्यं नियन्तृत्वम् । स्वाराज्यमनियम्यत्वमिति भेदः ।
'सम्भवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते' इत्युक्तं चेत्पुनरुक्तिः स्यादिति शङ्कते
नन्वेवमिति ।
कर्मपदस्य रूढ्या पूर्वपक्षप्राप्तौ तन्निरासार्थमस्यारम्भो युक्त इत्याह
नेत्यादिना ।
प्राणशब्दजीवलिङ्गयोर्गतिमाह
प्राणशब्दोऽपीति ।
मनो जीवः ॥ १७ ॥
जीवलिङ्गेन ब्रह्मैव लक्ष्यत इत्युक्तम् । इदानीं तल्लिङ्गेन जीवोक्तिद्वारा ब्रह्म ग्राह्यमित्याह
अन्यार्थमिति ।
जीवपरामर्शस्य जीवाधिकरणब्रह्मज्ञानार्थत्वे प्रश्नमाह
क्वैष इति ।
हे बालाके, एतच्छयनं विशेषज्ञानाभावरूपं यथा स्यात्तथैष पुरुषः क्वाशयिष्ट । कस्मिन्नधिकरणे शयनं कृतवानित्यर्थः ।
एकीभावाश्रयज्ञानार्थं पृच्छति
क्व वेति ।
एतद्भवनमेकीभावरूपं यथा स्यात्तथा एष पुरुषः क्वाभूत्सुप्तः । केनैक्यं प्राप्नोतीति यावत् ।
उत्थानापादानं पृच्छति
कुत इति ।
एतदागमनमैक्यभ्रंशरूपं यथा स्यात्तथा पुरुषः कुत आगत इत्यर्थः ।
प्रश्नमुक्त्वा व्याख्यानमाह
प्रतिवचनमिति ।
शयनभवनयोराधार उत्थानापादानं च प्राणशब्दितं ब्रह्मैवेत्यर्थः ।
उत्तरे प्राणोक्तेः प्रश्नोऽपि प्राणविशय इत्यत आह
सुषुप्तिकाले चेति ।
जगद्धेतुत्व जीवैक्याभ्यां प्राणोऽत्र ब्रह्मेत्यर्थः ।
जीवोक्तेरन्यार्थत्वमुपसंहरति
तस्मादिति ।
निःसम्बोधता विशेषधीशून्यता । स्वच्छता विक्षेपमलशून्यता ।
भेदभ्रान्तिशून्यता स्वरूपैक्यमाह
उपाधीति ।
प्रश्नव्याख्यानयोर्ब्रह्मविषयत्वे शाखान्तरसंवादमाह
अपि चैवमेके शाखिन इति ।
ननु तत्राकाशः सुषुप्तिस्थानमुक्तं न ब्रह्मेत्यत आह
आकाशेति ।
उपाधिद्वारा प्रमात्रात्मजन्महेतुत्वाच्चाकाशो ब्रह्मेत्याह
सर्व इति ।
एवं जीवनिरासार्थकत्वेन सूत्रं व्याख्याय प्राणनिरासपरत्वेनापि व्याचष्टे
प्राणेति ।
अस्मिन्वाक्ये प्राणोपदेशं ब्रह्मज्ञानार्थं मन्यते जैमिनिः, उक्तप्रश्नव्याख्यानाभ्यां वाक्यस्य ब्रह्मपरत्वावगमात् । अपि चैके शाखिन एवमेव प्राणातिरिक्तं जीवात्मानमामनन्तः प्राणस्य वाक्यार्थत्वं वारयन्तीति सूत्रयोजना । अतिरिक्तजीवोपदेशः प्राणनिराकरणस्याप्यभ्युच्चयो हेत्वन्तरमिति भाष्यार्थः । तस्मादिदं वाक्यं ब्रह्मणि समन्वितमिति सिद्धम् ॥ १८ ॥