अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

बालाक्यधिकरणम्

जगद्वाचित्वात् । विषयमाह
कौषीतकीति ।

बलाकाया अपत्यं बाला­कि­र्ब्रा­ह्म­णस्तं प्रति राजोवाच
यो वा इति ।

न केव­ल­मा­दि­त्या­दीनां कर्ता किन्तु सर्वस्य जगत इत्याह
यस्येति ।
एतज्जगद्यस्य कर्म । क्रियते इति व्युत्पत्त्या कार्यमित्यर्थः ।

कर्मेतिशब्दस्य योगरूढिभ्यां संशयमाह
तत्रेति ।

पूर्व­त्रै­क­वा­क्य­स्थ­स­दा­दि­श­ब्द­ब­ला­द­स­च्छब्दो नीतः । इह तु वाक्यभेदात् 'ब्रह्म ते ब्रवाणि' इति बाला­कि­वा­क्य­स्थ­ब्र­ह्म­श­ब्देन प्राणादिशब्दो ब्रह्मपरत्वेन नेतुमशक्य इति प्रत्युदाहरणेन पूर्वपक्षमाह
किं तावदिति ।
पूर्वपक्षे वाक्यस्य प्राणा­द्यु­पा­स्ति­प­र­त्वा­द्ब्र­ह्मणि समन्वयासिद्धिः सिद्धान्ते ज्ञेये सम­न्व­य­सि­द्धि­रिति फलम् । अथ सुषुप्तौ । द्रष्टेति शेषः ।

श्रुतं पुरुषकर्तृत्वं प्राणस्य कथमित्यत आह
ये चैत इति ।

सूत्रा­त्म­क­प्रा­णस्य विकाराः सूर्यादय इत्यत्र मानमाह
क्रतम इति ।
यस्य महिमानः सर्वे देवा इति पूर्ववाक्ये दर्शितम् , अतः सर्व­दे­वा­त्म­क­त्वात् , स प्राणो ब्रह्म । त्यत् परोक्षम् । शास्त्रै­क­वे­द्य­त्वा­दि­त्यर्थः ।

पूर्व­प­क्षा­न्त­र­माह
जीवो वेति ।
यत्कारणं यस्माज्जीवं बोधयति तस्मादस्ति सुप्तोत्थापनं जीवलिङ्गमिति योजना । तौ ह पुरुषं सुप्तमाजग्मतुः । तं राजा हे बृहत्पाण्डरवासः सोम­रा­ज­न्नि­त्या­मन्त्र्य सम्बोध्य सम्बो­ध­ना­न­भि­ज्ञ­त्वा­त्प्रा­णा­दे­र­ना­त्म­त्व­मुक्त्वा यष्ठ्या­घा­ते­नो­त्थाप्य जीवं बोधि­त­वा­नि­त्यर्थः । श्रेष्ठी प्रधानः स्वैर्भृ­त्यै­र्ज्ञा­ति­भि­रु­प­हृतं भुङ्क्ते स्वाः ज्ञातयश्च तमुपजीवन्ति, एवं जीवोऽपि आदित्यादिभिः प्रकाशादिना भोगो­प­क­र­णै­र्भुङ्क्ते ते च हविर्ग्रहणादिना जीव­मु­प­जी­व­न्ती­त्युक्तं भोक्तृत्वं जीवलिङ्गम् ।

ननु 'प्राण एवैकधा भवति' इति श्रुतः प्राणशब्दो जीवे कथमित्यत आह
प्राण­भृ­त्त्वा­च्चेति ।

सूत्राद्बहिरेव सिद्धान्तयति
एवमिति ।

स च बाला­कि­र्ब्र­ह्म­त्व­भ्रान्त्या व्यष्टि­लि­ङ्ग­रू­पा­न्पु­रु­षा­नुक्त्वा राज्ञा निरस्तस्तूष्णीं स्थितः । त्वदुक्तं ब्रह्म मृषेत्युक्त्वा राज्ञोच्यमानं ब्रह्मैवेति वक्त­व्य­म­न्य­था­रा­ज्ञोऽपि मृषा­वा­दि­त्व­प्र­स­ङ्गा­दि­त्याह
यदि सोऽपीति ।
वेदि­त­व्योऽ­पी­त्यर्थः ।

मुख्यं पुरुषकर्तृत्वं ब्रह्मण एव लिङ्गम् , प्राण­जी­व­यो­स्त­न्नि­य­म्य­त्वे­ना­स्वा­त­न्त्र्या­दि­त्याह
कर्तृत्वं चेति ।

यदुक्तं चल­ना­दृ­ष्ट­यो­र्वा­चकः कर्मशब्दः प्राण­जी­व­यो­रु­प­स्था­पक इति, तन्नेत्याह
यस्येति ।
अने­का­र्थ­का­च्छ­ब्दा­द­न्य­त­रा­र्थस्य प्रक­र­णा­दु­प­प­दाद्वा ग्रहणं न्याय्यम् । अत्र प्रक­र­णो­प­प­द­यो­र­स­त्त्वा­त्कस्य ग्रहणमिति संशये पुरु­ष­क­र्तृ­प­द­सां­नि­ध्या­त्क्रि­यत इति योगा­ज्ज­ग­द्ग्र­ह­ण­मि­त्यर्थः ।

एत­त्क­र्मे­ति­प्र­कृ­त­प­रा­म­र्शा­त्पु­रुषाः पूर्वोक्तः कर्मशब्देन निर्दि­श्य­न्ता­मि­त्यत आह
नापीति ।
पौन­रु­क्त्या­ता­त्पु­रु­षाणां नपुंसकैकवचनेन परा­म­र्शा­यो­गा­च्चे­त्यर्थः ।

ननु पुरुषोत्पादकस्य कर्तुर्व्यापारः करो­त्य­र्थ­मु­त्पा­दनं तस्यफलं पुरुषजन्म तदन्यतरवाची कर्म­श­ब्दोऽ­स्त्वि­त्यत आह
नापीति ।

कर्तृशब्देनेति ।
क्रियाफलाभ्यां विना कर्तृ­त्वा­यो­गा­त्क­र्तृ­श­ब्दे­नैव तयो­र्ग्र­ह­ण­मि­त्यर्थः ।

जगतोऽपि प्रकरणोपपदे न स्त इत्यु­क्त­म­ङ्गी­क­रोति
सत्यमिति ।

प्रकरणादिकं हि सर्वनाम्नः सङ्कोचकम् , तस्मिन्नसति सामान्येन बुद्धिस्थं सर्वमेव गृह्यते । अत्र च सङ्को­च­का­स­त्त्वा­त्स­र्वा­र्थ­केन सर्वनाम्ना बुद्धिस्थस्य कार्यमात्रस्य कर्मशब्दो वाचक इत्याह
तथापीति ।

किञ्च जगदेकदेशोक्त्या जग­त्प्र­कृ­त­मि­त्याह
पूर्वत्रेति ।

जगद्ग्रहे पुरुषाणामपि ग्रहा­त्पृ­थ­गु­क्ति­र्व्य­र्थे­त्यत आह
एतदुक्तमिति ।
स वेदितव्य इति सम्बन्धः । पुरु­ष­मा­त्र­नि­रू­पितं कर्तृत्वमिति भ्रान्ति­नि­रा­सार्थो वाशब्दः ।

ब्राह्मणा भोजयितव्याः परि­व्रा­ज­का­श्चे­त्यत्र यथा ब्राह्मणशब्दः परि­व्रा­ज­का­न्य­वि­षयः तथात्र कर्मशब्दः पुरु­षा­न्य­ज­ग­द्वा­ची­त्याह
एवमिति ।

अस्तु जगत्कर्ता वेदितव्यः, परमेश्वरस्य किमायातमित्यत आह
परमेश्वरेति ॥ १६ ॥

सिद्धा­न्त­मुक्त्वा पूर्व­प­क्ष­बी­ज­म­नूद्य दूषयति
जीव­मु­ख्य­प्रा­ण­लि­ङ्गा­दिति ।

उक्तमेव स्मारयति
त्रिविधमिति ।
श्रैष्ठ्यं गुणाधिक्यम् , आधिपत्यं नियन्तृत्वम् । स्वारा­ज्य­म­नि­य­म्य­त्व­मिति भेदः ।

'सम्भ­व­त्ये­क­वा­क्यत्वे वाक्यभेदो हि नेष्यते' इत्युक्तं चेत्पुनरुक्तिः स्यादिति शङ्कते
नन्वेवमिति ।

कर्मपदस्य रूढ्या पूर्व­प­क्ष­प्राप्तौ तन्नि­रा­सा­र्थ­म­स्या­रम्भो युक्त इत्याह
नेत्यादिना ।

प्राण­श­ब्द­जी­व­लि­ङ्ग­यो­र्ग­ति­माह
प्राणशब्दोऽपीति ।
मनो जीवः ॥ १७ ॥

जीवलिङ्गेन ब्रह्मैव लक्ष्यत इत्युक्तम् । इदानीं तल्लिङ्गेन जीवोक्तिद्वारा ब्रह्म ग्राह्यमित्याह
अन्यार्थमिति ।

जीवपरामर्शस्य जीवा­धि­क­र­ण­ब्र­ह्म­ज्ञा­ना­र्थत्वे प्रश्नमाह
क्वैष इति ।
हे बालाके, एतच्छयनं विशे­ष­ज्ञा­ना­भा­व­रूपं यथा स्यात्तथैष पुरुषः क्वाशयिष्ट । कस्मिन्नधिकरणे शयनं कृतवानित्यर्थः ।

एकी­भा­वा­श्र­य­ज्ञा­नार्थं पृच्छति
क्व वेति ।
एत­द्भ­व­न­मे­की­भा­व­रूपं यथा स्यात्तथा एष पुरुषः क्वाभूत्सुप्तः । केनैक्यं प्राप्नोतीति यावत् ।

उत्थानापादानं पृच्छति
कुत इति ।
एत­दा­ग­म­न­मै­क्य­भ्रं­श­रूपं यथा स्यात्तथा पुरुषः कुत आगत इत्यर्थः ।

प्रश्नमुक्त्वा व्याख्यानमाह
प्रतिवचनमिति ।
शयनभवनयोराधार उत्थानापादानं च प्राणशब्दितं ब्रह्मै­वे­त्यर्थः ।

उत्तरे प्राणोक्तेः प्रश्नोऽपि प्राणविशय इत्यत आह
सुषुप्तिकाले चेति ।
जगद्धेतुत्व जीवैक्याभ्यां प्राणोऽत्र ब्रह्मेत्यर्थः ।

जीवो­क्ते­र­न्या­र्थ­त्व­मु­प­सं­ह­रति
तस्मादिति ।
निःसम्बोधता विशेषधीशून्यता । स्वच्छता विक्षे­प­म­ल­शू­न्यता ।

भेद­भ्रा­न्ति­शू­न्यता स्वरूपैक्यमाह
उपाधीति ।

प्रश्न­व्या­ख्या­न­यो­र्ब्र­ह्म­वि­ष­यत्वे शाखा­न्त­र­सं­वा­द­माह
अपि चैवमेके शाखिन इति ।

ननु तत्राकाशः सुषु­प्ति­स्था­न­मुक्तं न ब्रह्मेत्यत आह
आकाशेति ।

उपाधिद्वारा प्रमा­त्रा­त्म­ज­न्म­हे­तु­त्वा­च्चा­काशो ब्रह्मेत्याह
सर्व इति ।

एवं जीव­नि­रा­सा­र्थ­क­त्वेन सूत्रं व्याख्याय प्राण­नि­रा­स­प­र­त्वे­नापि व्याचष्टे
प्राणेति ।
अस्मिन्वाक्ये प्राणोपदेशं ब्रह्म­ज्ञा­नार्थं मन्यते जैमिनिः, उक्त­प्र­श्न­व्या­ख्या­नाभ्यां वाक्यस्य ब्रह्म­प­र­त्वा­व­ग­मात् । अपि चैके शाखिन एवमेव प्राणातिरिक्तं जीवा­त्मा­न­मा­म­नन्तः प्राणस्य वाक्यार्थत्वं वारयन्तीति सूत्रयोजना । अति­रि­क्त­जी­वो­प­देशः प्राण­नि­रा­क­र­ण­स्या­प्य­भ्यु­च्चयो हेत्वन्तरमिति भाष्यार्थः । तस्मादिदं वाक्यं ब्रह्मणि समन्वितमिति सिद्धम् ॥ १८ ॥