अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

तदभावाधिकरणम्

एवं बाह्यकरणोपरमे सति मनो­वा­स­नो­द्दी­पि­ता­वि­द्या­वि­ला­सा­त्मकं स्वप्न­मा­त्म­नः­सा­क्षिणः स्वय­ञ्ज्यो­ति­ष्ट्वार्थं विचार्य प्रति­यो­ग्य­नु­यो­गि­भा­व­स­ङ्गत्या स्वप्ना­व­स्थ­म­नो­ल­या­त्मिकां सुषुप्तिं विचारयति -
तदभावो नाडीषु तच्छ्रु­ते­रा­त्मनि च ।
तदेतत्स्वपनं यथा स्यात्तथा । यत्र काले सुप्तः सुषुप्तः समस्तो निरस्तबाह्यकरणो मनो­ल­या­त्स­म्य­क्प्र­सङ्ग इत्यर्थः ।

स्वापे नाडी­स्था­न­मुक्त्वा नाडी­पु­री­त­तो­र्ना­डी­प­र­मा­त्म­नोश्च समुच्चयश्रुती आह -
अन्यत्रेति ।

पर­मा­त्म­मा­त्र­श्रु­ती­राह -
तथा­न्य­त्रे­त्या­दिना ।

नाडी­पु­री­त­ब्र­ह्मसु सप्तमीश्रुतेः समु­च्च­य­श्रु­तेश्च संशयमाह -
तत्रेति ।
पूर्वपक्षे स्थान­वि­क­ल्पा­ज्जी­वस्य ब्रह्मै­क्या­नि­र्णयः, सिद्धान्ते नाडीभिः पुरीततं गत्वान्तर्हृदि ब्रह्मण्येव शेत इति समु­च्च्या­त्त­न्नि­र्णय इति विवेकः ।

एक­पु­रो­डा­शा­र्थत्वं व्रीहि­य­व­यो­र्दृष्टं नाड्या­दी­ना­मे­क­स्मिन् स्वापरूपार्थे निर­पे­क्ष­स्था­नत्वं तु कुत इत्यत आह -
नाड्यादीनां चेति ।
सति ब्रह्मणि तृतीयाश्रुतेर्न सप्तमीति शङ्कार्थः ।

आय­त­न­श­ब्दा­त्स­प्त­म्यर्थ आधारत्वं गम्यत इत्याह -
नैष दोष इति ।
अन्य­त्रा­व­स्था­द्वये श्रान्तो जीवो विश्रा­न्ति­स्थानं प्राणाख्यं सद्ब्र­ह्मो­प­स­र्पति सुषु­प्ता­वि­त्यर्थः । सप्तमीश्रुत्या निर­पे­क्षा­धा­र­त्व­भा­ना­द्वि­कल्प आस्थेयः कदा­चि­त्स­मु­च्चि­त्यापि नाड्यादीनां स्थानत्वमिति न समु­च्च­य­श्रु­ति­वि­रोध इति पूर्वपक्षार्थः ।

सिद्धान्तयति -
एवं प्राप्त इति ।
सूत्रे चकारः पुरी­त­त्स­मु­च्च­यार्थः ।

यदा नाड्यः सुषुप्तिस्थानं तदा पुरीतत्स्थानं न भवतीति श्रुत­स्था­न­त्वस्य पक्षे बाधः स्यात्, स न युक्त इत्याह -
विकल्पे ह्येषामिति ।
व्रीहि­य­व­यो­स्त्व­गत्या विकल्प इति भावः ।

यत्तु सप्तमीश्रुत्या नाड्या­दी­ना­मे­क­फ­ल­क­त्व­मिति, तन्नेत्याह -
न ह्येकेति ।
प्रासादस्य पर्य­ङ्क­धा­र­ण­मर्थः । पर्यङ्कस्य तु शयनमिति फल­भे­देऽ­प्ये­क­वि­भ­क्ति­र्दृ­श्यते, व्यव­धा­ना­व्य­व­धा­नाभ्यां शय­न­सा­ध­न­त्वा­त्स­मु­च्च­यश्च, तथेहापि नाडी­पु­री­त­तो­र्जी­वस्य संचारद्वारा ब्रह्मण्येव सुप्तिरिति समुच्चय इत्यर्थः ।

नाडीनां प्राणस्य च एकेन वाक्ये­नो­पा­दा­ना­न्मिथः समुच्चय इत्याह -
एकवाक्येति ।

आधारत्वमात्रं सप्तम्यर्थो न निरपेक्षत्वमतो न समुच्चयस्य सप्तम्या बाध इत्याह -
न चैवमपीति ।
समु­च्च­येऽ­पी­त्यर्थः ।

अत्र नाडीश्रुतौ नाडीषु भोक्तुः सुप्तिर्न विवक्षिता रश्मि­सं­ब­न्ध­ना­डी­रू­प­मा­र्ग­स्तु­त्य­र्थ­त्वा­दि­त्याह -
अपि चेति ।
पित्तेन विषयेक्षणाभावे सुख­दुः­ख­यो­र­भा­वा­त्त­द्धे­तु­ध­र्मा­ध­र्मा­त्म­क­पा­प्मा­स्पर्श इत्यर्थः ।

अप­ह­त­पा­प्म­ब्र­ह्म­सं­पत्त्या वा पाप्मास्पर्श इत्याह -
अथवेति ।

अस्मिन् व्याख्याने लाभमाह -
एवं च सतीति ।
'तासु तदा भवत्यथास्मिन् प्राण एवैकधा भवति' इति श्रुतेः समुच्चय आश्रितो भवतीत्यर्थः ।

नाडी­ब्र­ह्म­णो­र्गु­ण­प्र­धा­न­भा­वेन सुप्तौ समु­च्च­य­व­त्पु­री­त­द्ब्र­ह्म­णो­र­पी­त्याह -
तथेत्यादिना ।

आकाशे ब्रह्मणि शेत इत्युपक्रम्य ताभिः प्रत्यवसृप्य पुरीतति शेत इत्युक्तं, तथाच नाडीद्वारा पुरीततं गत्वा ब्रह्मणि शेत इति समुच्चयः सिद्ध इत्याह -
तथा नाडीति ।

सता संपन्नो भवति प्राज्ञेन संपरिष्वक्त इति सत्प्राज्ञयोः श्रुतेः पञ्च सुप्ति­स्था­ना­नी­त्यत आह -
सत्प्रा­ज्ञ­यो­रिति ।

किञ्च प्रकृ­त­द­र्शा­दि­सा­ध­नै­क­पु­रो­डा­श­नि­ष्पत्तौ मिथोऽनपेक्षतया सम­र्थ­त्वा­द्युक्तो व्रीहि­य­व­यो­र्वि­कल्पः, नाड्यादीनां तु ब्रह्म­नि­र­पे­क्ष­तया सुषु­प्त­जी­वा­धा­र­त्वा­सा­म­र्थ्यान्न विकल्प इत्याह -
अपि च नाड्य इति ।
उपा­धि­लि­ङ्गा­श्र­य­ना­डी­पु­री­त­तो­रु­प­हि­त­जी­वा­श्र­यत्वं परम्परया वाच्यं, तदपि सुषुप्तौ न संभवति, उपा­धि­ल­या­दि­त्यर्थः ।

ननु ब्रह्मापि जीवस्य न मुख्यं स्थान­म­भे­दा­दि­त्यत आह -
ब्रह्मा­धा­र­त्व­मिति ।
जीवस्य ब्रह्म­ण्य­भे­दे­ना­व­स्थानं नाडीपुरीततोस्तु लीनो­पा­धे­र्जी­वस्य स्थितिरेव न संभ­व­ती­त्ये­का­र्थ­सा­म­र्थ्या­भा­वान्न विकल्प इत्यर्थः ।

सुषुप्तौ जीवस्य भेद­को­पा­धि­ल­या­च्चौ­त्स­र्गि­क­ब्र­ह्मा­भे­दस्य विकल्पो न युक्त इत्याह -
अपिचेति ।

किञ्च नाड्या­दी­ना­म­न्य­त­म­स्थाने क्वचि­त्सु­प्ति­वा­दि­नापि सुषुप्तं न विशिष्यत इति वक्तव्यं, तच्च वक्तुं न शक्यत इत्याह -
अपिच स्थानेति ।
भेदाभावो हि भेदज्ञानाभावे हेतुः, नाडी­पू­रि­त­द्र­तस्य तु जीवस्य भेदा­व­स्थ­त्वा­द्भे­दा­वि­ज्ञाने करणं नास्तीत्यर्थः ।

द्वैता­व­स्थ­स्यापि द्वैताज्ञाने हेतुं शङ्कते -
ननु भेदेति ।

द्रष्टु­र्दृ­श्या­द्दू­र­स्थत्वं स्वाभा­वि­क­मौ­पा­धिकं वा । तत्राद्यं सदृ­ष्टा­न्त­म­नूद्य प्रत्याह -
बाढमित्यादिना ।

द्वितीयमनूद्य दूषयति -
उपाधिगतमेवेति ।
उपा­धि­सं­भि­न्न­स्यैव नाड्यादौ स्वापे कति­प­य­सं­नि­कृ­ष्टा­र्थ­ज्ञा­न­प्र­स­ङ्गा­त्सु­षु­प्ति­व्या­घातः स्यात् । उपाधिलये त्वन्यत्र जीवस्य स्थित्य­यो­गा­द्ब्र­ह्म­ण्येव स्वाप आस्थेय इत्यर्थः ।

एवं विकल्पं निरस्य नाडी­पु­री­त­तो­र्ब्र­ह्मणा सह तुल्य­व­त्स­मु­च्च­य­म­फ­ल­त्वेन दूषयन् गुणप्रधानत्वेन समु­च्च­य­मु­प­सं­ह­रति -
न च वयमित्यादिना ॥७॥

किञ्च ब्रह्मणः सका­शा­ज्जी­व­स्यो­त्था­न­श्रु­ते­र्ब्र­ह्मैव सुषु­प्ति­स्था­न­मि­त्याह सूत्रकारः -
अतः प्रबोध इति ।
नाडीपुरीततोः क्वाप्यु­त्था­ना­पा­दा­न­त्वा­श्र­व­णान्न सुषु­प्ति­स्था­न­त्व­मि­त्यर्थः, तस्मादुपाधिलये जीवस्य ब्रह्मा­भे­दा­दौ­पा­धिक एव भेद इति विवे­का­द्वा­क्या­र्था­भे­द­सि­द्धि­रिति स्थितम् ॥८॥