भाष्यरत्नप्रभाव्याख्या
भूमज्यायस्त्वाधिकरणम्
भूम्नः क्रतुवत् ।
द्युलोकादिषु प्रत्येकं वैश्वानरत्वोपास्तिर्व्यस्तोपास्तिस्तदवयव्युपास्तिः समस्तोपास्तिरिति भेदः । आख्यायिका पूर्वमेव व्याख्याता ।
अत्रोभयत्र विधिफलयोः श्रवणादेकवाक्यत्वोपपत्तेश्च संशयमाह -
तत्रेति ।
'सैव हि सत्यादयः' इत्यत्र तद्यत्तत्सत्यमिति प्रकृताकर्षाद्विद्यैक्यमुक्तं तद्वदत्रैक्यहेत्वभावादगतार्थत्वं मत्वा पूर्वत्रोद्गीथादिश्रुत्या संनिधिबाधेनोद्गीथाद्युपास्तीनां सर्वशाखासूपसंहारवद्व्यस्तोपास्तीनां विधिश्रुतेः फलश्रवणस्य च समस्तोपास्तिसंनिधिप्राप्तं स्तुत्यर्थत्वं बाधित्वा तद्विधेयत्वमिति पूर्वपक्षमाह -
प्रत्यवयवमिति ।
फलानुक्तौ पूर्वोत्तरपक्षसिद्धिरेव फलं मन्तव्यम् । सुतं खण्डितं सोमद्रव्यं तस्यैव प्रसुतत्वमासमन्तात् सुतत्वमवस्थाभेदः । सोमयागसंपत्तिस्तव कुले दृश्यत इति यावत् । आत्मनो वैश्वानरस्य मूर्धेव सुतेजा इति वाक्यप्रकरणाभ्यां व्यस्तोपास्तीनां समस्तोपास्त्यन्तर्भावेन प्रयाजदर्शवदेकप्रयोगत्वे सिद्धे प्रधानतदङ्गफलानामर्थवादगतानामेकप्रधानफलतयोपसंहाराद्वाक्यभेदो न युक्त इति सिद्धान्त्याशयः ।
एकदेशिव्याख्यामनूद्य दूषयति -
केचिदिति ।
यद्युभयथोपासनं सिद्धान्तस्तर्हि व्यस्तोपासनमेवेति पूर्वपक्षो वक्तव्यः, स च न संभवतीत्याह -
स्पष्टे चेति ।
कथं तर्हि सूत्रे ज्यायस्त्वोक्तिस्तत्राह -
सौत्रस्येति ।
व्यस्तोपास्तीनामप्रामाणिकत्वद्योतनार्थं तदुक्तिरिति भावः ॥५७॥