अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

आतिवाहिकाधिकरणम्

एवमर्चिरादीनां क्रमं निरूप्य स्वरूपं निरूपयति -
आति­वा­हि­का­स्त­ल्लि­ङ्गात् ।
चिह्न­नि­र्दे­श­सा­म्या­ल्लो­क­श­ब्दा­न्ने­तृ­त्व­लि­ङ्गाच्च संशयः । आद्यपक्षद्वयं पूर्वपक्षः ।

अर्चिरादयो विद्यु­द­न्ता­श्चे­तना नेता­र­श्चा­मा­न­व­पु­रू­षेण नेत्रा सह पठितत्वादिति सिद्धान्तयति -
एवमित्यादिना ।

यथा­श्रु­त्य­मा­न­व­स्यास्तु नेतृत्वं नार्चि­रा­दी­ना­मिति शङ्कते -
तद्वचनमिति ।

पुरु­ष­स्या­मा­न­वत्वं नेतृत्वं चेत्युभयपरत्वे वाक्यभेदः स्याद­तोऽ­र्चि­रा­दि­प­दै­र्ने­तार एव मानवाः प्रकृताः प्रक­र­ण­ब­ला­द्वि­द्यु­द­न­न्तरं मानवस्य नेतुः प्राप्तौ प्रक­र­ण­प्रा­प्त­ने­तृ­त्वा­नु­वा­दे­ना­मा­न­व­त्व­मे­क­मेव प्रतिपाद्यत इति वक्तव्यमित्याह -
नेति ।
नेतृ­प्र­क­र­णा­न­ङ्गी­कारे त्वमानवः पुरुषो गमयतीति वाक्यं भिद्येत अमा­न­व­त्व­व­न्ने­तृ­त्व­स्या­प्य­प्रा­प्ते­रिति भावः ।

नेतृ­त्वा­नु­वा­द­लि­ङ्ग­स्या­नु­ग्रा­ह­क­न्या­य­परं सूत्रं गृह्णाति -
नन्विति ॥४॥

यद्य­ने­ता­रोऽ­चे­तना एवा­र्चि­रा­द­य­स्तर्हि मार्ग­त­द्ग­न्त्रो­रु­भ­यो­रपि व्यामो­हा­द­ज्ञ­त्वा­दू­र्ध्व­ग­तिर्न स्यादतः स्वयं प्रय­त्न­शू­न्य­श्चे­त­ना­न्त­रेण नेय इति लौकि­क­न्या­या­नु­ग्र­हा­त्त­त्सि­द्धे­र्ने­तृ­त्व­सि­द्धे­रु­क्त­लिङ्गं न्यायोपेतमिति सूत्रार्थः । पूर्वपक्षद्वयं दूषयति -
अन­व­स्थि­त­त्वा­दि­त्या­दिना ।
अर्चि­र­ह­रा­दी­ना­म­स्थि­र­त्वा­द्रा­त्र्यादौ मृतस्य प्रतीक्षा नास्ती­त्यु­क्त­त्वाच्च न मार्गचिह्नत्वं भोग्यत्वं वा, देवतात्वे त्वस्थिरत्वदोषो नास्तीत्यर्थः ।

यत्तू­प­दे­श­स्वा­र­स्या­च्चि­ह्नत्वं भातीति, तत्राह -
अर्चिषोऽहरिति ।

चिह्न­त्व­ने­तृ­त्व­सं­श­याच्च वाक्य­शे­षा­न्नि­र्णय इत्याह -
अपि चेति ।

यदुक्तं लोक­श­ब्दा­द्भो­ग्य­त्व­मिति तन्नेत्याह -
सम्पिण्डितेति । ॥५॥

सूत्रान्तरं गृह्णाति -
कथं पुनरिति
अमानवो विद्यु­ल्लो­क­मा­गतो वैद्यु­त­स्ते­ने­त्यर्थः । श्रुतौ वैद्यु­ता­ल्लो­का­दि­त्यर्थः । श्रुत्या वरुणादीनां नेतृ­त्वा­भा­वेऽ­प्य­नु­ग्रा­ह­क­त्वेन मार्गान्तर्भाव इति भावः ॥६॥