भाष्यरत्नप्रभाव्याख्या
आतिवाहिकाधिकरणम्
एवमर्चिरादीनां क्रमं निरूप्य स्वरूपं निरूपयति -
आतिवाहिकास्तल्लिङ्गात् ।
चिह्ननिर्देशसाम्याल्लोकशब्दान्नेतृत्वलिङ्गाच्च संशयः । आद्यपक्षद्वयं पूर्वपक्षः ।
अर्चिरादयो विद्युदन्ताश्चेतना नेतारश्चामानवपुरूषेण नेत्रा सह पठितत्वादिति सिद्धान्तयति -
एवमित्यादिना ।
यथाश्रुत्यमानवस्यास्तु नेतृत्वं नार्चिरादीनामिति शङ्कते -
तद्वचनमिति ।
पुरुषस्यामानवत्वं नेतृत्वं चेत्युभयपरत्वे वाक्यभेदः स्यादतोऽर्चिरादिपदैर्नेतार एव मानवाः प्रकृताः प्रकरणबलाद्विद्युदनन्तरं मानवस्य नेतुः प्राप्तौ प्रकरणप्राप्तनेतृत्वानुवादेनामानवत्वमेकमेव प्रतिपाद्यत इति वक्तव्यमित्याह -
नेति ।
नेतृप्रकरणानङ्गीकारे त्वमानवः पुरुषो गमयतीति वाक्यं भिद्येत अमानवत्ववन्नेतृत्वस्याप्यप्राप्तेरिति भावः ।
नेतृत्वानुवादलिङ्गस्यानुग्राहकन्यायपरं सूत्रं गृह्णाति -
नन्विति ॥४॥
यद्यनेतारोऽचेतना एवार्चिरादयस्तर्हि मार्गतद्गन्त्रोरुभयोरपि व्यामोहादज्ञत्वादूर्ध्वगतिर्न स्यादतः स्वयं प्रयत्नशून्यश्चेतनान्तरेण नेय इति लौकिकन्यायानुग्रहात्तत्सिद्धेर्नेतृत्वसिद्धेरुक्तलिङ्गं न्यायोपेतमिति सूत्रार्थः । पूर्वपक्षद्वयं दूषयति -
अनवस्थितत्वादित्यादिना ।
अर्चिरहरादीनामस्थिरत्वाद्रात्र्यादौ मृतस्य प्रतीक्षा नास्तीत्युक्तत्वाच्च न मार्गचिह्नत्वं भोग्यत्वं वा, देवतात्वे त्वस्थिरत्वदोषो नास्तीत्यर्थः ।
यत्तूपदेशस्वारस्याच्चिह्नत्वं भातीति, तत्राह -
अर्चिषोऽहरिति ।
चिह्नत्वनेतृत्वसंशयाच्च वाक्यशेषान्निर्णय इत्याह -
अपि चेति ।
यदुक्तं लोकशब्दाद्भोग्यत्वमिति तन्नेत्याह -
सम्पिण्डितेति । ॥५॥
सूत्रान्तरं गृह्णाति -
कथं पुनरिति
अमानवो विद्युल्लोकमागतो वैद्युतस्तेनेत्यर्थः । श्रुतौ वैद्युताल्लोकादित्यर्थः । श्रुत्या वरुणादीनां नेतृत्वाभावेऽप्यनुग्राहकत्वेन मार्गान्तर्भाव इति भावः ॥६॥