अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

भोक्त्रापत्त्यधिकरणम्

अद्वि­ती­या­द्ब्र­ह्मणो जगत्सर्गादिवादी वेदान्तसमन्वयो विषयः । स किं यन्मिथो भिन्नं तन्ना­द्वि­ती­य­का­र­णा­भिन्नं यथा मृत्तन्तुजौ घटपठाविति तर्क­स­हि­त­भे­द­प्र­त्य­क्षा­दिना विरुध्यते न वेति सन्देहे ब्रह्मणि तर्क­स्या­प्र­ति­ष्ठि­त­त्वेऽपि जगद्भेदे प्रति­ष्ठि­त­त्वा­द्वि­रु­ध्यत इति पूर्वपक्षयति -
भोक्त्रा­प­त्ते­रिति ।
विरो­धा­द­द्वै­ता­सिद्धिः पूर्वपक्षफलम् , सिद्धान्ते तत्सिद्धिरिति भेदः ।

अनपेक्षश्रुत्या स्वार्थ­नि­र्ण­या­त्त­र्के­णा­क्षेपो न युक्त इत्युक्तमिति शङ्कते -
यद्यपीति ।
माना­न्त­रा­यो­ग्य­श्रु­त्यर्थे भवत्यनाक्षेपः ।

यस्त्व­द्वि­ती­य­ब्र­ह्मा­भे­दा­द्भू­ज­ला­दी­ना­म­भेदो ब्रह्मो­पा­दा­न­क­त्व­श्रु­ति­वि­षयः स 'आदित्यो यूपः' इत्य­र्थ­वा­दा­र्थ­व­न्मा­ना­न्त­र­योग्य एवेति द्वैत­प्र­मा­णै­र­प­ह्रि­यत इति समाधत्ते -
तथापीति ।
अन्यपरत्वं गौणार्थकत्वम् ।

स्वविषये जगद्भेदे तर्कस्य प्रति­ष्ठि­त­त्वा­त्ते­ना­क्षेप इत्याह -
तर्कोऽपीति ।

तर्कादेर्द्वैते प्रामाण्येऽपि ततः समन्वयविरोधे किमायातमिति शङ्कते -
किमत इति ।

पूर्वपक्षी समाधत्ते -
अत इति ।
तर्कादेः प्रामाण्यात् द्वैतबाधकत्वं श्रुते­र­यु­क्त­मि­त्य­द्वै­त­स­म­न्व­य­बाधो युक्त इत्यर्थः ।

इयमर्थं शङ्कापूर्वकं स्फुटयति -
कथमित्यादिना ।

ननु भोक्तृ­भो­ग्य­यो­र्मिथ एकत्वं केनो­क्त­मि­त्या­शङ्क्य श्रुता­र्था­प­त्त्ये­त्याह -
तयोश्चेति ।
तयो­रे­क­ब्र­ह्मा­भे­द­श्र­व­णा­दे­कत्वं कल्प्यते, एक­स्मा­द­भि­न्न­यो­र्भेदे एकस्यापि भेदापत्तेः । ततश्च भेदो बाध्येतेत्यर्थः ।

इष्टापत्तिं वारयति -
न चास्येति ।
श्रुते­र्गौ­णा­र्थ­त्वेन साव­का­श­त्वा­न्नि­र­व­का­श­द्वै­त­मा­न­बाधो न युक्त इत्यर्थः ।

ननु विभा­ग­स्या­धु­नि­क­त्वा­द­ना­द्य­द्वै­त­श्रुत्या बाध इत्यत आह -
यथेति ।
अतीतानागतकालौ भोक्त्रा­दि­वि­भा­गा­श्रयौ, कालत्वात् , वर्त­मा­न­का­ल­व­दि­त्य­नु­मा­ना­द्वि­भा­गोऽ­ना­द्य­नन्त इत्यर्थः ।

एवं प्राप्ते परि­णा­म­दृ­ष्टा­न्ते­ना­पा­ततः सिद्धान्तमाह -
स्याल्लोकवदिति ।

दृष्टान्तेऽपि कथ­मे­क­स­मु­द्रा­भि­न्नानां परिणामानां मिथो भेदः, कथं वा तेषां भेदे सत्ये­क­स्मा­द­भि­न्न­त्व­मि­त्या­शङ्क्य न हि दृष्टे­नु­प­प­त्ति­रिति न्यायेनाह -
न चेति ।

एवं भोक्तृ­भो­ग्य­यो­र्मिथो भेदो ब्रह्मा­भे­द­श्चे­त्याह -
एवमिहेति ।

जीवस्य ब्रह्म­वि­का­र­त्वा­भा­वा­द्दृ­ष्टा­न्त­वै­ष­म्य­मिति शङ्कते -
यद्यपीति ।

औपाधिकं जन्मास्तीति तर­ङ्गा­दि­सा­म्य­माह -
तथापीति ।
विभागो जन्म । यद्वा तथा­पी­ति­श­ब्दे­नै­वोक्तः परिहारः ।

ननु भोक्तुः प्रतिदेहं विभागः कथमित्यत आह -
कार्य­म­नु­प्र­वि­ष्ट­स्येति ।

औपाधिकविभागे फलितमुपसंहरति -
इत्यत इति ।
एक­ब्र­ह्मा­भि­न्न­त्वेऽपि भोक्त्रा­दे­स्त­र­ङ्गा­दि­व­द्भे­दा­ङ्गी­का­रान्न द्वैत­मा­ने­ना­द्वै­त­स­म­न्व­यस्य विरोध इत्यर्थः ॥१३॥