भाष्यरत्नप्रभाव्याख्या
नविलक्षणत्वाधिकरणम्
स्मृतीनामप्रामाण्यात्ताभिः समन्वयस्य न विरोध इति सिद्धान्तलक्षणत्वाद्वृत्तानुवादेनास्याधिकरणस्य तात्पर्यमाह -
ब्रह्मास्येति ।
पूर्वपक्षमाक्षिपति -
कुतःपुनरिति ।
अनवकाशे हेतुमाह -
ननु धर्म इवेति ।
मानान्तरानपेक्षे वेदैकसमधिगम्ये ब्रह्मण्यनुमानात्मकतर्कस्याप्रवेशः । तेनाक्षेपस्यानवकाशो भिन्नविषयत्वात्तर्कवेदयोरित्यर्थः ।
सिद्धस्य मानान्तरगम्यत्वादेकविषयत्वाद्विरोध इति पूर्वपक्षं समर्थयते -
भवेदयमिति ।
अवष्टम्भो दृष्टान्तः ।
नन्वेकविषयत्वेन विरोधेऽपि श्रुतिविरोधान्मानान्तरमेव बाध्यतामित्यत आह -
यथा चेति ।
प्रबलश्रुत्या दुर्बलश्रुतिबाधवन्निरवकाशमानान्तरेण लक्षणावृत्त्या सावकाशश्रुतिनयनं युक्तमित्यर्थः । किञ्च ब्रह्मसाक्षात्कारस्य मोक्षहेतुत्वे प्रधानस्यान्तरङ्गं तर्कस्तस्यापरोक्षदृष्टान्तगोचरत्वेन प्रधानवदपरोक्षार्थविषयत्वात् ।
शब्दस्तु परोक्षार्थकत्वाद्बहिरङ्गमतस्तर्केण बाध्य इत्याह -
दृष्टेति ।
ऐतिह्यमात्रेण । परोक्षतयेति यावत् ।
अनुभवस्य प्राधान्यं दर्शयति -
अनुभवावसानं चेति ।
'नैषा तर्केण मतिः' इत्यर्थवादेन तर्कस्य निषेधमाशङ्क्य विधिविरोधान्मैवमित्याह -
श्रुतिरपीति ।
एवं पूर्वपक्षं सम्भाव्य चेतनब्रह्मकारणवादिवेदान्तसमन्वयः, क्षित्यादिकं न चेतनप्रकृतिकम् , कार्यद्रव्यत्वात् , घटवदिति साङ्ख्ययोगन्यायेन विरुध्यते न वेति सन्देहे स्मृतेर्मूलाभावाद्दुर्बलत्वेऽप्यनुमानस्य व्याप्तिमूलत्वेन प्राबल्यात्तेन विरुध्यत इति प्रत्युदाहरणेन पूर्वपक्षयति -
न विलक्षणत्वादिति ।
पूर्वोत्तरपक्षयोः समन्वयासिद्धिः, तत्सिद्धिश्चेति पूर्ववत्फलम् । जगन्न ब्रह्मप्रकृतिकम् , तद्विलक्षणत्वात् , यद्यद्विलक्षणं तन्न तत्प्रकृतिकम् , यथा मृद्विलक्षणा रुचकादय इत्यर्थः । सुखदुःखमोहाः सत्त्वरजस्तमांसि ।
तथा च जगत्सुखदुःखमोहात्मकं सामान्यप्रकृतिकम् , तदन्वितत्वात् , यदित्थं तत्तथा यथा मृदन्विता घटादय इत्याह -
मृदैवेति ।
विलक्षणत्वं साधयति -
ब्रह्मविलक्षणत्वं चेति ।
यथा हि एक एव स्त्रीपिण्डः पतिसपत्न्युपपतीनां प्रीतिपरितापविषादादीन्करोति, एवमन्येऽपि भावा द्रष्टव्याः । तत्र प्रीतिः सुखम् , परितापः शोकः, विषादो भ्रमः, आदिपदाद्रागादिग्रहः ।
उभयोश्चेतनत्वेन साम्यादुपकार्योपकारकभावो न स्यादित्ययुक्तम् , स्वामिभृत्ययोर्व्यभिचारादिति शङ्कते -
ननु चेतनमपीति ।
भृत्यदेहस्यैव स्वामिचेतनोपकारकत्वान्न व्यभिचार इत्याह -
नेत्यादिना ।
उत्कर्षापकर्षशून्यत्वाच्चेतनानां मिथो नोपकारकत्वमित्याह -
निरतिशया इति ।
तस्मादुपकारकत्वात् ।
श्रुतचेतनप्रकृतिकत्वबलेन जगच्चेतनमेवेत्येकदेशिमतमुत्थापयति -
योऽपीति ।
घटादेश्चेतनत्वमनुपलब्धिबाधितमित्यत आह -
अविभावनं त्विति ।
अन्तःकरणान्यपरिणामत्वात्सतोऽपि चैतन्यस्यानुपलब्धिरित्यर्थः । अन्तःकरणादन्यस्य वृत्त्युपरागदशायामेव चैतन्याभिव्यक्तिर्नान्यदेति भावः ।
वृत्त्यभावे चैतन्यानभिव्यक्तौ दृष्टान्तः -
यथेति ।
आत्मानात्मनोश्चेतनत्वे स्वस्वामिभावः कुत इत्यत आह -
एतस्मादेवेति ।
साम्येऽपि प्रातिस्विकस्वरूपविशेषात् शेषित्वे दृष्टान्तः -
यथा चेति ।
चेतनाचेतनभेदः कथमित्यत आह -
प्रविभागेति ।
चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यामित्यर्थः ।
सर्वस्य चेतनत्वमेकदेश्युक्तमङ्गीकृत्य साङ्ख्यः परिहरति -
तेनापि कथञ्चिदिति ।
अङ्गीकारं त्यक्त्वा सूत्रशेषेण परिहरति -
न चेत्यादिना ।
इतरच्चेतनाचेतनत्वरूपम् । वैलक्षण्यं तथात्वशब्दार्थः । श्रुतार्थापत्तिः शब्देन बाध्येति भावः ॥४॥
श्रुतिसाहाय्यान्न बाध्येत्युत्तरसूत्रव्यावर्त्यं शङ्कते -
नन्विति ।
मृदादीनां वक्तृत्वादिश्रुतेस्तदभिमानिविषयत्वात् , तथा 'विज्ञानं चाविज्ञानं च' इति चेतनाचेतनविभागशब्दस्योपचरितार्थत्वं न युक्तमिति साङ्ख्यः समाधत्ते -
अभिमानीति ।
संवदनं विवादः । न भूतमात्रमिन्द्रियमात्रं वा चेतनत्वेन व्यपदिश्यते । लोकवेदप्रसिद्धविभागबाधायोगादित्यर्थः ।
विशेषपदस्यार्थान्तरमाह -
अपि चेति ।
अहंश्रेयसे स्वस्वश्रेष्ठत्वाय प्राणा विवदमाना इत्युक्तप्राणानां चेतनवाचिदेवतापदेन विशेषितत्वात्प्राणादिपदैरभिमानिव्यपदेश इत्यर्थः । प्राणे निःश्रेयसं श्रैष्ठ्यं विदित्वा प्राणाधीना जाता इत्यर्थः ।
अनुगतिं बहुधा व्याचष्टे -
अनुगताश्चेति ।
तस्मै प्राणाय, बलिहरणं वागादिभिः स्वीयवसिष्ठत्वादिगुणसमर्पणं कृतम् । तेजआदिनामीक्षणं त्वयैवेक्षत्यधिकरणे चेतननिष्ठतया व्याख्यातं द्रष्टव्यमित्यर्थः । यस्मान्नास्ति जगतश्चेतनत्वं तस्मादिति पूर्वपक्षोपसंहारः ॥५॥
किं यत्किञ्चिद्वैलक्षण्यं हेतुः, बहुवैलक्षण्यं वा । आद्ये व्यभिचारमाह -
नायमेकान्तः । दृश्यते हीति ।
हेतोरसत्त्वान्न व्यभिचार इति शङ्कते -
नन्विति ।
यत्किञ्चिद्वैलक्षण्यमस्तीति व्यभिचार इत्याह -
उच्यत इति ।
शरीरस्य केशादीनां च प्राणित्वाप्राणित्वरूपं वैलक्षण्यमस्तीत्यर्थः ।
द्वितीयेऽपि तत्रैव व्यभिचारमाह -
महानिति ।
परिणामिकः । केशादीनां स्वगतपरिणामात्मक इत्यर्थः ।
किञ्च ययोः प्रकृतिविकारभावस्तयोः सादृश्यं वदता वक्तव्यं किमात्यन्तिकं यत्किञ्चिद्वेति । आद्ये दोषमाह -
अत्यन्तेति ।
द्वितीयमाशङ्क्य ब्रह्मजगतोरपि तत्सत्त्वात्प्रकृतिविकृतित्वसिद्धिरित्याह -
अथेत्यादिना ।
विलक्षणत्वं विकल्प्य दूषणान्तरमाह -
विलक्षणत्वेनेत्यादिना ।
जगति समस्तस्य ब्रह्मस्वभावस्य चेतनत्वादेरननुवर्तनान्न ब्रह्मकार्यमिति पक्षे सर्वसाम्ये प्रकृतिविकारत्वमित्युक्तं स्यात् , तदसङ्गतमित्याह -
प्रथम इति ।
तृतीये तु दृष्टान्ताभाव इति ।
न च जगन्न ब्रह्मप्रकृतिकमचेतनत्वादविद्यावदिति दृष्टान्तोऽस्तीति वाच्यम् , अनादित्वस्योपाधित्वात् । न च ध्वंसे साध्याव्यापकता, तस्यापि कार्यसंस्कारात्मकस्य भावत्वेन ब्रह्मप्रकृतिकत्वादभावत्वाग्रहे चानादिभावत्वस्योपाधित्वादिति ।
सम्प्रति कल्पत्रयसाधारणं दोषमाह -
आगमेति ।
पूर्वोक्तमनूद्य ब्रह्मणः शुष्कतर्कविषयत्वासम्भवान्न तर्केणाक्षेप इत्याह -
यत्तूक्तमित्यादिना ।
लिङ्गसादृश्यपदप्रवृत्तिनिमित्तानामभावादनुमानोपमानशब्दानामगोचरः । ब्रह्म लक्षणया वेदैकवेद्यमित्यर्थः । एषा ब्रह्मणि मतिस्तर्केण स्वतन्त्रेण नापनेया न सम्पादनीया । यद्वा कुतर्केण न बाधनीया । कुतार्किकादन्येनैव वेदविदाचार्येण प्रोक्ता मतिः सुज्ञानायानुभवाय फलाय भवति । हे प्रेष्ठ, प्रियतमेति न चिकेतसं प्रति मृत्योर्वचनम् । इयं विविधा सृष्टिर्यतः आ समन्ताद्बभूव तं को वा अद्धा साक्षाद्वेद । तिष्ठतु वेदनम् , क इह लोके तं प्रवोचत्प्रावोचत् । छान्दसो दीर्घलोपः । यथावद्वक्तापि नास्तीत्यर्थः । प्रभवं जन्म न विदुः मम सर्वादित्वेन जन्माभावात् । मिषेण मननविधिव्याजेन । शुष्कः श्रुत्यनपेक्षः । श्रुत्या तत्त्वे निश्चिते सत्यनु पश्चात्पुरुषदोषस्यासम्भावनादेर्निरासाय गृहीतः श्रुत्यनुगृहीतः ।
तमाह -
स्वप्नान्तेति ।
जीवस्यावस्थावतो देहादिप्रपञ्चयुक्तस्य निष्प्रपञ्चब्रह्मैक्यमसम्भवि, द्वैतग्राहिप्रमाणविरोधाद्ब्रह्मणश्चाद्वितीयत्वमयुक्तमित्येवं श्रौतार्थासम्भावनायाम् , तन्निरासाय सर्वास्ववस्थास्वात्मनोऽनुगतस्य व्यभिचारिणीभिरवस्थाभिरनन्वागतत्वमसंस्पृष्टत्वमवस्थानां स्वाभाविकत्वे वह्न्यौष्णवदात्मव्यभिचारायोगात्सुषुप्तौ प्रपञ्चभ्रान्त्यभावे 'सता सोम्य' इत्युक्ताभेददर्शनान्निष्प्रपञ्चब्रह्मैक्यसम्भवः, यथा घटादयो मृदभिन्नास्तथा जगद्ब्रह्माभिन्नं तज्जत्वादित्यादिस्तर्क आश्रीयत इत्यर्थः । इतोऽन्यादृशतर्कस्यात्र ब्रह्मण्यप्रवेशादस्य चानुकूलत्वान्न तर्केणाक्षेपावकाश इति भावः ।
ब्रह्मणि शुष्कतर्कस्याप्रवेशः सूत्रसम्मत इत्याह -
तर्काप्रतिष्ठानादिति ।
विप्रलम्भकत्वमप्रमापकत्वम् । यदुक्तमेकदेशिना सर्वस्य जगतश्चेतनत्वोक्तौ विभागश्रुत्यनुपपत्तिरिति दूषणं साङ्ख्येन । तन्न । तत्र तेनैकदेशिना विभागश्रुतेश्चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यां योजयितुं शक्यत्वात् ।
साङ्ख्यस्य त्विदं दूषणं वज्रलेपायते, प्रधानकार्यत्वे सर्वस्याचेतनत्वेन चेतनाचेतनकार्यविभागासम्भवादित्याह -
योऽपीत्यादिना ।
सिद्धान्ते चेतनाचेतनवैलक्षण्याङ्गीकारे कथं ब्रह्मणः प्रकृतित्वमित्यत आह -
प्रत्युक्तत्वादिति ।
अप्रयोजकत्वव्यभिचाराभ्यां निरस्तत्वादित्यर्थः ॥६॥
कार्यमुत्पत्तेः प्रागसदेव स्यात् , स्वविरुद्धकारणात्मना सत्त्वायोगादित्यपसिद्धान्तापत्तिमाशङ्क्य मिथ्यात्वात्कार्यस्य कालत्रयेऽपि कारणात्मना सत्त्वमविरुद्धमिति समाधत्ते -
असदिति चेदित्यादिना ।
असत्यादिति सत्त्वप्रतिषेधो निरर्थक इत्यर्थः ।
कार्यसत्यत्वाभावे श्रुतिमाह -
सर्वं तमिति ।
मिथ्यात्वमजानतः शङ्कामनूद्य परिहरति -
नन्वित्यादिना ।
विस्तरेण चैतदिति ।
मिथ्यात्वमित्यर्थः ॥७॥
सत्कार्यवादसिद्ध्यर्थं कार्याभेदे कारणस्यापि कार्यवदशुद्ध्यादिप्रसङ्ग इति शङ्कासूत्रं व्याचष्टे -
अत्राहेति ।
प्रतिसंसृज्यमानपदस्य व्याख्या -
कारणेति ।
यथा जले लीयमानं लवणद्रव्यं जलं दूषयति तद्वदित्यर्थः ।
सूत्रस्य योजनान्तरमाह -
अपि चेति ।
सर्वस्य कार्यस्यापीतौ कारणवदेकरूपत्वप्रसङ्ग इत्यर्थः ।
अर्थान्तरमाह -
अपि चेति ।
कर्मादीनामुत्पत्तिनिमित्तानां प्रलयेऽपि भोक्तृणामुत्पत्तौ तद्वदेव मुक्तानामप्युत्पत्तिप्रसङ्गादित्यर्थः ।
शङ्कापूर्वकं व्याख्यान्तरमाह -
अथेति ।
यदि लयकालेऽपि कार्यं कारणाद्विभक्तं तर्हि स्थितिकालवल्लयाभावप्रसङ्गात्कार्येण द्वैतापत्तेश्चासमञ्जसमिदं दर्शनमित्यर्थः ॥८॥
अपीतौ जगत्स्वकारणं न दूषयति, कारणे लीनत्वात् , मृदादिषु नीलघटादिवदिति सिद्धान्तसूत्रं व्याचष्टे -
नैवेत्यादिना ।
अपिगच्छत् लीयमानम् । विभागावस्था स्थितिकालः ।
त्वत्पक्षस्येति ।
मधुरजलं लवणस्याकारणमित्यदृष्टान्तः ।
किञ्च दूषकत्वे कार्यस्य स्थितिः स्याल्लवणवदित्याह -
अपीतिरेवेति ।
असति कार्ये तद्धर्मेण कारणस्य योगो न सम्भवति । धर्म्यसत्त्वे धर्माणामप्यसत्त्वादिति भावः ।
ननु सत्कार्यवादे लयेऽपि कार्यस्य कारणाभेदेन सत्त्वाद्दूषकत्वं स्यादित्यत आह -
अनन्यत्वेऽपीति ।
कल्पितस्याधिष्ठानधर्मवत्त्वमभेदान्न त्वधिष्ठानस्य कल्पितकार्यधर्मवत्त्वं तस्य कार्यात्पृथक्सत्त्वादित्यर्थः ।
किञ्चापीताविति विशेषणं व्यर्थमिति प्रतिबन्द्या समाधत्ते -
अत्यल्पं चेति ।
परिणामदृष्टान्तं व्याख्याय विवर्तदृष्टान्तं व्याचष्टे -
अस्ति चेति ।
मायाव्यनुपादानमित्यरुच्या दृष्टान्तान्तरमाह -
यथेति ।
अस्त्येव स्वप्नकाले दृष्टः संसर्ग इत्यत आह -
प्रबोधेति ।
जाग्रत्सुषुप्त्योः स्वप्नेनात्मनोऽस्पर्शात्तत्कालेऽप्यस्पर्श इत्यर्थः ।
यद्यज्ञस्य जीवस्यावस्थाभिरसंसर्गस्तदा सर्वज्ञस्य किं वाच्यमिति दार्ष्टान्तिकमाह -
एवमिति ।
यद्वा जागज्जन्मस्थितिलया ईश्वरस्यावस्थात्रयम् । तदसङ्गित्वे वृद्धसम्मतिमाह -
अत्रोक्तमिति ।
यदा तत्त्वमसीत्युपदेशकाले प्रबुध्यते मायानिद्रां त्यजति तदा जन्मलयस्थित्यवस्थाशून्यमद्वैतमीश्वरमात्मत्वेनानुभवतीत्यर्थः ।
फलितमाह -
तत्रेति ।
द्वितीयमसामञ्जस्यमनूद्य तेनैव सूत्रेण परिहरति -
यत्पुनरिति ।
सुषुप्तावज्ञानसत्त्वे पुनर्विभागोत्पत्तौ च मानमाह -
श्रुतिश्चेति ।
सति ब्रह्मण्येकीभूय न विदुरित्यज्ञानोक्तिः । इह सुषुप्तेः प्राक्प्रबोधे येन जात्यादिना विभक्ता भवन्ति तदा पुनरुत्थानकाले तथैव भवन्तीति विभागोक्तिः ।
ननु सुषुप्तौ पुनर्विभागशक्त्यज्ञानसत्त्वेऽपि सर्वप्रलये तत्सत्त्वं कुत इत्यत आह -
यथा हीति ।
यथा सुषुप्तौ परमात्मनि सर्वकार्याणामविभागेऽपि पुनर्विभागहेत्वज्ञानशक्तिरस्ति एवमपीतौ महाप्रलयेऽपि मिथ्याभूताज्ञानसम्बन्धात्पुनः सृष्टिविभागशक्तिरनुमास्यते । यतः स्थिताविदानीं मिथ्याज्ञानकार्यो विभागव्यवहारस्तत्त्वबोधाभावात्स्वप्नवदबाधितो दृश्यते, अतः कार्यदर्शनात्कारणसत्त्वसिद्धिरित्यर्थः । अज्ञानां जीवानां महाप्रलयेऽप्यज्ञानशक्तिनियमात्पुनर्जन्मनियम इति भावः ।
एतेनेति ।
जन्मकारणाज्ञानशक्त्यभावेनेत्यर्थः ॥९॥
वैलक्षण्यादीनां साङ्ख्यपक्षेऽपि दोषत्वान्नास्माभिस्तन्निरासप्रयासः कार्य इत्याह -
स्वपक्षेति ।
सूत्रं व्याचष्टे -
स्वेति ।
प्रादुःष्युः प्रादुर्भवेयुः ।
अत एवेति ।
सत्यकार्यस्य विरुद्धकारणात्मना सत्त्वायोगात्साङ्ख्यस्यैवायं दोषो न कार्यमिथ्यात्ववादिन इति मन्तव्यम् ।
'अपीतौ' इति सूत्रोक्तदोषचतुष्टयमाह -
तथापीताविति ।
कार्यवत्प्रधानस्य रूपादिमत्त्वप्रसङ्गः । इदं कर्मादिकमस्योपादानं भोग्यमस्य नेत्यनियमः । बद्धमुक्तव्यवस्था च । यदि व्यवस्थार्थं मुक्तानां भेदाः सङ्घातविशेषाः प्रधाने लीयन्ते बद्धानां भेदास्तु न लीयन्त इत्युच्येत तर्ह्यलीनानां पुरुषवत्कार्यत्वव्याघात इत्यर्थः ॥१०॥
किञ्च तर्कस्य सम्भावितदोषत्वात्तेन निर्दोषवेदान्तसमन्वयो न बाध्य इत्याह -
तर्काप्रतिष्ठानादपीति ।
पुरुषमतीनां विचित्रत्वेऽपि कपिलस्य सर्वज्ञत्वात्तदीयतर्के विश्वास इति शङ्कते -
अथेति ।
'कपिलो यदि सर्वज्ञः कणादो नेति का प्रमा' इति न्यायेन परिहरति -
एवमपीति ।
सूत्रमध्यस्थशङ्काभागं व्याचष्टे -
अथोच्येतेति ।
विलक्षणत्वादितर्काणामप्रतिष्ठितत्वेऽपि व्याप्तिपक्षधर्मतासम्पन्नः कश्चित्तर्कः प्रतिष्ठितो भविष्यति तेन प्रधानमनुमेयमित्यर्थः ।
ननु सोऽप्यप्रतिष्ठितः तर्कजातीयत्वाविलक्षणत्वादिवदित्यत आह -
न हीति ।
तर्कजातीयत्वादिति तर्कः प्रतिष्ठितो न वा । आद्येऽत्रैवाप्रतिष्ठितत्वसाध्याभावाद्वयभिचारः ।
द्वितीयेऽपि न सर्वतर्काणामप्रतिष्ठितत्वं हेत्वभावादित्यभिसन्धिमानाह -
एतदपीति ।
किञ्चानागतपाक इष्टसाधनम् , पाकत्वात् , अतीतपाकवदित्यादिष्टानिष्टसाधनानुमानात्मकतर्कस्य प्रवृत्तिनिवृत्तिव्यवहारहेतुत्वान्नाप्रतिष्ठेत्याह -
सर्वतर्केति ।
अध्वा विषयः पाकभोजनादिर्विषभक्षणादिश्च, तत्सामान्येन पाकत्वादिनानागतविषये पाकादौ सुखदुःखहेतुत्वानुमित्या प्रवृत्त्यादिरित्यर्थः ।
किञ्च पूर्वोत्तरमीमांसयोस्तर्केणैव वाक्यतात्पर्यनिर्णयस्य क्रियमाणत्वात्तर्कः प्रतिष्ठित इत्याह -
श्रुत्यर्थेति ।
मनुरपि केषाञ्चित्तर्काणां प्रतिष्ठां मन्यत इत्याह -
मनुरिति ।
धर्मस्य शुद्धिरधर्माद्भेदनिर्णयः ।
कस्यचित्तर्कस्याप्रतिष्ठितत्वमङ्गीकरोति -
अयमेवेति ।
सर्वतर्काणां प्रतिष्ठायां पूर्वपक्ष एव न स्यादिति भावः ।
पूर्वपक्षतर्कवत्सिद्धान्ततर्कोऽप्यप्रतिष्ठितः, तर्कत्वाविशेषादिति वदन्तमुपहसति -
न हीति ।
क्वचित्तर्कस्य प्रतिष्ठायामपि जगत्कारणविशेषे तर्कस्य स्वातन्त्र्यं नास्तीति सूत्रशेषं व्याचष्टे -
यद्यपीत्यादिना ।
अतिगम्भीरत्वं ब्रह्मणो वेदान्यमानागम्यत्वम् । भावस्य जगत्कारणस्य याथात्म्यमद्वयत्वम् । मुक्तिनिबन्धनं मुक्त्यालम्बनम् ।
ब्रह्मणो वेदान्यमानागम्यत्वं दर्शयति -
रूपादिति ।
अविमोक्षो मुक्त्यभाव इत्यर्थान्तरमाह -
अपि चेत्यादिना ।
एकरूपवस्तुज्ञानस्य सम्यग्ज्ञानत्वेऽपि तर्कजन्यत्वं किं न स्यादित्यत आह -
तत्रैवं सतीति ।
तर्कोत्थज्ञानानां मिथो विप्रतिपत्तेर्न सम्यग्ज्ञानत्वम् । सम्यग्ज्ञाने विप्रतिपत्त्ययोगादित्यर्थः । एकरूपेणानवस्थितो विषयो यस्य तत्तर्कप्रभवं कथं सम्यग्ज्ञानं भवेदिति योजना ।
ननु साङ्ख्यस्य श्रेष्ठत्वात्तज्ज्ञानं सम्यगित्याशङ्क्य हेत्वसिद्धिमाह -
न च प्रधानेति ।
ननु सर्वतार्किकैर्मिलित्वा निश्चिततर्कोत्था मतिर्मुक्तिहेतुरित्यत आह -
न च शक्यन्त इति ।
तस्मात्तर्कोत्थज्ञानान्मुक्त्ययोगात्तर्केण वेदान्तसमन्वयबाधो न युक्तः, तद्बाधे सम्यग्ज्ञानालाभेनानिर्मोक्षप्रसङ्गादिति सूत्रांशार्थमुपसंहरति -
अतोऽन्यत्रेति ।
समन्वयस्य तर्केणाविरोधे फलितमधिकरणार्थमुपसंहरति -
अत आगमेति ॥११॥