अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

नविलक्षणत्वाधिकरणम्

स्मृती­ना­म­प्रा­मा­ण्या­त्ताभिः समन्वयस्य न विरोध इति सिद्धा­न्त­ल­क्ष­ण­त्वा­द्वृ­त्ता­नु­वा­दे­ना­स्या­धि­क­र­णस्य तात्पर्यमाह -
ब्रह्मास्येति ।

पूर्व­प­क्ष­मा­क्षि­पति -
कुतःपुनरिति ।

अनवकाशे हेतुमाह -
ननु धर्म इवेति ।
माना­न्त­रा­न­पेक्षे वेदैकसमधिगम्ये ब्रह्म­ण्य­नु­मा­ना­त्म­क­त­र्क­स्या­प्र­वेशः । तेना­क्षे­प­स्या­न­व­काशो भिन्न­वि­ष­य­त्वा­त्त­र्क­वे­द­यो­रि­त्यर्थः ।

सिद्धस्य माना­न्त­र­ग­म्य­त्वा­दे­क­वि­ष­य­त्वा­द्वि­रोध इति पूर्वपक्षं समर्थयते -
भवेदयमिति ।
अवष्टम्भो दृष्टान्तः ।

नन्वेकविषयत्वेन विरोधेऽपि श्रुति­वि­रो­धा­न्मा­ना­न्त­र­मेव बाध्यतामित्यत आह -
यथा चेति ।
प्रबलश्रुत्या दुर्ब­ल­श्रु­ति­बा­ध­व­न्नि­र­व­का­श­मा­ना­न्त­रेण लक्षणावृत्त्या साव­का­श­श्रु­ति­न­यनं युक्तमित्यर्थः । किञ्च ब्रह्म­सा­क्षा­त्का­रस्य मोक्षहेतुत्वे प्रधा­न­स्या­न्त­रङ्गं तर्क­स्त­स्या­प­रो­क्ष­दृ­ष्टा­न्त­गो­च­र­त्वेन प्रधा­न­व­द­प­रो­क्षा­र्थ­वि­ष­य­त्वात् ।

शब्दस्तु परो­क्षा­र्थ­क­त्वा­द्ब­हि­र­ङ्ग­म­त­स्त­र्केण बाध्य इत्याह -
दृष्टेति ।
ऐतिह्यमात्रेण । परोक्षतयेति यावत् ।

अनुभवस्य प्राधान्यं दर्शयति -
अनुभवावसानं चेति ।

'नैषा तर्केण मतिः' इत्यर्थवादेन तर्कस्य निषेधमाशङ्क्य विधि­वि­रो­धा­न्मै­व­मि­त्याह -
श्रुतिरपीति ।

एवं पूर्वपक्षं सम्भाव्य चेत­न­ब्र­ह्म­का­र­ण­वा­दि­वे­दा­न्त­स­म­न्वयः, क्षित्यादिकं न चेतनप्रकृतिकम् , कार्य­द्र­व्य­त्वात् , घटवदिति साङ्ख्य­यो­ग­न्या­येन विरुध्यते न वेति सन्देहे स्मृते­र्मू­ला­भा­वा­द्दु­र्ब­ल­त्वेऽ­प्य­नु­मा­नस्य व्याप्ति­मू­ल­त्वेन प्राबल्यात्तेन विरुध्यत इति प्रत्युदाहरणेन पूर्वपक्षयति -
न विलक्षणत्वादिति ।
पूर्वो­त्त­र­प­क्षयोः समन्वयासिद्धिः, तत्सिद्धिश्चेति पूर्ववत्फलम् । जगन्न ब्रह्म­प्र­कृ­ति­कम् , तद्वि­ल­क्ष­ण­त्वात् , यद्यद्विलक्षणं तन्न तत्प्रकृतिकम् , यथा मृद्विलक्षणा रुचकादय इत्यर्थः । सुखदुःखमोहाः सत्त्व­र­ज­स्त­मांसि ।

तथा च जग­त्सु­ख­दुः­ख­मो­हा­त्मकं सामा­न्य­प्र­कृ­ति­कम् , तदन्वितत्वात् , यदित्थं तत्तथा यथा मृदन्विता घटादय इत्याह -
मृदैवेति ।

विलक्षणत्वं साधयति -
ब्रह्म­वि­ल­क्ष­णत्वं चेति ।
यथा हि एक एव स्त्रीपिण्डः पति­स­प­त्न्यु­प­प­तीनां प्रीति­प­रि­ता­प­वि­षा­दा­दी­न्क­रोति, एवमन्येऽपि भावा द्रष्टव्याः । तत्र प्रीतिः सुखम् , परितापः शोकः, विषादो भ्रमः, आदि­प­दा­द्रा­गा­दि­ग्रहः ।

उभयोश्चेतनत्वेन साम्या­दु­प­का­र्यो­प­का­र­क­भावो न स्यादि­त्य­यु­क्तम् , स्वामि­भृ­त्य­यो­र्व्य­भि­चा­रा­दिति शङ्कते -
ननु चेतनमपीति ।

भृत्यदेहस्यैव स्वामि­चे­त­नो­प­का­र­क­त्वान्न व्यभिचार इत्याह -
नेत्यादिना ।

उत्क­र्षा­प­क­र्ष­शू­न्य­त्वा­च्चे­त­नानां मिथो नोप­का­र­क­त्व­मि­त्याह -
निरतिशया इति ।
तस्मा­दु­प­का­र­क­त्वात् ।

श्रुत­चे­त­न­प्र­कृ­ति­क­त्व­ब­लेन जग­च्चे­त­न­मे­वे­त्ये­क­दे­शि­म­त­मु­त्था­प­यति -
योऽपीति ।

घटा­दे­श्चे­त­न­त्व­म­नु­प­ल­ब्धि­बा­धि­त­मि­त्यत आह -
अविभावनं त्विति ।
अन्तः­क­र­णा­न्य­प­रि­णा­म­त्वा­त्स­तोऽपि चैत­न्य­स्या­नु­प­ल­ब्धि­रि­त्यर्थः । अन्तः­क­र­णा­द­न्यस्य वृत्त्यु­प­रा­ग­द­शा­या­मेव चैत­न्या­भि­व्य­क्ति­र्ना­न्य­देति भावः ।

वृत्त्यभावे चैत­न्या­न­भि­व्यक्तौ दृष्टान्तः -
यथेति ।

आत्मा­ना­त्म­नो­श्चे­त­नत्वे स्वस्वामिभावः कुत इत्यत आह -
एतस्मादेवेति ।

साम्येऽपि प्राति­स्वि­क­स्व­रू­प­वि­शे­षात् शेषित्वे दृष्टान्तः -
यथा चेति ।

चेतनाचेतनभेदः कथमित्यत आह -
प्रविभागेति ।
चैत­न्या­भि­व्य­क्त्य­न­भि­व्य­क्ति­भ्या­मि­त्यर्थः ।

सर्वस्य चेत­न­त्व­मे­क­दे­श्यु­क्त­म­ङ्गी­कृत्य साङ्ख्यः परिहरति -
तेनापि कथञ्चिदिति ।

अङ्गीकारं त्यक्त्वा सूत्रशेषेण परिहरति -
न चेत्यादिना ।
इत­र­च्चे­त­ना­चे­त­न­त्व­रू­पम् । वैलक्षण्यं तथात्वशब्दार्थः । श्रुता­र्था­पत्तिः शब्देन बाध्येति भावः ॥४॥

श्रुति­सा­हा­य्यान्न बाध्ये­त्यु­त्त­र­सू­त्र­व्या­वर्त्यं शङ्कते -
नन्विति ।

मृदादीनां वक्तृ­त्वा­दि­श्रु­ते­स्त­द­भि­मा­नि­वि­ष­य­त्वात् , तथा 'विज्ञानं चाविज्ञानं च' इति चेत­ना­चे­त­न­वि­भा­ग­श­ब्द­स्यो­प­च­रि­ता­र्थत्वं न युक्तमिति साङ्ख्यः समाधत्ते -
अभिमानीति ।
संवदनं विवादः । न भूत­मा­त्र­मि­न्द्रि­य­मात्रं वा चेतनत्वेन व्यपदिश्यते । लोक­वे­द­प्र­सि­द्ध­वि­भा­ग­बा­धा­यो­गा­दि­त्यर्थः ।

विशे­ष­प­द­स्या­र्था­न्त­र­माह -
अपि चेति ।
अहंश्रेयसे स्वस्व­श्रे­ष्ठ­त्वाय प्राणा विवदमाना इत्यु­क्त­प्रा­णानां चेत­न­वा­चि­दे­व­ता­प­देन विशे­षि­त­त्वा­त्प्रा­णा­दि­प­दै­र­भि­मा­नि­व्य­प­देश इत्यर्थः । प्राणे निःश्रेयसं श्रैष्ठ्यं विदित्वा प्राणाधीना जाता इत्यर्थः ।

अनुगतिं बहुधा व्याचष्टे -
अनुगताश्चेति ।
तस्मै प्राणाय, बलिहरणं वागादिभिः स्वीय­व­सि­ष्ठ­त्वा­दि­गु­ण­स­म­र्पणं कृतम् । तेजआदिनामीक्षणं त्वयै­वे­क्ष­त्य­धि­क­रणे चेतननिष्ठतया व्याख्यातं द्रष्ट­व्य­मि­त्यर्थः । यस्मान्नास्ति जगतश्चेतनत्वं तस्मादिति पूर्व­प­क्षो­प­सं­हारः ॥५॥

किं यत्कि­ञ्चि­द्वै­ल­क्षण्यं हेतुः, बहुवैलक्षण्यं वा । आद्ये व्यभिचारमाह -
नायमेकान्तः । दृश्यते हीति ।

हेतोरसत्त्वान्न व्यभिचार इति शङ्कते -
नन्विति ।

यत्कि­ञ्चि­द्वै­ल­क्ष­ण्य­म­स्तीति व्यभिचार इत्याह -
उच्यत इति ।
शरीरस्य केशादीनां च प्राणि­त्वा­प्रा­णि­त्व­रूपं वैल­क्ष­ण्य­म­स्ती­त्यर्थः ।

द्वितीयेऽपि तत्रैव व्यभिचारमाह -
महानिति ।
परिणामिकः । केशादीनां स्वग­त­प­रि­णा­मा­त्मक इत्यर्थः ।

किञ्च ययोः प्रकृ­ति­वि­का­र­भा­व­स्तयोः सादृश्यं वदता वक्तव्यं किमात्यन्तिकं यत्किञ्चिद्वेति । आद्ये दोषमाह -
अत्यन्तेति ।

द्वितीयमाशङ्क्य ब्रह्मजगतोरपि तत्स­त्त्वा­त्प्र­कृ­ति­वि­कृ­ति­त्व­सि­द्धि­रि­त्याह -
अथेत्यादिना ।

विलक्षणत्वं विकल्प्य दूषणान्तरमाह -
विल­क्ष­ण­त्वे­ने­त्या­दिना ।

जगति समस्तस्य ब्रह्मस्वभावस्य चेत­न­त्वा­दे­र­न­नु­व­र्त­नान्न ब्रह्मकार्यमिति पक्षे सर्वसाम्ये प्रकृ­ति­वि­का­र­त्व­मि­त्युक्तं स्यात् , तदसङ्गतमित्याह -
प्रथम इति ।

तृतीये तु दृष्टान्ताभाव इति ।
न च जगन्न ब्रह्म­प्र­कृ­ति­क­म­चे­त­न­त्वा­द­वि­द्या­व­दिति दृष्टा­न्तोऽ­स्तीति वाच्यम् , अना­दि­त्व­स्यो­पा­धि­त्वात् । न च ध्वंसे साध्याव्यापकता, तस्यापि कार्य­सं­स्का­रा­त्म­कस्य भावत्वेन ब्रह्म­प्र­कृ­ति­क­त्वा­द­भा­व­त्वा­ग्रहे चाना­दि­भा­व­त्व­स्यो­पा­धि­त्वा­दिति ।

सम्प्रति कल्पत्रयसाधारणं दोषमाह -
आगमेति ।

पूर्वोक्तमनूद्य ब्रह्मणः शुष्क­त­र्क­वि­ष­य­त्वा­स­म्भ­वान्न तर्केणाक्षेप इत्याह -
यत्तू­क्त­मि­त्या­दिना ।
लिङ्ग­सा­दृ­श्य­प­द­प्र­वृ­त्ति­नि­मि­त्ता­ना­म­भा­वा­द­नु­मा­नो­प­मा­न­श­ब्दा­ना­म­गो­चरः । ब्रह्म लक्षणया वेदै­क­वे­द्य­मि­त्यर्थः । एषा ब्रह्मणि मतिस्तर्केण स्वतन्त्रेण नापनेया न सम्पादनीया । यद्वा कुतर्केण न बाधनीया । कुता­र्कि­का­द­न्ये­नैव वेदविदाचार्येण प्रोक्ता मतिः सुज्ञा­ना­या­नु­भ­वाय फलाय भवति । हे प्रेष्ठ, प्रियतमेति न चिकेतसं प्रति मृत्योर्वचनम् । इयं विविधा सृष्टिर्यतः आ समन्ताद्बभूव तं को वा अद्धा साक्षाद्वेद । तिष्ठतु वेदनम् , क इह लोके तं प्रवो­च­त्प्रा­वो­चत् । छान्दसो दीर्घलोपः । यथावद्वक्तापि नास्तीत्यर्थः । प्रभवं जन्म न विदुः मम सर्वादित्वेन जन्माभावात् । मिषेण मननविधिव्याजेन । शुष्कः श्रुत्यनपेक्षः । श्रुत्या तत्त्वे निश्चिते सत्यनु पश्चा­त्पु­रु­ष­दो­ष­स्या­स­म्भा­व­ना­दे­र्नि­रा­साय गृहीतः श्रुत्यनुगृहीतः ।

तमाह -
स्वप्नान्तेति ।
जीवस्यावस्थावतो देहा­दि­प्र­प­ञ्च­यु­क्तस्य निष्प्र­प­ञ्च­ब्र­ह्मै­क्य­म­स­म्भवि, द्वैत­ग्रा­हि­प्र­मा­ण­वि­रो­धा­द्ब्र­ह्म­ण­श्चा­द्वि­ती­य­त्व­म­यु­क्त­मि­त्येवं श्रौता­र्था­स­म्भा­व­ना­याम् , तन्निरासाय सर्वा­स्व­व­स्था­स्वा­त्म­नोऽ­नु­ग­तस्य व्यभि­चा­रि­णी­भि­र­व­स्था­भि­र­न­न्वा­ग­त­त्व­म­सं­स्पृ­ष्ट­त्व­म­व­स्थानां स्वाभाविकत्वे वह्न्यौ­ष्ण­व­दा­त्म­व्य­भि­चा­रा­यो­गा­त्सु­षुप्तौ प्रप­ञ्च­भ्रा­न्त्य­भावे 'सता सोम्य' इत्यु­क्ता­भे­द­द­र्श­ना­न्नि­ष्प्र­प­ञ्च­ब्र­ह्मै­क्य­स­म्भवः, यथा घटादयो मृदभिन्नास्तथा जग­द्ब्र­ह्मा­भिन्नं तज्ज­त्वा­दि­त्या­दि­स्तर्क आश्रीयत इत्यर्थः । इतोऽ­न्या­दृ­श­त­र्क­स्यात्र ब्रह्म­ण्य­प्र­वे­शा­दस्य चानुकूलत्वान्न तर्के­णा­क्षे­पा­व­काश इति भावः ।

ब्रह्मणि शुष्क­त­र्क­स्या­प्र­वेशः सूत्रसम्मत इत्याह -
तर्का­प्र­ति­ष्ठा­ना­दिति ।
विप्र­ल­म्भ­क­त्व­म­प्र­मा­प­क­त्वम् । यदुक्तमेकदेशिना सर्वस्य जग­त­श्चे­त­न­त्वोक्तौ विभा­ग­श्रु­त्य­नु­प­प­त्ति­रिति दूषणं साङ्ख्येन । तन्न । तत्र तेनैकदेशिना विभा­ग­श्रु­ते­श्चै­त­न्या­भि­व्य­क्त्य­न­भि­व्य­क्तिभ्यां योजयितुं शक्यत्वात् ।

साङ्ख्यस्य त्विदं दूषणं वज्रलेपायते, प्रधानकार्यत्वे सर्व­स्या­चे­त­न­त्वेन चेत­ना­चे­त­न­का­र्य­वि­भा­गा­स­म्भ­वा­दि­त्याह -
योऽपीत्यादिना ।

सिद्धान्ते चेत­ना­चे­त­न­वै­ल­क्ष­ण्या­ङ्गी­कारे कथं ब्रह्मणः प्रकृ­ति­त्व­मि­त्यत आह -
प्रत्यु­क्त­त्वा­दिति ।
अप्र­यो­ज­क­त्व­व्य­भि­चा­राभ्यां निर­स्त­त्वा­दि­त्यर्थः ॥६॥

कार्यमुत्पत्तेः प्रागसदेव स्यात् , स्ववि­रु­द्ध­का­र­णा­त्मना सत्त्वा­यो­गा­दि­त्य­प­सि­द्धा­न्ता­प­त्ति­मा­शङ्क्य मिथ्या­त्वा­त्का­र्यस्य कालत्रयेऽपि कारणात्मना सत्त्व­म­वि­रु­द्ध­मिति समाधत्ते -
असदिति चेदित्यादिना ।
असत्यादिति सत्त्वप्रतिषेधो निरर्थक इत्यर्थः ।

कार्य­स­त्य­त्वा­भावे श्रुतिमाह -
सर्वं तमिति ।

मिथ्यात्वमजानतः शङ्कामनूद्य परिहरति -
नन्वित्यादिना ।

विस्तरेण चैतदिति ।
मिथ्या­त्व­मि­त्यर्थः ॥७॥

सत्का­र्य­वा­द­सि­द्ध्यर्थं कार्याभेदे कारणस्यापि कार्य­व­द­शु­द्ध्या­दि­प्र­सङ्ग इति शङ्कासूत्रं व्याचष्टे -
अत्राहेति ।

प्रति­सं­सृ­ज्य­मा­न­प­दस्य व्याख्या -
कारणेति ।
यथा जले लीयमानं लवणद्रव्यं जलं दूषयति तद्वदित्यर्थः ।

सूत्रस्य योजनान्तरमाह -
अपि चेति ।
सर्वस्य कार्यस्यापीतौ कार­ण­व­दे­क­रू­प­त्व­प्र­सङ्ग इत्यर्थः ।

अर्थान्तरमाह -
अपि चेति ।
कर्मा­दी­ना­मु­त्प­त्ति­नि­मि­त्तानां प्रलयेऽपि भोक्तृ­णा­मु­त्पत्तौ तद्वदेव मुक्ता­ना­म­प्यु­त्प­त्ति­प्र­स­ङ्गा­दि­त्यर्थः ।

शङ्कापूर्वकं व्याख्यान्तरमाह -
अथेति ।
यदि लयकालेऽपि कार्यं कारणाद्विभक्तं तर्हि स्थिति­का­ल­व­ल्ल­या­भा­व­प्र­स­ङ्गा­त्का­र्येण द्वैता­प­त्ते­श्चा­स­म­ञ्ज­स­मिदं दर्शनमित्यर्थः ॥८॥

अपीतौ जगत्स्वकारणं न दूषयति, कारणे लीनत्वात् , मृदादिषु नीलघटादिवदिति सिद्धान्तसूत्रं व्याचष्टे -
नैवेत्यादिना ।
अपिगच्छत् लीयमानम् । विभागावस्था स्थितिकालः ।

त्वत्पक्षस्येति ।
मधुरजलं लव­ण­स्या­का­र­ण­मि­त्य­दृ­ष्टान्तः ।

किञ्च दूषकत्वे कार्यस्य स्थितिः स्याल्ल­व­ण­व­दि­त्याह -
अपीतिरेवेति ।
असति कार्ये तद्धर्मेण कारणस्य योगो न सम्भवति । धर्म्यसत्त्वे धर्मा­णा­म­प्य­स­त्त्वा­दिति भावः ।

ननु सत्कार्यवादे लयेऽपि कार्यस्य कारणाभेदेन सत्त्वा­द्दू­ष­कत्वं स्यादित्यत आह -
अनन्यत्वेऽपीति ।
कल्पि­त­स्या­धि­ष्ठा­न­ध­र्म­व­त्त्व­म­भे­दान्न त्वधिष्ठानस्य कल्पि­त­का­र्य­ध­र्म­वत्त्वं तस्य कार्या­त्पृ­थ­क्स­त्त्वा­दि­त्यर्थः ।

किञ्चापीताविति विशेषणं व्यर्थमिति प्रतिबन्द्या समाधत्ते -
अत्यल्पं चेति ।

परि­णा­म­दृ­ष्टान्तं व्याख्याय विव­र्त­दृ­ष्टान्तं व्याचष्टे -
अस्ति चेति ।

माया­व्य­नु­पा­दा­न­मि­त्य­रुच्या दृष्टा­न्ता­न्त­र­माह -
यथेति ।

अस्त्येव स्वप्नकाले दृष्टः संसर्ग इत्यत आह -
प्रबोधेति ।
जाग्र­त्सु­षुप्त्योः स्वप्ने­ना­त्म­नोऽ­स्प­र्शा­त्त­त्का­लेऽ­प्य­स्पर्श इत्यर्थः ।

यद्यज्ञस्य जीव­स्या­व­स्था­भि­र­सं­स­र्ग­स्तदा सर्वज्ञस्य किं वाच्यमिति दार्ष्टा­न्ति­क­माह -
एवमिति ।

यद्वा जाग­ज्ज­न्म­स्थि­ति­लया ईश्व­र­स्या­व­स्था­त्र­यम् । तदसङ्गित्वे वृद्धसम्मतिमाह -
अत्रोक्तमिति ।
यदा तत्त्व­म­सी­त्यु­प­दे­श­काले प्रबुध्यते मायानिद्रां त्यजति तदा जन्म­ल­य­स्थि­त्य­व­स्था­शू­न्य­म­द्वै­त­मी­श्व­र­मा­त्म­त्वे­ना­नु­भ­व­ती­त्यर्थः ।

फलितमाह -
तत्रेति ।

द्विती­य­म­सा­म­ञ्ज­स्य­म­नूद्य तेनैव सूत्रेण परिहरति -
यत्पुनरिति ।

सुषु­प्ता­व­ज्ञा­न­सत्त्वे पुन­र्वि­भा­गो­त्पत्तौ च मानमाह -
श्रुतिश्चेति ।
सति ब्रह्मण्येकीभूय न विदु­रि­त्य­ज्ञा­नोक्तिः । इह सुषुप्तेः प्राक्प्रबोधे येन जात्यादिना विभक्ता भवन्ति तदा पुनरुत्थानकाले तथैव भवन्तीति विभागोक्तिः ।

ननु सुषुप्तौ पुन­र्वि­भा­ग­श­क्त्य­ज्ञा­न­स­त्त्वेऽपि सर्वप्रलये तत्सत्त्वं कुत इत्यत आह -
यथा हीति ।
यथा सुषुप्तौ परमात्मनि सर्व­का­र्या­णा­म­वि­भा­गेऽपि पुन­र्वि­भा­ग­हे­त्व­ज्ञा­न­श­क्ति­रस्ति एवमपीतौ महाप्रलयेऽपि मिथ्या­भू­ता­ज्ञा­न­स­म्ब­न्धा­त्पुनः सृष्टि­वि­भा­ग­श­क्ति­र­नु­मा­स्यते । यतः स्थिताविदानीं मिथ्या­ज्ञा­न­कार्यो विभा­ग­व्य­व­हा­र­स्त­त्त्व­बो­धा­भा­वा­त्स्व­प्न­व­द­बा­धितो दृश्यते, अतः कार्य­द­र्श­ना­त्का­र­ण­स­त्त्व­सि­द्धि­रि­त्यर्थः । अज्ञानां जीवानां महा­प्र­ल­येऽ­प्य­ज्ञा­न­श­क्ति­नि­य­मा­त्पु­न­र्ज­न्म­नि­यम इति भावः ।

एतेनेति ।
जन्म­का­र­णा­ज्ञा­न­श­क्त्य­भा­वे­ने­त्यर्थः ॥९॥

वैलक्षण्यादीनां साङ्ख्यपक्षेऽपि दोष­त्वा­न्ना­स्मा­भि­स्त­न्नि­रा­स­प्र­यासः कार्य इत्याह -
स्वपक्षेति ।

सूत्रं व्याचष्टे -
स्वेति ।
प्रादुःष्युः प्रादुर्भवेयुः ।

अत एवेति ।
सत्यकार्यस्य विरु­द्ध­का­र­णा­त्मना सत्त्वा­यो­गा­त्सा­ङ्ख्य­स्यै­वायं दोषो न कार्य­मि­थ्या­त्व­वा­दिन इति मन्तव्यम् ।

'अपीतौ' इति सूत्रो­क्त­दो­ष­च­तु­ष्ट­य­माह -
तथापीताविति ।
कार्य­व­त्प्र­धा­नस्य रूपा­दि­म­त्त्व­प्र­सङ्गः । इदं कर्मा­दि­क­म­स्यो­पा­दानं भोग्यमस्य नेत्यनियमः । बद्ध­मु­क्त­व्य­वस्था च । यदि व्यवस्थार्थं मुक्तानां भेदाः सङ्घातविशेषाः प्रधाने लीयन्ते बद्धानां भेदास्तु न लीयन्त इत्युच्येत तर्ह्यलीनानां पुरु­ष­व­त्का­र्य­त्व­व्या­घात इत्यर्थः ॥१०॥

किञ्च तर्कस्य सम्भा­वि­त­दो­ष­त्वा­त्तेन निर्दो­ष­वे­दा­न्त­स­म­न्वयो न बाध्य इत्याह -
तर्का­प्र­ति­ष्ठा­ना­द­पीति ।

पुरुषमतीनां विचित्रत्वेऽपि कपिलस्य सर्व­ज्ञ­त्वा­त्त­दी­य­तर्के विश्वास इति शङ्कते -
अथेति ।

'कपिलो यदि सर्वज्ञः कणादो नेति का प्रमा' इति न्यायेन परिहरति -
एवमपीति ।

सूत्र­म­ध्य­स्थ­श­ङ्का­भागं व्याचष्टे -
अथोच्येतेति ।
विल­क्ष­ण­त्वा­दि­त­र्का­णा­म­प्र­ति­ष्ठि­त­त्वेऽपि व्याप्ति­प­क्ष­ध­र्म­ता­स­म्पन्नः कश्चित्तर्कः प्रतिष्ठितो भविष्यति तेन प्रधा­न­म­नु­मे­य­मि­त्यर्थः ।

ननु सोऽप्य­प्र­ति­ष्ठितः तर्क­जा­ती­य­त्वा­वि­ल­क्ष­ण­त्वा­दि­व­दि­त्यत आह -
न हीति ।
तर्क­जा­ती­य­त्वा­दिति तर्कः प्रतिष्ठितो न वा । आद्येऽ­त्रै­वा­प्र­ति­ष्ठि­त­त्व­सा­ध्या­भा­वा­द्व­य­भि­चारः ।

द्वितीयेऽपि न सर्व­त­र्का­णा­म­प्र­ति­ष्ठि­तत्वं हेत्व­भा­वा­दि­त्य­भि­स­न्धि­मा­नाह -
एतदपीति ।

किञ्चानागतपाक इष्टसाधनम् , पाकत्वात् , अती­त­पा­क­व­दि­त्या­दि­ष्टा­नि­ष्ट­सा­ध­ना­नु­मा­ना­त्म­क­त­र्कस्य प्रवृ­त्ति­नि­वृ­त्ति­व्य­व­हा­र­हे­तु­त्वा­न्ना­प्र­ति­ष्ठे­त्याह -
सर्वतर्केति ।
अध्वा विषयः पाक­भो­ज­ना­दि­र्वि­ष­भ­क्ष­णा­दिश्च, तत्सामान्येन पाक­त्वा­दि­ना­ना­ग­त­वि­षये पाकादौ सुख­दुः­ख­हे­तु­त्वा­नु­मित्या प्रवृ­त्त्या­दि­रि­त्यर्थः ।

किञ्च पूर्वो­त्त­र­मी­मां­स­यो­स्त­र्के­णैव वाक्य­ता­त्प­र्य­नि­र्ण­यस्य क्रिय­मा­ण­त्वा­त्तर्कः प्रतिष्ठित इत्याह -
श्रुत्यर्थेति ।

मनुरपि केषा­ञ्चि­त्त­र्काणां प्रतिष्ठां मन्यत इत्याह -
मनुरिति ।
धर्मस्य शुद्धि­र­ध­र्मा­द्भे­द­नि­र्णयः ।

कस्य­चि­त्त­र्क­स्या­प्र­ति­ष्ठि­त­त्व­म­ङ्गी­क­रोति -
अयमेवेति ।
सर्वतर्काणां प्रतिष्ठायां पूर्वपक्ष एव न स्यादिति भावः ।

पूर्व­प­क्ष­त­र्क­व­त्सि­द्धा­न्त­त­र्कोऽ­प्य­प्र­ति­ष्ठितः, तर्क­त्वा­वि­शे­षा­दिति वदन्तमुपहसति -
न हीति ।

क्वचित्तर्कस्य प्रतिष्ठायामपि जगत्कारणविशेषे तर्कस्य स्वातन्त्र्यं नास्तीति सूत्रशेषं व्याचष्टे -
यद्यपीत्यादिना ।
अतिगम्भीरत्वं ब्रह्मणो वेदा­न्य­मा­ना­ग­म्य­त्वम् । भावस्य जगत्कारणस्य याथा­त्म्य­म­द्व­य­त्वम् । मुक्तिनिबन्धनं मुक्त्यालम्बनम् ।

ब्रह्मणो वेदा­न्य­मा­ना­ग­म्यत्वं दर्शयति -
रूपादिति ।

अविमोक्षो मुक्त्यभाव इत्यर्थान्तरमाह -
अपि चेत्यादिना ।

एक­रू­प­व­स्तु­ज्ञा­नस्य सम्य­ग्ज्ञा­न­त्वेऽपि तर्कजन्यत्वं किं न स्यादित्यत आह -
तत्रैवं सतीति ।
तर्को­त्थ­ज्ञा­नानां मिथो विप्रतिपत्तेर्न सम्य­ग्ज्ञा­न­त्वम् । सम्यग्ज्ञाने विप्र­ति­प­त्त्य­यो­गा­दि­त्यर्थः । एक­रू­पे­णा­न­व­स्थितो विषयो यस्य तत्तर्कप्रभवं कथं सम्यग्ज्ञानं भवेदिति योजना ।

ननु साङ्ख्यस्य श्रेष्ठ­त्वा­त्त­ज्ज्ञानं सम्य­गि­त्या­शङ्क्य हेत्वसिद्धिमाह -
न च प्रधानेति ।

ननु सर्व­ता­र्कि­कै­र्मि­लित्वा निश्चि­त­त­र्कोत्था मति­र्मु­क्ति­हे­तु­रि­त्यत आह -
न च शक्यन्त इति ।

तस्मा­त्त­र्को­त्थ­ज्ञा­ना­न्मु­क्त्य­यो­गा­त्त­र्केण वेदा­न्त­स­म­न्व­य­बाधो न युक्तः, तद्बाधे सम्य­ग्ज्ञा­ना­ला­भे­ना­नि­र्मो­क्ष­प्र­स­ङ्गा­दिति सूत्रां­शा­र्थ­मु­प­सं­ह­रति -
अतोऽन्यत्रेति ।

समन्वयस्य तर्केणाविरोधे फलि­त­म­धि­क­र­णा­र्थ­मु­प­सं­ह­रति -
अत आगमेति ॥११॥