अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अङ्गावबद्धाधिकरणम्

अङ्गावबद्धाः ।
उद्गी­था­व­य­वो­ङ्कारे प्राण­दृ­ष्टिः,'पृ­थिवी हिङ्कारेऽग्निः प्रस्ता­वोऽ­न्त­रि­क्ष­मु­द्गीथ आदित्यः प्रतिहारो द्यौर्नि­ध­नम्' , इति हिङ्का­रा­दि­प­ञ्च­विधे साम्नि पृथि­व्या­दि­लो­क­दृष्टिः, उक्थाख्यशस्त्रे पृथिवीदृष्टिः, इष्टकाचिताग्नौ लोक­दृ­ष्टि­रि­त्येवं कर्मा­ङ्गा­श्रि­तो­पा­स्तयः सन्ति, तासू­द्गी­था­दि­सा­धा­र­ण­श्रुत्या विशेषसंनिधिना च संशयः ।

ननूद्गीथादीनां सर्व­शा­खा­स्वे­क­त्वा­दु­पा­स्तयः सर्वत्रेति वेद्यै­क्या­न्नि­श्चये कथं संशय इत्यत आह -
प्रतिशाखं चेति ।

यथा देहा­त्म­नो­र्भे­दा­दा­त्म­धर्मा देहे न संभवन्ति तथा प्रति­वे­द­मु­द्गी­था­दीनां भिन्न­त्वा­दे­क­स्मि­न्वेदे विहि­तो­द्गी­था­द्यु­पा­स्तयो वेदा­न्त­र­स्थो­द्गी­था­दिषु न संभवन्तीति दृष्टान्तेन पूर्वपक्षयति -
स्वशाखेति ।
उद्गी­थ­मु­पा­सी­तेति विधि­वा­क्य­स्थो­द्गी­थ­त्व­सा­मा­न्यस्य व्यक्त्य­पे­क्ष­त्वा­स्त्व­शा­खा­सं­नि­हि­त­व्य­क्ति­ग्रह इत्यर्थः ।

सामान्यश्रुतेः संनि­हि­त­व्य­क्ति­ग्र­हा­ख्य­सं­को­च­स्तत्र कर्तव्यो यत्र व्यक्ति­मा­त्र­ग्रहो नोपपद्यते, यथा शुक्लां गामानयेत्यत्र गोश्रुतेः संनि­हि­त­शु­क्ल­व्य­क्ति­प­र­तया संकोचः, अत्र नानु­प­प­त्त्य­भा­वा­द्व्य­क्ति­मा­त्र­सं­ब­न्ध­सा­मा­न्य­मु­पा­स्य­मिति सिद्धान्तयति -
एवमित्यादिना ॥५५॥

पूर्वं शाखा­न्त­र­वि­हि­तो­पा­स्तीनां शाखा­न्त­र­स्था­ङ्ग­सं­बन्धे यः प्रतीतो विरो­ध­स्त­म­ङ्गी­कृत्य संबन्ध उक्तः, संप्रति विरोध एव नास्ति, शाखा­न्त­र­वि­हि­ता­ङ्गानां शाखा­न्त­र­स्था­ङ्गि­सं­ब­न्ध­व­दु­क्त­सं­ब­न्धो­प­प­त्ते­रि­त्याह -
अथवेत्यादिना ।
यजुर्वेदिनां कुक्कुटोऽसीति मन्त्रोऽस्ति कुटरुरसीति नास्ति तथापि तण्डु­ल­पे­ष­णा­र्था­श्मा­दाने मन्त्रद्वयस्य विकल्पेन विनियोगात्सोऽपि प्राप्नो­ती­त्यर्थः ।

सूत्र­स्था­दि­प­दो­पा­त्त­क­र्म­णा­मु­दा­ह­र­ण­माह -
येषामिति ।
मैत्रा­य­णी­या­ना­मि­त्यर्थः । हेम­न्त­शि­शि­र­यो­रै­क्या­दृ­तवः पञ्च तद्व­त्प­ञ्च­सं­ख्याकाः प्रयाजाः समानत्र तुल्यकर्मस्थले होतव्या इति पञ्च­त्व­गु­ण­वि­धा­ना­द्गु­णिनः शाखान्तरविहिताः सम्बध्यन्त इति भावः ।

गुणमुदाहरति -
तथा येषामिति ।
यजु­र्वे­दि­ना­म­ग्नी­षो­मीयः पशुः श्रुतो नाज इति जाति­वि­शे­ष­स्त­थापि प्रैष­म­न्त्र­लि­ङ्गा­ज्जा­ति­वि­शे­ष­सं­ग्रह इत्यर्थः ।

मन्त्रा­ण­मु­दा­ह­र­णा­न्त­र­माह -
तथेति ।
सामवेदस्थानां यजुर्वेदे परिग्रह इत्यर्थः । तथेति 'स जनास इन्द्र' इत्य­ने­नो­प­ल­क्षितं सूक्तं सजनीयं तस्य याजु­षा­ध्व­र्यु­क­र्तृ­क­प्र­योगे शंसनं दृष्टमित्यर्थः । यो जातो बाल एव प्रथमो गुणैः श्रेष्ठो मन­स्वा­न्वि­वे­क­वान्स इन्द्र एवंविधो हे जानसो जना इति श्रुत्यर्थः ॥५६॥