भाष्यरत्नप्रभाव्याख्या
रचनानुपपत्त्यधिकरणम्
प्रधानमचेतनं जगदुपादानमिति साङ्ख्यसिद्धान्तोऽत्र विषयः स किं प्रमाणमूलो भ्रान्तिमूलो वेति सन्देहे 'सर्वधर्मोपपत्तेश्च' इत्युक्तधर्माणां प्रधाने सम्भवात्तदेवोपादानमित्याक्षेपसङ्गत्या प्रमाणमूलत्वं दर्शयन् पूरवपक्षमाह -
तत्र साङ्ख्या इति ।
स्वसिद्धान्तज्ञानस्य परमतनिरासं प्रत्युपजीव्यत्वात्पादयोः सङ्गतिः । परमतनिरासात्मकत्मात्सर्वेषामधिकरणानामेतत्पादसङ्गतिः । पूर्वपक्षे प्रमाणमूलमतविरोधादुक्तश्रुत्यर्थसमन्वयासिद्धिः फलम् , सिद्धान्ते तत्सिद्धिरित्यापादं द्रष्टव्यम् । मूलश्रौतसमन्वयदार्ढ्यार्थत्वादस्य पादस्य श्रुतिसङ्गतिरिति विवेकः ।
भिद्यन्त इति भेदा विकाराः, ये विकारा येनान्वितास्ते तत्प्रकृतिका इति व्याप्तिमाह -
यथेति ।
सर्वं कार्यं सुखदुःखमोहात्मकवस्तुप्रकृतिकम् , तदन्वितत्वात् , घटादिवदित्यनुमानमाह -
तथेति ।
किमर्थं प्रधानं परिणमते, तत्राह -
चेतनस्येति ।
अर्थो भोगापवर्गरूपः, तदर्थं स्वभावत एव प्रवर्तते न तु केन चिच्चेतनेन प्रेर्यत इत्यर्थः । तदुक्तम् 'पुरुषार्थ एव हेतुर्न केन चित्कार्यते करणम्' इति ।
अनुमानान्तराणि तैरुक्तानि स्मारयति -
तथेति ।
उक्तं हि 'भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ ' इति । अत्र कारिकायां समन्वयादिति लिङ्गं व्याख्यातम् । शिष्टानि व्याख्यायन्ते । तथा हि क्षित्यादीनां भेदानां कारणमव्यक्तमस्ति, परिमितत्वात् , घटवत् । न च दृष्टान्ते साध्यवैकल्यम् , घटोत्पत्तेः प्रागनभिव्यक्तघटादिरूपकार्यविशिष्टत्वेन मृदोऽप्यव्यक्तत्वात् । तथा घटादीनां कारणशक्तितः प्रवृत्तेर्महदादिकार्याणामपि कारणशक्तितः प्रवृत्तिर्वाच्या, तच्छक्तिमत्कारणमव्यक्तम् । किञ्च कारणात्कार्यस्य विभागो जन्म दृश्यते क्षितेर्मृत्तिका जायते ततो घट इति । एवमविभागः प्रातिलोम्येन प्रलयो दृश्यते घटस्य मृत्तिकायां लयः तस्याः क्षितौ क्षितेरप्सु अपां तेजसीति । एतौ विभागाविभागौ वैश्वरूप्यस्य विचित्रस्य भावजातस्य दृश्यमानौ पृथक्पक्षीकृतौ क्वचित्कारणे विश्रान्तौ विभागत्वादविभागत्वाच्च मृदि घटविभागाविभागवदित्यर्थः ।
सिद्धान्तयति -
तत्र वदाम इति ।
किमनुमानैरचेतनप्रकृतिकत्वं जगतः साध्यते, स्वतन्त्राचेतनप्रकृतिकत्वं वा । आद्ये सिद्धसाधनता, अस्माभिरनादित्रिगुणमायाङ्गीकारात् । द्वितीये घटादिदृष्टान्ते साध्याप्रसिद्धिरित्याह -
यदीति ।
स्वतन्त्रमचेतनं प्रकृतिरित्येतद्दृष्टान्तबलेन तदा निरूप्येत यदि दृष्टान्तः क्वचित्स्यात् । न तु दृष्टः क्वचिदित्यन्वयः ।
स्वतन्त्रपदार्थमाह -
चेतनानधिष्टितमिति ।
परकीयस्य साध्यस्याप्रसिद्धिमुक्त्वा सत्प्रतिपक्षं वक्तुं यद्विचित्ररचनात्मकं कार्यं तच्चेतनाधिष्ठिताचेतनप्रकृतिकमिति व्याप्तिमाह -
गेहेति ।
इदं जगच्चेतनाधिष्ठिताचेतनप्रकृतिकम् , कार्यत्वात् , गेहवदिति प्रयोगः ।
विपक्षे विचित्ररचनानुपपत्तिरूपं सूत्रोक्तं बाधकतर्कं वक्तुं जगतो वैचित्र्यमाह -
तथेति ।
बाह्यं पृथिव्यादि भोग्यम् , आध्यात्मिकं शरीरादि च भोगाधिष्ठानमिति विभागः । प्रतिनियतोऽसाधारणोऽवयवानां विन्यासो रचना यस्य तदित्यर्थः । इत्थं विचित्रं जगच्चेतनानधिष्ठिता जडप्रकृतिः कथं रचयेत् । न कथमपीत्यर्थः ।
यच्चेतनानधिष्ठितमचेतनं तन्न कार्यकारीति व्याप्तिमुक्ततर्कमूलभूतामाह -
लोष्टेति ।
चेतनाप्रेरितेषु लोष्टादिषु कार्यकारित्वादर्शनादित्यर्थः ।
किञ्चानादिजडप्रकृतिश्चेतनाधिष्टिता, परिणामित्वात् , मृदादिवदित्याह -
मृदिति ।
ननु मृदादिदृष्टान्ते द्वयमप्यस्त्यचेतनत्वं चेतनाधिष्ठितत्वं चेति, तत्र परिणामित्वहेतोरचेतनत्वमेव व्यापकं मृदादिस्वरूपत्वेनान्तरङ्गत्वात् , न तु चेतनाधिष्ठितत्वं व्यापकम् , तस्य मृदादिबाह्यकुलालादिसापेक्षत्वेन बहिरङ्गत्वात् , तथा च परिणामित्वेऽपि मूलप्रकृतेरचेतनत्वधर्मेणैव योगो न चेतनाधिष्ठितत्वेनेत्याशङ्क्य निषेधति -
न चेति ।
महानसदृष्टान्तेऽन्तरङ्गस्यापि महानसस्वरूपस्य धूमव्यापकत्वं नास्ति तद्भिन्नस्य बहिरङ्गस्यापि वह्नेस्तदस्तीत्यन्तरङ्गत्वं व्यापकत्वे प्रयोजकं न भवतीति भावः ।
किञ्च यदचेतनं तच्चेतनाधिष्ठितमेव परिणमत इत्यङ्गीकारे बाधकाभावात्प्रत्युत श्रुत्यनुग्रहाच्च तथाङ्गीकार्यमित्याह -
न चैवं सतीति ।
सुखदुःखमोहान्वयादिति हेतोरसिद्धिद्योतनार्थं सूत्रे चकार इत्याह -
अन्वयाद्यनुपपत्तेश्चेति ।
नानुमानं युक्तमित्यर्थः । आदिशब्दः परिमाणादिग्रहार्थः । श्ब्दादीनां बाह्यत्वानुभवादान्तरसुखाद्यात्मकत्वमसिद्धं तन्निमित्तत्वाच्च । न हि निमित्तनैमित्तिकयोरभेदेन योगोऽस्ति, दण्डघटयोरदर्शनादित्यर्थः । किञ्च यदि घटे मृद्वत्सुखादिकं शब्दाद्यन्वितं स्यात्तर्हि सर्वैरविशेषेण सुखादिकमुपलभ्येत घटे मृद्वत् ।
न तथोपलब्धिरस्तीति योग्यानुपलब्ध्या हेत्वभावनिश्चय इत्याह -
शब्दादीति ।
विषयस्यैकत्वेऽपि पुरुषवासनावैचित्र्यात्कस्यचित्सुखबुद्धिः कस्यचिद्दुःखबुद्धिः कस्यचिन्मोहबुद्धिर्दृश्यतेऽतो विषयाः सुखाद्यात्मका न भवन्तीत्यर्थः ।
एवं समन्वयादिति हेतुं दूषयित्वा परिमाणादिहेतून् दूषयति -
तथेति ।
बुद्ध्यादीनां परिमितत्वेन संसर्गपूर्वकत्वसिद्धौ संसृष्टान्यनेकानि सत्त्वरजस्तमांसि सिद्ध्यन्ति, एकस्मिन् संसर्गासम्भवान्न ब्रह्मसिद्धिरिति साङ्ख्यस्य भावः । किमिदं परिमितत्वम् , न तावद्देशतः परिच्छेदः, पक्षान्तर्गताकाशे तस्याभावेन भावासिद्धेः । नापि कालतः परिच्छेदः, साङ्ख्यैः कालस्यानङ्गीकारात् , अविद्यागुणसंसर्गेण सिद्धसाधनाच्च ।
नापि वस्तुतः परिच्छेदः, सत्त्वादीनां परस्परं भिन्नत्वे सत्यपि साध्याभावेन व्यभिचारादित्याह -
सत्त्वेति ।
यदुक्तं कार्यकारणविभागो यत्र समाप्यते तत्प्रधानमिति । तन्न । ब्रह्मणि मायायां वा समाप्तिसम्भवात् ।
न च यः कार्यस्य विभागः स चेतनानधिष्ठिताचेतने समाप्त इति व्याप्तिरस्ति, सर्वत्राचेतनेषु चेतनाधिष्ठानदर्शनादित्याह -
कार्येति ।
एतेनाविभागोऽपि व्याख्यातः । यत्तु यत्परिमितं तदव्यक्तप्रकृतिपूर्वकमिति व्याप्त्यन्तरम् , तस्यापि गुणेष्वनादिषु परिमितेषु व्यभिचारः । एतेन सदृशयोरेव प्रकृतिविकारभावादचेतनविकाराणामचेतनमेव प्रकृतिरिति निरस्तम् । चेतनाधिष्ठिताचेतनप्रकृतिकत्वेऽपि सादृश्योपपत्तेः, 'न विलक्षणत्वात्' इत्यत्र सादृश्यनियमस्य निरस्तत्वाच्च । एवं चेतनाधीनकारणशक्तितः कार्यप्रवृत्तिसम्भवात् शक्तितः प्रवृत्तिलिङ्गमन्यथासिद्धमिति भावः ॥१॥
स्वतन्त्रमचेतनं कारणत्वेन नानुमातव्यम् , तस्य सृष्ट्यर्थं प्रवृत्तेरनुपपत्तेरिति चकारेणानुपपत्तिपदमनुषज्य सूत्रं योजनीयम् । रचनाप्रवृत्त्योः को भेद इत्याशङ्क्य प्रवृत्तिस्वरूपमाह -
साम्येति ।
गुणानां किल साम्यावस्था तत्त्वानां प्रलयः, तदा न किञ्चित्कार्यं भवति प्रलयाभावप्रसङ्गात् । किन्त्वादौ साम्यप्रच्युतिरूपं वैषम्यं भवति, ततः कस्यचिद्गुणस्याङ्गित्वमुद्भूतत्वेन प्राधान्यं कस्यचिदङ्गत्वं शेषत्वमित्यङ्गाङ्गिभावो भवति, तस्मिन् सति महदादिकार्योत्पादनात्मिका प्रवृत्तिः, तया विविधकार्यविन्यासो रचनेति भेद इत्यर्थः ।
गुणानां प्रवृत्तिश्चेतनाधिष्ठानपूर्विका, प्रवृत्तित्वात् , रथादिप्रवृत्तिवदित्याह -
सापीति ।
विपक्षे स्वतन्त्रे प्रवृत्त्यनुपपत्तिरित्यर्थः । केचित्तु भेदानां प्रवृत्तिशक्तिमत्वाच्चेतनानधिष्ठताचेतनप्रकृतिकत्वमिति शक्तितः प्रवृत्तिरिति लिङ्गं व्याचक्षते । अस्यापि गुणेषु व्यभिचारः । कार्यत्वविशेषणे च विरुद्धता, प्रवृत्तिशक्तिमत्वे सति कार्यत्वस्य घटादिषु चेतनाधिष्टितप्रकृतिकत्वेनोक्तसाध्यविरुद्धेन व्याप्तिदर्शनादिति 'प्रवृत्तेश्च' इति सूत्रेण ज्ञापितम् ।
ननु लोके स्वतन्त्राचेतनानां प्रवृत्यदर्शनेऽपि प्रधाने सा प्रवृत्तिः सिध्यतु, तत्राह -
दृष्टाच्चेति ।
अनुमानशरणस्य तव दृष्टन्तं विनातीन्द्रियार्थसिद्ध्ययोगादिति भावः ।
ननु प्रधानस्य प्रवृत्तिं खण्डयता चेतनस्य सृष्टौ प्रवृत्तिर्वाच्या सा न युक्तेति साङ्ख्यः शङ्कते -
नन्विति ।
शुद्धचेतनस्य प्रवृत्त्ययोगमङ्गीकरोति -
सत्यमिति ।
तर्हि केवलस्याचेतनस्य प्रवृत्तिसिद्धिरन्यथा सृष्ट्ययोगात् , तत्राह -
तथापीति ।
केवलस्य चेतनस्याप्रवृत्तावपि चेतनाचेतनयोर्मिथः सम्बन्धात्सृष्टिप्रवृत्तिरिति भावः ।
इमं वेदान्तसिद्धान्तं साङ्ख्यो दूषयति -
न त्विति ।
सर्वा प्रवृत्तिरचेतनाश्रयैव दृष्टा । न त्वचेतनसम्बन्धेनापि चेतनस्य क्वचित्प्रवृत्तिर्दृष्टा । तस्मान्न चेतनात्सृष्टिरित्यर्थः ।
मतद्वयं श्रुत्वा मध्यस्थः पृच्छति -
किं पुनरिति ।
यस्मिन्न चेतने रथादौ प्रवृत्तिर्दृष्टा तस्यैव सा न चेतनस्तत्र हेतुरिति किं साङ्ख्यमतं साधु उत येन चेतनेनाश्वादिना संयोगादचेतनस्य प्रवृत्तिस्तत्प्रयुक्ता सेति वेदान्तिमतं वा साध्विति प्रश्नार्थः ।
साङ्ख्य आह -
नन्विति ।
उभयोः ।
प्रवृत्तितदाश्रययोरित्यर्थः । दृष्टाश्रयेणैव प्रवृत्तेरुपपत्तावदृष्टचेतनप्रवृत्तिर्न कल्प्येति भावः ।
आत्मनोऽप्रत्यक्षत्वे कथं सिद्धिः, तत्राह -
प्रवृत्तीति ।
जीवद्देहस्य रथादिभ्यो वैलक्षण्यं प्राणादिसत्त्वं लिङ्गं दृष्टमिति कृत्वा चेतनस्य सिद्धिरित्यन्वयः । जीवद्देहः सात्मकः प्राणादिमत्वात् , व्यतिरेकेण रथादिवदित्यात्मसिद्धिरित्यर्थः । देहप्रवृत्तिः स्वाश्रयादन्येन ज्ञानवता सहभूता, प्रवृत्तित्वात् , रथप्रवृत्तिवदित्यनुमानान्तरसूचनाय प्रवृत्त्याश्रयेत्युक्तम् , सद्भावसिद्धिरेव न प्रवर्तकत्वमित्येवकारार्थः । अनुमितस्य सद्भावमात्रेण प्रवृत्तिहेतुत्वे सर्वत्राकाशस्यापि हेतुत्वप्रसङ्गादिति भावः ।
आत्मनोऽप्रत्यक्षत्वे चार्वाकाणां भ्रमोऽपि लिङ्गमित्याह -
अत एवेति ।
अप्रत्यक्षत्वादेवेत्यर्थः । देहान्यात्मनः प्रत्यक्षत्वे भ्रमासम्भवादिति भावः ।
दर्शनात् ।
प्रवृत्तिचैतन्ययोरिति शेषः ।
प्रवृत्तिं प्रत्याश्रयत्वमचेतनस्यैवेत्युक्तमङ्गीकृत्य चेतनस्य प्रयोजकत्वं सिद्धान्ती साधयति -
तदभिधीयत इति ।
रथादिप्रवृत्तावश्वादिचेतनस्यान्वयव्यतिरेकौ स्फुटौ ताभ्यां चेतनस्य प्रवर्तकत्वं बाह्यानामपि सम्मतमित्याह -
लौकायतिकानामपीति ।
यः प्रवर्तकः सः स्वयं प्रवृत्तिमानश्वादिवदिति व्याप्तेरात्मनि व्यापकाभावान्न प्रवर्तकत्वमिति कश्चिच्छङ्कते -
नन्विति ।
मण्यादौ व्यभिचारान्न व्याप्तिरिति परिहरति -
नेति ।
वस्तुत एकत्वेऽपि कल्पितं द्वैतं प्रवर्त्यमस्तीत्याह -
न । अविद्येति ।
अविद्याकल्पिते नामरूपप्रपञ्चे तयैवाविद्यारूपया मायया य आवेशश्चिदात्मनः कल्पितः सम्बन्धस्तस्य वशः सामर्थ्यं तेनान्तर्यामित्वादिकमीश्वरस्येत्युक्तत्वान्न चोद्यावसर इत्यर्थः ॥२॥
अनादिजडस्य प्रवृत्तिश्चेतनादिना, प्रवृत्तित्वात् , रथादिप्रवृत्तिवदिति स्थितम् । तत्र क्षीरादौ व्यभिचारमाशङ्क्य तस्यापि पक्षसमत्वेनोक्तानुमानादागमेन च साध्यसिद्धिर्न व्यभिचार इति सूत्रं व्याचष्टे -
स्यादेतदित्यादिना ।
साध्यपक्षेति ।
साध्यवता पक्षेणतुल्यत्वादित्यर्थः ।
अनुपन्यासः ।
न व्यभिचारभूमिरिति यावत् ।
क्षीरे प्रवर्तकत्वेन धेन्वादेः सत्त्वाच्च न व्यभिचार इत्याह -
चेतनायाश्चेति ।
उपदर्शितम् । अनुमानागमाभ्यामिति शेषः ।
सूत्रकारस्य 'क्षीरवद्धि', 'तत्रापि' इति च वक्तुः पूर्वापरविरोधमाशङ्क्य लोकदृष्ट्या शास्त्रदृष्ट्या च सूत्रद्वयमित्यविरोधमाह -
उपसंहारेति ॥३॥
अस्तु प्रधानस्यापि धर्मादि कर्म पुरुषो वा प्रवर्तक इत्याशङ्क्य सूत्रं प्रवृत्तम् , तद्व्याचष्टे -
साङ्ख्यानामित्यादिना ।
प्रधानव्यतिरेकेण कर्मणोऽनवस्थितेः पुरुषस्योदासीनत्वात्कदाचित्सृष्टिप्रवृत्तिः कदाचित्प्रलय इत्ययुक्तमित्यर्थः । कर्मणोऽपि प्रधानात्मकस्याचेतनत्वात्सदासत्त्वाच्च न कादाचित्कप्रवृत्तिनियामकत्वमिति भावः ॥४॥
पुनरपि दृष्टान्तबलात्प्रधानस्य स्वत एव कादाचित्कप्रवृत्तिरित्याशङ्क्य निषेधति सूत्रकारः -
अन्यत्रेत्यादिना ।
पृच्छति -
कथमिति ।
उत्तरम् -
निमित्तान्तरेति ।
धेन्वादिनिमित्तान्तरमस्तीति सिद्धान्तयति -
अत्रोच्यत इति ।
प्रहीणं नष्टम् ।
यदुक्तं क्षीरस्य स्वेच्छया सम्पादयितुमशक्यत्वात्स्वाभाविकत्वमिति, तत्राह -
न च यथाकाममिति ॥५॥
प्रधानस्य न स्वतःप्रवृत्तिः, स्वतःप्रवृत्त्यभ्युपगमे पुरुषार्थस्याप्यपेक्षाभावप्रसङ्गादित्येकोऽर्थः । तत्रेष्टापत्तिं निरस्यति -
इत्यतः प्रधानमिति ।
उक्तप्रसङ्गस्येष्टत्वे प्रतिज्ञाहानिः स्यादित्यर्थः ।
अर्थासम्भवान्न स्वतःप्रवृत्तिरित्यर्थान्तरं शङ्कापूर्वकमाह -
स यदीत्यादिना ।
प्रयोजनमपेक्षितं चेद्वक्तव्यमित्याह -
तथापीति ।
कूटस्थे पुरुषे स्वतःसुखादिरूपस्यातिशयस्याधातुमशक्यत्वादध्यासानङ्गीकाराच्च भोगो न युक्तः । किं च प्रधानप्रवृत्तेर्भोगार्थत्वे मोक्षहेतुविवेकख्यात्यभावादनिर्मोक्षप्रसङ्गश्च, अपवर्गार्थत्वे स्वरूपावस्थानरूपमुक्तेः स्वतःसिद्धत्वात्प्रवृत्तिवैयर्थ्यम् , भोगाभावप्रसङ्गश्चेत्यर्थः ।
तृतीयं दूषयति -
उभयार्थतेति ।
मीयन्ते भुज्यन्त इति मात्रा भोग्याः ।
औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तमिति कारिकोक्तं दूषयति -
न चेति ।
औत्सुक्यमिच्छाविशेषः केवलजडस्यात्मनो वा न युक्त इत्यर्थः ।
अस्ति पुरुषस्य दृक्शक्तिश्चिद्रूपत्वात् , अस्ति च प्रधानस्य सर्गशक्तिस्त्रिगुणत्वात् , तयोः शक्त्योर्दृश्यसृष्टी विना सार्थक्यायोगात्प्रधानस्य सृष्टौ प्रवृत्तिरिति चेत् । न । शक्त्योर्नित्यत्वात्सृष्टिनित्यत्वापत्तिरित्याह -
दृक्शक्तीति ॥६॥
पुरुषस्य प्रवर्तकत्वं निरस्तमपि दृष्टान्तेन पुनराशङ्क्य निषेधति -
पुरुषाश्मवदिति चेत्तथापि ।
प्रधानस्य स्वातन्त्र्यं पुरुषस्यौदासीन्यं चाभ्युपेतं त्यज्यत इति वदन्तं साङ्ख्यम्प्रत्याह -
कथं चेति ।
पुरुषस्य परिस्पन्दः प्रयत्नगुणो वा नास्तीति वक्तुं हेतुद्वयम् । प्रधानपुरुषयोर्नित्यत्वाद्व्यापित्वाच्च नित्यः सन्निधिः, अश्मनस्तु परिमार्जनमृजुत्वेन स्थापनमनित्यसन्निधिश्चेति व्यापारोऽस्तीत्यनुपन्यासः, समदृष्टान्तोपन्यासो न भवतीत्यर्थः ।
ननु चिज्जडयोर्द्रष्टृदृश्यभावयोग्यतास्ति, तया तद्भावः सम्बन्ध इत्यत आह -
योग्यतेति ।
चिज्जडत्वरूपाया योग्यताया नित्यत्वात्सम्बन्धनित्यत्वापत्तिरित्यर्थः ।
यथा स्वतन्त्रप्रधानप्रवृत्तिपक्षो भोगोऽपवर्ग उभयं वा फलमिति विकल्प्य दूषितः, एवं पुरुषाधीनप्रधानप्रवृत्तिपक्षोऽपि फलाभावेन दूषणीय इत्याह -
पूर्ववच्चेति ।
सिद्धान्ते परमात्मन उदासीनस्य कथं प्रवर्तकत्वमित्याशङ्क्याह -
परमात्मेति ।
साङ्ख्यमते उभयं विरुद्धं सत्यत्वात् ।अस्मन्मते कल्पिताकल्पितयोरविरोध इत्यतिशयः ॥७॥
किं प्रधानावस्था कूटस्थवन्नित्या, उत विकारिणी । आद्ये दोषमाह -
तस्यामिति ।
अङ्गाङ्गिभावे साम्यस्वरूपनाशः स्यात् , ततः कौटस्थ्यभङ्ग इति भयादङ्गाङ्गित्वानुपपत्तेः सृष्ट्यनुपपत्तिरित्यर्थः ।
द्वितीयं दूषयति -
बाह्यस्येति ।
चिरकालस्थितस्य साम्यस्य च्युतौ निमित्तं वाच्यं तन्नास्तीत्यर्थः ॥८॥
गुणानां मिथोऽनपेक्षस्वभावत्वान्न स्वतो वैषम्यमित्युक्तम् , तत्र हेत्वसिद्धिमाशङ्क्य सूत्रकारः परिहरति -
अन्यथेति ।
अनपेक्षस्वभावादन्यथा सापेक्षत्वेन गुणानामनुमानात्पूर्वसूत्रोक्तो दोषो न प्रसज्यते ।
न चैवमपसिद्धान्तः, कार्यानुसारेण गुणस्वभावाङ्गीकारादित्याह -
चलं गुणवृत्तमिति ।
पूर्वसूत्रोक्ताङ्गाङ्गित्वानुपपत्तिदोषाभावमङ्गीकृत्य परिहरति -
एवमपीति ।
कार्यार्थं ज्ञानशक्तिकल्पने ब्रह्मवादः स्यादित्यर्थः ।
अङ्गीकारं त्यजति -
वैषम्येति ॥९॥
सूत्रं व्याचष्टे -
परस्परेति ।
त्वङ्मात्रमेव ज्ञानेन्द्रियमेकमनेकशब्दादिज्ञानकारणम् , पञ्च कर्मेन्द्रियाणि मनश्चेति सप्तेन्द्रियाणि, ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च मनश्चेत्येकादश । बुद्धिरहङ्कारो मन इति त्रीणि । एकमिति बुद्धिरेव ।
एवं पूर्वापरविरोधादिति व्याख्याय श्रुतिस्मृतिविप्रतिषेधाच्चेत्यर्थान्तरमाह -
प्रसिद्ध इति ।
तस्माद्भ्रान्तिमूलत्वात्साङ्ख्यशास्त्रस्य तेन निर्देषवेदान्तसमन्वयस्य न विरोध इति सिद्धम् ।
स्वमतासामञ्जस्यमसहमानः साङ्ख्यः प्रत्यवतिष्ठते -
अत्राहेति ।
तप्यो जीवस्तापकः संसारस्तयोर्भेदानङ्गीकाराल्लोकप्रसिद्धस्तप्यतापकभावो लुप्येतेत्यर्थः ।
विवृणोति -
एकं हीति ।
तथा च भेदव्यवहारलोप इत्यसमञ्जसमित्यर्थः ।
ननु तयोरुपादानैक्येऽपि मिथो भेदोऽस्त्येव यथैकवह्न्यात्मकयोरौष्ण्यप्रकाशयोः, अतो न व्यवहारलोप इत्याशङ्क्य वह्नेरिव ताभ्यामात्मनोमोक्षो न स्यादित्याह -
यदि चेत्यादिना ।
ननु सत्यपि धर्मिणि स्वभावनाशो मोक्ष उपपद्यते, सत्येव जले वीच्यादिनाशदर्शनादित्याशङ्क्य दृष्टान्तासिद्धिमाह -
योऽपीति ।
किञ्च भेदाङ्गीकारेऽपसिद्धान्तः, अनङ्गीकारे लेकप्रसिद्धिबाध इत्याह -
प्रसिद्धश्चेति ।
अर्थो ह्यर्जनालाभादिनार्थिनं तापयतीति तापकः, अर्थी तप्यस्तयोरभेदे बाधकमाह -
यदीति ।
अर्थिनोऽन्यस्यार्थस्याभावादर्थित्वाभाववदर्थादन्यस्यार्थिनोऽसत्त्वादर्थत्वाभावः प्रसज्येतेत्याह -
तथार्थस्यापीति ।
प्रसङ्गस्येष्टत्वं निराकरोति -
न चैतदस्तीति ।
अर्थत्वं हि कामनाविषयत्वम् , तच्च काम्यादन्यस्य कामयितुरसत्त्वान्न स्यात् । न हि स्वस्य स्वार्थत्वमस्ति काम्यस्यैव कामयितृत्वायोगात् । तस्माद्भेदोऽङ्गीकार्य इत्यर्थः ।
इतश्च भेद इत्याह -
सम्बन्धीति ।
तथानर्थानर्थिनावपि भिन्नावित्यन्वयः ।
अर्थानर्थयोः स्वरूपोक्तिपूर्वकं तापकत्वं स्फुटयति -
अर्थिनोऽनुकूल इति ।
अद्वैतमते मुक्तेरयोगमुक्त्वा स्वमते योगमाह -
जात्यन्तरेति ।
तया तप्यया बुद्ध्या पुरुषस्य संयोगः स्वस्वामिभावस्तस्य हेतुरनादिरविवेकस्तस्य परिहारो विवेकस्तस्मान्नित्यमुक्तस्यापि पुरुषस्य कथञ्चिदुपचारान्मोक्षोपपत्तिरित्यर्थः । यथा योद्धृगतौ जयपराजयौ राजन्युपचर्येते तथा पुरुषादत्यन्तभिन्नबुद्धिगतौ बन्धमोक्षौ पुरुषे उपचर्येते । तदुक्तम् 'सैव च बध्यते मुच्यते च' इति ।
सिद्धान्तयति -
अत्रेति ।
किं परमार्थदृष्ट्या तप्यतापकभावानुपपत्तिरुच्यते, व्यवहारदृष्ट्या वा । नाद्य इत्याह -
न । एकत्वादेवेति ।
दोषत्वमिति शेषः ।
तस्या अदोषत्वं विवृणोति -
भवेदित्यादिना ।
एतत्तात्त्विकं विषयविषयित्वं न त्वस्तीत्यर्थः ।
यत्र तप्यतापकभावो दृष्टस्तत्रैवेति व्यवहारपक्षमादाय सिद्धान्ती ब्रूते -
किं न पश्यसीति ।
देहस्य तप्यत्वे देहात्मवादापत्तिरिति शङ्कते -
नन्विति ।
अचेतनस्यैव देहस्य तप्तिर्नेति वदता साङ्ख्येन वक्तव्यं किं चेतनस्य केवलस्य तप्तिः, किं वा देहसंहतस्य, उत तप्तेः, आहोस्वित्सत्त्वस्य । नाद्य इत्याह -
उच्यत इति ।
न द्वितीयतृतीयावित्याह -
नापीत्यादिना ।
चतुर्थं शङ्कते -
सत्त्वमिति ।
सत्त्वरजसोस्तप्यतापकत्वे पुरुषस्य बन्धाभावाच्छास्त्रारम्भवैयर्थ्यमिति परिहरति -
न । ताभ्यामिति ।
असङ्गत्वेऽपि पुरुषस्य तप्यसत्त्वप्रतिबिम्बत्वात्तप्तिरिति शङ्कते -
सत्त्वेति ।
तर्हि जलचन्द्रस्य चलनवन्मिथ्यैव तप्तिरित्यस्मत्पक्ष आगत इत्याह -
परमार्थत इति ।
इवशब्दमात्रेण कथं मिथ्या तप्त्यवगम इति चेत्तदुच्यते - इवशब्दस्तप्यबुद्धिसत्त्वसादृश्यं ब्रूते, तच्च सादृश्यं पुरुषस्य तप्यत्वरूपं चेत्कल्पितमेव वस्तुतस्तप्त्यभावादित्युपपादयति -
न चेदिति ।
पुरुषो वस्तुतस्तप्तिशून्यश्चेदिवशब्दो न दोषाय मिथ्यातप्तिपरत्वादित्यर्थः ।
मिथ्यासादृश्यमेव दोष इति चेत् , नेत्याह -
न हीति ।
सविषयत्वं निर्विषयत्वं चेवशब्दार्थः कल्पित एव द्रष्टव्यः । साङ्ख्यस्याविद्यके तप्यतापकत्वे सति ममापि किञ्चिन्न दुष्यति किन्तु दृष्टमेव सम्पन्नमित्यर्थः । यदि मिथ्यातप्यत्वाङ्गीकारेऽपसिद्धान्तः स्यादिति भीत्या सत्यं तप्यत्वं पुरुषस्योच्यते तथाप्यपसिद्धान्तः, कौटस्थ्यहानात् ।
अनिर्मोक्षश्च, सत्यस्यात्मवन्निवृत्त्योगादित्याह -
अथेत्यादिना ।
किञ्च रजसो नित्यत्वाद्दुःखसातत्यमित्याह -
नित्यत्वेति ।
अत्र साङ्ख्यः शङ्कते -
तप्येति ।
सत्त्वं पुरुषो वा तप्यशक्तिः, तापकशक्तिस्तु रजः, निमित्तमविवेकात्मकदर्शनं तमस्तेन सहितः सनिमित्तः संयेगः पुरुषस्य गुणस्वामित्वरूपस्तदपेक्षत्वादित्यर्थः । मोक्षस्तप्त्यभावः ।
निमित्तस्य निवृत्त्यभावान्न मोक्ष इति सिद्धान्ती परिहरति -
नेति ।
तमसो निवृत्त्यभावेऽपि विवेकेनोपरमान्मोक्ष इत्यत आह -
गुणानां चेति ।
'चलं गुणवृत्तम्' इत्यङ्गीकारादिति भावः ।
परपक्षे बन्धमोक्षानुपपत्तिमुक्त्वा स्वपक्षमुपसंहरति -
औपनिषदस्य त्विति ।
वस्तुत एकत्वेन बन्धाभावान्न मुक्त्यभावशङ्कावसरः । व्यवहारस्तु भेदाङ्गीकारात्तप्यतापकभावो बन्धः तत्त्वज्ञानात्तन्निवृत्तिश्चोपपद्यत इति न चोद्यावसर इत्यर्थः ॥१०॥