भाष्यरत्नप्रभाव्याख्या
प्रतर्दनाधिकरणम्
प्राणस्तथानुगमात् ।
दिवोदासस्यापत्यं दैवोदासिः प्रतर्दनो नाम राजा युद्धेन पुरुषकारेण च कारणेनेन्द्रस्य प्रेमास्पदं गृहं जगाम । तं ह इन्द्र उवाच, प्रतर्दन वरं ते ददानीति । स होवाच प्रतर्दनः, यं त्वं मर्त्याय हिततमं मन्यसे तं वरं त्वमेवालोच्य मह्यं देहीति । तत इन्द्र इदमाह 'प्राणोऽस्मि' इत्यादि । मुख्यं प्राणं निरसितुं प्रज्ञात्मत्वमुक्तम् ।
निर्विशेषचिन्मात्रं निरस्यति
तं मामिति ।
इदं प्राणस्येन्द्रदेवतात्वे लिङ्गम् ।
मुख्यप्राणत्वे लिङ्गमाह
अथेति ।
वागादीनां देहधारणशक्त्यभावनिश्चयानन्तरमित्यर्थः ।
प्राणस्य देहधारकत्वमुत्थापकत्वं च प्रसिद्धमिति वक्तुं खल्वित्युक्तम् । प्राणस्य जीवत्वे वक्तृत्वं लिङ्गमाह
न वाचमिति ।
आनन्दत्वादिकं ब्रह्मलिङ्गमाह
अन्ते चेति ।
अनेकेषु लिङ्गेषु दृश्यमानेषु बलाबलनिर्णयार्थमिदमधिकरणममित्यगतार्थमाह
अनेकलिङ्गेति ।
पूवर्त्र प्रकृतब्रह्मवाचकयच्छब्दबलाज्ज्योतिःश्रुतिःब्रह्मपरेत्युक्तम् , न तथेह प्राणश्रुतिभङ्गे किञ्चिद्बलमस्ति, मिथो विरुद्धानेकलिङ्गानामनिश्चायकत्वादिति प्रत्युदाहरणसङ्गत्या पूर्वपक्षयति
तत्रेति ।
पूर्वं प्रधानप्रातिपदिकार्थबलात्विभक्त्यर्थबाधवद्वाक्यार्थज्ञानं प्रति हेतुत्वेन प्रधानानेकपदार्थबलादेकवाक्यताभङ्ग इति दृष्टान्तसङ्गतिर्वास्तु । पूर्वपक्षे प्राणाद्यनेकोपास्तिः, सिद्धान्ते प्रत्यग्ब्रह्मधीरिति विवेकः ।
तथा ब्रह्मपरत्वेन पदानामन्वयावगमादिति हेत्वर्थमाह
तथाहीति ।
हिततमत्वकर्मक्षयादिपदार्थानां सम्बन्धो ब्रह्मणि तात्पर्यनिश्चायक उपलभ्यत इत्युक्तं विवृणोति
उपक्रम इत्यादिना ।
यं मन्यसे तं वरं त्वमेव प्रयच्छेत्यर्थः ।
स यः कश्चिन्मां ब्रह्मरूपं वेदसाक्षादनुभवति, तस्य विदुषो लोको मोक्षो महतापि पातकेन न ह मीयते नैव हिंस्यते न प्रतिबध्यते ज्ञानाग्निना कर्मतूलराशेर्दग्धत्वादित्याह
स य इति ।
साध्वसाधुनी पुण्यपापे । ताभ्यामस्पृष्टत्वम् , तत्कारयितृत्वम् , निरङ्कुशैश्वर्यं च सर्वमेतदित्यर्थः ॥ २८ ॥
अहङ्कारवादेन स्वात्मवाचकशब्दैराचचक्षे, उक्तवानित्यर्थः । वाक्यस्य इन्द्रोपासनापरत्वे लिङ्गान्तरमाह
तथा विग्रहेति ।
त्रीणि शीर्षाणि यस्येति त्रिशीर्षा त्वष्टुः पुत्रो विश्वरूपो नाम ब्राह्मणः तं हतवानस्मि । रौति यथार्थं शब्दयतीति रुत् वेदान्तवाक्यम् , तन्मुखे येषां ते रुन्मुखास्तेभ्योऽन्यान्वेदान्तबहिर्मुखान् यतीनरण्यश्वभ्यो दत्तवानस्मीत्यर्थः ।
इन्द्रे प्राणशब्दोपपत्तिमाह
प्राणत्वं चेति ।
वदन्ति लौकिका अपीत्यर्थः । बलवाचिना प्राणशब्देन बलदेवता लक्ष्यत इति भावः ।
इन्द्रो हितप्रदातृत्वाद्धिततमः, कर्मानधिकारादपाप इत्येवं व्याख्येयानीत्याह
निश्चिते चेति ।
किमिन्द्रपदेन विग्रहोपलक्षितं चिन्मात्रमुच्यते उत विग्रहः । आद्ये वाक्यस्य ब्रह्मपरत्वं सिद्धम् । न द्वितीय इत्याह
अध्यात्मेति ।
आत्मनि देहेऽधिगत इत्यध्यात्मं प्रत्यगात्मा । स सम्बध्यते यैः शरीरस्थत्वादिभिरिन्द्रतनावसम्भावितैर्धर्मैस्ते अध्यात्मसम्बन्धास्तेषां भूमेत्यर्थः ।
आयुरत्र देहे प्राणवायुसञ्चारः । अस्तित्वे प्राणस्थितौ प्राणानामिन्द्रियाणां स्थितिरित्यर्थतः श्रुतिमाह
अस्तित्व इति ।
'अथातो निश्रेयसादानम्' इत्याद्या श्रुतिः ।
इन्द्रियस्थापकत्ववद्देहोत्थापकत्वमाह
तथेति ।
वक्तृत्वमुक्त्वा सर्वाधिष्ठानत्वं दर्शितमित्याह
इति चोपक्रम्येति ।
तत्तत्र नानाप्रपञ्चस्यात्मनि कल्पनायां यथा दृष्टान्तः, लोके प्रसिद्धस्य रथस्यारेषु नेमिनाभ्योर्मध्यस्थशलाकासु चक्रोपान्तरूपा नेमिरर्पिता, नाभौचक्रपिण्डिकायामरा अर्पिताः, एवं भूतानि पञ्च पृथिव्यादीनि मीयन्त इति, मात्राः भोग्याः शब्दादयः पञ्चेति दश भूतमात्राः प्रज्ञामात्रासु दशस्वर्पिताः । इन्द्रियजाः पञ्च शब्दादिविषयप्रज्ञाः मीयन्ते आभिरिति मात्राः पञ्च धीन्द्रियाणि । नेमिवद्ग्राह्यं ग्राहकेषु अरेषु कल्पितमित्युक्त्वा नाभिस्थानीये प्राणे सर्वं कल्पितमित्याह
प्राणेऽर्पिता इति ।
स प्राणो मम स्वरूपमित्याह
स म इति ।
तर्हि प्रत्यगात्मनि समन्वयो न तु ब्रह्मणि, तत्राह
अयमिति ॥ २९ ॥
अहङ्कारवादस्य गतिं पृच्छति
कथमिति ।
सूत्रमुत्तरम् । तद्व्याख्याति
इन्द्र इति ।
जन्मान्तरकृतश्रवणादिना अस्मिञ्जन्मनि स्वतःसिद्धं दर्शनमार्षम् । विज्ञेयेन्द्रस्तुत्यर्थ उपन्यासो न चेत्कथं तर्हि स इति पृच्छति
कथमिति ।
ब्रह्मज्ञानस्तुत्यर्थः स इत्याह
विज्ञानेति ।
नियामकं ब्रूते
यदिति ।
परेण ।
'तस्य मे' इत्यादिना वाक्येनेत्यन्वयः ।
स्तुतिमाह
एतदुक्तमिति ।
तस्माज्ज्ञानं श्रेष्ठमिति शेषः ।
स्तुतज्ञानविषय इन्द्र इत्यत आह
विज्ञेयं त्विति ॥ ३० ॥
देहोत्थापनं जीवलिङ्गं किं न स्यात् , तत्राह
शरीरधारणं चेति ।
सर्वे वागादयः प्राणा अहमहं श्रेष्ठ इति विवदमानाः प्रजापतिमुपजग्मुः । स च तानुवाच, यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरं पतिष्यति स वः श्रेष्ठ इति तथाक्रमेण वागादिषूत्क्रान्तेष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् । मुख्यप्राणस्य तु उच्चिक्रमिषायां सर्वेषां व्याकुलत्वाप्तौ तान्वागादीन्वरिष्ठः प्राण उवाच, यूयं मोहं मापद्यथ यतोऽहमेवैतत्करोमि । किं तत् , पञ्चधा प्राणापानादिभावेनात्मानं विभज्य एतद्वाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्याश्रित्य धारयामीत्यर्थः ।
द्विवचनसहवासोत्क्रान्तिश्रुतेश्च न ब्रह्म ग्राह्यमित्याह
जीवमुख्येति ।
अभेदनिर्देशमाह
यो वा इति ।
भेदमाह
सहेति ।
यदि जीवमुख्यप्राणयोर्लिङ्गादुपास्यत्वं तर्हि ब्रह्मणोऽपि लिङ्गानामुक्तत्वादुपासनं स्यात् । न चेष्टापत्तिः । उपक्रमादिन निश्चितैकवाक्यताभङ्गप्रसङ्गादित्याह
नैतदेवमित्यादिना ।
नच स्वतन्त्रपदार्थभेदाद्वाक्यभेदः किं न स्यादिति वाच्यम् , जीवमुख्यप्राणयोरुक्तलिङ्गानां ब्रह्मणिनेतुं शक्यतया स्वातन्त्र्यासिद्धेः, अफलपदार्थस्य फलवद्वाक्यार्थशेषत्वेन प्रधानवाक्यार्थानुसारेण तल्लिङ्गनयस्योचितत्वाच्च । नहि प्रधानवाक्यार्थब्रह्मलिङ्गमन्यथा नेतुं शक्यम् , न वा तदुचितमित्याह
नच ब्रह्मलिङ्गमिति ।
सूत्रशेषं व्याचष्टे
आश्रितत्वाच्चेति ।
अन्यत्र 'अत एव प्राणः' इत्यादौ वृत्तेराश्रितत्वादिहापि तस्य ब्रह्मलिङ्गस्य योगाद्ब्रह्मपर एव प्राणशब्द इत्यर्थः ।
प्राणादिलिङ्गानि सर्वात्मके ब्रह्मण्यनायासेन नेतुं शक्यनीत्याह
यत्त्वित्यादिना ।
यस्मिन्नेतौ प्रेर्यत्वेन स्थितौ तेनेतरेण ब्रह्मणा सर्वे प्राणादिव्यापारं कुर्वन्तीत्यर्थः । विशेषं परिच्छेदाभिमानमित्यर्थः ।
'वक्तारं विद्यात्' इति न वक्तुर्ज्ञेयत्वमुच्यते, तस्य लोकसिद्धत्वात् , किन्तु तस्य ब्रह्मत्वं बोध्यते । तद्बोधाभिमुख्याय लिङ्गादय इत्यत्र श्रुत्यन्तरमाह
यद्वाचेति ।
येन चैतन्येन वागभ्युद्यते स्वकार्याभिमुख्येन प्रेर्यते तदेव वागादिरगम्यं ब्रह्मेत्यर्थः ।
तत्त्वम्पदवाच्ययोः स्वरूपतो भेदस्ताभ्यामुपलक्ष्यात्मस्वरूपाभेदादेकत्वं निर्दिश्यत इत्याह
नैष दोष इति ।
स्वमतेन सूत्रं व्याख्याय वृत्तिकृन्मतेन व्याचष्टे
अथवेति ।
उपासनात्रित्वप्रसङ्गादिति पूर्वमुक्तम् । अत्र त्रिप्रकारकस्यैकब्रह्मविशेषेकस्यैकस्योपासनस्य विवक्षितत्वादित्यर्थः । अतो न वाक्यभेद इति भावः ।
देहचेष्टात्मकजीवनहेतुत्वं प्राणस्यायुष्ट्वं देहापेक्षया तस्य आमुक्तेरवस्थानादमृतत्वम् , उत्थापयतीत्युक्थत्वमिति प्राणधर्मः । जीवधर्मानाह
अथेति ।
बुद्धिप्राणयोः सहस्थित्युत्क्रान्त्युक्त्यनन्तरमित्यर्थः ।
अत्र प्रज्ञापदेन साभासा जीवाख्या बुद्धिरुच्यते । तस्याः सम्भन्धीनि दृश्यानि सर्वाणि भूतानि यथैकं भवन्त्यधिष्ठानचिदात्मना तथा व्याख्यास्याम इत्युपक्रम्योक्तम्
'वागेव' इत्यादि ।
चक्षुरेवास्या एकमङ्गमदूदुहदित्यादिपर्यायाणां सङ्क्षिप्तार्थमुच्यते । उत्पन्नाया असत्कल्पनायाः साभासबुद्धेर्नामप्रपञ्चविषयित्वमर्धं शरीरम् , अर्थात्मकरूपप्रपञ्चविषयित्वमर्धं शरीरमिति मिलित्वा विषयित्वाख्यं पूर्णं शरीरमिन्द्रियसाध्यम् । तत्र कर्मेन्द्रियेषु वागेवास्याः प्रज्ञाया एकमङ्गं देहार्धमदूदुहत्पूरयामास । वागिन्द्रियद्वारा नामप्रपञ्चविषयित्वं बुद्धिर्लभत इत्यर्थः । चतुर्थी षष्ठ्यर्था । तस्याः पुनर्नाम किल चक्षुरादिना प्रतिविहिता ज्ञापिताभूतमात्रा रूपाद्यर्थरूपा परस्तादपरार्धे कारणं भवति । ज्ञानकारणद्वरार्थप्रपञ्चविषयित्वं बुद्धिः प्राप्नोतीत्यर्थः ।
एवं बुद्धेः सर्वार्थद्रष्टृत्वमुपपाद्य तन्निष्ठचित्प्रतिबिम्बद्वारा साक्षिणि द्रष्टृत्वाध्यासमाह
प्रज्ञयेति ।
बुद्धिद्वारा चिदात्मा वाचमिन्द्रियंसमारुह्य तस्याः प्रेरको भूत्वा वाचा करणेन सर्वाणि नामानि वक्तव्यत्वेनाप्नोति, चक्षुषा सर्वाणि रूपाणि पश्यतीत्येवं द्रष्टा भवतीत्यर्थः ।
तथाच सर्वद्रष्टृत्वं चिदात्मनि द्रष्टृत्वाध्यासनिमित्तत्वं च बुद्धेर्धर्म इत्युक्तं भवति सर्वाधारत्वानन्दत्वादिः ब्रह्मधर्म इत्याह
ता वा इति ।
दशत्वं व्याख्यातम् ।
प्रज्ञा इन्द्रियजात्या अधिकृत्य ग्राह्या भूतमात्रा वर्तन्ते, प्रज्ञामात्रा इन्द्रियाणि ग्राह्यं भूतजातमधिकृत्य वर्तन्त इति ग्राह्य ग्राहकयोर्मिथः सापेक्षत्वमुक्तं साधयति
यदिति ।
तदेव स्फुटयति
न हीति ।
ग्राह्येण ग्राह्यस्वरूपं न सिध्यति किन्तु ग्राहकेण । एवं ग्राहकमपि ग्राह्यमनपेक्ष्य न सिध्यति । तस्मात्सापेक्षत्वादेतद्ग्राह्यग्राहकद्वयं वस्तुतो न भिन्नं किन्तु चिदात्मन्यरोपितमित्याह
नो इति ।
तद्यथेत्यादि कृतव्याख्यानम् ।
सूत्रार्थमुपसंहरति
तस्मादिति ।
अन्यधर्मेणान्यस्योपासनं कथमित्याशङ्क्याश्रितत्वादित्याह
अन्यत्रापीति ।
उपाधिर्जीवः । तत् अन्यधर्मेणोपासनम् । इयमसङ्गता व्याख्या । तथाहिन तावदारुण्याद्यनेकगुणविशिष्टप्राप्तक्रयणवदुपासात्रयविशिष्टस्य ब्रह्मणो विधिः सम्भवति, सिद्धस्य विध्यनर्हत्वात् । नापि ब्रह्मानुवादेनोपासात्रयविधिः, वाक्यभेदात् । नच नानाधर्मविशिष्टमेकमुपासनं विधीयत इति वाच्यम् , तादृशविधिवाक्यस्यात्राश्रवणात् । नच 'तं मामायुरमृतमित्युपाःस्व' इत्यत्र मामिति जीवेन, आयुरिति प्राणेन, अमृतमिति ब्रह्मणा स्वस्वधर्मवता विशिष्टोपासनाविधिरिति वाच्यम् , सर्वेषां धर्माणामश्रवणात् , ब्रह्माश्रुतेश्च । 'प्राणो वा अमृतम्' इति प्राणस्यैवामृतत्वश्रुतेः । अत उपासनाविधिलुब्धेन 'वक्तारं विद्यात्' 'एतदेवोक्थमुपासीत' 'स म आत्मेति विद्यात्' इति जीवप्राणब्रह्मोपासनविधयः, अन्ये गुणविधय इति स्वीकृत्यैकवाक्यत्वं त्याज्यम् , तच्चायुक्तम् , उपक्रमादिनैकवाक्यतानिर्णयादिति ।
तस्माज्ज्ञेयप्रत्यग्ब्रह्मपरमिदं वाक्यमित्युपसंहरति
तस्मादिति ॥ ३१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥