अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

प्रतर्दनाधिकरणम्

प्राण­स्त­था­नु­ग­मात् ।
दिवो­दा­स­स्या­पत्यं दैवोदासिः प्रतर्दनो नाम राजा युद्धेन पुरुषकारेण च कारणेनेन्द्रस्य प्रेमास्पदं गृहं जगाम । तं ह इन्द्र उवाच, प्रतर्दन वरं ते ददानीति । स होवाच प्रतर्दनः, यं त्वं मर्त्याय हिततमं मन्यसे तं वरं त्वमेवालोच्य मह्यं देहीति । तत इन्द्र इदमाह 'प्राणोऽस्मि' इत्यादि । मुख्यं प्राणं निरसितुं प्रज्ञा­त्म­त्व­मु­क्तम् ।

निर्वि­शे­ष­चि­न्मात्रं निरस्यति
तं मामिति ।
इदं प्राण­स्ये­न्द्र­दे­व­तात्वे लिङ्गम् ।

मुख्यप्राणत्वे लिङ्गमाह
अथेति ।
वागादीनां देह­धा­र­ण­श­क्त्य­भा­व­नि­श्च­या­न­न्त­र­मि­त्यर्थः ।

प्राणस्य देह­धा­र­क­त्व­मु­त्था­प­कत्वं च प्रसिद्धमिति वक्तुं खल्वित्युक्तम् । प्राणस्य जीवत्वे वक्तृत्वं लिङ्गमाह
न वाचमिति ।

आनन्दत्वादिकं ब्रह्मलिङ्गमाह
अन्ते चेति ।

अनेकेषु लिङ्गेषु दृश्यमानेषु बला­ब­ल­नि­र्ण­या­र्थ­मि­द­म­धि­क­र­ण­म­मि­त्य­ग­ता­र्थ­माह
अनेकलिङ्गेति ।

पूवर्त्र प्रकृ­त­ब्र­ह्म­वा­च­क­य­च्छ­ब्द­ब­ला­ज्ज्यो­तिः­श्रु­तिः­ब्र­ह्म­प­रे­त्यु­क्तम् , न तथेह प्राण­श्रु­ति­भङ्गे किञ्चि­द्ब­ल­मस्ति, मिथो विरु­द्धा­ने­क­लि­ङ्गा­ना­म­नि­श्चा­य­क­त्वा­दिति प्रत्यु­दा­ह­र­ण­स­ङ्गत्या पूर्वपक्षयति
तत्रेति ।
पूर्वं प्रधा­न­प्रा­ति­प­दि­का­र्थ­ब­ला­त्वि­भ­क्त्य­र्थ­बा­ध­व­द्वा­क्या­र्थ­ज्ञानं प्रति हेतुत्वेन प्रधा­ना­ने­क­प­दा­र्थ­ब­ला­दे­क­वा­क्य­ता­भङ्ग इति दृष्टा­न्त­स­ङ्ग­ति­र्वास्तु । पूर्वपक्षे प्राणा­द्य­ने­को­पास्तिः, सिद्धान्ते प्रत्य­ग्ब्र­ह्म­धी­रिति विवेकः ।

तथा ब्रह्मपरत्वेन पदा­ना­म­न्व­या­व­ग­मा­दिति हेत्वर्थमाह
तथाहीति ।

हित­त­म­त्व­क­र्म­क्ष­या­दि­प­दा­र्थानां सम्बन्धो ब्रह्मणि तात्प­र्य­नि­श्चा­यक उपलभ्यत इत्युक्तं विवृणोति
उपक्रम इत्यादिना ।
यं मन्यसे तं वरं त्वमेव प्रयच्छेत्यर्थः ।

स यः कश्चिन्मां ब्रह्मरूपं वेद­सा­क्षा­द­नु­भ­वति, तस्य विदुषो लोको मोक्षो महतापि पातकेन न ह मीयते नैव हिंस्यते न प्रतिबध्यते ज्ञानाग्निना कर्म­तू­ल­रा­शे­र्द­ग्ध­त्वा­दि­त्याह
स य इति ।
साध्वसाधुनी पुण्यपापे । ताभ्या­म­स्पृ­ष्ट­त्वम् , तत्कारयितृत्वम् , निर­ङ्कु­शै­श्वर्यं च सर्व­मे­त­दि­त्यर्थः ॥ २८ ॥

अहङ्कारवादेन स्वात्म­वा­च­क­श­ब्दै­रा­च­चक्षे, उक्तवानित्यर्थः । वाक्यस्य इन्द्रो­पा­स­ना­प­रत्वे लिङ्गान्तरमाह
तथा विग्रहेति ।
त्रीणि शीर्षाणि यस्येति त्रिशीर्षा त्वष्टुः पुत्रो विश्वरूपो नाम ब्राह्मणः तं हतवानस्मि । रौति यथार्थं शब्दयतीति रुत् वेदान्तवाक्यम् , तन्मुखे येषां ते रुन्मु­खा­स्ते­भ्योऽ­न्या­न्वे­दा­न्त­ब­हि­र्मु­खान् यतीनरण्यश्वभ्यो दत्त­वा­न­स्मी­त्यर्थः ।

इन्द्रे प्राण­श­ब्दो­प­प­त्ति­माह
प्राणत्वं चेति ।
वदन्ति लौकिका अपीत्यर्थः । बलवाचिना प्राणशब्देन बलदेवता लक्ष्यत इति भावः ।

इन्द्रो हित­प्र­दा­तृ­त्वा­द्धि­त­तमः, कर्मा­न­धि­का­रा­द­पाप इत्येवं व्याख्ये­या­नी­त्याह
निश्चिते चेति ।

किमिन्द्रपदेन विग्रहोपलक्षितं चिन्मा­त्र­मु­च्यते उत विग्रहः । आद्ये वाक्यस्य ब्रह्मपरत्वं सिद्धम् । न द्वितीय इत्याह
अध्यात्मेति ।
आत्मनि देहेऽधिगत इत्यध्यात्मं प्रत्यगात्मा । स सम्बध्यते यैः शरी­र­स्थ­त्वा­दि­भि­रि­न्द्र­त­ना­व­स­म्भा­वि­तै­र्ध­र्मैस्ते अध्या­त्म­स­म्ब­न्धा­स्तेषां भूमेत्यर्थः ।

आयुरत्र देहे प्राण­वा­यु­स­ञ्चारः । अस्तित्वे प्राणस्थितौ प्राणा­ना­मि­न्द्रि­याणां स्थिति­रि­त्य­र्थतः श्रुतिमाह
अस्तित्व इति ।
'अथातो निश्रे­य­सा­दा­नम्' इत्याद्या श्रुतिः ।

इन्द्रि­य­स्था­प­क­त्व­व­द्दे­हो­त्था­प­क­त्व­माह
तथेति ।

वक्तृ­त्व­मुक्त्वा सर्वा­धि­ष्ठा­नत्वं दर्शितमित्याह
इति चोपक्रम्येति ।

तत्तत्र नाना­प्र­प­ञ्च­स्या­त्मनि कल्पनायां यथा दृष्टान्तः, लोके प्रसिद्धस्य रथस्यारेषु नेमि­ना­भ्यो­र्म­ध्य­स्थ­श­ला­कासु चक्रोपान्तरूपा नेमिरर्पिता, नाभौ­च­क्र­पि­ण्डि­का­या­मरा अर्पिताः, एवं भूतानि पञ्च पृथिव्यादीनि मीयन्त इति, मात्राः भोग्याः शब्दादयः पञ्चेति दश भूतमात्राः प्रज्ञामात्रासु दशस्वर्पिताः । इन्द्रियजाः पञ्च शब्दा­दि­वि­ष­य­प्रज्ञाः मीयन्ते आभिरिति मात्राः पञ्च धीन्द्रियाणि । नेमिवद्ग्राह्यं ग्राहकेषु अरेषु कल्पि­त­मि­त्युक्त्वा नाभिस्थानीये प्राणे सर्वं कल्पितमित्याह
प्राणेऽर्पिता इति ।

स प्राणो मम स्वरूपमित्याह
स म इति ।

तर्हि प्रत्यगात्मनि समन्वयो न तु ब्रह्मणि, तत्राह
अयमिति ॥ २९ ॥

अहङ्कारवादस्य गतिं पृच्छति
कथमिति ।

सूत्रमुत्तरम् । तद्व्याख्याति
इन्द्र इति ।

जन्मा­न्त­र­कृ­त­श्र­व­णा­दिना अस्मिञ्जन्मनि स्वतःसिद्धं दर्शनमार्षम् । विज्ञे­ये­न्द्र­स्तु­त्यर्थ उपन्यासो न चेत्कथं तर्हि स इति पृच्छति
कथमिति ।

ब्रह्म­ज्ञा­न­स्तु­त्यर्थः स इत्याह
विज्ञानेति ।

नियामकं ब्रूते
यदिति ।

परेण ।
'तस्य मे' इत्यादिना वाक्ये­ने­त्य­न्वयः ।

स्तुतिमाह
एतदुक्तमिति ।
तस्माज्ज्ञानं श्रेष्ठमिति शेषः ।

स्तुतज्ञानविषय इन्द्र इत्यत आह
विज्ञेयं त्विति ॥ ३० ॥

देहोत्थापनं जीवलिङ्गं किं न स्यात् , तत्राह
शरीरधारणं चेति ।
सर्वे वागादयः प्राणा अहमहं श्रेष्ठ इति विवदमानाः प्रजा­प­ति­मु­प­जग्मुः । स च तानुवाच, यस्मि­न्नु­त्क्रान्ते शरीरं पापिष्ठतरं पतिष्यति स वः श्रेष्ठ इति तथाक्रमेण वागा­दि­षू­त्क्रा­न्ते­ष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् । मुख्यप्राणस्य तु उच्चिक्रमिषायां सर्वेषां व्याकुलत्वाप्तौ तान्वा­गा­दी­न्व­रिष्ठः प्राण उवाच, यूयं मोहं मापद्यथ यतोऽ­ह­मे­वै­त­त्क­रोमि । किं तत् , पञ्चधा प्राणा­पा­ना­दि­भा­वे­ना­त्मानं विभज्य एतद्वाति गच्छतीति वानं तदेव बाणमस्थिरं शरी­र­म­व­ष्ट­भ्या­श्रित्य धारयामीत्यर्थः ।

द्विव­च­न­स­ह­वा­सो­त्क्रा­न्ति­श्रु­तेश्च न ब्रह्म ग्राह्यमित्याह
जीवमुख्येति ।

अभेदनिर्देशमाह
यो वा इति ।

भेदमाह
सहेति ।

यदि जीव­मु­ख्य­प्रा­ण­यो­र्लि­ङ्गा­दु­पा­स्यत्वं तर्हि ब्रह्मणोऽपि लिङ्गा­ना­मु­क्त­त्वा­दु­पा­सनं स्यात् । न चेष्टापत्तिः । उपक्रमादिन निश्चि­तै­क­वा­क्य­ता­भ­ङ्ग­प्र­स­ङ्गा­दि­त्याह
नैत­दे­व­मि­त्या­दिना ।

नच स्वत­न्त्र­प­दा­र्थ­भे­दा­द्वा­क्य­भेदः किं न स्यादिति वाच्यम् , जीव­मु­ख्य­प्रा­ण­यो­रु­क्त­लि­ङ्गानां ब्रह्मणिनेतुं शक्यतया स्वात­न्त्र्या­सिद्धेः, अफलपदार्थस्य फल­व­द्वा­क्या­र्थ­शे­ष­त्वेन प्रधा­न­वा­क्या­र्था­नु­सा­रेण तल्लि­ङ्ग­न­य­स्यो­चि­त­त्वाच्च । नहि प्रधा­न­वा­क्या­र्थ­ब्र­ह्म­लि­ङ्ग­म­न्यथा नेतुं शक्यम् , न वा तदुचितमित्याह
नच ब्रह्मलिङ्गमिति ।

सूत्रशेषं व्याचष्टे
आश्रि­त­त्वा­च्चेति ।
अन्यत्र 'अत एव प्राणः' इत्यादौ वृत्ते­रा­श्रि­त­त्वा­दि­हापि तस्य ब्रह्मलिङ्गस्य योगाद्ब्रह्मपर एव प्राणशब्द इत्यर्थः ।

प्राणा­दि­लि­ङ्गानि सर्वात्मके ब्रह्म­ण्य­ना­या­सेन नेतुं शक्यनीत्याह
यत्त्वित्यादिना ।
यस्मिन्नेतौ प्रेर्यत्वेन स्थितौ तेनेतरेण ब्रह्मणा सर्वे प्राणा­दि­व्या­पारं कुर्व­न्ती­त्यर्थः । विशेषं परि­च्छे­दा­भि­मा­न­मि­त्यर्थः ।

'वक्तारं विद्यात्' इति न वक्तु­र्ज्ञे­य­त्व­मु­च्यते, तस्य लोकसिद्धत्वात् , किन्तु तस्य ब्रह्मत्वं बोध्यते । तद्बो­धा­भि­मु­ख्याय लिङ्गादय इत्यत्र श्रुत्यन्तरमाह
यद्वाचेति ।
येन चैतन्येन वागभ्युद्यते स्वका­र्या­भि­मु­ख्येन प्रेर्यते तदेव वागादिरगम्यं ब्रह्मेत्यर्थः ।

तत्त्व­म्प­द­वा­च्ययोः स्वरूपतो भेद­स्ता­भ्या­मु­प­ल­क्ष्या­त्म­स्व­रू­पा­भे­दा­दे­कत्वं निर्दिश्यत इत्याह
नैष दोष इति ।

स्वमतेन सूत्रं व्याख्याय वृत्तिकृन्मतेन व्याचष्टे
अथवेति ।
उपा­स­ना­त्रि­त्व­प्र­स­ङ्गा­दिति पूर्वमुक्तम् । अत्र त्रिप्र­का­र­क­स्यै­क­ब्र­ह्म­वि­शे­षे­क­स्यै­क­स्यो­पा­स­नस्य विव­क्षि­त­त्वा­दि­त्यर्थः । अतो न वाक्यभेद इति भावः ।

देह­चे­ष्टा­त्म­क­जी­व­न­हे­तुत्वं प्राण­स्या­युष्ट्वं देहापेक्षया तस्य आमु­क्ते­र­व­स्था­ना­द­मृ­त­त्वम् , उत्था­प­य­ती­त्यु­क्थ­त्व­मिति प्राणधर्मः । जीवधर्मानाह
अथेति ।
बुद्धिप्राणयोः सह­स्थि­त्यु­त्क्रा­न्त्यु­क्त्य­न­न्त­र­मि­त्यर्थः ।

अत्र प्रज्ञापदेन साभासा जीवाख्या बुद्धिरुच्यते । तस्याः सम्भन्धीनि दृश्यानि सर्वाणि भूतानि यथैकं भव­न्त्य­धि­ष्ठा­न­चि­दा­त्मना तथा व्याख्यास्याम इत्यु­प­क्र­म्यो­क्तम्
'वागेव' इत्यादि ।
चक्षुरेवास्या एक­म­ङ्ग­म­दू­दु­ह­दि­त्या­दि­प­र्या­याणां सङ्क्षि­प्ता­र्थ­मु­च्यते । उत्पन्नाया असत्कल्पनायाः साभा­स­बु­द्धे­र्ना­म­प्र­प­ञ्च­वि­ष­यि­त्व­मर्धं शरीरम् , अर्था­त्म­क­रू­प­प्र­प­ञ्च­वि­ष­यि­त्व­मर्धं शरीरमिति मिलित्वा विषयित्वाख्यं पूर्णं शरी­र­मि­न्द्रि­य­सा­ध्यम् । तत्र कर्मेन्द्रियेषु वागेवास्याः प्रज्ञाया एकमङ्गं देहा­र्ध­म­दू­दु­ह­त्पू­र­या­मास । वागि­न्द्रि­य­द्वारा नाम­प्र­प­ञ्च­वि­ष­यित्वं बुद्धिर्लभत इत्यर्थः । चतुर्थी षष्ठ्यर्था । तस्याः पुनर्नाम किल चक्षुरादिना प्रतिविहिता ज्ञापि­ता­भू­त­मात्रा रूपाद्यर्थरूपा परस्तादपरार्धे कारणं भवति । ज्ञान­का­र­ण­द्व­रा­र्थ­प्र­प­ञ्च­वि­ष­यित्वं बुद्धिः प्राप्नो­ती­त्यर्थः ।

एवं बुद्धेः सर्वा­र्थ­द्र­ष्टृ­त्व­मु­प­पाद्य तन्नि­ष्ठ­चि­त्प्र­ति­बि­म्ब­द्वारा साक्षिणि द्रष्टृ­त्वा­ध्या­स­माह
प्रज्ञयेति ।
बुद्धिद्वारा चिदात्मा वाच­मि­न्द्रि­यं­स­मा­रुह्य तस्याः प्रेरको भूत्वा वाचा करणेन सर्वाणि नामानि वक्त­व्य­त्वे­ना­प्नोति, चक्षुषा सर्वाणि रूपाणि पश्यतीत्येवं द्रष्टा भवतीत्यर्थः ।

तथाच सर्वद्रष्टृत्वं चिदात्मनि द्रष्टृ­त्वा­ध्या­स­नि­मि­त्तत्वं च बुद्धेर्धर्म इत्युक्तं भवति सर्वा­धा­र­त्वा­न­न्द­त्वादिः ब्रह्मधर्म इत्याह
ता वा इति ।
दशत्वं व्याख्यातम् ।

प्रज्ञा इन्द्रियजात्या अधिकृत्य ग्राह्या भूतमात्रा वर्तन्ते, प्रज्ञामात्रा इन्द्रियाणि ग्राह्यं भूतजातमधिकृत्य वर्तन्त इति ग्राह्य ग्राहकयोर्मिथः सापे­क्ष­त्व­मुक्तं साधयति
यदिति ।

तदेव स्फुटयति
न हीति ।

ग्राह्येण ग्राह्यस्वरूपं न सिध्यति किन्तु ग्राहकेण । एवं ग्राहकमपि ग्राह्य­म­न­पेक्ष्य न सिध्यति । तस्मा­त्सा­पे­क्ष­त्वा­दे­त­द्ग्रा­ह्य­ग्रा­ह­क­द्वयं वस्तुतो न भिन्नं किन्तु चिदा­त्म­न्य­रो­पि­त­मि­त्याह
नो इति ।
तद्यथेत्यादि कृतव्याख्यानम् ।

सूत्रा­र्थ­मु­प­सं­ह­रति
तस्मादिति ।

अन्य­ध­र्मे­णा­न्य­स्यो­पा­सनं कथ­मि­त्या­श­ङ्क्या­श्रि­त­त्वा­दि­त्याह
अन्यत्रापीति ।
उपाधिर्जीवः । तत् अन्य­ध­र्मे­णो­पा­स­नम् । इयमसङ्गता व्याख्या । तथाहिन ताव­दा­रु­ण्या­द्य­ने­क­गु­ण­वि­शि­ष्ट­प्रा­प्त­क्र­य­ण­व­दु­पा­सा­त्र­य­वि­शि­ष्टस्य ब्रह्मणो विधिः सम्भवति, सिद्धस्य विध्यनर्हत्वात् । नापि ब्रह्मा­नु­वा­दे­नो­पा­सा­त्र­य­विधिः, वाक्यभेदात् । नच नाना­ध­र्म­वि­शि­ष्ट­मे­क­मु­पा­सनं विधीयत इति वाच्यम् , तादृ­श­वि­धि­वा­क्य­स्या­त्रा­श्र­व­णात् । नच 'तं मामा­यु­र­मृ­त­मि­त्यु­पाःस्व' इत्यत्र मामिति जीवेन, आयुरिति प्राणेन, अमृतमिति ब्रह्मणा स्वस्वधर्मवता विशि­ष्टो­पा­स­ना­वि­धि­रिति वाच्यम् , सर्वेषां धर्मा­णा­म­श्र­व­णात् , ब्रह्मा­श्रु­तेश्च । 'प्राणो वा अमृतम्' इति प्राण­स्यै­वा­मृ­त­त्व­श्रुतेः । अत उपा­स­ना­वि­धि­लु­ब्धेन 'वक्तारं विद्यात्' 'एत­दे­वो­क्थ­मु­पा­सीत' 'स म आत्मेति विद्यात्' इति जीव­प्रा­ण­ब्र­ह्मो­पा­स­न­वि­धयः, अन्ये गुणविधय इति स्वीकृ­त्यै­क­वा­क्यत्वं त्याज्यम् , तच्चायुक्तम् , उप­क्र­मा­दि­नै­क­वा­क्य­ता­नि­र्ण­या­दिति ।

तस्मा­ज्ज्ञे­य­प्र­त्य­ग्ब्र­ह्म­प­र­मिदं वाक्य­मि­त्यु­प­सं­ह­रति
तस्मादिति ॥ ३१ ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्पा­द­कृतौ श्रीम­च्छा­री­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥