भाष्यरत्नप्रभाव्याख्या
उत्पत्त्यसम्भवाधिकरणम्
पञ्चपदार्थवादिमाहेश्वरमतनिरासानन्तरं चतुर्व्यूहवादं बुद्धिस्थं निरस्यति -
उत्पत्त्यसम्भवात् ।
अधिकरणतात्पर्यमाह -
येषामिति ।
अधिकरणारम्भमाक्षिपति -
नन्विति ।
वेदाविरुद्धांशमङ्गीकृत्य वेदविरुद्धं जीवोत्पत्त्यंशं निराकर्तुमधिकरणारम्भ इत्याह -
उच्यत इति ।
अत्र भागवतपञ्चरात्रागमो विषयः । स किं जीवोत्पत्त्याद्यंशे मानं न वेति सन्देहे बाधानुपलम्भान्मानमिति पूर्वपक्षयति -
तत्रेति ।
पूर्वपक्षे तदागमविरोधाज्जीवाभिन्नब्रह्मसमन्वयासिद्धिः, सिद्धान्ते तदंशे तस्यामानत्वादविरोधात्तत्सिद्धिरिति फलभेदः ।
सावयवत्वं निरस्यति -
निरञ्जनेति ।
कथं तर्ह्यद्वितीये वासुदेवे मूर्तिभेदः, तत्राह -
स इति ।
व्यूहो मूर्तिः ।
सविशेषं शास्त्रार्थमुक्त्वा सहेतुं पुरुषार्थमाह -
तमित्थम्भूतमिति ।
यथोक्तव्यूहवन्तं सर्वप्रकृतिं निरञ्जनं विज्ञानरूपं परमात्मानमिति यावत् । वाक्कायचेतसामवधानपूर्वकं देवतागृहगमनमभिगमनम् । पूजाद्रव्याणामर्जनमुपादानम् । इज्या पूजा । स्वाध्यायोऽष्टाक्षरादि जपः । योगो ध्यानम् ।
तत्राविरुद्धांशमुपादत्ते -
तत्रेति ।
'समाहितः श्रद्धावित्तो भूत्वा' इति, 'तं यथा यथोपासते' इत्याद्या च श्रुतिः । 'मत्कर्मकृन्मत्परमः' इत्याद्या स्मृतिः ।
विरुद्धांशमनूद्य दूषयति -
यत्पुनरिति ।
कृतहान्यादिदोष आदिशब्दार्थः । न्यायोपेतया 'अज आत्मा' इत्यादिश्रुत्या पञ्चरात्रागमस्योत्पत्त्यंशे मानत्वाभावनिश्चयाज्जीवाभिन्नब्रह्मसमन्वयस्थैर्यमिति भावः ॥४२॥
जीवस्योत्पत्तिं निरस्य जीवान्मनस उत्पत्तिं निरस्यति -
न च कर्तुरिति ।
यस्मात्कर्तुः करणोत्पत्तिर्न दृश्यते तस्मादसङ्गता कल्पनेत्यन्वयः । सिद्धानां करणानां प्रयोक्ता कर्तेति प्रसिद्ध्यर्थो हिशब्दः ।
वर्णनं निर्मूलमित्याह -
न चेति ।
ननु लोके कश्चिच्छिल्पिवरः कुठारं निर्माय तेन वृक्षं छिनत्तीति दृष्टमिति चेत् । सत्यम् । शिल्पिनो हस्तादिकरणान्तरसत्त्वात्कुठारकर्तृत्वं युक्तम् , जीवस्य तु करणान्तरासत्त्वान्न मनसः कर्तृत्वम् । विनैव करणं कर्तृत्वे वा मनोवैयर्थ्यमिति भावः ॥४३॥
सङ्कर्षणादीनामुत्पत्त्यसम्भवेऽपि व्यूहचतुष्टयं स्यादिति सूत्रव्यावर्त्यमाशङ्कते -
अथापि स्यादिति ।
ज्ञानैश्वर्ययोः शक्तिरान्तरं सामर्थ्यम् , बलं शरीरसामर्थ्यम् , वीर्यं शौर्यम् , तेजः प्रागल्भ्यमेतैरन्विता यस्मात्सङ्कर्षणादयस्तस्मादीश्वरा एवेत्यर्थः ।
सर्वेषामीश्वरत्वे पञ्चरात्रोक्तिमाह -
वासुदेवा एवेति ।
निर्दोषा रागादिशून्याः । निरधिष्ठानाः प्रकृत्यजन्याः । निरवद्या नाशादिरहिता इत्यर्थः ।
ईश्वरत्वाज्जन्मासम्भवो गुण एवेत्याह -
तस्मादिति ।
सूत्रेण सिद्धान्तयति -
अत्रेति ।
एवमपि । चतुर्णामीश्वरत्वेन विज्ञानशक्त्यादिभावेऽपीत्यर्थः ।
प्रकारान्तरं पृच्छति -
कथमिति ।
किं चत्वारः स्वतन्त्रा भिन्ना एव उतैकस्य विकारत्वेनाभिन्नाः । आद्यमनूद्य दूषयति -
यदीत्यादिना ।
द्वितीये विकाराः प्रकृतितुल्या वा न्यूना वा । आद्यमुत्थाप्य निषेधति -
अथेत्यादिना ।
न्यूनत्वपक्षेऽपसिद्धान्तमाह -
न च पञ्चेति ।
यदि न्यूना अपि भगवतो व्यूहास्तदा चतुष्ट्वव्याघात इत्याह -
न चैत इति ॥४४॥
इतश्च जीवोत्पत्तिवाद उपेक्ष्य इत्याह सूत्रकारः -
विप्रतिषेधाच्चेति ।
स्वस्यैव गुणत्वं गुणित्वं च विरुद्धम् । आदिपदात्प्रद्युम्नानिरुद्धौ भिन्नावात्मन इत्युक्त्वात्मन एवैते इति विरुद्धोक्तिग्रहः ।
पूर्वापरविरोधादसाङ्गत्यमिति सूत्रार्थमुक्त्वार्थान्तरमाह -
वेदेति ।
एकस्यापि तन्त्राक्षरस्याध्येता चतुर्वेदिभ्योऽधिक इति निन्दादिपदार्थः । तस्मान्मिथो विरुद्धाभिः पौरुषेयकल्पनाभिर्नापौरुषेयवेदान्तसमन्वयविरोध इति सिद्धम् ॥४५॥
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य द्वितीयः पादः ॥२॥