भाष्यरत्नप्रभाव्याख्या
सम्बन्धाधिकरणम्
संबन्धादेवमन्यत्रापि ।
सद्भूतत्रयं त्यद्वाय्वाकाशात्मकं, सत्यं परोक्षभूतात्मकं हिरण्यगर्भाख्यं ब्रह्मोपक्रम्य, तदुक्तं यत्सत्यं तत्स योऽसावादित्यः किं मण्डलं न तत्र स्थाने पुरुषः करणात्मकः स एवाध्यात्ममक्षिस्थानस्थ इत्युपदिश्य 'तस्य भूरिति शिरो भुव इति बाहुः स्वरिति पादौ' इति व्याहृतिरूपं शरीरमुक्त्वा द्वे उपनिषदौ रहस्यदेवतानामनी उपदिश्येते तस्यादित्यमण्डलस्थस्याहरिति नाम प्रकाशकत्वात्तस्याक्षिस्थस्याहमिति नाम प्रत्यक्त्वादिति ।
इदं नामद्वयं विषयस्तत्र नामिनः सत्याख्यस्य ब्रह्मण एकत्वात्स्थानभेदोक्तेश्च संशयमाह -
तत्रेति ।
पूर्वपक्षे प्रतिस्थानं नामद्वयानुष्ठानं सिद्धान्ते यथाश्रुत्यैकैकनामानुष्ठानमिति फलम् ।
दृष्टान्तसंगत्या पूर्वपक्षसूत्रं व्याचष्टे -
यथेति ।
यथा विद्यैक्यादुपसंहार उक्त एवमन्यत्राप्येकाविद्यायामुपसंहारो भवितुमर्हतीत्यर्थः । सत्यं ब्रह्मेत्युपक्रमाभेदस्तावेतावक्ष्यादित्यपुरुषावन्योन्यस्मिन्प्रतिष्ठितौ, आदित्यरश्मीनां चक्षुषि चक्षुषश्चादित्ये प्रतिष्ठानादिति व्यतिषक्तपाठो मिथः संश्लेषपाठस्ताभ्यां विद्यैक्यसिद्धिः ।
विद्यैक्येऽपि किं स्यात्तत्राह -
कथमिति ।
विद्यैक्येऽपि स्थानभेदादुपनिषदोरसंकरः स्यादित्याशङ्कां दृष्टान्तेन परिहरति -
यो हीति ॥२०॥
नाम्यैक्यात् नामसंकरो युक्तः, तथा चाक्षिस्थोऽहरिति नामवान् सत्यब्रह्मत्वादादित्यस्थवदिति प्राप्ते सिद्धान्तसूत्रं योजयति -
न वेति ।
नाम्नोरूपासनस्थानविशिष्टसंबन्धित्वादित्यर्थः । तस्योपनिषदहरहमिति च वाक्यद्वयेन तच्छब्दपरामृष्टयोः संनिहितस्थानविशिष्टयोः पुरुषयोर्नामसंबन्धपरेणोपसंहारानुमानं बाध्यमिति भावः ।
विशेष्यैक्यान्नामसंकर इत्याशङ्क्य स्थानभेदेन विशिष्टपुरुषभेदान्नामव्यवस्थामाह -
नन्वित्यादिना ।
विशिष्टसंबन्धे दृष्टान्तमाह -
अस्तीति ।
प्रतिदृष्टान्तस्य स्वरूपसंबन्धित्वाद्विशिष्टे ध्येये प्रकृते दृष्टान्तत्वे नास्तीत्याह -
ग्रामेति ॥२१॥
उक्तनामव्यवस्थायामतिदेशो लिङ्गमित्याह -
दर्शयति चेति ।
विद्यैक्यादेवोपसंहारसिद्धावतिदेशो वृथा स्यात्तस्मादेकविद्यायामपि स्थानभेदेनोक्तगुणानां विनातिदेशमनुपसंहार इति सिद्धम् ॥२२॥