अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

मनोऽधिकरणम्

तन्मनः प्राण उत्तरात् ।
वाक्य­क्र­मा­द­र्थ­क्र­मा­च्चा­धि­क­र­ण­क्रमः । श्रुति­न्या­याभ्यां संशयः पूर्वं प्रब­ल­न्या­य­वि­रो­धा­द्वा­गिति श्रुतेर्बाधः कृतः इह त्वबा­त्म­क­प्रा­णस्य अन्ना­त्म­क­म­नः­प्र­कृ­ति­त्वेन प्रकृतौ विकारलय इति न्याया­नु­ग्र­हान्न मनः­श्रु­ति­र्बा­ध्येति पूर्वपक्षफलं पूर्ववत्, सिद्धा­न्त­स्त्व­ब­न्नयोः प्रकृ­ति­वि­कृ­ति­भा­वेऽपि न तद्विकारयोः प्राण­म­न­सो­स्त­द्भावो हिमघटयोरपि तद्भा­व­प्र­स­ङ्गा­दतो न्याय­वि­रो­धा­त्पू­र्व­व­च्छ्रु­ति­र्बा­ध्येति विवेकः । आगृहीता बाह्ये­न्द्रि­य­वृ­त्तयो येन तत्तथा लीने­न्द्रि­य­वृ­त्तिकं मनोऽपि वृत्तिलयेनैव प्राणे लीयत इत्यर्थः ।

एवमपीति ।
प्राण­स्या­ब्वि­का­र­त्व­प­क्षेऽ­पी­त्यर्थः । तस्मादिति प्राणस्य साक्षा­न्म­नः­प्र­कृ­ति­त्वा­भा­वा­न्म­नः­शब्दो वृत्तिं लक्षयतीत्यर्थः ॥३॥