भाष्यरत्नप्रभाव्याख्या
वाक्यान्वयाधिकरणम्
वाक्यान्वयात् । विषयवाक्यमाह
बृहदिति ।
पत्यादेरात्मशेषत्वेन प्रियत्वादात्मैव सर्वशेषी प्रियतमः, अतोऽन्यत्परित्यज्यात्मैव द्रष्टव्यः । दर्शनार्थं श्रवणादिकं कार्यमित्यर्थः ।
प्रियसंसूचितेनेति ।
पतिजायादिभिः । प्रियैर्भोग्यैर्जीवतयानुमितेनेत्यर्थः ।
यथा 'ब्रह्म ते ब्रवाणि' इत्युपक्रमबलाद्वाक्यस्य ब्रह्मपरत्वं तथात्र जीवोपक्रमादस्य वाक्यस्य जीवपरत्वमिति दृष्टान्तेन पूर्वपक्षयति
किं तावदिति ।
पूर्वपक्षे वाक्यस्य जीवोपास्तिपरत्वम् , सिद्धान्ते ज्ञेये प्रत्यग्ब्रह्मणि समन्वय इति फलम् । इदं प्रत्यक् । महदपरिच्छिन्नम् । भूतं सत्यम् । अनन्तं नित्यम् । अपारं सर्वगतं चिदेकरसम् । एतेभ्यःकार्यकारणात्मना जायमानेभ्यो भूतेभ्यः साम्येनोत्थाय भूतोपाधिकं जन्मानुभूय तान्येव भूतानि नीयमानान्यनुसृत्य विनश्यति । औपाधिकमरणानन्तरं विशेषधीर्नास्तीति श्रुत्यर्थः ।
विज्ञातारं
विज्ञानकर्तारम् । भोक्तरि ज्ञाते भोग्यं ज्ञातमित्युपचारः ।
मोक्षसाधनज्ञानगम्यत्वादिलिङ्गैर्वाक्यस्यान्वयाद्ब्रह्मण्येव तात्पर्यावगमाद्ब्रह्मप्रमापकत्वमिति सिद्धान्तयति
एवमिति ।
न वित्तेन । तत्साध्येन कर्मणेत्यर्थः ।
भेदनिन्दापूर्वकमभेदसाधनेनैकविज्ञानात्सर्वविज्ञानस्य समर्थनादौपचारिकत्वं न युक्तमित्याह
न चैतदौपचारिकमित्यादिना ।
पराकरोति ।
श्रेयोमार्गाद्भ्रंशयति ।
यथा दुन्दुभिशङ्खवीणाशब्दसामान्यग्रहणेनैव गृह्यमाणास्तदवान्तरविशेषाः शुक्तिग्रहणग्राह्यरजतवत्सामान्ये कल्पितास्ततो न भिद्यन्ते, एवमात्मभानभास्यं सर्वमात्ममात्रमिति निश्चितमित्याह
दुन्दुभ्यादिति ।
एवमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया मुख्यत्वाद्ब्रह्मनिश्चयः ।
सर्वस्रष्टृत्वलिङ्गादपीत्याह
अस्यमहत इति ।
ऋग्वेदादिकं नाम । इष्टं हुतमिति कर्म । अयं च लोकः परश्च लोक इति रूपम् ।
किञ्च 'स यथा सर्वासामपां समुद्र एकायनम्' इति कण्डिकया सर्वप्रपञ्चस्य मुख्यलयाधारत्वमात्मनो ब्रह्मत्वे लिङ्गमित्याह
तथैवैकायनेति ॥ १९ ॥
जीवब्रह्मणोर्भेदाभेदसत्त्वादभेदांशेनेदं जीवोपक्रमणं प्रतिज्ञासाधकमित्याश्मरथ्यमतम् ॥ २० ॥
सत्यसंसारदशायां भेद एव, मुक्तावेवाभेद इत्यौडुलोमिमतम् । तत्र मानमाह
श्रुतिश्चेति ।
समुत्थानमुत्क्रान्तिः ।
ननु संसारस्यौपाधिकत्वात्सर्वदैवाभेद इत्याशङ्क्य दृष्टान्तबलेन संसारस्य स्वाभाविकत्वमित्याह
क्वचिच्चेति ।
'यथा नद्यः स्यन्दमानाः समुद्रेस्तं गच्छन्ति नामरूपे विहाय' इति नदीनिदर्शनं व्याचष्टे
यथा लोक इति ॥ २१ ॥
सिद्धान्तमाह
अवस्थितेरिति ।
अत्यन्ताभेदज्ञापनार्थं जीवमुपक्रम्य द्रष्टव्यत्वादयो ब्रह्मधर्मा उक्ता इत्यर्थः । एतेन जीवलिङ्गानां ब्रह्मपरत्वकथनार्थमिदमधिकरणं न भवति, प्रतर्दनाधिकरणे कथितत्वात् । नापि जीवानुवादेन ब्रह्मप्रतिपादनार्थम् , 'सुषुप्त्युत्क्रान्त्योः' इत्यत्र गतत्वात् । अतो व्यर्थमिदमधिकरणमिति निरस्तम् । जीवोद्देशेन ब्रह्मत्वप्रतिपादने भेदोऽप्यावश्यक इति भेदाभेदशङ्काप्राप्तौ कल्पितभेदेनोद्देश्यत्वादिकं स्वतोऽत्यन्ताभेद इति ज्ञापनार्थमस्यारम्भात् । ज्ञापने चात्र लिङ्गमात्मशब्देनोपक्रान्तस्य जीवस्य धर्मिणो ब्रह्मणो धर्म्यन्तरस्य ग्रहणं विनैव ब्रह्मधर्मकथनं भेदाभेदे धर्मिद्वयग्रहः स्यादिति मन्तव्यम् । धीरः सर्वज्ञः ।
सर्वाणि रूपाणि कार्याणि विचित्य सृष्ट्वा तेषां नामानि च कृत्वा तेषु बुद्ध्यादिषु प्रविश्याभिवदनादिकं कुर्वन् यो वर्तते तद्विद्वानिहैवामृतो भवतीति मन्त्रोऽपि जीवपरयोरैक्यं दर्शयतीत्याह
मन्त्रेति ।
जीवस्य ब्रह्मविकारत्वान्नैक्यमित्यत आह
नच तेज इति ।
मतत्रयं विभज्य दर्शयति
काशेत्यादिना ।
कियानपीति ।
अभेदवद्भेदोऽपीत्यर्थः ।
तत्रान्त्यस्य मतस्योपादेयत्वमाह
तत्र काशेति ।
सोऽयं देवदत्त इतिवत्तत्त्वमस्यादिवाक्येभ्यः परापरयोरत्यन्ताभेदः प्रतिपादयितुमिष्टोऽर्थः, तदनुसारित्वादित्यर्थः,
ज्ञानान्मुक्तिश्रुत्यन्यथानुपपत्त्याप्ययमेव पक्ष आदेय इत्याह
एवं चेति ।
अत्यन्ताभेदे सतीत्यर्थः । कल्पितस्य भेदस्य ज्ञानान्निवृत्तिः सम्भवति न सत्यस्येत्यपि द्रष्टव्यम् ।
यदुक्तं नदीदृष्टान्तात्संसारः स्वाभाविक इति, तन्नेत्याह
अतश्चेति ।
अनामरूपब्रह्मत्वाज्जीवस्येत्यर्थः ।
उत्पत्तिश्रुत्या जीवस्य ब्रह्मणा भेदाभेदावित्यत आह
अत एवेति ।
उत्पत्तेः स्वाभाविकत्वे मुक्त्ययोगादेवेत्यर्थः ।
अत्र पूर्वपक्षे बीजत्रयमुक्तं जीवेनोपक्रमः परस्यैव समुत्थानश्रुत्या जीवाभेदाभिधानं विज्ञातृशब्दश्चेति । तत्राद्यं बीजं त्रिसूत्र्या निरस्तम् । सम्प्रति द्वितीयमनूद्य तथैव निराचष्टे
यदप्युक्तमित्यादिना ।
आत्मज्ञानात्सर्वविज्ञानं यत्प्रतिज्ञातं तत्र हेतुः 'इदं सर्वं यदयमात्मा' इत्यव्यतिरेक उक्तस्तस्य प्रतिपादनात्तदेव प्रतिज्ञातमुपपादितमिति योजना । एकस्मात्प्रसवो यस्य, एकस्मिन्प्रलयो यस्य तद्भावादित्यर्थः । समुत्थानमभेदाभिधानमिति यावत् ।
जन्मनाशावुक्तौ नाभेद इत्याक्षिप्य परिहरति
नन्वित्यादिना ।
मृतस्य संज्ञा नास्तीति वाक्येऽत्रैव मां मोहितवानसि ज्ञानरूपस्यात्मनो ज्ञानाभावे नाशप्रसङ्गादिति मैत्रेय्योक्तो मुनिराह
न वा अरे इति ।
मोहं मोहकरं वाक्यम् , अविनाशी नाशहेतुशून्यः, अत उच्छित्तिधर्मा नाशवान्न भवतीत्यनुच्छित्तिधर्मेत्यर्थः ।
तृतीयं बीजं तृतीयेन मतेनैव निरसनीयमित्याह
यदपीत्यादिना ।
आद्यमतद्वयेऽपि सत्यभेदाङ्गीकारात्केनेत्याक्षेपो न युक्तः । काशकृत्स्नस्य मते त्वत्यन्ताभेदाद्विज्ञानस्य कारकाभावात्स युक्त इति श्रुत्यनुसारित्वात्तन्मते मनःकल्पितं विज्ञातृत्वं मुक्ते ब्रह्मात्मनि भूतपूर्वगत्योक्तमिति परिहरणीयमित्यर्थः ।
किञ्च पूर्वापरपर्यालोचनया वाक्यस्य मुक्तात्मपरत्वावगमाद्विज्ञातृत्वं कल्पितमेवानूद्यत इति न तल्लिङ्गेन जीवपरत्वमित्याह
अपि चेति ।
आर्षेषु पक्षेषु काशकृत्स्नपक्षस्यैवादेयत्वे किं बीजम् , तदाह
दर्शितमिति ।
अतश्चश्रुतिमत्त्वाच्च ।
पुनरपि श्रुतिस्मृतिमत्त्वमाह
सदेवेत्यादिना ।
हेतूनां भेदो न पारमार्थिक इति प्रतिज्ञया सम्बन्धः ।
भेदाभेदपक्षे जीवस्य जन्मादिविकारवत्त्वात्तन्निषेधो न स्यादित्याह
स वा एष इति ।
भेदस्य सत्यत्वे तत्प्रमया बाधादहं ब्रह्मेति निर्बाधं ज्ञानं न स्यादित्याह
अन्यथाचेति ।
अभेदस्यापि सत्त्वात्प्रमेत्याशङ्क्य भेदाभेदयोर्विरोधात्संशयः स्यादित्याह
सुनिश्चितेति ।
मास्तु निर्बाधज्ञानमित्यत आह
निरपवादमिति ।
अहं ब्रह्मेत्यबाधितनिश्चयस्यैव शोकादिनिवर्तकत्वमित्यत्र स्मृतिमप्याह
स्थितेति ।
आत्यन्तिकैकत्वे हि प्रज्ञा प्रतिष्ठिता भवति न भेदाभेदयोरिति भावः ।
ननु जीवपरमात्मानौ स्वतो भिन्नौ, अपर्यायनामवत्त्वात् , स्तम्भकुम्भवदित्यत आह
स्थिते चेति ।
कथं तर्ह्यपर्यायनामभेद इत्याशङ्क्य जीवत्वेश्वरत्वादिनिमित्तभेदादित्याह
एको हीति ।
किञ्चाविद्यातज्जबुद्धिरूपायां गुहायां स्थितो जीवो भवति, तस्यामेव ब्रह्म निहितमिति श्रुतेः ।
स्थानैक्याज्जीव एव ब्रह्मेत्याह
नहीति ।
काञ्चिदेवैकामिति ।
जीवस्थानादन्यामित्यर्थः ।
नन्वेकस्यां गुहायां द्वौ किं न स्यातामित्यत आह
नचेति ।
स्रष्टुरेव प्रवेशेन जीवत्वान्न भेदः । नन्वत्यन्ताभेदे जीवस्य स्पष्टभानाद्ब्रह्मापि स्पष्टं स्यादतः स्पष्टत्वास्पष्टत्वाभ्यां तयोर्भेद इति चेत् । न । दर्पणे प्रतिबिम्बस्य स्फुटत्वेऽपि बिम्बस्यास्फुटत्ववत्कल्पितभेदेन विरुद्धधर्मव्यवस्थोपपत्तेः ।
सत्यभेदे येषामाग्रहस्तेषां दोषमाह
ये त्विति ।
सोऽयमितिवत्तत्त्वमसीत्यकार्यकारणद्रव्यसामानाधिकरण्यादत्यन्ताभेदो वेदान्तार्थस्तद्बोध एव निःश्रेयससाधनं तस्य बाधो न युक्त इत्यर्थः । किञ्च भेदभेदवादिनो ज्ञानकर्मभ्यां कृतकं मोक्षं कल्पयन्ति, तत्रानित्यत्वं दोषः । यत्तु कृतकमपि नित्यमिति, तच्च 'यत्क्रियासाध्यं तदनित्यम्' इति न्यायबाधितम् । अस्माकं त्वनर्थध्वंसस्य ज्ञानसाध्यत्वान्नित्यमुक्तात्ममात्रत्वाच्च नानित्यत्वदोष इति भावः । तस्मान्मैत्रेयीब्राह्मणं प्रत्यग्ब्रह्मणि समन्वितमिति सिद्धम् ॥ २२ ॥