अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अप्रतीकालम्बनाधिकरणम्

एवं गन्तव्यं निरूप्य गन्तॄ­न्नि­र्धा­र­यति -
अप्रतीकेति ।

'स एवैनान् ब्रह्म गमयति' इत्य­वि­शे­ष­श्रुतेः तत्क्र­तु­न्या­याच्च । संशयमाह -
इदमिति ।
अनियमाधिकरणे तत्त्व­वि­दोऽ­न्यत्र सर्वोपासकानां मार्गोपसंहार उक्तः, इदा­नी­म­प्र­ती­को­पा­स­का­ना­मेव मार्गो न सर्वेषां विका­रो­पा­स­का­ना­मि­त्यु­भ­य­था­भा­वोक्तौ पूर्वोक्तविरोधः स्यात्, तस्मा­दु­पा­स­क­मा­त्र­स्यो­त्त­र­मा­र्ग­सि­द्धि­रिति पूर्वपक्षफलम् , सिद्धान्ते तूभ­य­था­भा­व­सिद्धिः । अदोषादिति सूत्रे पदच्छेदः, अवि­रो­धा­दि­त्यर्थः । अनियमः सर्वासामिति सूत्रे सर्वशब्दस्य प्रती­को­पा­स­का­न्य­प­र­त्वा­दिति भावः । यद्यपि प्रतीकध्यायिनां पितृ­या­ण­तृ­ती­य­स्था­न­यो­र­प्र­वे­शा­द­र्चि­रा­दि­मार्गो वाच्यस्तथापि तेषां विद्यु­त्प­र्य­न्त­मेव गमनमस्तु न ब्रह्म­प्रा­प्ति­र्ब्र­ह्म­क्र­तु­त्वा­भा­वात् । यो यत् ध्यायति स तत्प्राप्नोति हि तत्क्रतुन्यायः श्रुतिमूलः । प्रतीकेषु च नामादिषु ध्येयेषु ब्रह्मणो गुणत्वात्, न ब्रह्म­ध्या­यि­त्व­मस्ति । अस्य च न्यायस्य पञ्चा­ग्नि­वि­द्या­या­मा­ह­त्य­वा­दा­त्प्र­त्य­क्ष­व­च­ना­द्बाध इष्ट इति सूत्रभाष्यार्थः ॥१५॥

किञ्च प्रतीकतारतम्येन फल­ता­र­त­म्य­श्रु­तेर्न प्रतीकध्यायिनां ब्रह्म­प्रा­प्ति­रि­त्याह -
विशेषं चेति ।
तस्मादसति वचने ब्रह्मध्यायिन एव ब्रह्मगन्तार इति सिद्धम् ॥१६॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्कृतौ भाष्य­र­त्न­प्र­भायां चतुर्थाध्यायस्य तृतीयः पादः ॥३॥
॥ इति चतु­र्थ­स्या­ध्या­यस्य सगुणविद्यावतो मृत­स्यो­त्त­र­मा­र्गा­मि­धा­ना­ख्य­स्तृ­तीयः पादः ॥