भाष्यरत्नप्रभाव्याख्या
आत्मगृहीत्यधिकरणम्
आत्मगृहीतिः ।
मिषत् चलत् ।
लोकानाह -
अम्भ इति ।
अम्भः स्वर्गः, मरीचयोऽन्तरिक्षलोकः, मरो मर्त्यलोकः, आपः पाताललोक इत्यर्थः ।
आत्मशब्दस्य ब्रह्मणि सूत्रात्मनि च प्रयोगात्संशयमाह -
तत्रेति ।
अत्र पूर्वपक्षे वाक्यस्य सूत्रोपास्तिपरत्वात्परब्रह्मधर्माणामानन्दादीनामैतरेयकेऽनुपसंहारः, सिद्धान्ते ब्रह्मपरत्वादुपसंहार इति फलम् ।
पुरुषवाक्याद्भेदप्रसङ्गादर्थादिवाक्यानां नार्थादिप्रतिपादकत्वमित्युक्तं तद्वदिहापि प्रजापते रेतो देवा इति पूर्वस्मात्प्रजापतिवाक्याद्भेदप्रसङ्गादात्मा वा इत्यादिवाक्यस्य न ब्रह्मपरत्वमिति दृष्टान्तेन पूर्वपक्षयति -
न परमात्मेत्यादिना ।
वाक्यस्य प्रजापतौ तात्पर्यदर्शनादित्यर्थः ।
पूर्वपक्षमाक्षिप्य लोकस्रष्टृत्वलिङ्गान्न प्रजापतौ वाक्यान्वय इत्याह -
नन्वित्यादिना ।
लोका एव महाभूतानीत्यत आह -
लोकाश्चेति ।
लोकशब्दस्य महाभूतेष्वरूढत्वाद्भौतिका एव लोकाः ।
निर्वचनाच्चेत्याह -
तथा चेति ।
अम्भो मरीचीर्मरमाप इति सूत्रयित्वा स्वयमेव श्रुतिर्व्याचष्टे - परेण दिवं दिवः परस्ताद्दिवि प्रतिष्ठितश्चन्द्राऽम्भसा व्याप्तो यो लोकः तदम्भः, अन्तरिक्षं मरीचयः, पृथिवी मरः, या अधस्तात्ता आप इति ।
ननु लोकसृष्टिरपीश्वरादेवास्तु नेत्याह -
लोकेति ।
पुरुषविधो नराकारः । आत्मा हिरण्यगर्भः, आपिपीलिकाभ्यः सर्वमसृजतेत्यर्थः । भूतानां लोकानामित्यर्थः ।
प्रकरणादपि लोकस्रष्टा प्रजापतिरित्याह -
ऐतरेयिणोऽपीति ।
रेतः कार्यमिति यावत् ।
ब्रह्मलिङ्गानि प्रजापतौ योजयति -
आत्मशब्दोऽपीत्यादिना ।
किञ्च प्रजाः सृष्ट्वा ताः प्रति भोगार्थं गामानयल्लोकस्रष्टा तथाऽश्वमानयत् । तास्तु गवाश्वप्राप्त्या न तृप्तास्ततः पुरुषशरीरे आनीते ता अब्रुवंस्तृप्ताः स्म इति । अयं च व्यवहारो लोकस्रष्टुः प्रजापतित्वे लिङ्गमित्याह -
अपि चेति ।
आत्मशब्दस्य चिदात्मनि मुख्यत्वान्मुख्यग्रहे बाधकाभावादुत्तरस्येक्षणादेरनुकूलत्वात्परमात्मग्रहणमिति सिद्धान्तयति -
एवं प्राप्त इति ।
महाभूतसृष्टिपूर्वकं लोकानासृजतेति श्रुतिर्व्याख्येयेति भावः ॥१६॥
पूर्वपक्षबीजमनूद्य दूषयति -
अन्वयादिति ।
'आत्मा वा इदमेक एवाग्र आसीत्' इति 'प्रज्ञानं ब्रह्म' इति चोपक्रमोपसंहारस्थात्मब्रह्मश्रुतिभ्यामेकत्वावधाराणात्प्रवेशादिलिङ्गैश्च लोकस्रष्टृत्वादिलिङ्गबाधेन प्रत्यग्ब्रह्म ग्राह्यमिति भावः । स परमेश्वरः । एतमेव सीमानं मूर्ध्नः केशविभागावसानं विदार्य छिद्रं कृत्वा एतया ब्रह्मरन्ध्राख्यया द्वारा लिङ्गविशिष्टः प्रविष्टवानित्यर्थः । मां विना यदि वागादिभिः स्वस्वव्यापारः कृतः, अथ तदाहं क इति त्वंपदार्थं विचार्य स्वयमेतमेव शोधितमात्मानं ब्रह्म ततमं व्याप्ततममपश्यत् । तकारलोपश्छान्दसः । प्रज्ञा चिदात्मा नेत्रं नीयतेऽनेनेति नियामकं यस्य तत्प्रज्ञानेत्रं चिदात्मनियम्यमित्यर्थः ।
उक्तव्याख्याने गुणोपसंहारस्यास्फुटत्वान्न पादसंगतिरिति मत्वैव व्याख्यान्तरमाह -
अपरेति ।
उदर्क उपसंहारः ।
सच्छब्दस्यात्मानात्मसाधारण्यात्संशयमाह -
तत्रेति ।
पूर्वपक्षे सत्तासामान्ये ब्रह्मात्मत्वसंपदुपास्तिश्छान्दोग्ये, वाजश्रुतौ निर्गुणविद्येति भेदान्मिथोगुणानुपसंहारः । सिद्धान्ते तूभयत्र निर्गुणविद्यैक्यादुपसंहार इति फलभेदः । पदानां जातौ शक्तिग्रहात्सच्छब्दोऽपि सत्ताजातिवाचीत्युपक्रमस्य निश्चितार्थत्वादसंजातविरोध्युपक्रमबलेन तादात्म्योपदेशः संपत्तिपरतया नेय इति पूर्वपक्षनिष्कर्षः । पूर्वत्र वाक्यैक्यादर्थादिपरत्वं त्यक्त्वा विद्यैक्यमुक्तमिह तु सदात्मशब्दाभ्यां जात्यात्मवाचिभ्यामुपक्रमभेदाद्वाक्यभेदे सति विद्याभेद इति प्रत्युदाहरणसंगतिः । न चात्मशब्दो जातिवाचकः, आत्मव्यक्त्यैक्याज्जात्यभावात्किन्तु सर्वान्तरवस्तुवाचकः । कल्पितजातिवाचित्वेऽप्युपक्रमभेदः स्फुट एव सत्तात्मत्वयोर्भेदादिति मन्तव्यम् ।
सिद्धान्तयति -
तथेत्यादिना ।
उपक्रमान्वयादिति ।
उपक्रमाधीनत्वादुपसंहारस्येत्यर्थः ।
तच्चावधारणं सत्पदेनात्मगृहीतौ सत्यां युज्यत इत्याह -
तच्चेति ।
सदेकमेवेत्यवधारणं, अनेन जीवेनात्मनेति सद्देवताकर्तृको जीवस्यात्मशब्देन परामर्शः, सुप्तौ जीवः सता संपन्नौ भवतीति कथनम् । भूय एव मा भगवान् विज्ञापयत्विति परिचोदना ।
सदितिपदेन सत्ताश्रया उच्यते न जातिमात्रं, कर्तृवाचिशतृप्रत्ययान्तत्वात् । तथा चोपक्रमे सत्ताश्रयसामान्योक्तौ क आश्रय इत्याकाङ्क्षायां वाक्यशेषादात्मेति निश्चीयत इत्याह -
न चेति ।
सच्छब्दस्यात्मानात्मसाधारण्यमुपेत्योक्तं तदपि नास्ति आत्मपदवत्सत्पदस्य व्यक्तिवाचित्वाद्व्यक्तिश्च बाधायोग्या चिदात्मैवेति न वाचिछन्दोगयोरूपक्रमवैषम्यमित्याह -
सच्छब्देति ।
वैषम्यमुपेत्याप्याह -
आम्नानेति ।
वाजिवाक्ये त्वमर्थस्य तदर्थपर्यन्तस्य लक्ष्यस्य प्रतिपादनं छान्दोग्यवाक्ये तु तदर्थस्य त्वमर्थपर्यन्तस्य प्रतिपादनमिति प्रकारभेदेऽपि वाक्यार्थैक्याद्विद्यैक्यमिति फलितमाह -
तस्मादिति ॥१७॥