अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

तदभिध्यानाधिकरणम्

सम्प्रति तानि भूता­न्या­श्रि­त्या­श्र­या­श्र­यि­भा­व­स­ङ्गत्या तेषां स्वात­न्त्र्य­मा­शङ्क्य निषेधति -
तदभिध्यानादेव तु तल्लिङ्गात्सः ।

उक्त­भू­ता­न्या­श्रित्य संशयपूर्वपक्षौ दर्शयति -
किमि­मा­नी­त्या­दिना ।
संशयबीजानुक्तौ पूर्वो­त्त­र­प­क्ष­यु­क्तयो बीजमिति ज्ञेयम् ।

नन्वत्र भूतानां किं स्वात­न्त्र्ये­णो­पा­दा­न­त्व­मा­श­ङ्क्यते कर्तृत्वं वा । नाद्यः, 'रच­ना­नु­प­पत्तेः' इत्या­दि­न्या­य­वि­रो­धा­दिति शङ्कते -
नन्विति ।
न द्वितीयः, अचेतनत्वादिति भावः । यथा मनु­ष्या­दि­श­ब्दै­स्त­त्त­द्दे­हा­भि­मा­निनो जीवा उच्यन्ते तथा 'आका­शा­द्वायुः' इत्या­दि­श्रु­ता­वा­का­शा­दि­श­ब्दै­स्त­त्त­द्भू­ता­भि­मा­नि­दे­वता उच्यन्ते, तासां स्वकार्ये वाय्वादौ कर्तृ­त्व­स­म्भ­वा­न्नि­र­पे­क्ष­नि­मि­त्तत्वं पञ्चम्यर्थः । एवं 'तदात्मानं स्वय­म­कु­रुत' इति श्रुतौ स्वयमिति विशे­ष­णा­द्ब्र­ह्म­णोऽ­न्या­न­पे­क्ष­स­र्व­क­र्तृ­त्व­स­म्भ­वा­न्नि­र­पे­क्ष­नि­मि­त्तत्वं श्रुतम् ।

तथा च मिथो­नि­र­पे­क्षे­श्व­र­भू­त­क­र्तृ­श्रु­त्यो­र्वि­रो­धान्न ब्रह्मणि समन्वय इति सफलं पूर्वपक्षमाह -
नैष दोष इति ।
भूतानां तद­भि­मा­नि­दे­व­ता­ना­मि­त्यर्थः । यथा आका­शा­दि­भा­वा­प­न्न­ब्र­ह्मणः सर्वोपादानत्वं तथा तद­भि­मा­नि­दे­व­ता­जी­व­भा­व­मा­प­न्न­ब्र­ह्मणः कर्तृत्वमिति परम्परया ईश्व­र­क­र्तृ­त्व­श्रु­त्य­वि­रोधः । स्वयमिति विशे­ष­ण­मी­श्व­रा­न्त­र­नि­रा­सार्थं न जीव­भा­वा­पे­क्षा­नि­रा­सा­र्थ­मि­त्ये­क­दे­शि­सि­द्धान्त ऊहनीयः ।

मुख्य­सि­द्धा­न्त­माह -
एवं प्राप्त इति ।
आकाशादिशब्दैर्न देवतालक्षणा मुख्यार्थे बाध­का­भा­वा­त्प­ञ्च­म्यश्च प्रकृ­ति­त्वा­र्था­स्तत्र रूढतरत्वात् , तथा चाचेतनानां भूतानां कर्तृत्वमेव नास्ति, कुत ईश्व­रा­न­पे­क्ष­क­र्तृ­त्वम् ।

यद्यपि देवतानां कर्तृत्वं सम्भवति तथा­पी­श्व­र­नि­य­म्य­त्व­श्र­व­णा­च्चे­त­ना­ना­मपि न स्वातन्त्र्यम् , किमु वाच्यमचेतनानां भूतानां न स्वात­न्त्र्य­मिति मत्वोक्तम् -
तल्लिङ्गादिति ।
तत्त­द­चे­त­ना­त्म­ना­व­स्थि­तस्य ब्रह्मण उपादानत्वेऽपि जीव­व्या­वृ­त्ते­श्व­र­त्वा­का­रे­णैव साक्षा­त्स­र्व­क­र्तृत्वं न जीवत्वद्वारा तस्य सर्व­नि­य­न्तृ­त्वा­ल्लि­ङ्गा­दि­त्यर्थः ।

प्रकरणाच्च साक्षा­त्स­र्व­क­र्तृ­त्व­मि­त्याह -
तथेति ।

पूर्वोक्तमनूद्य निरस्यति -
यत्त्विति ।
पर­मे­श्व­र­स्या­न्त­र्या­मि­भा­वे­ना­वेशः सम्ब­न्ध­स्त­द्व­शा­द्भू­ते­ष्वी­क्ष­ण­श्र­वणं नैतावता तेषां चेतनत्वं स्वातन्त्र्यं वेत्यर्थः । अनेन 'तद­भि­ध्या­नात्' इति पदं व्याख्यातम् । इत्थं सूत्रयोजना - स ईश्व­र­स्त­त्त­दा­त्मना स्थितोऽपि साक्षादेव सर्वकर्ता तस्या­न्त­र्या­मि­त्व­लि­ङ्गात् । जीवत्वद्वारा कर्तृत्वं नाम जीवस्यैव कर्तृ­त्व­मि­त्य­न्त­र्या­मिणः कर्तृ­त्वा­सि­द्धे­र­न्त­र्या­मि­त्वा­यो­गा­त्त­द­भि­ध्या­ना­दी­श्व­रे­क्ष­णा­देव भूतेषु श्रुते­क्ष­णो­प­प­त्ते­श्चेति ।

तत्तेज ऐक्षतेति श्रुत ईक्षिता पर­मा­त्मै­वे­त्यत्र श्रुत्यन्तरं प्रकरणं चाह -
नान्य इति ।
तस्मा­दी­श्व­र­प­दा­र्थ­लो­प­प्र­स­ङ्गे­ने­श्व­रा­द­न्यस्य स्वात­न्त्र्या­भा­वा­न्ने­श्व­र­क­र्तृ­त्व­श्रु­ते­र्भू­त­श्रुत्या विरोध इति सिद्धम् ॥१३॥