अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

ब्रह्मदृष्ट्यधिकरणम्

ब्रह्म­दृ­ष्टि­रु­त्क­र्षात् ।
एकविषयत्वं सङ्गतिः ।

प्रश्नपूर्वकं संशयबीजमाह -
कुत इत्यादिना ।
सामानाधिकरण्यं श्रुतं तन्न तावन्मुख्यम् , ब्रह्म­वि­का­र­यो­र्ग­वा­श्व­यो­रि­वा­भे­दा­यो­गात् । नापि प्रकृ­ति­वि­का­र­भा­व­नि­ब­न्ध­नम् , वाक्यस्य विकारबाधेन ब्रह्म­प­र­त्वा­पा­तात् । न चेष्टापत्तिः । नाम ब्रह्मे­त्यु­पा­सी­तेति विधि­श्रु­ति­वि­रो­धात्, परि­मि­त­ना­म­ग्र­ह­णा­न­र्थ­क्या­पा­ताच्च । ब्रह्मपरत्वे सर्वं ब्रह्मेति वक्तव्यत्वात् । अतः परिशेषादध्यास एव सामा­ना­धि­क­र­ण्य­का­र­णम् , अध्यासे च निया­म­का­भा­वा­त्सं­शय इत्यर्थः ।

उत्कृ­ष्ट­नि­कृ­ष्ट­यो­र्नि­कृ­ष्ट­म­प्यु­पास्यं फलवत्त्वादिति न्यायो नियामक इत्यरुचेराह -
अथवेति ।
अत्र विका­र­दृ­ष्टि­भि­र्ब्र­ह्मो­पा­स्ति­सिद्धिः फलम् , सिद्धान्ते तु विकारदृष्ट्या ब्रह्मण उपास्यत्वे निकर्षप्राप्तौ सत्यां फल­व­त्त्वा­सि­द्धे­र्वि­कारा एवो­त्कृ­ष्ट­ब्र­ह्म­दृ­ष्ट्यो­पास्या इति फलम् ।

किञ्च लौकि­क­न्या­या­वि­रु­द्धा­र्थ­स­म्भवे विरुद्धार्थो न ग्राह्यः प्रत्य­वा­य­प्र­स­ङ्गात् । किञ्च प्रथ­म­श्रु­ता­ना­मा­दि­त्या­दि­प­दा­ना­म­स­ञ्जा­त­वि­रो­धि­तया मुख्या­र्थ­त्व­ग्रहो न्याय्यः, ब्रह्मशब्दे च दृष्टि­ल­क्ष­णा­ग्रहः, तथा चादित्यादयो ब्रह्म­दृ­ष्ट्यो­पास्या इत्येव वाक्यार्थ इत्याह -
प्राथम्याच्चेति ।

ब्रह्मशब्दस्यैव दृष्ट्यर्थत्वे हेत्वन्तरमाह -
इतिपरत्वादिति ।
इतिशब्दशिरस्कः शब्दः सम­भि­व्या­हृ­त­क्रि­या­ल­क्षक इति लोके प्रसि­द्ध­मि­त्यर्थः ।

द्विती­या­श्रु­ते­श्चा­दि­त्या­दी­ना­मे­वो­पा­स्ति­क­र्म­त्व­मि­त्याह -
वाक्यशेषोऽपीति ।

उत्कृ­ष्ट­मे­वो­पा­स्य­मिति न्याय­मु­क्त­म­नु­व­दति -
यत्तूक्तमिति ।

द्विती­ये­ति­श्रु­तिभ्यां लौकि­क­न्या­या­च्चो­क्त­न्या­य­बाध इत्याह -
तदिति ।

ब्रह्म­णोऽ­नु­पा­स्यत्वे कथं फलदातृत्वम् , तत्राह -
फलं त्विति ।

किञ्च यद्दृष्ट्या विका­र­स्यो­त्कर्षः तस्य ब्रह्मणो विशे­ष­ण­त्वेऽ­प्यु­पा­स्यत्वं चास्तीत्याह -
ईदृशं चेति ॥५॥