अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

सुषुप्त्युत्क्रान्त्यधिकरणम्

सुषु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन । अहन्धीगम्येषु कतम आत्मेति जनकप्रश्ने याज्ञवल्क्य आह
योऽयमिति ।
विज्ञानं बुद्धि­स्त­न्म­य­स्त­त्प्रायः । सप्तमी व्यतिरेकार्था । प्राण­बु­द्धिभ्यां भिन्न इत्यर्थः ।

वृत्ते­र­ज्ञा­नाच्च भेदमाह
अन्त­र्ज्यो­ति­रिति ।
पुरुषः पूर्ण इत्यर्थः ।

उभयलिङ्गानां दर्शनात्संशयमाह
तत्किमिति ।
पूर्वत्र नामरूपाभ्यां भेदोक्तेराकाशो ब्रह्मे­त्यु­क्तम् , तदयुक्तम् , 'प्राज्ञे­ना­त्मना सम्प­रि­ष्वक्तः' इत्यभिन्नेऽपि जीवात्मनि भेदो­क्ति­व­दौ­प­चा­रि­क­भे­दो­क्ति­स­म्भ­वा­दि­त्या­क्षे­प­स­ङ्गतिः । पूर्वपक्षे कर्म­क­र्तृ­जी­व­स्तुतिः, सिद्धान्ते जीवानुवादेन ततः कल्पि­त­भे­द­भि­न्नस्य प्राज्ञस्य परमात्मनः स्वरू­पै­क्य­प्र­मि­ति­रिति फलम् । बुद्धान्तो जाग्रदवस्था ।

आदिमध्यावसानेषु जीवो­क्ते­र्जी­व­स्ता­व­क­मिदं वाक्यमिति प्राप्ते सिद्धान्तयति
पर­मे­श्व­रे­त्या­दिना ।
वाक्यस्य जीवस्तावकत्वे जीवाद्भेदेन प्राज्ञ­स्या­ज्ञा­त­स्यो­त्त­रो­क्ति­र­स­ङ्गता स्यात् , अतो ज्ञाता­ज्ञा­त­सं­नि­पाते ज्ञाता­नु­वा­दे­ना­ज्ञातं प्रतिपादनीयम् , 'अपूर्वे वाक्य­ता­त्प­र्यम्' इति न्यायादिति सिद्धा­न्त­ता­त्प­र्यम् ।

पुरुषः शरीरं प्राज्ञो जीव इति भ्रान्तिं वारयति
तत्र पुरुष इत्यादिना ।
देहस्य वेद­ना­प्र­स­क्ते­र्नि­षे­धा­यो­गा­त्पु­रुषो जीव एव, प्राज्ञस्तु रूढ्या पर एवेत्यर्थः । अन्वा­रू­ढोऽ­धि­ष्ठितः । उत्सर्जन् घोरा­ञ्श­ब्दा­न्मु­ञ्चन् । बुद्धौ ध्याय­न्त्या­मा­त्मा­ध्या­य­तीव चलन्त्यां चलतीव ।

वस्तुतः सर्व­वि­क्रि­या­शून्य इत्युक्तेर्न संसारिणि तात्पर्यमित्याह
यत इति ।

उप­क्र­म­व­दु­प­सं­हा­र­वा­क्येऽ­प्यैक्यं विवि­क्षि­त­मि­त्याह
तथेति ।

व्याचष्टे
योऽयमिति ।

अवस्थोपन्यासस्य त्वम­र्थ­शु­द्धि­द्वा­रै­क्य­प­र­त्वान्न जीव­लि­ङ्ग­त्व­मि­त्याह
यतो न बुद्धान्तेति ।

प्रश्नो­त्त­रा­भ्या­म­सं­सा­रित्वं गम्यत इत्याह
यदत ऊर्ध्वमिति ।
कामा­दि­वि­वे­का­न­न्त­र­मि­त्यर्थः ।

भवतीति चेति ।
यद्यस्माद्वक्ति तस्मादवगम्यत इति योजना । तेना­व­स्था­ध­र्मे­णा­न­न्वा­ग­तोऽ­स्पृष्टो भवति, असङ्गत्वात् । सुषु­प्ता­व­प्या­त्म­तत्त्वं पुण्य­पा­पा­भ्या­म­स्पृष्टं भवति । हि यस्मादात्मा सुषुप्तौ सर्वशोकातीतः तस्माधृदयस्यैव सर्वे शोका इति श्रुत्यर्थः ॥ ४२ ॥

वाक्यस्य ब्रह्मा­त्मै­क्य­प­रत्वे हेत्वन्तरमाह
पत्यादीति ।

सूत्रं व्याचष्टे
इतश्चेति ।
वशी स्वतन्त्रः । अपराधीन इति यावत् । ईशानो नियमनशक्तिमान् । शक्तेः कार्य­मा­धि­प­त्य­मिति भेदः । तस्मा­च्छो­धि­त­त्व­म­र्थैक्ये षष्ठा­ध्या­य­स­म­न्वय इति सिद्धम् ॥ ४३ ॥
इति श्रीम­च्छा­री­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां प्रथमाध्याये तृतीयः पादः ॥ ३ ॥