भाष्यरत्नप्रभाव्याख्या
सुषुप्त्युत्क्रान्त्यधिकरणम्
सुषुप्त्युत्क्रान्त्योर्भेदेन । अहन्धीगम्येषु कतम आत्मेति जनकप्रश्ने याज्ञवल्क्य आह
योऽयमिति ।
विज्ञानं बुद्धिस्तन्मयस्तत्प्रायः । सप्तमी व्यतिरेकार्था । प्राणबुद्धिभ्यां भिन्न इत्यर्थः ।
वृत्तेरज्ञानाच्च भेदमाह
अन्तर्ज्योतिरिति ।
पुरुषः पूर्ण इत्यर्थः ।
उभयलिङ्गानां दर्शनात्संशयमाह
तत्किमिति ।
पूर्वत्र नामरूपाभ्यां भेदोक्तेराकाशो ब्रह्मेत्युक्तम् , तदयुक्तम् , 'प्राज्ञेनात्मना सम्परिष्वक्तः' इत्यभिन्नेऽपि जीवात्मनि भेदोक्तिवदौपचारिकभेदोक्तिसम्भवादित्याक्षेपसङ्गतिः । पूर्वपक्षे कर्मकर्तृजीवस्तुतिः, सिद्धान्ते जीवानुवादेन ततः कल्पितभेदभिन्नस्य प्राज्ञस्य परमात्मनः स्वरूपैक्यप्रमितिरिति फलम् । बुद्धान्तो जाग्रदवस्था ।
आदिमध्यावसानेषु जीवोक्तेर्जीवस्तावकमिदं वाक्यमिति प्राप्ते सिद्धान्तयति
परमेश्वरेत्यादिना ।
वाक्यस्य जीवस्तावकत्वे जीवाद्भेदेन प्राज्ञस्याज्ञातस्योत्तरोक्तिरसङ्गता स्यात् , अतो ज्ञाताज्ञातसंनिपाते ज्ञातानुवादेनाज्ञातं प्रतिपादनीयम् , 'अपूर्वे वाक्यतात्पर्यम्' इति न्यायादिति सिद्धान्ततात्पर्यम् ।
पुरुषः शरीरं प्राज्ञो जीव इति भ्रान्तिं वारयति
तत्र पुरुष इत्यादिना ।
देहस्य वेदनाप्रसक्तेर्निषेधायोगात्पुरुषो जीव एव, प्राज्ञस्तु रूढ्या पर एवेत्यर्थः । अन्वारूढोऽधिष्ठितः । उत्सर्जन् घोराञ्शब्दान्मुञ्चन् । बुद्धौ ध्यायन्त्यामात्माध्यायतीव चलन्त्यां चलतीव ।
वस्तुतः सर्वविक्रियाशून्य इत्युक्तेर्न संसारिणि तात्पर्यमित्याह
यत इति ।
उपक्रमवदुपसंहारवाक्येऽप्यैक्यं विविक्षितमित्याह
तथेति ।
व्याचष्टे
योऽयमिति ।
अवस्थोपन्यासस्य त्वमर्थशुद्धिद्वारैक्यपरत्वान्न जीवलिङ्गत्वमित्याह
यतो न बुद्धान्तेति ।
प्रश्नोत्तराभ्यामसंसारित्वं गम्यत इत्याह
यदत ऊर्ध्वमिति ।
कामादिविवेकानन्तरमित्यर्थः ।
भवतीति चेति ।
यद्यस्माद्वक्ति तस्मादवगम्यत इति योजना । तेनावस्थाधर्मेणानन्वागतोऽस्पृष्टो भवति, असङ्गत्वात् । सुषुप्तावप्यात्मतत्त्वं पुण्यपापाभ्यामस्पृष्टं भवति । हि यस्मादात्मा सुषुप्तौ सर्वशोकातीतः तस्माधृदयस्यैव सर्वे शोका इति श्रुत्यर्थः ॥ ४२ ॥
वाक्यस्य ब्रह्मात्मैक्यपरत्वे हेत्वन्तरमाह
पत्यादीति ।
सूत्रं व्याचष्टे
इतश्चेति ।
वशी स्वतन्त्रः । अपराधीन इति यावत् । ईशानो नियमनशक्तिमान् । शक्तेः कार्यमाधिपत्यमिति भेदः । तस्माच्छोधितत्वमर्थैक्ये षष्ठाध्यायसमन्वय इति सिद्धम् ॥ ४३ ॥
इति श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्याये तृतीयः पादः ॥ ३ ॥