अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

आसीनाधिकरणम्

आसीनः सम्भवात् ।

कर्मण उत्थि­ते­नो­प­वि­ष्टेन वाने­क­धा­नु­ष्ठा­न­द­र्श­ना­त्सं­शयः कर्मा­ङ्गा­श्रि­तो­पा­स­ना­ना­मा­स­न­नि­य­मा­न­पे­क्षा­णा­म­नु­ष्ठा­न­प्र­कार उक्त­स्त­द्व­द­ङ्गा­ना­श्रि­तो­पा­स­ने­ष्व­प्य­नि­यम इति पूर्वपक्षयति -
तत्रेति ।
अत्रा­स­ना­भ्या­सा­सिद्धिः, सिद्धान्ते तु मनो­दे­ह­यो­र्भि­न्न­त्वेऽपि देहचाञ्चल्ये मनसोऽनवस्थानस्य अनु­भ­व­सि­द्ध­त्वा­न्म­नो­व्या­पा­रे­षू­पा­स­नेषु देह­स्थै­र्या­र्थ­मा­स­न­नि­य­मा­पे­क्षेति फलभेदः । तिष्ठत उत्थितस्य ॥७॥

किञ्च ध्यातार आसीन एव स्युः ध्याय­ति­श­ब्दा­र्ह­त्वा­द्ब­का­दि­व­दि­त्याह -
ध्यानाच्चेति ॥८॥

अत्रैव श्रौतं दृष्टान्तमाह -
अचलत्वं चेति ॥९॥

बाह्यस्य शारीरस्य चासनस्य स्मरणान्नियम इत्याह -
स्मरन्ति चेति ॥१०॥