अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

जगद्व्यापाराधिकरणम्

जग­द्व्या­पा­र­व­र्जम् । सङ्क­ल्पा­दे­वे­त्या­दि­नो­क्तै­श्व­र्यस्य जग­त्सृ­ष्ट्या­दि­व्य­ति­रि­क्त­वि­ष­य­त्वे­ना­त्रा­प­वा­दा­त्स­ङ्गतिः । उभयथा दर्शनात्संशयः । ईश्वरनानात्वं पूर्वपक्षफलम् , सिद्धान्ते तु विद्या­यो­गि­ना­मी­श्व­र­नि­य­म्य­त्वा­दे­कस्य नित्य­सि­द्ध­स्ये­श्व­र­स्यैव जग­त्क­र्तृ­त्व­सि­द्धि­रिति विवेकः । प्रल­या­त्स­र्ग­स­मये यस्येक्षणपूर्वं कर्तृत्वं श्रुतौ प्रकृतं तस्यैव निय­न्तृ­त्वा­दि­र्ज­ग­द्व्या­पारः । न ह्युपासकानां देहं विनेक्षणं सम्भवति । किञ्चेश्वरस्य नित्य­सि­द्ध­त्वा­च्छ­ब्दै­क­स­म­धि­ग­म्य­त्वाच्च जगत्स्रष्टृत्वं युक्तम् , न तु तत्प्र­सा­द­ल­ब्ध­सि­द्धीनां जीवानामित्याह -
नित्य­श­ब्द­नि­ब­न्ध­न­त्वा­च्चेति ।

किञ्च विदुषां समप्राधान्ये मिथो विरोधः । एकं प्रत्यन्येषां गुणत्वे त्वेक एवेश्वर इत्याह -
समनस्कत्वादिति ॥१७॥

अधिकारे नियो­ज­य­त्या­दि­त्या­दी­नि­त्या­धि­का­रिकः, स चासौ मण्डलस्थश्च तस्य प्राप्य­त्वो­क्ते­रि­त्यर्थः । मनसस्पतिः सूर्य­म­ण्ड­ला­न्तःस्थः परमात्मा 'तत्स­वि­तु­र्व­रेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचो­द­यात्' इति श्रुतेः । तथा च यदि पूर्वं निरङ्कुशं स्वाराज्यमुक्तं स्यात्तर्हि ईश्वरस्याग्रे प्राप्यतां न ब्रूयात् । अतो भोगे स्वाराज्यं न जग­ज्ज­न्मा­दि­ष्विति भावः । वाक्प­ति­त्वा­दि­क­म­पी­श्व­रा­धी­श्व­रा­धी­न­मि­त्याह -
तदनुसारेणेति ।

उक्तन्यायं काम­चा­रा­दि­वा­क्ये­ष्व­ति­दि­शति -
एवमिति ॥१८॥

जगद्व्यापार उपासकप्राप्यः तदु­पा­स्य­नि­ष्ठ­त्वा­त्स­ङ्क­ल्प­सि­द्ध्या­दि­व­दि­त्या­श­ङ्क्यो­पा­स्य­स्थ­नि­र्गु­ण­स्व­रूपे व्यभिचारमाह -
विकारावर्ति चेति ॥१९॥

निर्गुणस्वरूपे प्रमाणमाह -
दर्शयतश्चेति ।
यथा ज्ञाना­भा­वा­न्नि­र्गुणं न प्राप्तं तथा ध्याना­भा­वा­ज्ज­ग­त्स्र­ष्टृ­त्वादि न प्राप्यते । ध्यानाभावश्च विध्यभावादिति भावः ॥२०॥

तमुपासकं ब्रह्मलोकगतमाह हिरण्यगर्भः मया खल्विमा आपो अमृतरूपा मीयन्ते भुज्यन्ते तवाप्यसौ लोकोऽ­मृ­तो­द­क­ल­क्षण इत्यर्थः । श्रुत्यन्तरमाह -
स यथेति ।
भोगसाम्ये स दृष्टान्तो यथेत्यर्थः । तेनो इत्यु­श­ब्दोऽ­प्यर्थः । सलो­क­ता­म­पी­त्य­न्वयः । सायुज्यं समानदेहत्वं क्रमेण मुक्तिर्वा ॥२१॥

शास्त्रसमाप्तिं सूच­य­न्त्सू­त्र­कारं पूजयति -
भगवानिति ।
भगवत्त्वं सर्वज्ञत्वम् । सूत्रद्वारा शिष्याणामाचारे स्थाप­ना­दा­चा­र्य­त्वम् । बादरायणपदेन बद­रि­का­श्र­म­वा­सोक्त्या नित्यसर्वज्ञस्य पर­म­गु­रो­र्ना­रा­य­णस्य प्रसा­द­द्यो­त­ना­त्त­त्प्र­णी­त­शास्त्रे निरवद्यतां द्योतयति ।

सगुणविद्यायाः सातिशयफलत्वेऽपि ततो निर्गु­ण­वि­द्य­या­ना­वृ­त्ति­रि­त्याह -
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ।
ये ब्रह्मलोकं गच्छन्ति ते तं प्राप्य नावर्तन्ते इति सम्बन्धः ।

लोकं विशिनष्टि -
यस्मिन्निति ।
इतोऽ­स्मा­त्पृ­थि­वी­लो­का­त्तृ­ती­यस्यां दिवि यो ब्रह्म­लो­क­स्त­स्मि­न्नर इति ण्य इति चार्णकतुल्यौ सुधा­हृ­दा­वि­त्यर्थः । ऐरमन्नमयम् , मदीयं मदकरं सरः, सोमसवनः अमृतवर्षी ।

यद्यपि तेषामिह न पुनरावृत्तिरिमं मानवमिति च श्रुति­ष्वि­हे­म­मिति विशे­ष­णा­द­स्मि­न्कल्पे ब्रह्मलोकं गतानां कल्पान्तरे आवृत्तिर्भाति, तथा­पी­श्व­रो­पास्तिं विना पञ्चा­ग्नि­वि­द्या­श्व­मे­ध­दृ­ढ­ब्र­ह्म­च­र्या­दि­सा­ध­नैर्ये गतास्तेषां तत्त्व­ज्ञा­न­नि­य­मा­भा­वा­दा­वृत्तिः स्यात्, ये तु दह­रा­दी­श्व­रो­पास्त्या गतास्तेषां सगु­ण­वि­द्या­फ­ल­क्ष­येऽपि निर­व­ग्र­हे­श्व­रा­नु­ग्र­ह­ल­ब्धा­त्म­ज्ञा­ना­न्मु­क्ति­रिति नियम इत्यभिप्रेत्याह -
अन्तवत्त्वेऽपि त्विति ।

नन्वत्र सूत्रकृता सगु­ण­वि­दा­मे­वा­ना­वृ­त्ति­क्रम उक्तो न निर्गुणविदां तत्र को हेतु­रि­त्या­शङ्क्य तेषा­मा­वृ­त्ति­श­ङ्का­भा­वा­दि­त्याह -
सम्यगिति ।

तदाश्रयणेनेति ।
सगु­ण­वि­दा­मा­वृ­त्ति­प्राप्तौ सम्य­ग्द­र्श­ना­श्र­य­णे­नै­वा­ना­वृत्तिः साधिता, अतः स्वत एव सम्य­ग्द­र्शि­ना­मा­वृ­त्ति­शङ्का नेति किमु वाच्यमित्यर्थः ।

यत्रा­ध्या­य­स­मा­प्ति­स्तत्र पद­मा­त्र­स्या­भ्यासो दर्शितः, इह सूत्र­स्यै­वा­भ्या­सा­च्छा­स्त्र­स­मा­प्ति­र्द्ये­त्यत इत्याह -
अनावृत्तिः शब्दादिति ।
एवं समन्वयोक्त्या ब्रह्मा­त्मै­क्यस्य वेदा­न्त­प्र­मा­ण­क­त्व­म­व­धा­र­यितुं वाक्यार्थज्ञाने स्मृति­त­र्का­दि­स­र्व­प्र­का­र­वि­रोधः परिहृतः, साधनसम्पत्तिश्च दर्शिता, तस्मा­द्वि­वे­का­दि­सा­ध­न­स­म्प­न्नस्य श्रव­णा­द्या­वृ­त्ति­नि­र­स्त­स­म­स्त­प्र­ति­ब­न्ध­स्या­ख­ण्डा­त्म­स­म्बो­धा­त्स­मू­ल­ब­न्ध­ध्वंसे सत्या­वि­र्भू­त­नि­ष्क­ल­ङ्का­न­न्त­स्व­प्र­का­श­चि­दा­न­न्दा­त्म­ना­व­स्था­न­मिति सिद्धम् ॥२२॥
नाना­वि­ध­ग्र­न्थ­जातं वीक्ष्य सम्यग्यथामति ।
शारीकस्य भाष्यस्य कृता व्याख्या सतां मुदे ॥१॥
अन्तर्यामी जगत्साक्षी सर्वकर्ता रघूद्वहः ।
अतोऽत्र दोषोऽशङ्क्यः स्यादेष ह्येवेति शासनात् ॥२॥
वक्ष­स्य­क्ष्णोश्च पार्श्वे करतलयुगले कौस्तुभाभां दयां च सीतां कोद­ण्ड­दी­क्षा­म­भ­य­व­र­युतां वीक्ष्य रामाङ्गसङ्गः ।
स्वस्याः क्व स्यादितीयं हृदि कृतमनना भाष्य­र­त्न­प्र­भाख्या, स्वात्मा­न­न्दै­क­लुब्धा रघु­व­र­च­र­णा­म्भो­ज­युग्मं प्रपन्ना ॥३॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­द्गो­पा­ल­स­र­स्व­ती­पू­ज्य­पा­द­शि­ष्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्कृतौ शारी­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः ॥
॥ इति चतु­र्थ­स्या­ध्या­यस्य ब्रह्म­प्रा­प्ति­ब्र­ह्म­लो­क­स्थि­ति­नि­रू­प­णा­ख्य­श्च­तुर्थः पादः ॥
॥ इति श्रीम­द्ब्र­ह्म­सू­त्र­शा­ङ्क­र­भाष्ये फला­ख्य­श्च­तु­र्थोऽ­ध्यायः ॥
॥ ओं तत्सत् ॥