अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

आत्माधिकरणम्

नात्मा­श्रु­ते­र्नि­त्य­त्वाच्च ताभ्यः ।

अग्ने­र्वि­स्फु­लि­ङ्ग­व­दे­त­स्मा­त्प­र­मा­त्मनः सर्वे जीवात्मानो व्युच्चरन्ति इत्या­दि­जी­वो­त्प­त्ति­श्रु­तीनां 'स एष इह प्रविष्ट आनखाग्रेभ्यः ' 'अज आत्मा' इत्या­द्य­नु­त्प­त्ति­श्रु­तीनां च मिथो­वि­रो­धा­त्सं­शये मा भूतां देह­ज­न्म­ना­श­यो­र्जी­व­ज­न्म­नाशौ, देहा­न्त­र­भो­ग्य­स्व­र्गा­दि­हे­तु­वि­ध्या­द्य­स­म्भ­वात् , कल्पा­द्य­न्त­यो­र्न­भस इव जीवस्य तौ किं न स्यातां तत्सम्भवादिति प्रत्युदाहरणेन पूर्वपक्षमाह -
तत्र प्राप्तं तावदिति ।
फलं पूर्ववत् । उपरोधो बाधः ।

नन्वविकृतं ब्रह्मैवात्र प्रविष्टं जीवो न तत्त्वान्तरमिति प्रति­ज्ञा­सिद्धिः, तत्राह -
न चेति ।
जीवः परस्माद्भिन्नः, विरु­द्ध­ध­र्म­व­त्त्वा­द्भि­न्न­स्या­वि­का­रत्वे प्रतिज्ञाबाध इति तर्को­पे­त­वि­भ­क्त­त्व­लि­ङ्गा­नु­गृ­ही­तो­त्प­त्ति­श्रु­ते­र्ब­ली­य­स्त्वा­त्प्र­वे­श­श्रु­ति­र्जी­व­रू­प­वि­का­रा­त्मना प्रविष्ट ईश्वर इति व्याख्येयेति समुदायार्थः ।

सरूपेति ।
दृष्टा­न्त­श्रु­ते­र्भावा जीवा इति निश्चीयते ।

ननु 'आत्मन आकाशः सम्भूतः' इत्यादौ जीव­स्यो­त्प­त्त्य­श्र­व­णा­द­नु­पत्तिः, तत्राह -
न चेति ।
एवं विकारत्वे सति विका­र­प्र­प­ञ्चा­त्मना स्वात्मा­न­म­कु­रु­ते­ति­व­द्वि­का­र­जी­वा­त्मना प्रवेश इत्यर्थः ।

अजत्वादिश्रुतिः कल्पमध्ये जीव­स्या­नु­त्प­त्त्या­दि­वि­षया, तत्त्वमसीति श्रुतिश्च मृद् , घट इत्य­भे­द­वा­क्य­व­द्व्या­ख्ये­येति प्राप्ते सिद्धान्तयति -
एवमिति ।

धर्मिवत्सत्यो विभागो हेतुरौपाधिको वा । नाद्यः, असिद्धेरित्याह -
अत्रोच्यते नास्येति ।

द्वितीये जीवस्य न स्वतो विका­र­त्व­सिद्धिः, अप्र­यो­ज­क­त्वा­दि­त्याह -
बुद्ध्यादीति ।

औपाधिकभेदे मानमाह -
तथा चेति ।

मयटो विका­रा­र्थ­त्व­मा­श­ङ्क्याह -
तन्मयत्वं चेति ।
जाल्मः कामजडः स्त्रीपरतन्त्रः । स्त्रीमय इतिवज्जीवस्य स्वरू­पा­ज्ञा­ना­द्बु­द्ध्या­दि­प­र­त­न्त्र­त्वेन भेद­क­र्तृ­त्वा­दि­भा­क्त्वा­त्प्रा­चु­र्यार्थे मयट्प्रयोग इत्यर्थः ।

लिङ्गं निरस्य तद­नु­ग्रा­ह्य­श्रु­ते­र्ग­ति­माह -
यदपीति ।

जीव­स्यौ­पा­धि­क­ज­न्म­ना­शयोः श्रुतिमाह -
तथेति ।
एतेभ्यो देहात्मन परिणतेभ्यो भूतेभ्यः साम्येनोत्थाय जनित्वा तान्येव लीयमानान्यनु पश्चाद्विनश्यति । प्रेत्यौ­पा­धि­क­म­र­णा­न­न्तरं संज्ञा नास्तीत्यर्थः ।

ननु प्रज्ञानघनः, संज्ञा नास्तीति च विरुद्धमित्यत आह -
तथेति ।
उपा­धि­ल­या­द्वि­शे­ष­ज्ञा­ना­भाव एव संज्ञाभावो नात्म­स्व­रू­प­वि­ज्ञा­ना­भाव इत्युत्तरं प्रतिपादयति श्रुति­रि­त्य­न्वयः । अत्रैवात्मनि विज्ञानघने प्रेत्यसंज्ञा नास्ती­त्युक्त्या मा मोहान्तं मोहमध्यं भ्रान्ति­मा­पी­प­द­दा­पा­दि­त­वा­नि­म­मर्थं न जानामि ब्रूहि त्वदु­क्ते­र­र्थ­मिति मैत्रे­यी­प्र­श्नार्थः ।

मुनिराह -
न वा इति ।
मोहं मोहकरं वाक्य­मु­च्छित्तिः पूर्वावस्थानाशो धर्मोऽ­स्ये­त्यु­च्छि­त्ति­धर्मा परिणामी स नेत्य­नु­च्छि­त्ति­ध­र्मा­प­रि­णामी, तस्मा­द­वि­ना­शी­त्यर्थः ।

तर्हि न प्रेत्य संज्ञेति कथमुक्तम् , तत्राह -
मात्रेति ।
मात्रा­भि­र्वि­ष­यै­र­सं­स­र्गा­त्त­थो­क्त­मि­त्यर्थः ।

बिम्ब­प्र­ति­बि­म्ब­यो­रिव विरु­द्ध­ध­र्म­भे­दोऽ­ध्यस्त इत्यत्र हेतुमाह -
अत ऊर्ध्वमिति ।
जीवस्य विकारित्वे मुक्त्य­यो­गा­त्त­त्त्व­म­सीति वाक्य­म­ख­ण्डा­र्थ­मिति च वक्तव्यम् , तथा च फल­व­त्प्र­धा­न­वा­क्या­पे­क्षि­त­जी­व­नि­त्य­त्व­श्रु­तीनां बल­व­त्त्वा­दु­त्प­त्त्या­धि­क­म­ध्य­स्त­म­नु­व­द­न्त्यु­त्प­त्त्या­दि­श्रु­तय इत्यविरोध इति सिद्धम् ॥१७॥